नारद पुराण · अध्याय 1.75
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हनुमन्मन्त्रकथनंनाम चतुःसप्ततितमो ऽध्यायः
सनत्कुमार उवाच
अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः ।
यस्य विज्ञानमात्रेण सिद्धो भवति साधकः
दीपपात्रप्रमाणं च तैलमानं क्रमेण तु ।
द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात्
स्थानभेदं च मन्त्रं च दीपदानमनुं पृथक् ।
पुष्पवासिततैलेन सर्वकामप्रदं मतम्
तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति ।
अतसीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम्
सार्षापं रोगनाशाय कथितं कर्मकोविदैः ।
मारणे राजिकोत्थं वा विभीतकसमुद्भवम्
उञ्चाटने करजोत्थं विद्वेषे मधुवृक्षजम् ।
अलाभे सर्वतैलानां तिलजं तैलमुत्तमम्
गोधूमाश्च तिला माषा मुद्गा वै तण्डुलाः क्रमात् ।
पञ्चधान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः
पञ्चधान्यसमुद्भूतं पिष्टमात्रं सुशोभनम् ।
सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके
वश्ये तडुलपिष्टोत्थं मारणे माषपिष्टजम् ।
उञ्चाटने कृष्णतिलपिष्टजं च प्रकीर्तितम्
पथिकागमने प्रोक्तं गोधूमोत्थं सतण्डुलम् ।
मोहने त्वाढकीजात विद्वेषे च कुलत्थजम्
संग्रामे केवला माषाः प्रोक्ता दीपस्य पात्रके ।
संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम्
एलालवङ्गकर्पूरमृगनाभिसमुद्भवम् ।
कन्याप्राप्त्यै तथा राजवंश्ये सख्ये तथैव च
अलाभे सर्ववस्तूनां पञ्चधान्यं वरं स्मृतम् ।
अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम्
पुष्कलानां चतुर्णां च ह्याढकः परिकीर्तितः ।
चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम्
खारीचतुष्टय प्रस्थसंज्ञा च परिकीर्तिता ।
अथवान्यप्रकारेण मानमत्र निगद्यते
पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् ।
चतुर्भिः कुडवैः प्रस्थस्तैश्चतुर्भिस्तथाढकः
चतुराढको भवेद्द्रोणःऋ खारी द्रोणचतुष्टयम् ।
क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसंभवे
पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम् ।
सौगन्धे नैव मानं स्यात्तद्यथारुचि संमतम्
नित्यपात्रे तु तैलानां नियमो वार्तिकोद्भवः ।
सोमवारे गृहीत्वातद्ध्वान्यं तोयप्लुतं धरेत्
पश्चात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम् ।
तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिण्डितम्
दीपपात्रं ततः कुर्याच्छुद्धः प्रयतमानसः ।
दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत्
शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत् ।
मालामनूनां ये वर्णाः साध्यनामसमन्विताः
वर्तिकायां प्रकर्त्तव्यास्तन्तवस्तत्प्रमाणकाः ।
तत्त्रिंशांशेन वा ग्राह्या गुरुकार्ये ऽखिलाढ्यता
कूटतुल्याः स्मृता नित्ये सामान्ये ऽथ विशेषके ।
रुद्राः कूटगणाः प्रोक्ता न पात्रे नियमो मतः
एकविंशतिसंख्याकास्तन्तवो ऽथाध्वनि स्मृताः ।
रक्तसूत्रं हनुमतो दीपदाने प्रकीर्तितम्
कृष्णमुञ्चाटने द्वेषे ऽरुणं मारणकर्मणि ।
कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम्
नित्ये पञ्चपलं प्रोक्तमथवा मानसी रुचिः
हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम् ।
शिवालये ऽथवा कुर्यान्नित्यनैमित्तिके स्थले
विशेषो ऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया
प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च ।
चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम्
सन्निधौ स्फआटिके लिङ्गे शालग्रामस्य सन्निधौ ।
नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः
गणेशसन्निधौ विघ्नमहासंकटनाशने ।
विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम्
दुर्गायाः सन्निधौ प्रोक्तं संग्रामे दीपदापनम् ।
चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च
राजद्वारे बन्धमुक्तौ कारागारे ऽथवा मतम् ।
अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये
वश्ये भये विवादे च वेश्मसंग्रामसंकटे ।
द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा
मृतकोत्थापने चैव प्रतिमाचालने तथा ।
विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने
क्षतग्रन्थौ महारण्ये दुर्गेव्याघ्ने च दन्तिनि ।
क्रूरसत्त्वेषु सर्वेषु शश्वदून्धविमोक्षणे
पथिकागमने चैव दुःस्थाने राजमोहने ।
आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम्
दीपदानं हनुमतो नात्र कार्या विचारणा
रुद्रैकविंशपिण्डांश्च त्रिधा मण्डलमानकम् ।
लघुमानं स्मृतं पञ्च सप्त वा नव वा तथा
क्षीरेण नवनूतेन दध्ना वा गोमयेन च ।
प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने
दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम्
ऋक्षविन्यस्तपादं च किरीटेन विराजितम् ।
लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे
मालामन्त्रेण दातव्यं दीपदानं हनूमतः ।
नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया
विशेषस्तत्र यस्तं वै दीपदाने ऽवधारय ।
षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत्
गृहाणेति पदं पश्चाच्छेषं पूर्ववदुञ्चरेत् ।
कूटादौ नित्यदीपे च मन्त्रं सूर्याक्षरं वदेत्
तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत् ।
गोमयेनोपलिप्तायां भूमौ तद्गतमानसः
षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितम् ।
कमलं च लिखेद्भद्रं तत्र दीपं निधापयेत्
शैवे वा वैष्णवे पीठे पूजयेदञ्जनासुतम् ।
कूटषट्कं च षट्कोणे अन्तराले परलिखेत्
षट्कोणेषु षडङ्गानि बीजयुक्तानि संलिखेत् ।
सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम्
षट्कोणेषु षडङ्गानि नामानि च पुरोक्तवत् ।
वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः
सुग्रीवायाङ्गदायाथ सुषेणाय नलाय च ।
नीलायाथो जांबवते प्रहस्ताय तथैव च
सुवेषाय ततः पश्चाद्यजेत्षडङ्गदेवताः ।
आदावञ्जनापुत्राय ततश्च रुद्रमूर्तये
ततो वायुसुतायाथ जानकीजीवनाय च ।
रामदूताय ब्रह्मास्त्रनिवारणाय तत्परम्
पञ्चोपचारैः संपूज्य देशकालौ च कीर्तेत् ।
कुशोदकं समादाय दीपमन्त्रं समुञ्चरेत्
उत्तगभिमुखो जप्त्वा साधयेत्साधकोत्तमः ।
तं मन्त्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेत्
ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम् ।
अनेन दीपवर्येण उदङ्मुखगतेन वै
तथा विधेहि हनुमन्यथा स्युर्मे मनोरथआः ।
त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी
अलक्तं दरदं रक्तचन्दनं चन्दनं मधु ।
कस्तूरिका दधि क्षीरं नवनीतं घऋतं तथा
गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम् ।
पश्चाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्मृतम्
पथिकागमने दूरान्महादुर्गस्य रक्षणे ।
बालादिरक्षणे चैव चौरादिभयनाशने
स्त्रीवश्यादिषु कार्येषु शस्तं गोगोमयं मने ।
भूमिस्पृष्टं न तद्ग्राह्यमन्तरिक्षाञ्च भाजने
चतुर्विधा मृत्तिका तु श्वेता पीतारुणासिता ।
तत्र गोपीचन्दनं तु हरितालं च गौरिकम्
मषी लाक्षारसोद्भूता सर्वं वान्यत्स्फुटं मतम् ।
कृत्वा गोपीचदंनेन चतुरस्रं गृहं सुधीः
तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः ।
बीजं क्रोधाञ्च तत्पुच्छं लिखेन्मन्त्री समाहितः
तैलेन स्नापयेन्मूर्तिं गुडेन तिलकं चरेत् ।
शतपत्रसमो धूपः शालनिर्याससंभवः
कुर्य्याञ्च तैलदीपं तु वर्तिपञ्चकसंयुतम् ।
दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः
वारत्रयं कण्ठदेशे सशेषविषमुञ्चरन् ।
एवं कृते तु नष्टानां महिषीणां गवामपि
दासीदासादिकानां च नष्टानां प्राप्तिरीरिता ।
चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः
तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् ।
पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा
सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा ।
एवं क्रमेण खड्गं च क्षुरिकादण्डमुद्गरान्
विलिख्य मध्ये मूर्तिं च महिषीगोमयेन वै ।
कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः
पयसा स्नापनं रक्तचन्दनेनानुलेपनम् ।
जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत्
घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत् ।
गगनं दीपिकेन्द्वाढ्यां शास्त्रं च पुरतो जपेत्
एवं सप्तदिनं कृत्वा मुच्यते महतो भयात् ।
अनयोर्भौंमवारे तु कुर्यादारंभमादरात्
शत्रुसेनाभये प्राप्ते गैरिकेण तु मण्डलम् ।
कृत्वा तदन्तरे तालमीष्टन्नम्रं समालिखेत्
तत्रावलंबमानां च प्रतिमां गोमयेन तु ।
वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका
तालमूलात्स्वकाष्टायां मार्गे हस्तमिते गृहम् ।
चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत्
दक्षिणाभमुखीं रिम्यां हृदये विहिताञ्जलिम् ।
तोयेन स्नानगन्धादि यथासंभवमर्पयेत्
कृशारान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत् ।
किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने
एवं कृते भवेच्छीघ्रं पथिकानां समागमः ।
श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम्
प्राकारं तु चतुर्द्वारयुक्तं द्वारेषु तत्र वै ।
अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः
कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैयजेत् ।
जटामांसीभवं धूपं तैलाक्तघृतदीपकम्
नैवेद्यं तिलतैलाक्तसक्षारा माषरोटिका ।
ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः
वामहस्तेन पाषाणैस्त्रासयन्परसैनिकान् ।
प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः
जपेञ्च भुग्भुगिति वै सहस्रं ध्यानतत्परः ।
एवं कृतविधानेन परसैन्यं विनाशयेत्
रक्षा भवति दुर्गाणां सत्यं सत्य न संशयः ।
प्रायोगा बहवस्तत्र संक्षेपाद्गदिता मया
प्रत्यहं यो विधानेन दीपदानं हनूमतः ।
तस्यासाध्यं न वै किञ्चिद्विद्यते भुवनत्रये
न देयं दुष्टहृदये दुष्टचिन्तनबुद्धये ।
अविनीताय शिष्याय पिशुनाय कदाचन
कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते ।
बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः
अथ मन्त्रान्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम् ।
तारो नमो हनुमते जाठरत्रयमीरयेत्
दनक्षोभं समाभाष्य संहरद्वयमीरयेत् ।
आत्मतत्त्वं ततः पश्चात्प्रकाशययुगं ततः
वर्मास्त्रवह्निजायान्तः सार्द्धूषड्विंशदर्णवान् ।
वसिष्ठो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवताः पुनः
हनुमान्मुनिसप्तर्तुवेदाष्टनिगमैः क्रमात् ।
मन्त्रार्णैश्च षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम्
जानुस्थावामबाहुं च ज्ञानमुद्रापरं हृदि ।
अध्यात्मचित्तमासीनं कदलीवनमध्यगम्
बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रदं हरिम् ।
ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः
साज्यैः संपूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम् ।
जप्तो ऽयं मदनक्षोभं नाशयत्येव निश्चितम्
तत्त्वज्ञानमवाप्नोति कपीन्द्रस्य प्रसादतः ।
अथ मन्त्रातरं वाक्ष्ये भूतविद्रावणं परम्
तारः काशीङ्कुक्षिपरवराहश्चाञ्जनापदम् ।
पवनो वनपुत्रान्ते आवेशिद्वयमीरयेत्
तारः श्रीहनुमत्यश्चादस्त्ररचभुजाक्षरः ।
ब्रह्मा मुनिः स्याद्गायत्री छन्दो ऽत्र देवता पुनः
हनुमान्कमला बीजं फट् शक्तिः परिकीर्तितः ।
षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत्
आञ्जनेय पाटलास्यं स्वर्णाद्रिसमविग्रहम् ।
पारिजातद्रुमूलस्थं चिन्तयेत्साधकोत्तमः
एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः ।
त्रिमध्वक्तैर्यञ्जत्पीठे पूर्वोक्तेपूर्ववत्सुधीः
अनेन मनुना मन्त्री ग्रहग्रस्तं प्रमार्जयेत् ।
आक्रन्दंस्तं विमुच्याथ ग्रहः शीघ्रं पलायते
मनवो ऽमी सदागोप्या न प्रकाश्या यतस्ततः ।
परीक्षिताय शिष्याय देया वा निजसूनवे
हनुमद्भजनासक्तः कार्तवीर्यार्जुनं सुधीः ।
विशेषतः समाराध्य यथोक्तं फलमाप्नुयात्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0