नारद पुराण · अध्याय 1.73
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हयग्रीवोपासनानिरूपणं नाम द्विसप्ततितमो ऽध्यायः
सनत्कुमार उवाच
अथ रामस्य मनवो वक्ष्यन्ते सिद्धिदायाकाः ।
येषामाराधनान्मर्त्यास्तरन्ति भवसागरम्
सर्वेषु मन्त्रवर्येषु श्रेष्ठं वैष्णवमुच्यते ।
गाणपत्येषु सौरेषु शाक्तशैवेष्वभीष्टदम्
वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः ।
गाणपत्यादिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः
विष्णुशय्यास्थितो वह्निरिन्दुभूषितमस्तकः ।
रामाय हृदयान्तो ऽयं महाघौधविनाशनः
सर्वेषु राममन्त्रषु ह्यतिश्रेष्ठः षडक्षरः ।
ब्रह्महत्यासहस्राणि ज्ञाताज्ञातकृतानि च
स्वर्णस्तेय सुरापानगुरुतल्पायुतानि च ।
कोटिकोटिसहस्राणि ह्युपपापानि यानि वै
मन्त्रस्योञ्चारणात्सद्यो लयं यान्ति न संशयः ।
ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामश्च देवता
आद्यं बीजं च हृच्छक्तिर्विनियोगो ऽखिलाप्तये ।
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत्
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्योर्गुह्यपादयोः ।
मन्त्रवर्णान्क्रमान्न्यस्य केशवादीन्प्रविन्यसेत्
पीठन्यासादिकं कृत्वा ध्यायेद्धृदि रघूत्तमम् ।
कालांभोधरकान्तं च वीरा सनसमास्थितम्
ज्ञानमुद्रां दक्षहस्ते दधतं जानुनीतरम् ।
सरोरुहकरां सीतां विद्युदाभां च पार्श्वगाम्
पश्यन्तीं रामवक्राब्जं विविधाकल्पभूषिताम् ।
ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः
कमलैर्जुहुयाद्वह्नौ ब्राह्मणान्भोजयेत्ततः ।
पूजयेद्वैष्णवे पीठे विमलादिसमन्विते
मूर्तिं मूलेन संकल्प्य तस्यामावाह्य साधकः ।
सीतां वामे समासीनां तन्मन्त्रेण प्रपूजयेत्
रमासीतापदं ङेंतं द्विठान्तो जानकीमनुः ।
अग्रेः शार्ङ्गं च सम्पूज्य शरान्पार्श्वद्वयेर्ऽचयेत्
केशरेषु षडङ्गानि पत्रेष्वेतान्समर्चयेत् ।
हनुमन्तं च सुग्रीवं भरतं सबिभीषणम्
लक्ष्मणाङ्गदशत्रुघ्नान् जांबवन्तं क्रमात्पुनः ।
वाचयन्तं हनूमन्तग्रतो धृतपुस्तकम्
यजेद्भरतशत्रुघ्नौ पार्श्वयोर्धृतचामरौ ।
धृतातपत्रं हस्ताभ्यां लक्ष्मणं पृष्टतोर्ऽचयेत्
ततो ऽष्टपत्रे सृष्टिं च जपन्तं विजयं तथा ।
सुराष्ट्रं राष्ट्रपालं च अकोपं धर्मपालकम्
सुमन्तं चेति सम्पूज्य लोके शानायुधैर्युतान् ।
एवं रामं समाराध्य जीवन्मुक्तः प्रजायते
चन्दनाक्तैः प्रजुहुयाज्जातीपुष्पैः समाहितः ।
राजवश्याय कमलैर्धनधान्यादिसिद्धये
लक्ष्मीकामः प्रजुहुयात्प्रसूनैर्विल्वसंभवैः ।
आज्याक्तैर्नीलकमलैर्वशयेदखिलं जगत्
घृताक्तशतवर्वीभिर्दीर्घायुश्च निरामयः ।
रक्तोत्पलानां होमेन धनं प्राप्नोति वाञ्छितम्
पालाशकुसुमैर्हुत्वा मेधावी जायते नरः ।
तज्जप्तांभः पिबेत्प्रातर्वत्सरात्कविराड् भवेत्
तन्मन्त्रितान्नं भुञ्जीतमहारोगप्रशान्तये ।
रोगोक्तौषधहोमेन तद्रोगान्मुच्यते क्षणाम्
नदीतीरे च गोष्ठे वा जपेल्लक्षं पयोब्रतः ।
पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत्
परिक्षीणाधिपत्यो यः शाकाहारो जलान्तरे ।
जपेल्लक्षं च जुहुयाद्विल्वपुष्पैर्दशांशतः
तदैव पुनराप्नोति स्वाधिपत्यं न संशयः ।
उपोष्य गङ्गातीरान्ते स्थित्वा लक्षं जपेन्नरः
दशांशं कमलैर्हुत्वा विल्वोत्थैर्वा प्रसूनकैः ।
मधुरत्रयसंयुक्तैरादज्यश्रियमवाप्नुयात्
मार्गमासे जले स्थित्वा कन्दमूलफलाशनः ।
लक्षं जप्त्वा दशांशेन पायसैर्जुहुयाद्वसौ
श्रीरामचन्द्रसदृशः पुत्रः पौत्रो ऽपि जायते ।
अन्ये ऽपि बहवः संति प्रयोगामन्त्रराजके
किन्तु प्रयोगकर्तृआणां परलोको न विद्यते ।
षट्कोणं वसुपत्रं च तद्बाह्यार्कदलं लिखेत्
षट्कोणेषु षडर्णानि मन्त्रस्य विलिखेद् बुधः ।
अष्टपत्रे तथाष्टार्णांल्लिखेत्प्रणवगर्भितान्
कामबीजं रविदले मध्ये मन्त्रावृताभिधाम् ।
सुदर्शनावृतं बाह्ये दिक्षु युग्मावृतं तथा
वज्रोल्लसद्भूमिगेहं कन्दर्पाङ्कुशपाशकैः ।
भूम्या च विलसत्कोणं यन्त्रराजमिदं स्मृतम्
भूर्जे ऽष्टगन्धैः संलिख्य पूजयेदुक्तवर्त्मना ।
षट्कोणेषु दलार्काब्जान्यावेष्टवृत्तयुग्मतः
केशरेष्वष्टपत्रस्य स्वरद्वन्द्वं लिखेद् बुधः ।
बहिस्तु मातृकां चैव मन्त्रं प्राणनिधयनम
यन्त्रमेतच्छुभे घस्रे कण्ठे वा दक्षिणे भुजे ।
मूर्ध्नि वा धारयेन्मन्त्री सर्वपापैः प्रमुच्यते
सुदिने शुभनक्षत्रे सुदेशे शल्यवर्जिते ।
वश्याकर्षणविद्वेषद्रावणोच्चाटनादिकम्
पुष्यद्वयं तथादित्यार्द्रामघासु यथाक्रमम् ।
दूर्वोत्था लेखनी वश्ये तथाकृष्टौ करञ्जजा
नरास्थिजा मारणे तु स्तंभने राजवृक्षजा ।
शान्तिपुष्टष्ट्यायुषां सिद्धयै सर्वापच्छमनाय च
विभ्रमोत्पादने चैव शिलायां विलिखेद् बुधः ।
खरचर्मणि विद्वेषे ध्वजे तूञ्चाटनाय च
शत्रूणां ज्वरसन्तापशोकमारणकर्मणि ।
पीतवस्रं लिखित्वा तु साधयेत्साधकोत्तमः
वश्याकृष्टौ चाष्टगन्धैः सम्पूज्य च यथाविधि ।
चिताङ्गारादिना चैव ताडनोच्चाटनादिकम्
विषार्कक्षीरयोगेन मारणं भवति ध्रुवम् ।
लिखित्वैवं यन्त्रराजं गन्धपुष्पादिभिर्यजेत्
त्रिलोहवेष्टितं कृत्वा धारयेत्साधकोत्तमः ।
बीजं रामाय ठद्वन्द्वं मन्त्रो ऽयं रसवर्णकः
महासुदर्शनमनुः कथ्यते सिद्धिदायकः ।
सुदर्शनमहाशब्दाच्चक्रराजेश्वरेति च
दुष्टान्तकदुष्टभयानकदुष्टभयङ्करम् ।
छिन्धिद्वयं भिन्धियुग्मं विदारययुगं ततः
परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं ततः ।
त्रासयद्वितयं वर्मास्त्राग्निजायान्तिमो मनुः
अष्टषष्ट्यक्षरः प्रोक्तो यन्त्रसंवेष्टने त्वयम् ।
तारो हृद्भगवान् ङेंतो ङेंतो हि रघुनन्दनः
रक्षोघ्नविशदायान्ते मधुरादिप्रसन्न च ।
वरदानायामितान्ते नुतेजसेपदमीरयेत्
बालायान्ते तु रामाय विष्णवे हृदयान्तिमः ।
सप्तचत्वारिंशदर्णो मालामन्त्रो ऽयमीरितः
विश्वामित्रो मुनिश्चास्य गायत्री छन्द ईरितम् ।
श्रीरामो देवता बीजं ध्रुवः शक्तिश्च ठद्वयम्
षड्दीर्घस्वरयुग्मायाबीजेनाङ्गानि कल्पयेत् ।
ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत्
अयमाराधितो मन्त्रः सर्वान्कामान्प्रयच्छति ।
स्वकामसत्यवाग्लक्ष्मीताराढ्यः पञ्चवर्णकः
षडक्षरः षड्विधः स्याञ्चतुर्वर्गफलप्रदः ।
ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिसंज्ञकः
अगस्त्यः श्रीशिवः प्रोक्तास्ते तेषां मुनयः क्रमात् ।
अथवा कामबीजादेर्विश्वामित्रो मुनिः स्मृतः
छन्दः प्रोक्तं च गायत्री श्रीरामो देवता पुनः ।
बीजशक्तिराधमान्त्यं मन्त्रार्णैः स्यात्षडङ्गकम्
बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णान्पूर्ववन्न्यसेत् ।
ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे
पुष्पकाख्यविमानान्तः सिंहासनपरिच्छदे ।
पद्मे वसुदलेदेवमिन्द्रनीलसमप्रभम्
वीरासनसमासीनं ज्ञानमुद्रोपशोभितम् ।
वामोरुन्यस्ततद्धस्तसीतालक्ष्मणसेवितम्
रत्नाकल्पं विभुन्ध्यात्वा वर्णलक्षं जपेन्मनुम् ।
यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेत्
येजनं काम्यकर्माणि सर्वं कुर्यात्षडर्णवत् ।
रामश्च चन्द्रभ द्रान्तो ङेनमोन्तो ध्रुवादिकः
मन्त्रावष्टाक्षरौ ह्येतौ तारान्त्यौ चेन्नवाक्षरौ ।
एतेषां यजनं सर्वं कुर्यान्मन्त्री षडर्णवत्
जानकीवल्लभो ङेंतो द्विठान्तः कवचादिकः ।
दशार्णो ऽयं महामन्त्रो विशिष्टो ऽस्य मुनिः स्वराट्
छन्दश्च देवता सीता पतिर्बीजं तथादिमम् ।
स्वाहा शक्तिश्च कामेन कुर्यादङ्गानि षट् क्रमात्
शिरोललाटभ्रूमध्यतालुकण्ठेषु हृद्यपि ।
नाभ्यङ्घ्रिजानुपादेषु दशार्णान्विन्यसेन्मनोः
अयोध्यानगरे रत्नचित्रसौवर्णमण्डपे ।
मन्दारपुष्पैराबद्धविताने तोरणान्विते
सिंहासनसमासीन पुष्पकोपरि राघवम् ।
रक्षोभिर्हरिभिर्देवैः सुविमानगतैः शुभैः
संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् ।
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम्
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ।
एवं ध्यात्वा जपेन्मन्त्री वर्णलक्षं समाहितः
दशांशः कमलैर्हेमो यजनं च षडर्णवत् ।
रामो ङेंन्तो धनुष्पाणिर्ङैतोंऽते वह्निसुंदरी
दशाक्षरो ऽयं मन्त्रो ऽस्य मुनिर्ब्रह्मा विराट् पुनः ।
छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः
आद्यं बीजं द्विठः शक्तिबीञ्जेनाङ्गानि कल्पयेत् ।
वर्णन्यासं तथा ध्यानं पुरश्चर्यार्चनादिकमन्
दशाक्षरोक्तवत्कुर्याच्चापबाणधरं स्मरेत् ।
तारो नमो भगवते रामान्ते चन्द्रभद्रकौ
ङेंतावर्काक्षरौ मन्त्रौ ऋषिध्यानादि पूर्ववत् ।
श्रीपूर्वं जयपूर्वं च तद्द्विधा रामनाम च
त्रयोदशाक्षरो मन्त्रो मुनिर्ब्रह्मा विराट् स्मृतम् ।
छन्दस्तु देवता प्रोक्तो रामः पापौघनाशनःऋ
षडङ्गानि प्रकुर्वीत द्विरावृत्त्या पदत्रयैः ।
ध्यानार्चनादिकं सव ह्यस्य कुर्याद्दशार्णवत्
तारो नमो भगवते रामायान्ते महापदम् ।
पुरुषाय हृदन्तो ऽयं मनुरष्टादशाक्षरः
विश्वामित्रो मुनिश्छदो धृती रामो ऽस्य देवता ।
तारो बीजं नमः शक्तिश्चन्द्राक्ष्यब्ध्यग्निषड्भुजैः
वर्णैमन्त्रोत्थितैः कुर्यात्षडङ्गानि समाहितः ।
निःशाणभेरीपटहशङ्खतुर्यादिनिःस्वनैः
प्रवृत्तनृत्ये परितो जयमङ्गलभाषिते ।
चन्दनागरुकस्तूरीकर्पूरादिसुवासिते
नानाकुसुमसौरभ्यवाहिगन्धवहान्विते ।
देवगन्धर्वनारीभिर्गायन्तीभिरलकृते
सिंहासने समासीनं पुष्पकोपरि राघवम् ।
सौमित्रिसीतासहितं जटामुकुटशोभितम्
चापबाणधरं श्यामं ससुग्रीवविभीषणम् ।
हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम्
एवं ध्यात्वा जपेद्वर्णं लक्षं मत्री दशांशतः ।
घृताक्तैः पायसैर्हुत्वा यजनं पूर्ववञ्चरेत्
प्रणवो हृदयं सीतापतये तदनन्तरम् ।
रामाय हनयुग्मान्ते वर्मास्त्राग्निप्रियान्तिमः
एकोनविंशद्वर्णो ऽयं मन्त्रः सर्वार्थसाधकः ।
विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम्
देवता रामभद्रो जं बीजं शक्तिर्नम इति ।
मन्त्रोत्थितैः क्रमाद्वर्णैस्ततो ध्यायेञ्च पूर्ववत्
पूजनं काम्यकर्मादि सर्वमस्य षडर्णवत् ।
तारः स्वबीजं कमला रामभद्रेति संपठेत्
महेष्वासपदान्ते तु रघुवीर नृपोत्तम ।
दशास्यान्तकशब्दान्ते मां रक्ष देहि संपठेत्
परमान्ते मे श्रियं स्यान्मन्त्रो बाणगुणाक्षरः ।
बीजैर्वियुक्तो द्वात्रिंशदर्णो ऽयं फलदायकः
विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम् ।
देवता रामभद्रो ऽत्र बीजं स्वं शक्तिरिन्दिरा
बीजत्रयाद्यैः कुर्वीत पदैः सर्वेण मन्त्रवित् ।
पञ्चाङ्गानि च विन्यस्य मन्त्रवर्णान्क्रमान्न्यसेत्
मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके ।
आस्ये दोःसंधियुगले स्तनहृन्नाभिषु क्रमात्
कटौ मेढ्रे पायुपादसंधिष्वर्णान्न्यसेन्मनोः ।
ध्यानार्चनादिकं चास्य पूर्ववत्समुपाचरेत्
लक्षत्रयं पुरश्चर्यां पायसैर्हवनं मतम् ।
ध्यात्वा रामं पीतवर्णं जपेल्लक्षं समाहितः
दशांशं कमलैर्हुत्वा धनैर्धनपतिर्भवेत् ।
तारो माया रमाद्वन्द्वं दाशरथाय हृञ्च वै
एकादशाक्षरो मन्त्रो मुन्याद्यर्चास्य पूर्ववत् ।
त्रैलोक्यान्ते तु नाथाय हृदन्तो वसुवर्णवान्
अस्यापि पूर्ववत्सर्वं न्यासध्यानार्चनादिकम् ।
आञ्जनेयपदान्ते तु गुरवे हृदयान्तिमः
मन्त्रो नवाक्षरो ऽस्यापि यजनं पूर्ववन्मतम् ।
ङेतं रामपद पश्चाद्धृदयं पञ्चवणवत्
मुनिध्यानार्चनं चास्य प्रोक्तं सर्वं षडर्णवत् ।
रामान्ते चन्द्रभद्रौ च ङेंतौ पावकवल्लभा
मन्त्रो द्वौ च समाख्यातौ मुन्याद्यर्चादि पूर्ववत् ।
वह्निः शेषान्वितश्चैव चन्द्रभूषितमस्तकः
एकाक्षरो रघुपतेर्मन्त्रः कल्पद्रुमो ऽपरः ।
ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामो ऽस्य देवता
षड्दीर्घाढ्येन मन्त्रेण षडङ्गानि समाचरेत् ।
सरयूतीरमन्दारवेदिकापङ्कजासने
श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ।
वामोरुन्यस्तं तद्धस्तं सीतालक्ष्मणसंयुतम्
अवेक्षणाणमात्मानं मन्मथामिततेजसम् ।
शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया
चिन्तयेत्परमात्मानमृतुलक्षं जपेन्मनुम् ।
सर्व्वं षडर्णवञ्चास्य होमनित्यार्चनादिकम्
वह्निः शेषासनो भान्तः केवलो द्व्यक्षरो मनुः ।
एकाक्षरोक्त वत्सर्वं मुनिध्यानार्चनादिकम्
तारमानारमानङ्गचास्त्रबीजैर्द्विवर्णकः ।
त्र्यक्षरो मन्त्रराजः स्यात्षड्विधः सकलेष्टदः
व्द्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ।
एकार्णोक्तवदेतेषां मुनिध्यानार्चनादिकम्
तारो रामश्चतुर्थ्यन्तो वर्मास्त्रं वह्निवल्लभा ।
अष्टार्णो ऽयं महामन्त्रो मुन्याद्यर्चा षडर्णवत्
तारो मया हृदन्ते स्याद्रामाय प्रणवान्तिमः ।
शिवोमाराममन्त्रो ऽयमष्टार्णः सर्वसिद्धिदः
ऋषिः सदाशिवः प्रोक्तो गायत्री छन्द ईरितम् ।
शिवोमारामचन्द्रो ऽत्र देवता परिकीर्तितः
षड्वीर्ययामाय यातु ध्रुवपञ्चार्णयुक्तया ।
षडङ्गानि विधायाथ ध्यायेद्धृदि सुरार्चितम्
रामं त्रिनेत्रं सोमार्द्धधारिणं शूलिनं वरम् ।
भस्मोद्धूलितसर्वाङ्गं कपर्द्दिनमुपास्महे
रामाभिरामं सैन्दर्यसीमां सोमावतंसिनीम् ।
पाशाङ्कुशधनुर्बाणधरां ध्यायेत्रिलोचनाम्
एवं ध्यात्वा जपेद्वर्णलक्षं त्रिमधुरान्वितैः ।
बिल्पपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत्
स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः ।
तारो माया च भरताग्रजराममनोभवः
वह्निजायाद्वादशार्णो मन्त्रः कल्पद्रुमो ऽपरः ।
अङ्गिराश्च मुनिश्छन्दो गायत्री देवता पुनः
श्रीरामो भुवनाबीजं स्वाहाशक्तिः समीरितः ।
चन्द्रैकमुनिभूनेत्रैर्मन्त्रार्णैरङ्गकल्पनम्
ध्यानपूजादिकं चाश्च सर्वं कुर्यात्षडर्णवत् ।
प्रणवो हृदयं सीतापते रामश्च ङेंतिमः
हनद्वयान्ते वर्मास्त्रं मन्त्रः षोडशवर्णवान् ।
अगस्त्यो ऽस्य मुनिश्छन्दो बृहती देवता पुनः
श्रीरामो ऽहं तथा बीजं रां शक्तिः समुदीरिता ।
रामाब्धिवह्निवेदाक्षिवर्णैः पञ्चाङ्गकल्पना
ध्यानपूजादिकं सर्वमस्य कुर्यात्षडर्णवत् ।
तारो हृञ्चैव ब्रह्मण्यसेव्याय पदमीरयेत्
रामायाकुण्ठशब्दान्तं तेजसे च समीरयेत् ।
उत्तमश्लोकधुर्याय स्वं भृगुः कामिकान्वितः
दण्डार्पितां प्रिये मन्त्रो रामरामाक्षरो मतः ।
ऋषिः शुक्रस्तथानुष्टुप्छन्दो रामो ऽस्य देवता
पादैः सर्वेण पञ्चाङ्गं कुर्याच्छेषं षडर्णवत् ।
लक्षं जपो दशांशेन जुहुयात्पायसैः सुधीः
सिद्धमन्त्रस्य भुक्तिः स्यान्मुक्तिः पातकनाशनम् ।
आदौ दाशरथायान्ते विद्महे पदमुच्चरेत्
ततः सीतावल्लभाय धीमहीति समुच्चरेत् ।
तन्नो रामः प्रोचो वर्णो दयादिति च संवदेत्
एषोक्तारा मगायत्री सर्वाभीष्टफलप्रदा ।
पद्मासीतापदं ङेतं ठद्वयान्तः षडक्षरः
वाल्मीकिश्च मुनिश्छन्दो गायत्री देवता पुनः ।
सीता भगवती प्रोक्ता श्रीं बीजं वह्निसुन्दरी
शक्तिः षड्दीर्घयुक्तेन बीजेनाङ्गानि कल्पयेत् ।
ततो ध्यायन्महादेवीं सीतां त्रैलोक्यपूजिताम्
तप्तहाटकवर्णाभां पद्मयुग्मं करद्वये ।
सद्रत्नभूषणस्फूर्जद्दिव्यदेहां शुभात्मिकाम्
नानावस्त्रां शशिमुखीं पद्माक्षीं मुदितान्तराम् ।
पश्यन्तीं राघवं पुण्यं शय्यार्ध्यां षड्गुणेश्वरीम्
एवं ध्यात्वा जपेद्वर्णलक्षं मन्त्री दशांशतः ।
जुहुयात्कमलैः फुल्लैः पीठे पूर्वोदिते यजेत्
मूर्तिं संकल्प्य मूलेन तस्यामावाह्य जानकीम् ।
संपूज्य दक्षिणे राममभ्यर्च्याग्रे ऽनिलात्मजम्
पृषटे लक्ष्मणमभ्यर्च्य षट्कोणेष्वङ्गपूजनम् ।
पत्रेषु मन्त्रिमुख्यंश्च बाह्ये लोकेश्वरान्पुनः
वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् ।
जातीपुष्पैश्चन्दनाक्तै राजवश्याय होमयेत्
कमलैर्धनधान्याप्तिर्नीलाब्जैर्वशयन् जगत् ।
बिल्वपत्रैः श्रियः प्राप्त्यै दूर्वाभीरोराशान्तये
किं बहूक्तुन सौभाग्यं पुत्रान्पौत्रान्परं सुखम् ।
धनं धान्यं च मोक्षं च सीताराधनतो लभेत्
शक्रऋ सेंदुर्लक्ष्मणाय हृदयं सप्तवर्णवान् ।
अगस्त्यो ऽस्य मुनिश्छन्दो गायत्री देवता पुनः
लक्ष्मणाख्यो महावीरश्चाढ्यं हृद्वीजशक्तिके ।
षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत्
द्विभुजं स्वर्णरुचुरतनुं पद्मनिभेक्षणम् ।
धनुर्बाणकरं रामसेवासंसक्तमानसम्
ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः ॥ठ
मध्वाक्तैः पायसैर्हुत्वा रामपीठे प्रपूजयेत
रामवद्यजनं चास्य सर्वसिद्धिप्रदो ह्ययम् ।
साकल्यं रामपूजाया यदीच्छेन्नियतं नरः
तेन यत्नेन कर्त्तव्यं लक्ष्मणार्चनमादरात् ।
श्रीरामचन्द्रभेदास्तु बहवः संति सिद्धिदाः
तत्साधकैः सदा कार्यं लक्ष्मणाराधनं शुभम् ।
अष्टोत्तरसहस्रं वा शतं वा सुसमाहितैः
लक्ष्मणस्य मनुर्जप्यो मुमुक्षुभिरतन्द्रितैः ।
अजप्त्वा लक्ष्मणमनुं राममन्त्रान् जपन्ति ये
न तेषां जायते सिद्धिर्हानिरेव पदे पदे ।
यो जपेल्लक्ष्मणमनुं नित्यमेकान्तमास्थितः
मुच्यते सर्वपापेभ्यः सर्वान्कामानवाप्नुयात् ।
जयप्रधानो मन्त्रो ऽयं राज्यप्राप्त्यैकसाधनम्
नष्टराज्याप्तये मन्त्रं जपेल्लक्षं समाहितः ।
सो ऽचिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः
ध्यायन्राममयोध्यायामभिषिक्त मनन्यधीः ।
पञ्चायुतं मनुं जप्त्वा नष्टराज्यमवाप्नुयात्
नागपाशविनिर्मुक्तं ध्यात्वा लक्ष्मणमादरात् ।
अयुतं प्रजपेन्मन्त्रं निगडान्मुच्यते ध्रुवम्
वातात्मजेनानीताभिरोषधीभिर्गतव्यथम् ।
ध्यात्वा लक्षं जपन्मन्त्रमल्पमृत्युं जयेद्धुवम्
घातयन्तं मेघनादं ध्यात्वा लक्षं जपेन्मनुम् ।
दुर्जयं वापि वेगेन जयेद्रिपुकुलं महत्
ध्यात्वा शूर्पणखानासाछेदनोद्युक्तमानसम् ।
सहस्रं प्रजपेन्मन्त्रं पुरुहूतादिकान् जयेत्
रामपादाब्जसेवार्थं कृतोद्योगमथो स्मरन् ।
प्रजपल्लङ्क्षमेकान्ते महारोगात्प्रमुच्यते
त्रिमासं विजिताहारो नित्यं सप्तसहस्रकम् ।
अष्टोत्तरशतैः पुष्पैर्निश्छेद्रैः शातपत्रकैः
पूजयित्वा विधानेन पायसं च सशर्करम् ।
निवेद्य प्रजपेन्मन्त्रं कुष्टरोगात्प्रनुच्यते
विजने विजिताहारः षण्मासं विधिनामुना ।
क्षयरोगात्प्रमुच्येत सत्यं सत्यं न संशयः
अभिमन्त्र्य जलं प्रातर्मन्त्रेण त्रिः समाहितः ।
त्रिसंध्यं वा पिबेन्नित्यं मुच्यते सर्वरोगतः
दारिद्रयं च पराभूतं जायते धनदोपमः ।
विषादिदोषसंस्पर्शो न भवेत्तु कदाचन
मनुना मन्त्रितैस्तोयैः प्रत्येहं क्षालयेन्मुखम् ।
मुखनेत्रादिसंभूताञ्जयेद्द्व्रोगांश्च दारुणान्
पीत्वाभिमन्त्रितं त्वंभः कुक्षिरोगान् जयेद्ध्रुवम् ।
लक्ष्मणप्रतिमां कृत्वा दद्याद्भक्त्या विधानतः
स सर्वेभ्यो ऽथ रोगेभ्यो मुच्यते नात्र संशयः ।
कन्यार्थी विमलापाणिग्रहणासक्तमानसः
ध्यायन् लक्षं जपेन्मन्त्री अब्जैर्हुत्वा दशांशतः ।
ईप्सितां लभते कन्यां शीग्रमेव न संशयः
दीक्षितं जुंभणास्त्राणां मन्त्रेषु नियतव्रतम् ।
ध्यात्वा च विधिवन्नित्यं जपेन्मासत्रयं मनुम्
पूजापुरःसरं सप्तसहस्रं विजितेन्द्रियः ।
सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः
विश्वामित्रक्रतुवरे कृताद्भुतपराक्रमम् ।
ध्यायंल्लक्षं जपेन्मन्त्रं मुच्यते महतो भयात्
कृतनित्यक्रियः शुद्धस्त्रिकालं प्रजपेन्मनुम् ।
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
दीक्षितो विधिवन्मन्त्री गुणैर्विगतकल्मषः ।
स्वाचारनियतो दान्तो गृहस्थो विजितेन्द्रियः
ऐहिकाननपेक्ष्यैव निष्कामो योर्ऽचयेद्विभुम् ।
स सर्वान्पुण्यपापौधान्दग्ध्वा निर्मलमानसः
पुनरावृत्तिरहितः शाश्वतं पदमश्वतं पदमश्नुते ।
सकामो वाञ्छितान् लब्ध्वा भुक्त्वा भोगान् मनोगतान्
जातिरमरश्चिरं भूत्वा याति विष्णोः परं पदम् ।
निद्राचन्द्रान्विता पश्चाद्भरताय हृदन्तिमः
सप्ताक्षरो मनुश्चास्य मुन्याद्यर्चादि पूर्ववत् ।
बकः सेंदुश्च शत्रुध्नपरं ङेतं हृदन्तिमः
सप्ताक्षरो ऽयं शत्रुध्नमन्त्रः सर्वेष्टसिद्धिदः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0