भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.72

1.72.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नृसिंहोपासनामन्त्रगायत्र्यादिनिरूपणं नामैकसप्ततितमो ऽध्यायः
सनत्कुमार उवाच
प्रणवो हृदयं विष्णुर्नेन्तः सुरपतिस्तथा ।
महाबलाय स्वाहान्तो मन्त्रो वसुधराक्षरः

1.72.2

मुनिरिन्दुर्विराट् छन्दो देवता दधिवामनः ।
तारो बीजं तथा शक्तिर्वह्निजाया प्रकीर्तिता

1.72.3

चन्द्राक्षिरामबाणेंषु नेत्रसंख्यैर्मनूद्भवैः ।
वर्णैः षडङ्गं कृत्वा च मूर्ध्नि भाले च नेत्रयोः

1.72.4

कर्णयोर्घ्राणयोरोष्टतालुकण्ठभुजेषु च ।
पृष्टे हृद्युदरे नाभौ गुह्ये चोरुस्थले पुनः

1.72.5

जानुद्वयं जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ।
अष्टादशैव मन्त्रोत्थास्ततो देवं विचिन्तयेत्

1.72.6

मुक्तागौरं रत्नभूषं चन्द्रस्थं भृङ्गसन्निभैः ।
अलकैर्विलसद्वक्त्रं कुम्भं शुद्धांबुपूरितम्

1.72.7

दध्यन्नपूर्णचषकं दोर्भ्यां संदधनं भजेत् ।
लक्षत्रयं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः

1.72.8

पायसान्नैः प्रजुहुयाद्दध्यन्नेन यथाविधि ।
चन्द्रान्ते कल्पिते पीठे पूर्वोक्तें पूजयेञ्च तम्

1.72.9

संकल्पमूर्तिमूलेन संपूज्य च विधानतः ।
केसरेषु षडङ्गानि संपूज्य दिग्दलेषु च

1.72.10

वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम् ।
कोणपत्रेषु शान्तिं च श्रियं सरस्वतीं रतिम्

1.72.11

ध्वजं च वैनतेयं च कौस्तुभं वनमालिकम् ।
शङ्खं चक्रं गदां शार्ङ्गं दलेष्वष्टसु पूजयेत्

1.72.12

दलाग्रेषु केशवादीन्दिक्पालांस्तदनन्तरम् ।
तदस्त्राणि च सम्पूज्य गजानष्टौ समर्चयेत्

1.72.13

ऐरावतः पुण्डरीको वामनः कुमुदाएंऽजनः ।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः

1.72.14

करिण्यो ऽभ्रमुकपिलोपिङ्गलानुपमाः क्रमात् ।
ताम्रकर्णी शुभ्रदन्ती चाङ्गना ह्यञ्जना वती

1.72.15

एवमाराधितो मन्त्री दद्यादिष्टानि मन्त्रिणे ।
श्रीकामः पायसाज्येन सहस्रं जुहुयात्सुधीः

1.72.16

महतीं श्रियमाप्नोति धान्याप्तिर्धान्य होमतः ।
शतपुष्पासमुत्थैश्च बीजैर्हुत्वा सहस्रतः

1.72.17

महाभयं नाशयेद्धि नात्र कार्या विचारणा ।
दद्ध्योदनेन शुद्धेन हुत्वा मुच्यते दुर्गतेः

1.72.18

ध्यात्वा त्रैविक्रमं रूपं जपेन्मन्त्रं समाहितः ।
कारागृहाद्भवन्मुक्तो बद्धो मन्त्रप्रभावतः

1.72.19

भित्तौ संपाद्य देवेशं फलके वा प्रपूजयेत् ।
नित्यं सुगन्धकुसुमैर्महतीं श्रियमाप्नुयात्

1.72.20

हुत्वा रक्तोत्पलैर्मन्त्री वशयेत्सकलं जगत् ।
अन्नाज्यैर्जुहुयान्नित्यमष्टाविंशतिसंख्यया

1.72.21

सिताज्यान्नं च विधिवत्प्राप्नुयादन्नमक्षयम् ।
अपूपैः षड्रसोपेतैर्हुनेद्वसुसहस्रकम्

1.72.22

अलक्ष्मीं च पराभूय महतीं श्रियमाप्नुयात् ।
जुहुयादयुतं मन्त्री दध्यन्नं च सितान्वितम्

1.72.23

यत्र यत्र वसेत्सो ऽपि तत्रान्नगिरिमाप्नुयात् ।
पद्माक्षरैर्युतं बिल्वान्तिकस्थो जुहुयान्नरः

1.72.24

महालक्ष्मीं स लभते तत्र तत्र न संशयः ।
जुहुयात्पायसैर्लक्षं वाचस्पतिसमो भवेत्

1.72.25

लक्षं जप्त्वा तद्दशांशं पुत्रजीवफलैर्हुनेत् ।
तत्काष्टैरेधिते वह्नौ श्रेष्ठं पुत्रमवाप्नुयात्

1.72.26

ससाध्यतारं विलसत्कर्णिकं च सुवर्णकैः ।
विलसत्केसरं मन्त्राक्षरद्वन्द्वाष्टपत्रकम्

1.72.27

शेषयुग्मार्णान्त्यपत्रं द्वादशाक्षरवेष्टितम् ।
तद्बहिर्मातृकावर्णैर्यन्त्रं सम्पत्प्रदं नृणाम्

1.72.28

रक्तं त्रिविक्रमं ध्यात्वा प्रसूनै रक्तवर्णकैः ।
जुहुयादयुतं मन्त्री सर्वत्र विजयी भवेत्

1.72.29

ध्यायेञ्चन्द्रासनगतं पद्मानामयुतं हुनेत् ।
लभेदकण्टकं राज्यं सर्वलक्षणसंयुतम्

1.72.30

हुत्वा लवङ्गैर्मध्वाक्तैरपामार्गदलैस्तु वा ।
अयुतं साध्यनामाढ्यं स वश्यो जायते ध्रुवम्

1.72.31

अष्टोत्तरशतं हुत्वा ह्यपामार्गदलैः शुभैः ।
तावज्जप्त्वा च सप्ताहान्महारोगात्प्रमुच्यते

1.72.32

उहिरत्पदमाभाष्य प्रणवोहीय शब्दतः ।
सर्ववार्गीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ

1.72.33

सर्ववेदमयाचिन्त्यपदान्ते सर्वमीरयेत् ।
बोधयद्वितवान्तो ऽयं मन्त्रस्तारादिरीरितः

1.72.34

ऋषिर्ब्रह्मास्य निर्दिष्टश्छन्दो ऽनुष्टुबुदाहृतम् ।
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः

1.72.35

तारेण पादैर्मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् ।
तुषाराद्रिसमच्छायं तुलसीदामभूषितम्

1.72.36

तुरङ्गवदनं वन्दे तुङ्गसारस्वतः पदम् ।
ध्यात्वैवं प्रजपेन्मन्त्रमयुतं तद्दशांशतः

1.72.37

मध्वक्तैः पायसैर्हुत्वा विमलादिसमन्विते ।
पूजयेद्वेष्णवे पीठे मूर्तिं संकल्प्य मूलतः

1.72.38

कर्णिकायां चतुर्दिक्षु यजेत्पूर्वादितः क्रमात् ।
सनन्दनं च सनकं श्रियं च पृथिवीं तथा

1.72.39

तद्वहिर्दिक्षु वेदाश्च षट्कोणेषु ततोर्ऽचयेत् ।
निरुक्तं ज्योतिषं पश्चाद्यजेद्व्याकरणं ततः

1.72.40

कल्पं शिक्षां च छन्दांसि वेदाङ्गानि त्विमानि वै ।
ततो ऽष्टदलमूले तु मातरो ऽष्टौ समर्चयेत्

1.72.41

वक्रतुण्डादिकानष्टो दलमध्ये प्रपूजयेत् ।
दलाग्रेष्यर्चयेत्पश्चात्साधकश्चाष्टभैरवान्

1.72.42

असिताङ्गं रुरुं चैव भीषणं रक्तकनेत्रकम् ।
बटुकं कालदमनं दन्तुरं विकटं तथा

1.72.43

तद्बहिः षोडशदलेष्ववतारान्हरेर्दश ।
शङ्खं चक्रं गदां पद्मं नन्दकं शार्ङ्गमेव च

1.72.44

तद्बहिर्भूगृहे शक्रमुखान्दश दिगीश्वरान् ।
वज्राद्यांस्तद्बहिश्चेष्ट्वाद्वारेषु च ततः क्रमात्

1.72.45

महागणपतिं दुर्गां क्षेत्रेशं बटुकं तथा ।
समस्तप्रकटाद्याश्च योगिन्यस्तद्बहिर्भवेत्

1.72.46

तद्बहिः सप्त नद्यश्च तद्बाह्ये तु ग्रहान्नव ।
तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्बहिः

1.72.47

एवं पञ्चदशावृत्त्या संपूज्य तुरगाननम् ।
वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत्

1.72.48

एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ।
अष्टोत्तरसहस्रं तु शुद्धं वार्यभिमन्त्रितम्

1.72.49

बीजेन मासमात्रं यः पिबेद्धीमान् जितन्द्रियः ।
जन्ममूको ऽपि स नरो वाक्सिद्धिं लभते ध्रुवम्

1.72.50

वियद्भुगुस्थमर्धीराबिन्दुमद्बीजमीरितम् ।
चन्द्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत्

1.72.51

दुग्धं वचां ततो मन्त्री कण्ठमात्रोदके स्थितः ।
स्पर्शाद्विमोक्षपर्यन्तं प्रजपेन्मन्त्रमादरात्

1.72.52

पिबेत्तत्सर्वमचिरात्तस्य सारस्वतं भवेत् ।
ज्योतिष्मतीलताबीजं दिनेष्वेकैकवर्द्धितम्

1.72.53

अष्टोत्तरशतं यावद्भक्षयेदभिमन्त्रितम् ।
सरस्वत्यवतारो ऽसौ सत्यं स्याद्भुवि मानवः

1.72.54

किर्ं बहूक्तेन विप्रेन्द्र मनोरस्य प्रसादतः ।
सर्ववेदागमादीनां व्याख्याता ज्ञानवान् भवेत्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc