भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.71

1.71.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सप्ततितमो ऽध्यायः
सनत्कुमार उवाच
शृणु नारद वक्ष्यामि दिव्यान्नरहरेर्मनून् ।
यान्समाराध्य ब्रह्माद्याश्चक्रुः सृष्ट्यादि कर्म वै

1.71.2

संवर्तकश्चन्द्रमौलिर्मनुर्वह्निविभूषितः ।
एकाक्षरः स्मृतो मन्त्रो भजतां सुरपादपः

1.71.3

मुनिरत्रिश्च जगतीं छन्दो बुद्धिमतां वर ।
देवता नृहरिः प्रोक्तो विनियोगो ऽखिलाप्तये

1.71.4

क्षं बीजं शक्तिरी प्रोक्ता षड्दीर्घेण षडङ्गकम् ।
अर्केन्दुवह्निनयनं शरदिन्दुरुचं करैः

1.71.5

धनुश्चक्राभयवलरान्दधतं नृहरिं स्मरेत् ।
लक्षं जपस्तद्दशांशहोमश्च घृतपायसैः

1.71.6

यजेत्पीठे वैष्णवे तु केसरेष्वङ्गपूजनम् ।
खगेशं शङ्करं शेषं शतानन्दं दिगालिषु

1.71.7

श्रियं ह्रियं धृतिं पुष्टिं कोणपत्रेषु पूजयेत् ।
दन्तच्छदेषु नृहरींस्तावतः पूजयेत्क्रमात्म

1.71.8

कृष्णो रुद्रो महाघोरो भीमो भीषण उज्ज्वलःऋ ।
करालो विकरालश्च दैत्यान्तो मधुसूदनः

1.71.9

रक्ताक्षः पिङ्गलाक्षश्चाञ्जनो दीप्तरुचिस्तथा ।
सुघोरकश्च सुहनुर्विश्वको राक्षसांतकः

1.71.10

विशालको धूम्रकेशो हयग्रीवो घनस्वनः ।
मेघवर्णः कुभघकर्णः कृतान्ततीव्रतेजसौ

1.71.11

अग्निवर्णो महोग्रश्च ततो विश्वविभूषणः ।
विघ्नक्षमो महासेनः सिंहा द्वात्रिंशदीरिताः

1.71.12

तद्ब्रहिः प्रार्चयेद्विद्वांल्लोकपालान्सहेतिकान् ।
एवं सिद्धे मनौ मन्त्री साधेयेदखिलेप्सितान्

1.71.13

विष्णः प्रद्युम्नयुक् शार्ङ्गी महांस्ततः ।
विष्णुं ज्वलन्तं भृग्वीशो जलं पद्मासनं ततः

1.71.14

हरिस्तु वासुदेवाय वैकुण्ठो विष्णुसंयुतः ।
गदी सेंदुनृसिंहं च भीषणं भद्वमेव च

1.71.15

मृत्युमृत्युं ततः शौरिर्भानोर्नारायणान्वितः ।
नृहरेर्द्वाविंशदर्णो ऽयं मन्त्रः साम्राज्यदायकः

1.71.16

ब्रह्मा मुनिस्तु गायत्री छन्दो ऽनुष्टुबुदाहृतम् ।
देवता नृहरिश्चास्य सर्वेष्टुफलदायकः

1.71.17

हं बीजं इं तथा शक्तिर्विनियोगो ऽखिलाप्तये ।
वेदैश्चतुर्भिर्वसुभिः षड्भिः षड्भिर्युगाक्षरैः

1.71.18

षडङ्गानि विधायाथ मूर्ध्नि भाले च नेत्रयोः ।
मुखबाह्वङ्घ्रिसंध्यग्रेष्वथ कुक्षौ तथा हृदि

1.71.19

गले पार्श्वद्वये पृष्टे ककुद्यर्णान्मनूद्भवान् ।
प्रणवान्तरितान् कृत्वा न्यसेत्साधकसत्तमः

1.71.20

नृसिंहसांनिध्यकरो न्यासो दशविधो यथा ।
कराङ्घ्षष्टाद्यङ्गुलीषु पृथगाद्यन्तपर्वणोः

1.71.21

सर्वाङ्गुलीषु विन्यस्यावशिष्टं तलयोर्न्यसेत् ।
शिरोललाटे भ्रुमध्ये नेत्रयोः कर्णयोस्तथा

1.71.22

कपोलकर्णमूले च चिबुकोर्द्धाधरोष्टके ।
कण्ठे घोणे च भुजयोर्द्दत्तनौ नाभिमण्डले

1.71.23

दक्षान्पदोस्तले कट्यां मेढ्रोर्वोजानुजघयचोः ।
गुल्फे पादकराङ्गुल्योः सर्वसन्धिषु रोमसु

1.71.24

रक्तास्थिमज्जासु तनौ न्यसेद्वर्णान्वि चक्षणः ।
वर्णान्पदे गुल्फजानुकटिनाभिहृदि स्थले

1.71.25

बाह्वोः कण्ठे च चिबुके चौष्टौ गण्डे प्रविन्यसेत् ।
कर्णयोर्वदने नासापुटे नेत्रे च मूर्द्धनि

1.71.26

पदानि तु मुखे मूर्ध्रि नसि चक्षुषि कर्णयोः ।
आस्ये च हृदय नाभौ पादान्सर्वाङ्गकेन्यसेत्

1.71.27

अर्द्धद्वयं न्यसेन्मूर्ध्नि आहृत्पादात्तदङ्गकम् ।
उग्रादीनि पदानी ह मृत्युमृत्युं नमाम्यहम्

1.71.28

इत्यन्तान्यास्यकघ्नाणचक्षुःश्रोत्रेषुपक्ष्मसु ।
हृदि नाभौ च कट्यादिपादान्तं नवसु न्यसेत्

1.71.29

वीराद्यानपि तान्येव यथापूर्वं प्रविन्यसेत् ।
नृसिंहाद्यानि तान्येव पूर्ववद्विन्यसेत्सुधीः

1.71.30

चन्द्राग्निवेदषड्रामनेत्रदिग्बाहुभूमितान् ।
विभक्ता पन्त्रवर्णांश्च क्रमात्स्थानेषु विन्यसेत्

1.71.31

मूले मूलाच्च नाभ्यन्तं नाभ्यादिहृदयावधि ।
हृदयाद्भ्रूयुगान्तं तु नेत्रत्रये च मस्तके

1.71.32

बाह्वोरङ्गुलिषु प्राणेमूर्द्धादि चरणावधि ।
विन्यसेन्नामतो धीमान्हरिन्यासो ऽयमीरितः

1.71.33

न्यासस्यास्य तु माहात्म्यं जानात्येको हरिः स्वयम् ।
एवं न्यासविधिं कृत्वा ध्यायेच्च नृहरिं हृदि

1.71.34

गलासक्तलसद्बाहुस्पृष्टकेशो ऽब्जचक्रधृक् ।
नखाग्रभिन्नदैत्येशो ज्वालामालासमन्वितः

1.71.35

दीप्तजिह्वस्त्रिनयनो दंष्ट्रोग्रं वदनं वहन् ।
नृसिंहो ऽस्मान्सदा पातुस्थलांबुगगनोपगः

1.71.36

ध्यात्वैवं दर्शयेन्मुद्रां नृसिंहस्य महात्मनः ।
जानुमध्यगतौ कृत्वा चिबुकोष्टौ समावुभौ

1.71.37

हस्तौ च भूमिसंलग्नौ कंपमानः पुनः पुनः ।
मुखं विजृंभितं कृत्वा लेलिहानां च जिह्विकाम्

1.71.38

एषा मुद्रा नारसिंही प्रधानेति प्रकीर्तिता ।
वामस्याङ्गुष्टतो बद्ध्वाकनिष्टामङ्गलीत्रयम्

1.71.39

त्रिशूलवत् संमुखोर्द्ध्वे कुर्यान्मुद्रां नृसिंहगाम् ।
अङ्गुष्टाभ्यां च करयोस्तथाऽक्रम्य कनिष्टके

1.71.40

अधोमुखाभिः शिष्टाभिः शेषाभिर्नृहरौ ततः ।
हस्तावधोमुखौ कृत्वा नाभिदेशे प्रसार्य च

1.71.41

तर्जंनीभ्यां नयेत्स्कन्धौ प्रोक्ता चान्त्रणमुद्रिका ।
हस्तावूर्द्ध्वमुखौ कृत्वा तले संयोज्य मध्यमे

1.71.42

अनामायां तु वामायां तुवामायां दक्षिणां तु विनिक्षिपेत् ।
तर्जन्यौ पृष्टतो लग्नौ अङ्गुष्टौ तर्जनीश्रितौ

1.71.43

चक्रमुद्राभवेदेषा नृहरेः संनिधौ मता ।
चक्रमुद्रा तथा कृत्वा तर्जनीभ्यां तु मध्यमे

1.71.44

पीडयेद्वंष्ट्रमुद्रैषा सर्वपापप्रणाशिनी ।
एता मुद्रा नृसिंहस्य सर्वमन्त्रेषु संमताः

1.71.45

वर्णलक्षं जपेन्मन्त्रं तद्दशांशं च पायसैः ।
घऋताक्तर्जुहुयाद्वह्नौ पीठे पूर्वोदितेर्ऽचयेत्

1.71.46

अङ्गान्यादौ समाराध्य दिक्पत्रेषु यजेत्पुनःऋ ।
गरडादीन् श्रीमुखांश्च विदिक्षु लोकपान्बहिः

1.71.47

एवं संसाधितो मन्त्रः सर्वान्कामान्प्रपूरयेत् ।
सौम्ये कार्ये स्मरेत्सौम्यं क्रूरं क्रूरे स्मरेद्बुधः

1.71.48

पूर्वमृत्युपदे शत्रोर्नाम कृत्वा स्वयं हरिः ।
निशितैर्नखदंष्ट्राग्रैः खाद्यमानं च संस्मरेत्

1.71.49

अष्टोत्तरशतं नित्यं जपेन्मन्त्रमतन्द्रितः ।
जायते मण्डलादर्वाक् शत्रुर्वै शमनातिथिः

1.71.50

ध्यानभेदानथो वक्ष्ये सर्वसिद्धिप्रदायकान् ।
श्रीकामः सततं ध्यायेत्पूर्वोक्तं नृहरिं सितम्

1.71.51

वामाङ्कस्थितया लक्ष्म्यालिङ्गतं पद्महस्तया ।
विषमृत्यूपरोगादिसर्वोपद्रवनाशनम्

1.71.52

नरसिंहं महाभीमं कालानल समप्रभम् ।
आन्त्रमालाधरं रौद्रं कण्ठहारेण भूषितम्

1.71.53

नागयज्ञोपवीतं च पञ्चाननसुशोभितम् ।
चन्द्रमौलिं नीलकण्ठं प्रतिवक्त्रं त्रिनेत्रकम्

1.71.54

भुजैः परिघसंकाशैर्द्दशभिश्चोपशोभितम् ।
अक्षसूत्रं गदापद्मं शङ्खं गोक्षीरसन्निभम्

1.71.55

धनुश्च मुशलं चैव बिभ्राणं चक्रसुत्तमम् ।
खड्गं शूलं च बाणं च नृहरिं रुद्ररूपिणम्

1.71.56

इन्द्रगोपाभनीलाभं चन्द्राभं स्वर्णसन्निभम् ।
पूर्वादि चोत्तरं यावदूद्ध्वार्स्यं सर्ववर्णकम्

1.71.57

एवं ध्यात्वा जपेन्मन्त्री सर्वव्याधिविमुक्तये ।
सर्वमृत्युहरं दिव्य स्मरणात्सर्वसिद्धिदम्

1.71.58

ध्यायेद्यदा महात्कर्म तदा षोडशहस्तवान् ।
नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः

1.71.59

द्वौ विदारणकर्माप्तौ द्वौ चान्त्रोद्धरणान्वितौ ।
शङ्खचचक्रधरौ द्वौ तु द्वौ च बाणघनुर्द्धरौ

1.71.60

खड्गखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ ।
पाशाङ्कुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ

1.71.61

इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम् ।
ध्यायेन्नारद नीलाभमुग्रकर्ममण्यनन्यधीः

1.71.62

ध्येयो महतमे कार्ये द्वात्रिंशद्धस्तवान्बुधैः ।
नृसिंहः सर्वभूतेशः सर्वसिद्धिकरः परः

1.71.63

दक्षिणे चक्रपद्मे च परशुंपाशमेव च ।
हलं च मुशलं चैव अभयं चाङ्कुशं तथा

1.71.64

पट्टिशं भिन्दिपालं च खड्गमुद्गरतोमरान् ।
वामभागे करैः शंङ्खं खेटं पाशं च शूलकम्

1.71.65

अग्निं च वरदं शक्तिं कुण्डिकां च ततः परम् ।
कार्मुकं तर्जनीमुद्रां गदां डमरुशूर्पकौ

1.71.66

द्वाभ्यां कराभ्यां च रिपोर्जानुमस्तकपीडनम् ।
ऊर्द्ध्वीकृताभ्यां बाहुभ्यां आन्त्रमालाधरं विभुम्

1.71.67

अधः स्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम् ।
प्रियङ्करं च भक्तानां दैत्यानां च भयङ्करम्

1.71.68

नृसिहं तं स्मरेदित्थं महामृत्युभयापहम् ।
एवं ध्यात्वा जपेन्मन्त्री सर्वकार्यार्थसिद्धये

1.71.69

अथोच्यते ध्यानमन्यन्मुखरोगहरं शुभम् ।
स्वर्णवर्णसुपर्णस्थं विद्युन्मालासटान्वितम्

1.71.70

कोटिपूर्णेन्दुवर्णं च सुमुखं त्र्यक्षिवीक्षणम् ।
पीतवस्त्रोरुभूषाढ्यं नृसिंहं शान्तविग्रहम् ।
चक्रशङ्खाभयवरान्दधतं करपल्लवैः

1.71.71

क्ष्वेडरोगादिशमनं स्वैर्ध्यानैः सुखन्दितम् ।
शत्रोः सेनानिरोधेन यत्नं कुर्याञ्च साधकम्

1.71.72

अक्षकाष्टैरेधिते ऽग्नौ विचिन्त्य रिपुमर्दनम् ।
देवं नृसिंहं संपूज्य कुसुमाद्युपचारकैः

1.71.73

समूलमूलैर्जुंहुयाच्चरैर्दशशतं पृथक् ।
रिपुं खादन्निव जपेन्निर्दहन्निव तं क्षिपेत्

1.71.74

हुत्वा सप्तदिनं मन्त्री सेनामिष्टां महीपतेः ।
प्रस्थापयेच्छुभे लग्ने परराष्ट्रजयेच्छया

1.71.75

तस्याः पुरस्तान्नृहरिं निघ्नन्तं रिपुमण्डलम् ।
स्मृत्वा जपं प्रक्लर्वीत यावदायाति सा पुनः

1.71.76

निर्जत्य निखिलाञ्छत्रून्सह वीरश्रियासुखात् ।
प्रीणयेन्मन्त्रिणं राजा विभवैः प्रीतमानसः

1.71.77

गजाश्वरथरत्नैश्च ग्रामक्षेत्रधनादिभिः ।
यदि मन्त्री न तुष्येत तदानर्थो महीपतेः

1.71.78

जायते तस्य राष्ट्रेषु प्राणेभ्यो ऽपि महाभयम् ।
अष्टोत्तरशतमूलमन्त्रमन्त्रितभस्मना

1.71.79

नाशयेन्मूषिकालूतावृश्चिकाद्युत्थितं विषम् ।
लिप्ताङ्गः सर्वरोगैश्च मुच्यते नात्र संशयः

1.71.80

सेवन्तीकुसुमैर्हुत्वा महतीं श्रियमाप्नुयात् ।
औदुम्बरसमिद्भिस्तु भवेद्धान्यसमृद्धिमान्

1.71.81

अपूपलक्षहोमे तु भवेद्वैश्रवणोपमः ।
क्रुद्धस्य सन्निधौ राज्ञो जपेदष्टोत्तरं शतम्

1.71.82

सद्यो नैर्मल्यमाप्नोति प्रसादं चाधिगच्छति ।
कुन्दप्रसूनैरुदयं मोचाभिर्विघ्ननाशनम्

1.71.83

तुलसीपत्रहोमेन महतीं कीर्तिमाप्नुयात् ।
शाल्युत्थसक्तुहोमेन वशयेदखिलं जगत्

1.71.84

मधूकपुष्पैरिष्टं स्यात्स्तंभनं धात्रिखण्डकैः ।
दधिमध्वाज्यमिश्रां तु गुडूचीं चतुरङ्गुलाम्

1.71.85

जुहुया दयुतं यो ऽसौ शतं जीवति रोगजित् ।
शनैश्चरदिने ऽश्वत्थं स्पृष्ट्वा चाष्टोत्तरं शतम्

1.71.86

जपेज्जित्वासो ऽपमृत्युं शतवर्षाणि जीवति ।
अथ ते संप्रवक्ष्यामि यन्त्रं त्रैलोक्यमोहनम्

1.71.87

यस्य संधारणादेव भवेयुःसर्वसंपदः ।
श्वेतभूर्ज्जे लिखेत्पद्मं द्वात्रिंशत्सिंहसंयुतम्

1.71.88

मध्ये सिंहे स्वबीजं च लिखेत्पूर्ववदेव तु ।
श्रीबीजेन तु तुसंवेद्य वलयत्रयसंयुतम्

1.71.89

पाशाङ्कुशैश्च संवेष्ट्य पूजयेद्यन्त्रमुत्तमम् ।
त्रैलोक्यमोहनं नाम सर्वकामार्थसाधनम्

1.71.90

चक्रराजं महाराजं सर्वचर्केश्वरेश्वरम् ।
धारणाज्जयमाप्नोति सत्यं सत्यं न संशयः

1.71.91

अथ यन्त्रान्तरं वक्ष्ये शृणु नारद सिद्धिदम् ।
अष्टारं विलिखेद्यन्त्रं श्लक्ष्णं कर्णिकया युतम्

1.71.92

मूलमन्त्रं लिखेत्तत्र प्रणवेन समन्वितम् ।
एकाक्षरं नारसिंहं मध्ये चैव ससाध्यकम्

1.71.93

जपेदष्टसहस्रं तु सूत्रेणावेष्ट्य तद्बहिः ।
स्वर्णरौप्यसुताम्रैश्च वेष्टयेत्क्रमतः सुधीः

1.71.94

लाक्षया वेष्टितं कृत्वा पुनर्मन्त्रेण मन्त्रयेत् ।
कण्ठे भुजे शिखायां वा धारयेद्यन्त्रमुत्तमम्

1.71.95

नरनारीनरेद्राश्च सर्वे स्युर्वशगा भुवि ।
दुष्टास्तं नैव बाधन्ते पिशाचोरगराक्षसाः

1.71.96

यन्त्रराजप्रसादेन सर्वत्र जयमाप्नुयात् ।
अथान्यत्संप्रवक्ष्यामि यन्त्रं सर्ववशङ्करम्

1.71.97

द्वादशारं महाचक्रं पूर्ववद्विलिखेत्सुधीः ।
मात्राद्वादशसंभिन्नदलेन विलिखेद्रुधः

1.71.98

मध्ये मन्त्रं शक्तियुक्तं श्रीबीजेन तु वेष्टयेत ।
कालान्तकं नाम चक्रं सुरासुखशङ्करम्

1.71.99

चक्रमुल्लेखयेद्भूर्जे सर्वशत्रुनिवारणम् ।
यस्य धारणमात्रेण सर्वत्र विजयी भवेत्

1.71.100

अथ सर्वेष्टदं ज्वालामालिसंज्ञं वदाम्यहम् ।
बीजं हृद्भगवान्ङेंतो नरसिंहाय तत्परम्

1.71.101

ज्वालिने मालिने दीप्तदंष्ट्राय अग्निने पदम् ।
त्राय सर्वादिरक्षोघ्नाय च नः सर्वभूपदम्

1.71.102

हरिर्विनाशनायान्ते सर्वज्वरविनाशनः ।
नामान्ते दहयुग्मं च पचद्वयमुदीरयेत्

1.71.103

रक्षयुग्मं च वर्मास्त्रठदूयान्तो ध्रुवादिकः ।
अष्टषष्ट्यक्षरैः प्रोक्तो ज्वालामाली मनूत्तमः

1.71.104

पुण्यादिकं तु पूर्वोक्तं त्रयोदशभिरक्षरैः ।
पङ्क्तिभी रुद्रासंख्याकैरष्टादशभिरक्षरैः

1.71.105

भानुभिः करणैर्मन्त्री वरैरङ्गानि कल्पयेत् ।
पूर्वोक्तरूपिणं ज्वालामालिन नृहरिं स्मरेत्

1.71.106

लक्षं जपो दशांशं च जुहुयात्कपिलाघृतैः ।
रौद्रापस्मारभूतादिनाशको ऽयं मनूत्तमः

1.71.107

प्राणो माया नृसिंहश्च सृष्टिर्ब्रह्मास्त्रमीरितः ।
षडक्षरो महामन्त्रः सर्वाभीष्टप्रदायकः

1.71.108

मुनिर्ब्रह्मा तथा छन्दः पङ्क्तिर्देवो नृकेसरी ।
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत्

1.71.109

पूर्वोक्तेनैव विधिना ध्यानं पूजां समाचरेत् ।
सिद्धेन मनुनानेन सर्वसिद्धिर्भवेन्नृणाम्

1.71.110

रमाबीजादिको ऽनुष्टुप्त्रयस्त्रिंशार्णवान्मनुः ।
प्रजापतिर्मुनिश्च्छन्दो ऽनुष्टुप् लक्ष्मीनृकेसरी

1.71.111

देवता चज पदैः सर्वेणाङ्गकल्पनमीरितम् ।
विन्यस्यैवं तु पञ्चाङ्गं स्वात्मरक्षां समाचरेत्

1.71.112

संस्पृशन् दक्षिणं बाहुं शरभस्य मनुं जपेत् ।
प्रणवो हृच्छिवार्यन्ति महते शरभाय च

1.71.113

वह्निप्रियान्तो मन्त्रस्तु रक्षार्थे समुदाहृतः ।
अथवा राममन्त्रान्ते परं क्षद्वितयं पठेत्

1.71.114

अथवा केशवाद्यैस्तु रक्षां कुर्यात्प्रयत्नतः ।
केशवः पातु पादौ मे जङ्घे नारायणो ऽवतु

1.71.115

माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ।
नाभिं विष्णुश्च मे पातु जठरं मधुसूदनः

1.71.116

ऊरू त्रिविक्रमः पातु हृदयं पातु मे नरः ।
श्रीधरः पातु कण्ठं च हृषीकेशो मुखं मम

1.71.117

पद्मनाभः स्तनौ पातु शीर्षं दामोदरो ऽवतु ।
एवं विन्यस्य चाङ्गेषु जपकाले तु साधकः

1.71.118

निर्भयो जायते भूतवेतालग्रहराक्षसात् ।
पुनर्न्यसेत्प्रयत्नेन ध्यानं कुर्वन्समाहितः

1.71.119

पुरस्तात्केशवः पातुः चक्री जांबूनदप्रभः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः

1.71.120

उर्द्ध्वमिन्दीवरश्यामो माधवस्तु गदाधरः ।
गिविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्

1.71.121

उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः ।
आग्नेय्यामरविन्दाक्षो मुसलीमधुसूदनः

1.71.122

त्रिविक्रमः खड्गपाणिर्नैरृत्यां ज्वलनप्रभः ।
वायव्यां माधवो वज्री तरुणादित्यसन्निभः

1.71.123

ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः ।
विद्युत्प्रभो हृषीकेश उर्द्धू पातु समुद्गरः

1.71.124

अधश्च पद्मनाभो मे सहस्रांशुसमप्रभेः ।
सर्वायुधः सर्वशक्तिः सर्वाद्यः सर्वतोमुखः

1.71.125

इन्द्रगोपप्रभः पायात्पाशहस्तो ऽपराजितः ।
स बाह्याभ्यन्तरे देहमव्याद्दामो दरो हरिः

1.71.126

एवं सर्वत्र निश्छिद्रं नाम द्वादशपञ्जरम् ।
प्रविष्टो ऽहं न मे किञ्चिद्भयमस्ति कदाचन

1.71.127

एवं रक्षां विधायाथ दुर्द्धर्षो जायते नरः ।
सर्वेषु नृहरेर्मन्त्रवर्गेष्वेवं विधिर्मतः

1.71.128

पूर्वोक्तविधिना सर्वं ध्यानपूजादिकं चरेत् ।
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन

1.71.129

नमस्ते ऽस्तु हृषीकेश महापुरुष ते नमः ।
इत्थं संप्रार्थ्य जप्त्वा च पटित्वा विसृजेद्विभुम्

1.71.130

एवं सिद्धे मनौ मन्त्री जायते सम्पदां पदम् ।
जयद्वयं श्रीनृसिंहेत्यष्टार्णो ऽयं मनूत्तमः

1.71.131

मुनिर्ब्रह्माथ गायत्री छन्दः प्रोक्तो ऽस्य देवता ।
श्रीमाञ्जयनृसिंहस्तु सर्वाभीष्टप्रदायकः

1.71.132

सेंदुगोर्विदपूर्वेण वियता सेन्दुना पुनः ।
षड्वीर्घाढ्ये न कुर्वीत षडङ्गानि विशालधीः

1.71.133

ततो ध्यायेद्धृदि विभुं नृसिंहं चन्द्रशेखरम्

1.71.134

श्रीमन्नृकेसरितनो जगदेकबंन्धो श्रीनीलकण्ठ करुणार्णवे सामराज ।
वह्नीन्दुतीव्रकरनेत्र पिनाकपाणे शीतांशुशेखर रमेश्वर पाहि विष्णो

1.71.135

ध्यात्वैवं प्रपेल्लक्षाष्टकं मन्त्री दशांशतः ।
साज्येन पायसान्नेन जुहुयात्प्राग्वदर्चनम्

1.71.136

तारो माया स्वबीजान्ते कर्णोग्रं वीरमीरयेत् ।
महाविष्णु ततो ब्रूयाज्ज्वलन्तं सर्वतोमुखम्

1.71.137

स्फुरद्द्वयं प्रस्फुरेति द्वयं घोरपदं ततः ।
वदेद्धोरतरं ते तु तनुरूपं च ठद्वयम्

1.71.138

प्रचटद्वयमाभाष्य कहयुग्म च मद्वयम् ।
बन्धद्वयं घातयेति द्वयं वर्मास्त्रमीरयेत्

1.71.139

नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।
पञ्चाशीत्यक्षरो मन्त्रो भजतामिष्टदायकः

1.71.140

ऋषी ह्यघोरब्रह्मणौ तथा त्रिष्टुबनुष्टुभौ ।
छन्दसी च तथा घोरनृसिंहो देवता मतः

1.71.141

ध्यानार्चनादिकं चास्य कुर्यादानुष्टुभं सुधीः ।
विशेषान्मन्त्रवर्यो ऽयं सर्वरक्षाकरो मतः

1.71.142

बीजं जययुगं पश्चान्नृसिंहेत्यष्टवर्णवान् ।
ऋषिः प्रजापतिश्चास्यानुष्टुप्छन्द उदाहृतम्

1.71.143

विदारणनृसिंहो ऽस्य देवता परिकीर्तितः ।
जं बीजं हं तथा शक्तिर्विनियोगो ऽखिलाप्तये

1.71.144

दीर्घाढ्येन नृसिंहेन षडङ्गन्यासमाचरेत् ।
रौद्रं ध्यायेन्नृसिंहं तु शत्रुवक्षो विदारणम्

1.71.145

नखदंष्ट्रायुधं भक्ताभयद श्रीनिकेतनम् ।
तप्तहाटककेशान्तज्वलप्तावकलोचनम्

1.71.146

वज्राधिकनखस्पर्श दिव्यसिंह नमो ऽस्तु ते ।.
मुनिर्ब्रह्मा समाख्यातो ऽनुष्टुप्छन्दः समीरितः

1.71.147

देवतास्य रगदार्णस्य दिव्यपूर्वो नृकेसरी ।
पादैश्चतुर्भिः सर्वेण पञ्चाङ्गानि समाचरेत्

1.71.148

ध्यानपूजादिकं सर्वं प्राग्वत्प्रोक्तं मुनीश्वर ।
पूर्वोक्तानि च सर्वाणि कार्याण्यायान्ति सिद्धताम्

1.71.149

तारो नमो भगवते नरसिंहाय हृञ्च ते ।
जस्तेजसे आविराविर्भव वज्रनखान्ततः

1.71.150

व्रजदंष्ट्रेति कर्मान्ते त्वासयाक्रन्दयद्वयम् ।
तमो ग्रसद्वयं पश्चात्स्वाहान्ते चाभयं ततः

1.71.151

आत्मन्यन्ते च भूयिष्टा ध्रुवो बीजान्तिमो मनुः ।
द्विषष्ट्यर्मो ऽस्य मुन्यादि सर्वं पूर्ववदीरितम्

1.71.152

तारो नृसिंहबीजं च नमो भगवते ततः ।
नरसिंहाय तारश्च बीजमस्य यदा ततः

1.71.153

रूपाय तारः स्वर्बीजं कूर्मरूपाय तारकम् ।
बीजं वराहरूपाय तारो बीज नृसिंहतः

1.71.154

रूपाय तार स्वं बीजं वामनान्ते च रूपतः ।
पापध्रुवत्रयं बीजं रामाय निगमादितः

1.71.155

बीजं कृष्णाय तारान्ते बीजं च कल्किने ततः ।
जयद्वयं ततः शालग्रामान्ते च निवासिने

1.71.156

दिव्यसिंहाय ङेन्तः स्यात्स्वयंभूः पुरुषाय हृत् ।
तारः स्वं बीजमित्येष महासाम्राज्यदायकः

1.71.157

नृसिंहमन्त्रः खाङ्कार्णो मुनिरत्रिः प्रकीर्तितः ।
छन्दो ऽतिजगती प्रोक्तं देवता कथिता मनोः

1.71.158

दशावतारो नृहरिं बीजं खं शक्तिरव्ययः ।
षडूदीर्घाढ्येन बीजेन कृत्वाङ्गानि च भावयेत्

1.71.159

अनेकचन्द्रप्रतिमो लक्ष्मीमुखकृतेक्षणः ।
दशावतारैः सहितस्तनोतु नृहरिः सुखम्

1.71.160

जपो ऽयुतं दशांशेन होमः स्यात्पायसेन तु ।
प्रागुक्ते पूजयेत्पीठे मूर्तिसंकल्प्य मूलतः

1.71.161

अङ्गान्यादौ च मत्स्याद्यान्दिग्दलेषु ततोर्ऽचयेत् ।
इन्द्राद्यानपि वज्राद्यान्सम्पूज्येष्टमवाप्नुयात्

1.71.162

सहस्रार्णं महामन्त्रं वक्ष्ये तन्त्रेषु गोपितम् ।
तारो माया रमा कामो बीजं क्रोधपदं ततः

1.71.163

मूर्ते नृसिंह शब्दान्ते महापुरुष ईरयेत् ।
प्रधानधर्माधर्मान्ते निगडेतिपदं वदेत्

1.71.164

निर्मोचनान्ते कालेति तततः पुरुष ईरयेत् ।
कालान्तकसदृक्तोयं स्वेश्वरान्ते सदृग्जलम्

1.71.165

श्रान्तान्ते तु निविष्टेति चैतन्यचित्सदा ततः ।
भासकान्ते तु कालाद्यतीतनित्योदितेति च

1.71.166

उदयास्तमयाक्रान्तमहाकारुणिकेति च ।
हृदयाब्जचतुश्चोक्ता दलान्ते तु निविष्टितः

1.71.167

चैतन्यात्मंश्चतुरामन्द्वादशात्मंस्ततः परम् ।
चतुर्विंशात्मन्नन्ते तु पञ्चविंशात्मन्नित्यपि

1.71.168

बको हरिः सहस्रान्ते मूर्ते एह्येहि शब्दतः ।
भगवन्नृसिंहपुरुष क्रोधेश्वर रसा सह

1.71.169

स्रवन्दितान्ते पादेति कल्पान्ताग्निसहस्र च ।
कोट्याभान्ते महादेव निकायदशशब्दतः

1.71.170

शतयज्ञातलं ज्ञेयं ततश्चामलयुग्मकम् ।
पिङ्गलेक्षणसटादष्ट्रा दंष्ट्रायुध नखायुध

1.71.171

दानवेन्द्रान्तकावह्निणशोणितपदं ततः ।
सं सक्तिविग्रहान्ते तु भूतापस्मारयातुधान्

1.71.172

सुरासुरवन्द्यमानपादपङ्कजशब्दतः ।
भगवन्व्योमचक्रेश्वरान्ते तु प्रभवाप्यय

1.71.173

रूपेणोत्तिष्ट चोत्तिष्ट अविद्यानिचयं दह ।
दह ज्ञानैश्वर्यमन्ते प्रकाशययुगं ततः

1.71.174

ओं सर्वज्ञ अरोषान्ते जंभाजृंभ्यवतारकम् ।
सत्यपुरुष शब्दान्ते सदसन्मध्य ईरयेत्

1.71.175

निविष्टं मम दुःस्वप्नभयं निगडशब्दतः ।
भयं कान्तारशब्दान्ते भयं विषपदात्ततः

1.71.176

ज्वरान्ते डाकिनी कृत्याध्वरेवतीभयं ततः ।
अशन्यन्ते भयं दुर्भिक्षभयं मारीशब्दतः

1.71.177

भयं मारीचशब्दान्ते भयं छायापदं ततः ।
स्कन्दापस्मारशब्दान्ते भयं चौरभयं ततः

1.71.178

जलस्वप्नाग्निभयं गजसिंहभुजङ्गगतः ।
भयं जन्मजरान्ते मरणादिशब्दमीरयेत्

1.71.179

भयं निर्मोचययुगं प्रशमययुगं ततः ।
ज्ञेयरूपधारणान्ते नृसिंहबृहत्सामतः

1.71.180

पुरुषान्ते सर्वभयनिवारणपदं ततः ।
अष्टाष्टकं चतुःषष्टि चेटिकाभयमीरयेत्

1.71.181

विद्यावृतस्त्रयस्त्रिंशद्देवताकोटिशब्दतः ।
नमितान्ते पदपदात्पङ्कजान्वित ईरयेत्

1.71.182

सह स्रवदनान्ते तु सहस्रोदर संवदेत् ।
सहस्रेक्षणशब्दान्ते सहस्रपादमीरयेत्

1.71.183

सहस्रभुज संप्रोच्य सहस्रजिह्व संवदेत् ।
सहस्तान्ते ललाटेति सहस्रायुधतो धरात्

1.71.184

तमःप्रकाशक पुरमथनान्ते तु सर्व च ।
मन्त्रेराजेश्वरपदाद्विहायसगतिप्रद

1.71.185

पातालगतिप्रदान्ते यन्त्रमर्द्दन ईरयेत् ।
घोराट्टहासहसितविश्वावासपदं ततः

1.71.186

वासुदेव ततो ऽक्रूर ततो हयमुखेति च ।
परमहंस विश्वेश विश्वान्ते तु विडंबन

1.71.187

निविष्टान्ते ततःप्रदुर्भावकारक ईरयेत् ।
हृषीकेश च स्वच्छन्द निःशेषजीव विन्यसेत्

1.71.188

ग्रासकान्ते महा पश्चात्पिशितासृगितीरयेत् ।
लंपटान्ते खेचरीति सिद्ध्यतें तु प्रदायक

1.71.189

अजेयाव्यय अव्यक्त ब्रह्माण्डोदर इत्यपि ।
ततो ब्रह्मसहस्रान्ते कोटिस्रग्रुण्डशब्दतः

1.71.190

माल पण्डितमुण्डेति मत्स्य कूर्मं ततः परम् ।
वराहान्ते नृसिंहेति वामनान्ते समीरयेत्

1.71.191

त्रैलोक्याक्रमणान्ते तु पादशालिक ईरयेत् ।
रामत्रय ततो विष्णुरूपान्ते धर एव च

1.71.192

तत्त्वत्रयान्ते प्रणवाधारतस्तच्छिखां पदम् ।
निविष्टवह्निजायान्ते स्वधा चैव ततो वषट्

1.71.193

नेत्र वर्मास्त्रमुञ्चार्य्य प्राणाधार इतरियेत् ।
आदिदेवपदात्प्राणापानपश्चान्निविष्टितः

1.71.194

पाञ्चरात्रिक दितिज विनिधनान्ते करेति च ।
महामाया अमोघान्ते दर्यं दैत्यन्द्रशब्दतः

1.71.195

दर्यान्ते दलनेत्युक्ता तेजोराशिन् ध्रुवं स्मरः ।
तेजस्वरान्ते पुरुषपंङेंते सत्यपूरुष

1.71.196

अस्त्रतारो ऽच्युतास्त्रं च तारो वाचा सुदेव फट् ।
तारमायामूर्तेः फट् वः कामः स्वरादिमः

1.71.197

मूर्तेस्त्रमव्ययोबीजं विश्वमूर्तेस्त्रिमव्ययः ।
मायाविश्वात्मने षट् च तारः सौचं तुरात्मने

1.71.198

फट् तारोहं विश्वरूपिन्नस्त्रं च तदनन्तरम् ।
तारौह्नैपरमान्ते तु ह्रंसफट्प्रणवस्ततः

1.71.199

ह्रः हिरणअयगर्भरूप धारणान्ते च फट् ध्रुवः ।
ह्रैं अनौपम्यरूपधारिणास्त्रं ध्रुवस्ततः

1.71.200

क्षैं नृसिंहरूपधारिन् ओं क्लं श्लश्च स्वरादिकः ।
ष्टाङ्गविन्यासविन्य स्तमूर्तिधारिंस्ततश्च फट्

1.71.201

ह्रौ निसर्गसिद्ध्यैकरूपधारिंस्ततश्च फट् ।
तारो वर्मत्रयं संकरं वं चामुकमस्तकम्

1.71.202

खण्डद्वयं खाद येतिद्वयं क्लीं साध्यमानय ।
द्वयं ततो महात्मन्स्यान्सम्यग्दर्शययुग्मकम्

1.71.203

षड्दीर्घाड्यां स्वबीजं च क्षपितान्ते तु कल्मष ।
उत्तरायं द्वयं पञ्चबाणबीजानि वोञ्चरेत्

1.71.204

नृसिंहान्ते ततो ज्वालात्मने स्वाहा समीरयेत् ।
नृसिंहान्ते ततः कालात्मने स्वाहा ध्रुवस्ततः

1.71.205

खबीजं कामबीजं च लक्ष्मीबीजद्वयं ततः ।
मायातारान्तिमो मन्त्रः सहस्राक्षरसंमितः

1.71.206

कपिलो ऽस्य मुनिश्छन्दो जगती देवता पुनः ।
श्रीलक्ष्मीर्नृहरिर्बीजं क्षैं शक्तिर्वह्निवल्लभा

1.71.207

श्वेतो वर्ण उदात्तश्च स्वरः प्रोक्तो मनीषिभिः ।
क्षेत्रं च परमात्मा तु विनियोगो ऽखिलात्पये

1.71.208

क्षः सहस्रबाहवेन्ते सहस्रायुधधराय च ।
नृसिंहान्तं वह्निजायास्त्रायफटू मन्त्र ईरितः

1.71.209

अनेन करशुद्धिं च कृत्वाङ्गानि समाचरेत् ।
तारः क्षां च सहस्रान्ते क्षरशब्दाद्विजृंभितम्

1.71.210

नृसिंहायाग्निजायान्तो हृदये मनुरीरितः ।
मारः क्षीं च महातेनुं प्रभान्ते विकरेति च

1.71.211

नृसिंहायाग्निजायान्ते शिरोमन्त्रः प्रकीर्तितः ।
तारः क्षूं तप्तयंहायश्चादृक्केशान्त ईरयेत्

1.71.212

ज्वलत्यावकलो मूर्मो दीर्घा वज्राधिकेति च ।
नख स्पर्शाद्दिव्यसिंह नमो ऽस्तु भगवन् हरिः

1.71.213

महाध्वस्त जगद्रूप नृसिंहाय द्वयन्द्वयम् ।
अनेन च शिखा प्रोक्ता कवचं तदनन्तरम्

1.71.214

तारः क्षैं च सुवर्णं ते मदमत्तपदं ततः ।
विह्वलितनृसिंहाय स्वाहान्तं कवचं स्मृतम्

1.71.215

तारः र्क्षौ च सहस्राक्ष विश्वस्राक्ष विश्वरूपपदं वदेत् ।
धारणेग्नि प्रियान्तो ऽयं नेत्रमन्त्रः प्रकीर्तितः

1.71.216

तारो क्षश्च सहस्रान्ते वारावेपदमीरयेत् ।
सहस्रान्ते युधायाथं नृसिंहायाग्निसुंदरी

1.71.217

अस्त्रमन्त्रः समाख्यातस्ततो ध्यायेन्नृकेसरी ।
उद्यदर्कसहस्राभं त्रीक्षणं भीसभूषणम्

1.71.218

सुतीक्ष्णाग्रभुजो दण्डैर्दैत्यदारणकं स्मरेत् ।
एवं ध्यात्वा जपेन्मन्त्री सहस्रं पायेन चग

1.71.219

आज्यप्लुतेन जुहुयात्सम्यक्सिद्धो भवेन्मनुः ।
प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः

1.71.220

संपूज्य नृहरिं पश्चादादावङ्गानि पूजयेत् ।
चक्र शङ्खं च पाशं वाङ्कुशं कुलिशमेव च

1.71.221

गदाकृपाणिक्ष्वेडानि दलेषु परिपूजयेत् ।
लोकेशानपि वज्राद्यान्पूजयेत्तदनन्तरम्

1.71.222

एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ।
भस्माभिमन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत्

1.71.223

भस्मसंलेपनादेव सर्वग्रहविनाशनम् ।
अनेनैव विधानेन यक्षराक्षसकिन्नरः

1.71.224

भूतप्रेतपिशाचाश्च नश्यन्त्येव न संशयः ।
पराभिचारकृत्यानि मनुनानेन मन्त्रितम्

1.71.225

भस्म संलेपयेत्सद्यो दुराधर्षो भवेन्नरः ।
सुदिने स्थापयेत्कुम्भे सर्वतोभद्रमण्डले

1.71.226

तीर्थतोयेन संपूर्य जपेदष्टोत्तरं शतम् ।
तेनाभिषिक्तो मनुजः सर्वापत्तिं तरेद् ध्रुवम्

1.71.227

किं बहूक्तेन सर्वेष्टदायको ऽयं मनूत्तमः ।
वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि ।
तन्नो नृसिंहः शब्दान्ते वदेंश्चैव प्रचोदयात्

1.71.228

एषा नृसिंहगायत्री सर्वाभीष्टप्रदायिनी ।
एतस्याः स्मरणादेव सर्वपापक्षयो भवेत्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc