नारद पुराण · अध्याय 1.74
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने सनत्कुमारविभागे तृतीयपादे रामाद्युपासनावर्णनं नाम त्रिसप्ततितमो ऽध्यायः
सनत्कुमार उवाच
अथोच्यन्ते हनुमतो मन्त्राः सर्वेष्टदायकाः ।
यान्समाराध्य विप्रेन्द्र तत्तुल्याचरणा नराः
मनुः स्वरेदुसंयुक्तं गगनं च भगान्विताः ।
हसफआग्निनिशाधीशाःद्वितीयं बीजमीरितम्
स्वफआग्नयो भगेन्द्वाढ्यास्तृतीयं बीजमीरितम् ।
वियद्भृग्वग्निमन्विन्दुयुक्तं स्याञ्च चतुर्थकम्
पञ्चमं भगचन्द्राढ्यावियद्भृगुस्वकाग्नयः ।
मन्विन्द्वाढ्यौ हसौ षष्टं ङेंतः स्याद्धनुमांस्ततः
हृदयान्तो महामन्त्रराजो ऽयं द्वादशाक्षरः ।
रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम्
देवता हनुमान्बीजं षष्टं शक्तिर्द्वतीयकम् ।
षड्बीजैश्च षडङ्गानि शिरोभाले दृशोर्मुखे
गलबाहुद्वये चैव हृदि कुक्षौ च नाभितः ।
ध्वजे जानुद्वये पादद्वये वर्णान्क्रमान्न्यसेत्
षड्बीजानि पदद्वन्द्वं मूर्ध्नि भाले मुखे हृदि ।
नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात्
अञ्जनीगर्भसंभूतं ततो ध्यायेत्कपीश्वरम् ।
उद्यत्कोट्यर्कसंकाशं जगत्प्रक्षोभकारकम्
श्रीरामाङ्घ्रिध्याननिष्टं सुग्रीवप्रमुखार्चितम् ।
वित्रासयन्तं नादेन राक्षसान्मारुतिं भजेत्
ध्यात्वैवं प्रजपेद्भानुसहस्रं विजितैन्द्रियः ।
दशांशं जुहुयाद्बीहीन्पयोदध्याज्यमिश्रितान्
पूर्वोक्ते वैष्णवे पीठे मूर्त्तिं संकल्प्य मूलतः ।
आवाह्य तत्र संपूज्य पाद्यादिभिरुपायनैः
केशरेष्वङ्गपूजा स्यात्पत्रेषु च ततोर्ऽचयेत् ।
रामभक्तो महातेजाः कपिराजो महाबलः
द्रोणाद्रिहारको मेरुपीठकार्चनकारकः ।
दक्षिणाशाभास्करश्च सर्वविघ्नविनाशकः
इत्थं सम्पूज्य नामानि दलाग्रेषु ततोर्ऽचयेत् ।
सुग्रीवमङ्गद नीलं जांबवन्तं नलं तथा
सुषेणं द्विविदं मैन्दं लोकपालस्ततोर्ऽचयेत् ।
वज्राद्यानपि संपूज्य सिद्धश्चैवं मनुर्भवेत्
मन्त्रं नवशतं रात्रौ जपेद्दशदिनावधि ।
यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः
मातुलिङ्गाम्रकदलीफलैर्हुत्वा सहस्रकम् ।
द्वाविंशतिब्रह्मचारि विप्रान्संभोजयेच्छुचीन्
एवङ्कृते भूतविषग्रहरोगाद्युपद्रवाः ।
नश्यन्ति तत्क्षणादेव विद्वेषिग्रहदानवाः
अष्टोत्तरशतेनांबु मन्त्रितं विषनाशनम् ।
भूतापस्मारकृत्योत्थज्वरे तन्मन्त्रमन्त्रितैः
भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणं क्रुधा ।
त्रिदिनाज्ज्वरमुक्तो ऽसौ सुखं च लभते नरः
औषधं वा जलं वापि भुक्त्वा तन्मन्त्रमन्त्रितम् ।
सर्वान्रोगान्पराभूय सुखी भवति तत्क्षणात्
तज्जप्तभस्मलिप्ताङ्गो भुक्त्वा तन्मन्त्रितं पयः ।
योद्धुं गच्छेच्च यो मन्त्री शस्त्रसंघैर्ंन बाध्यते
शस्क्षतं व्रणस्फोटो लूतास्फोटो ऽपि भस्मना ।
त्रिर्जप्तेन च संस्पृष्टाः शुष्यन्त्येव न संशयः
जपेदर्कास्तमारभ्य यावदर्केदयो भवेत् ।
मन्त्रं सप्तदिनं यावञ्चादाय भस्मकीलकौ
निखनेदभिमन्त्र्याशुशत्रूणां द्वार्यलक्षितः ।
विद्वेषं मिथ आपन्नाः पलायन्ते ऽरयो ऽचिरात्
भस्मांबु चन्दनं मन्त्री मन्त्रेणानेन मन्त्रितम् ।
भक्ष्यादियोजितं यस्मै ददाति स तु दासवत्
क्रूराश्च जन्तवो ऽप्येवं भवन्ति वशवर्तिनः ।
गृहीत्वेशनदिस्कंस्थं करञ्जतरुमूलकम्
कृत्वा तेनाङ्गुष्टमात्रां प्रतिमां च हनूमतः ।
कृत्वा प्राणप्रतिष्टां च सिंदूराद्यैः प्रपूज्य च
गृहस्याभिमुखी द्वारे निखनेन्मन्त्रमुञ्चरन् ।
ग्रहाभिचाररोगाग्निविषचौरनृपोद्भवाः
न जायन्ते गृहे तस्मिन् कदाचिदप्युपद्रवाः ।
तद्गृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम्
निशि यत्र वने भस्म मृत्स्नया वापि यत्नतः ।
शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत्
कृत्वा प्राणप्रतिष्टान्तं भिन्द्याच्छस्त्रैर्मनुं जपन् ।
मन्त्रान्ते प्रोञ्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च
मारयेति च तस्यान्ते दन्तैरोष्टं निपूड्य च ।
पाण्योस्तले प्रपीड्याथ त्यक्त्वा तं स्वगृहं व्रजेत्
कुर्वन्सप्तदिनं चैवं हन्याच्छत्रुं न संशयः ।
राजिकालवणैर्मुक्तचिकुरः पितृकानने
धत्तूरफलपुष्पैश्च नखरोमविषैरपि ।
द्विक(काक)कौशिकगृध्राणां पक्षैः श्लेष्मान्तकाक्षजैः
समिद्धिस्त्रिशतं यामयदिङ्मुखो जुहुयान्निशि ।
एवं सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुन्
वित्रासस्त्रिदिनं रात्रौ श्मशाने षट्शतं जपेत् ।
ततो वेताल उत्थाय वदेद्भावि शुभाशुभम्
किङ्करीभूय वर्त्तेत कुरुते साधकोदितम् ।
भास्मांबुमन्त्रितं रात्रौ सहस्रावृत्तिकं पुनः
दिनत्रयं च तत्पश्चात्प्रक्षिपेत्प्रतिमासु च ।
यासु कासु च स्थूलासु लघुष्वपि विशेषतः
मन्त्रप्रभावाञ्चलनं भवत्येव न संशयः ।
अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे
हनुमत्प्रतिमां पट्टे माषैः स्नेहपरिप्लुतैः ।
कुर्याद्रम्यां विशुद्धात्मा सर्वलक्षणलक्षिताम्
तैलदीपं वामभागे घृतदीपं तु दक्षिणे ।
संस्थाप्यावाहयेत्पश्चान्मूलमन्त्रेण मन्त्रवित्
प्राणप्रतिष्टां कृत्वा च पाद्यादीनि समर्पयेत् ।
रक्तचन्दनपुष्पैश्च सिंदूराद्यैः समर्चयेत्
धूपं दीपं प्रदायाथ नैवेद्यं च समर्पयेत् ।
अपूपमोदनं शाकमोदकान्वटकादिकम्
साज्यं च तत्समर्प्याथ मूलमन्त्रेण मन्त्रवित् ।
अखण्डितान्यहिलतादलानि सप्तविंशतिम्
त्रिधा कृत्वा सपूगानि मूलेनैव समर्पयेत् ।
एवं संपूज्य मन्त्रज्ञो जपेद्दशशन्त मनुम्
कर्पूरारार्तिकं कृत्वा स्तुत्वा च बहुधा सुधीः ।
निजेप्सितं निवेद्याथ विधिवद्विसृजेत्ततः
नैवेद्यान्नेन संभोज्य ब्राह्मणान्सप्तसंख्यया ।
निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च
दक्षिणां च यथा शक्ति दत्त्वा तान् विसृजेत्सुधीः ।
तत इष्टगणैः सार्द्धं स्वयं भुञ्जीत वाग्यतः
तद्दिने भूमिशय्यां च ब्रह्मचर्य्यं समाचरेत् ।
एवं यः कुरुते मर्त्यः सो ऽचिरादेव निश्चितम्
प्राप्नुयात्सकलान्कामान्कपीशस्य प्रसादतः ।
हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनुम्
साध्यनाम द्वितीयान्तं विमोचय विमोचय ।
तत्पूर्वं मार्जयेद्वामपाणिनाथ पुनर्लिखेत् ।
एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः
एवं कृते महाकारागृहाच्छीघ्रं विमुच्यते ।
एवमन्यानि कर्माणि कुर्य्यान्त्पल्लवमुल्लिखन्
सर्षपैर्वश्यकृद्धोमो विद्वेषे हयमारजैः ।
कुङ्कुमैरिध्मकाष्ठैर्वा मरीचैर्जीरकैरपि
ज्वरे दूर्वागुडूचीभिर्दध्ना क्षीरेण वा घृतैः ।
शूले करञ्जवातारिसमिद्भिस्तैललोलितैः
तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा प्रयत्नतः ।
सौभाग्ये चन्दनैश्चेन्द्रलोचनैर्वा लवङ्गकैः
सुगन्धपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैस्तदाप्तये ।
रिपुपादरजोभिश्च राजीलवणमिश्रितैः
होमयेत्सप्तरात्रं च रिपुर्याति यमालयम् ।
धान्यैः संप्राप्यते धान्यमन्नैरन्नसमुच्छ्रयः
तिलाज्यक्षीरमधुभिर्महिषीगोसमृद्धये ।
किं बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे
विवादे स्तंभने द्यूते भूतभीतौ च संकटे ।
वश्ये युद्धे क्षते दिव्ये बन्धमोक्षे महावने
साधितो ऽयं नृणां दद्यान्मन्त्रः श्रेयः सुनिश्चितम् ।
वक्ष्ये ऽथ हनुमद्यन्त्रं सर्वसिद्धिप्रदायकम्
लाङ्गूलाकारसंयुक्तं वलयत्रितयं लिखेत् ।
साध्यनाम लिखेन्मध्ये पाशिबीज प्रवेष्टितम्
उपर्यष्टच्छदं कृत्वा पत्रेषु कवचं लिखेत् ।
तद्बहिर्दंहमालिख्य तद्बहिश्चतुरस्रकम्
चतुरसस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् ।
सैं बीजं भूपुरस्याष्टवज्रेषु विलिखेत्ततः
कोणेष्वकुंशमालिख्य मालामन्त्रेण वेष्टयेत् ।
तत्सर्वं वेष्टयेद्यन्त्रवलयत्रितयेन च
शिलायां फलके वस्त्रे ताम्रपत्रे ऽथ कुड्यके ।
ताडपत्रे ऽथ भूर्जे वा रोचनानाभिकुङ्कुभैः
यन्त्रमेतत्समालिख्य निराहारो जितेन्द्रियः ।
कपेः प्राणान्प्रतिष्टाप्य पूजयेत्तद्यथाविधि
अशेषदुःखशान्त्यर्थः यन्त्रं संधारयेद् बुधः ।
मारीज्वराभिचारादिसर्वोपद्रवनाशनम्
योषितामपि बालानां धृतं जनमनोहरम् ।
भूतकृत्यापिशाचानां दर्शनादेव नाशनम्
मालामन्त्रमथो वक्ष्ये तारो वाग्विष्णुगेहिनी ।
दीर्घत्रयान्विता माया प्रागुक्तं कूटपञ्चकम्
ध्रुवो हृद्धनुमान्ङेंतो ऽथ प्रकटपराक्रमः ।
आक्रान्तदिग्मण्डलान्ते यशोवितानसंवदेत्
धवलीकृतवर्णान्ते जगत्त्रितयवज्र च ।
देहज्वलदग्निसूर्य कोट्यन्ते च समप्रभ
तनूरुहपदान्ते तु रुद्रावतार संवदेत् ।
लङ्कापुरी ततः पश्चाद्दहनोदधिलङ्घन
दशग्रीवशिरः पश्चात्कृतान्तकपदं वदेत् ।
सीतान्ते श्वसनपदं वाय्वन्ते सुतमीरयेत्
अञ्जनागर्भसंभूतः श्रीरामलक्ष्मणान्वितः ।
नन्दन्ति कर वर्णान्ते सैन्यप्राकार ईरयेत्
सुग्रीवसख्यकादूर्णाद्रणवालिनिवर्हण ।
कारणद्रोणशब्दान्ते पर्वतोत्पाटनेति च
अशोकवनवीथ्यन्ते दारुणाक्षकुमारक ।
छेदनान्ते वनरक्षाकरान्ते तु समूह च
विभञ्जनान्ते ब्रह्मास्त्रब्रह्मशक्ति ग्रसेति च ।
लक्ष्मणान्ते शक्तिभेदनिवारणपदं वदेत्
विशल्योषधिशब्दान्ते समानयन संपठेत् ।
बालोदित ततो भानुमण्डलग्रसनेति च
मेघनादहोमपदाद्विध्वंसनपदं वदेत् ।
इन्द्रजिदूधकारान्ते णसीतासक्षकेति च
राक्षसीसंघशब्दान्ते विदारणपदं वदेत् ।
कुंभकर्णादिसंकीर्त्यवधान्ते च परायण
श्रीरामभक्तिवर्णान्ते तत्परेति समुद्र च ।
व्योमद्रुमलङ्घनेति महासामर्थ्य संवदेत्
महातेजःपुञ्जशब्दाद्विराजमानवोञ्चरेत् ।
स्वामिवचनसंपादितार्जुनान्ते च संयुग
सहायान्ते कुमारेति ब्रह्मचारिन्पदंवदेत् ।
गंभीरशब्दोदयान्ते दक्षिणापथ संवदेत् ।
मार्त्ताण्डमेरु शब्दान्ते वदेत्पर्वतपीटिका
अर्चनान्ते तु सकलमन्त्रान्ते मपदं वदेत् ।
आचार्यमम शब्दान्ते सर्वग्रहविनाशन
सर्वज्वरोञ्चाटनान्ते सर्वविषविनाशन ।
सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण
सर्वव्याध्यादि सम्प्रोच्य भयान्ते च निवारण
सर्वशत्रुच्छेदनेति ततो मम परस्य च
ततस्त्रिभुवनान्ते तु पुंस्त्रीनपुंसकात्मकम् ।
सर्वजीवपदान्ते तु जातं वशययुग्मकम्
ममाज्ञाकारकं पश्चात्संपादय युगं पुनः ।
ततो नानानामधेयान्सर्वान् राज्ञः स संपठेत्
परिवारान्ममेत्यन्ते सेवकान् कुरु युग्मकम् ।
सर्वशस्त्रवीत्यन्ते षाणि विध्वंसय द्वयम्
लज्जादीर्घत्रयोपेता होत्रयं चैहि युग्मकम् ।
विलोमं पञ्चकूटानि सर्वशत्रून्हनद्वयम्
परबलानि परान्ते सैन्यानि क्षोभयद्वयम्
मम सर्वं कार्यजातं साधयेति द्वयं ततः
सर्वदुष्टदुर्जनान्ते मुखानि कीलयद्वयम् ।
धेत्रयं वर्मत्रितयं फट्त्रयं हान्त्रयं ततः
वह्निप्रियान्तो मन्त्रो ऽयं मालासंज्ञो ऽखिलेष्टदः
वस्वष्टबाणवर्णो ऽयं मन्त्रः सर्वेष्टासाधकः
महाभये महोत्पाते स्मृतो ऽयं दुःखनाशनः ।
द्वादशार्णस्य षट्कूटं त्यक्त्वा बीजं तथादिमम्
पञ्चकूटात्मको मन्त्रः सर्वकामप्रदायकः ।
रामचन्द्रो मुनिश्चास्य गायत्री छन्द ईरितम्
हनुमान्देवता प्रोक्तो विनियोगो ऽखिलाप्तये ।
पञ्चबीजैः समस्तेन षडङ्गानि समाचरेत्
रामदूतो लक्ष्मणान्ते प्राणदाताञ्जनीसुतः ।
सीताशोकविनाशो ऽयं लङ्काप्रासादभञ्जनः
हनुमदाद्याः पञ्चैते बीजाद्या ङेयुताः पुनः ।
षडङ्गमनवो ह्येते ध्यानपूजादि पूर्ववत्
प्रणवो वाग्भवं पद्मा माया दीर्घत्रयान्विता ।
पञ्चकूटानि मन्त्रो ऽयं रुद्रार्णः सर्वसिद्धिदः
ध्यानपूजादिकं सर्वमस्यापि पूर्ववन्मतम् ।
अयमाराधितो मन्त्रः सर्वाभीष्टप्रदायकः
नमो भगवते पश्चादनन्तश्चन्द्रशेखरां ।
जनेयाय महान्ते तु बलायान्ते ऽग्निवल्लभा
अष्टादशार्णो मन्त्रो ऽयं सुनिरीश्वरसंज्ञकः ।
छन्दो ऽनुष्टुप्देवता तु हनुमान्पवनात्मजः
हं बीजं वह्निवनिता शक्तिः प्रोक्ता मनीषिभिः ।
आञ्जनेयाय हृदयं शिरश्च रुद्रमूर्तये
शिखायां वायुपुत्रायाग्निगर्भाय वर्मणि ।
रामदूताय नेत्रं स्याद्बह्यास्त्रायास्त्रमीरितम्
तत्पचामीकरनिभं भीघ्नसंविहिताञ्जलिम् ।
चलत्कुण्डलदीप्तास्यं पद्मक्षं मारुतिं स्मरेत्
ध्यात्वैवमयुतं जप्त्वा दशांशं जुहुयात्तिलैः ।
वैष्णवे पूजयेत्पीठे प्रागुद्दिष्टेन वर्त्मना
अष्टोत्तरशतं नित्यं नक्तभोजी जितेन्द्रियः ।
जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः
महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् ।
राक्षसौघं विनिघ्नन्तं कपिं ध्यात्वाधनाशनम्
अयुतं प्रजपेन्नित्यमचिराज्ज यति द्विषम् ।
सुग्रीवेण समं रामं संदधानं कपिं स्मरन्
प्रजपेदयुतं यस्तु संधिं कुर्याद्द्विपद्वयोः ।
ध्यात्वा लङ्कां दहॄन्तं तमयुतं प्रजपेन्मनुम्
अचिरादेव शत्रूणां ग्रामान्संप्रदहेत्सुधीः ।
ध्यात्वा प्रयाणसमये हनुमन्तं जपेन्मनुम्
यो याति सो ऽचिरात्स्वेष्टं साधयित्वा गृहे व्रजेत् ।
हनुमन्तं सदा गेहे योर्ऽचयेज्जपतत्परः
आरोग्यं च श्रियं कान्तिं लभते निरुपद्रवम् ।
कानने व्याघ्रचौरेभ्यो रक्षेन्मनुरयं स्मृतः
प्रस्वापकाले शय्यायां स्मरेन्मन्त्रमनन्यधीः ।
तस्य दुःस्वप्नचौरादिभयं नैव भवेत्क्वचित्
वियत्सेंदुर्हनुमते ततो रुद्रात्मकाय च ।
वर्मास्त्रान्तो महामन्त्रो द्वादशार्णो ऽष्टसिद्धिकृत्
रामचन्द्रो मुनिश्चास्य जगती छन्द ईरितम् ।
हनुमान्देवतां बीजमाद्यं शक्तिर्हुमीरिता
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् ।
महाशैलं समुत्पाट्य धावन्तं रावणं प्रति
लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् ।
ज्वलदग्निसमं जैत्रं सूर्यकोटिसमप्रभम्
अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ।
तिष्ठ तिष्ठ रणे दुष्ट सृजन्तं घोरनिः स्वनम्
शैवरूपिणमभ्यर्च्य ध्यात्वा लक्ष जपेन्मनुम् ।
दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान्
पूर्वोक्ते वैष्णवे पीठे विमलादिसमन्विते ।
मूर्तिं संकल्प्य मूलेन पूजा कार्या हनूमतः
ध्यानैकमात्रो ऽपि नृणां सिद्धिरेव न संशयः ।
अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया
हनुमत्साधनं पुण्यं महापातकनाशनम् ।
एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम्
मन्त्री यस्य प्रसादेन त्रैलोक्यविजयी भवेत् ।
प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने
प्राणायामषडङ्गे च मूलेन सकलं चरेत् ।
पुष्पाञ्जल्यष्टकं दत्वा ध्यात्वा रामं ससीतकम्
ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् ।
कुचन्दनेन घृष्टेन संलिखेत्तच्छलाकया
कर्मिकायां लिखेन्मन्त्रं तत्रावाह्य कपीश्वरम् ।
मूर्तिं मूलेन संकल्प्य ध्यात्वा पाद्यादिकं चरेत्
गन्धपुष्पादिकं सर्वं निवेद्य मूलमन्त्रतः ।
केसरेषु षडङ्गानि दलेषु च ततोर्ऽचयेत्
सुग्रीवं लक्ष्मणं चैव ह्यङ्गदं नलनीलकौ ।
जांबवन्तं च कुमुदं केसरीशं दलेर्ऽचयेत्
दिक्पालांश्चापि वज्रादीन्पूजयेत्तदनन्तरम् ।
एवं सिद्धे मनौ मन्त्री साधयेत्स्वेष्टमात्मनि
नदीतीरे कानने वा पर्वते विजने ऽथवा ।
साधयेत्साधक श्रेष्ठो भूमिग्रहणपूर्वकम्
जिताहारो जितश्वासो जितवाक्च जितेन्द्रियः ।
दिग्बन्ध नादिकं कृत्वा न्यासध्यानादिपूर्वकम्
लक्षं जपेन्मन्त्रराजं पूजयित्वा तु पूर्ववत् ।
लक्षान्ति दिवसं प्राप्य कुर्य्याञ्च पूजनं महत्
एकाग्रमनसा सम्यग्ध्यात्वा पवननन्दनम् ।
दिवारात्रौ जपं कुर्याद्यावत्संदर्शनं भवेत्
सुदृढं साधकं मत्वा निशीथे पवनात्मजः ।
सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः
यथेप्सितं वरं दत्वा साधकाय कपीश्वरः ।
वरं लब्ध्वा साधकन्द्रो विहरेदात्मनः सुखैः
एतद्धि साधनं पुण्यं लोकानां हितकाम्यया ।
प्रकाशितं रहस्यं वै देवानामपि दुर्लभम्
अन्यानपिप्रयोगांश्च साधयेदात्मनो हितान् ।
वियदिन्दुयुतं पश्चान्ङेंतं पवननन्दनम्
वह्निप्रियान्तो मन्त्रो ऽयं दशार्णः सर्वकामदः ।
मुन्यादिकं च पूर्वोक्तं षडङ्गान्यपि पूर्ववत्
ध्यायेद्रणे हनूमन्तं सूर्यकोटिसमप्रभम् ।
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम्
लक्ष्मणं च महावीरं पतितं रणभूतले ।
गुरुं च क्रोधमुत्पाद्य ग्रहोतुं गुरुपर्वतम्
हाहाकारैः सदर्पैश्च कंपयन्तं जगत्त्रयम् ।
आब्रह्माण्डं समाख्याप्य कृत्वा भीमं कलेवरम्
लक्षं जपेद्दशांशेन जुहुयात्पूर्ववत्सुधीः ।
पूर्ववत्पूजनं प्रोक्तं मन्त्र स्यास्य विधानतः
एवं सिद्धे मनौ मन्त्री साधयेदात्मनो हितम् ।
अस्यापि मन्त्रवर्यस्य रहस्यं साधनं तु वै
सुगोप्यं सर्वतन्त्रेषु न देयं यस्य कस्यचित् ।
ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियः शुचिः
गत्वा नदीं तः स्नात्वा तीर्थमावाह्य चाष्टधा ।
मूलमन्त्रं ततो जप्त्वा सिंचेदादित्यसंख्यया
एवं स्नानादिकं कृत्वा गङ्गातीरे ऽथवा पुनः ।
पर्वते वा वने वापि भूमिग्रहणपूर्वकम्
आद्यवर्णैः पूरकं स्यात्पञ्चवर्गैश्च कुम्भकम् ।
रेचकं च पुनर्याद्यैरेवं प्राणान्नियन्य च
विधाय भूतशुद्ध्यादि पीठन्यासावधि पुनः ।
ध्यात्वा पूर्वोक्तविधिना संपूज्य च कपीश्वरम्
तदग्रे प्रजपेन्नित्यं साधको ऽयुतमादरात् ।
सप्तमे दिवसे प्राप्ते कुर्याञ्च पूजनं महत्
एकाग्रमनसा मन्त्री दिवारात्रं जपेन्मनुम् ।
महाभयं प्रदत्वा त्रिभागशेषासु निश्चितम्
यामिनीषु समायाति नियतं पवनात्मजः ।
यथेप्सितं वरं दद्यात्साधकाय कपीश्वरः
विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् ।
तत्क्षणादेव चाप्नोति सत्यं सत्यं न संशयः
इह लोके ऽखिलान्कामान्भुक्त्वान्ते मुक्तिमाप्नुयात् ।
सद्याचितं वायुयुग्मं हनूमन्तेति चोद्धरेत्
फलान्ते फक्रियानेत्रयुक्ता च कामिका ततः ।
धग्गन्ते धगितेत्युक्त्वा आयुरास्व पदं ततः
लोहितो गरुडो हेतिबाणनेत्राक्षरो मनुः ।
मुन्यादिकं तु पूर्वोक्तं प्लीहरोगहरो हरिः
देवता च समुद्दिष्टा प्लीहयुक्तोदरे पुनः ।
नागवल्लीदलं स्थाप्यमुपर्याच्छादयेत्ततः
वस्त्रं चैवाष्टगुणितं ततः साधकसत्तमः ।
शकलं वंशजं तस्योपरि मुञ्चेत्कपिं स्मरेत्
आरण्यसाणकोत्पन्ने वह्नौ यष्टिं प्रतापयेत् ।
बदरीभूरुहोत्थां तां मन्त्रेणानेन सप्तधा
तया संताडयेद्वंशशकलं जठरस्थितम् ।
सप्तकृत्वः प्लीहरोगो नाशमायाति निश्चितम्
तारो नमो भगवते आञ्जनेयाय चोञ्चरेत् ।
अमुकस्य शृङ्खलां त्रोटयद्वितयमीरयेत्
बन्धमोक्षं कुरुयुगं स्वाहान्तो ऽयं मनुर्मतः ।
ईश्वरो ऽस्य मुनिश्छन्दो ऽनुष्टुप्च देवता पुनः
शृङ्खलामोचरः श्रीमान्हनूमान्पवनात्मजः ।
हं बीजं ठद्वयं शक्तिर्बन्धमोक्षे नियोगता
षड्दीर्घवह्रियुक्तेन बीजेनाङ्गानि कल्पयेत् ।
वामे शैलं वैरिभिदं विशुद्धं टङ्कमन्यतः
दधानं स्वर्णवर्णं च ध्यायेत्कुण्डलिनं हरिम् ।
एवं ध्यात्वा जपेल्लक्षदशांशं चूतपल्लवैः
जुहुयात्पूर्ववत्प्रोक्तं यजनं वास्य सूरिभिः ।
महाकारागृहे प्राप्तो ह्ययुतं प्रजपेन्नरः
शीघ्रं कारागृहान्मुक्तः सुखी भवति निश्चितम् ।
यन्त्रं चास्य प्रवक्ष्यामि बन्धमोक्षकरं शुभम्
अष्टच्छदान्तः षट्कोणं साध्यनामसमन्वितम् ।
षट्कोणेषु ध्रुवं ङेंतमाञ्जनेयपदं लिखेत्
अष्टच्छदेषु विलिखेत्प्रणवो वातुवात्विति ।
गोरोचनाकुङ्कुमेन लिखित्वा यन्त्रमुत्तमम्
धृत्वा मूर्ध्नि जपेन्मन्त्रमयुतं बन्धमुक्तये ।
यन्त्रमेतल्लिखित्वा तु मृत्तिकोपरि मार्जयेत्
दक्षहस्तेन मन्त्रज्ञः प्रत्यहं मण्डला वधि ।
एवं कृते महाकारागृहान्मन्त्री विमुच्यते
गगनं ज्वलनः साक्षी मर्कटेति द्वयं ततः ।
तोयं शशेषे मकरे परिमुञ्चति मुञ्चति
ततः शृङ्खलिकां चेति वेदनेत्राक्षरो मनुः ।
इमं मन्त्रं दक्षकरे लिखित्वा वामहस्ततः
दूरिकृत्य जपेन्मन्त्रमष्टोत्तरशतं बुधः ।
त्रिसप्ताहात्प्रबद्धो ऽसौ मुच्यते नात्र संशयः
मुन्याद्यर्चादिकं सर्वमस्य पूर्ववदाचरेत् ।
लक्षं जपो दशांशेन शुभैर्द्रव्यैश्च होमयेत्
पुच्छाकारे सुवस्त्रे च लेखन्या क्षुरकोत्थया ।
गन्धाष्टकैर्लिखेद्वूपं कपिराजस्य सुन्दरम्
तन्मध्ये ऽष्टदशार्णं तु शत्रुनामान्वितं लिखेत् ।
तेन मन्त्राभिजप्तेन शिरोबद्ध्वेन भूमिपः
जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् ।
चन्द्रसूर्यो परागादौ पूर्वोक्तं लेखयेद्ध्वजे
ध्वजमादाय मन्त्रज्ञः संस्पर्शान्मोक्षणावधि ।
मातृकां जापयेत्पश्चाद्दशांशेन च होमयेत्
तिलैः सर्षपसंमिश्रैः संस्कृते हव्यवाहने ।
गजे ध्वजं समारोप्य गच्छेद्युद्ध्वाय भूपतिः
गजस्थं तं ध्वजं दृष्ट्वा पलायन्ते ऽरयो ध्रुवम् ।
महारक्षाकरं यन्त्रं वक्ष्ये सम्यग्धनूमतः
लिखेद्वसुदलं पद्मं साध्याख्यायुतकर्णिकम् ।
दले ऽष्टकोणमालिख्य मालामन्त्रेण वेष्टयेत्
तद्बहिर् माययावेष्ट्य प्राणस्थापनमाचरेत् ।
लिखितं स्वर्णलेखन्या भूर्जपत्रे सुशोभने
काश्मीररोचनाभ्यां तु त्रिलोहेन च वेष्टितम् ।
सम्पातसाधितं यन्त्रं भुजे वा मूर्ध्नि धारयेत्
रणे दुरोदरे वादे व्यवहारे जयं लभेत् ।
ग्रहैर्विघ्नैर्विषैः शस्त्रैश्चौरैर्नैवाभिभूयते
सर्वान्रो गानपाकृत्य चिरं जीवेच्छतं समाः ।
षड्दीर्घयुक्तं गगन वह्न्याख्यं तारसंपुटम्
अष्टार्णो ऽयं महामन्त्रो मालामन्त्रो ऽथ कथ्यते ।
प्रणवो वज्रकायेति वज्रतुण्डेति संपठेत्
कपिलान्ते पिङ्गलेति उर्द्ध्वकेशमहापदम् ।
बलरक्तमुखान्ते तु तडिज्जिह्व महा ततः
रौद्रदंष्ट्रोत्कटं पश्चात्कहद्वन्द्वं करालिति ।
महदृढप्रहारेण लङ्केश्वरवधात्ततः
वायुर्महासेतुपदं बन्धान्ते च महा पुनः ।
शैलप्रवाह गगनेचर एह्येहि संवदेत्
भगवन्महाबलान्ते पराक्रमपदं वदेत् ।
भैरवाज्ञापयैह्येहि महारौद्रपदं ततः
दीर्घपुच्छेन वर्णान्ते वदेद्वेष्टय वैरिणम् ।
जंभयद्वयमाभाष्य वर्मास्त्रान्तो मनुर्मतः
मालाह्वयो द्विजश्रेष्ठ शरनेत्रधराक्षरः ।
मालामन्त्राष्टार्णयोश्च मुन्याद्यर्चा तु पूर्ववत्
जप्तो युद्धे जयं दद्याद्व्याधौ व्याधिविनाशनः ।
एवं यो भजते मन्त्री वायुपुत्रं कपीश्वरम्
सर्वान्स लभते कामान्दे वैरपि सुदुर्लभान् ।
धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः
मेधां विद्यां प्रभां राज्यं विवादे विजयं तथा ।
वश्याद्यानि च कर्माणि संगरे विजयं तथा
उपासितोंऽजनागर्भसंभूतः प्रददात्यलम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0