भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.70

1.70.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मन्त्रविधाननिरूपणं नामैकोनसप्ततितमो ऽध्यायः
सनत्कुमार उवाच
अथ वक्ष्ये महाविष्णोर्मन्त्रान्लोकेषु दुर्लभान् ।
यान्प्राप्य मानवास्तूर्णं प्राप्नुवन्ति निजेप्सितम्

1.70.2

येषामुञ्चारणेनेव पापसंघः प्रलीयते ।
ब्रह्मादयो ऽपि याञ्ज्ञात्वा समर्थाः स्युर्जगत्कृतौ

1.70.3

तारहृत्पूर्वकं ङेंतं नारायणपदं भवेत् ।
अष्टाक्षरो मनुश्चास्य साध्यो नारायणो मुनिः

1.70.4

छन्दः प्रोक्तं च गायत्री देवता विष्णुख्ययः ।
ओं बीजं यं च तथा शक्तिर्विनियोगो ऽखिलाप्तये

1.70.5

क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् ।
वीरोल्काय शिखा प्रोक्ता द्युल्काय कवचं मतम्

1.70.6

महोल्कायेति चास्रं स्यादित्थं पञ्चाङ्गकल्पना ।
पुनः षडङ्गमन्त्रोत्थैः षड्वर्णैश्च समाचरेत्

1.70.7

अवशिष्टौ न्यसेत्कुक्षिपृष्टयोर्मन्त्रवर्णकौ ।
सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः

1.70.8

तारो नमश्चतुर्थ्यन्तं सुदर्शनपदं वदेत् ।
अस्त्रायफडिति प्रोक्तो मन्त्रो द्वादशवर्णवान्

1.70.9

दशावृत्तिमय न्यासं वक्ष्ये विभूतिपञ्चरम् ।
मूलार्णान्स्वतनौ न्यस्येदाधारे हृदये मुखे

1.70.10

दोःपन्मूलेषु नासायां प्रथमावृत्तिरीरिता ।
गले नाभौ हृदि कुचपार्श्वपृष्टेषु तत्पराः

1.70.11

मूर्द्धास्यनेत्रश्रवणघ्राणेषु च तृतीयकाः ।
दोःपादसंध्यङ्गुलिषु वेदावृत्त्या च विन्यसेत्

1.70.12

धातुप्राणेषु हृदये विन्यसेत्तदनन्तरम् ।
शिरोनेत्रा स्यहृत्कुक्षिसोरुजङ्घापदद्वये

1.70.13

एकैकशो न्यसेद्वर्णान्मन्त्रस्य क्रमतः सुधीः ।
न्यसेद्धृदंसोरुपदेष्वर्णान्वेदमितान्मनोः

1.70.14

चक्रशं खगदांभोजपदेषु स्वस्वमुद्रया ।
शेषांश्च न्यासवर्यो ऽयं विभूतिपञ्जराभिधः

1.70.15

न्यसेन्मूलार्णमेकैकं सचन्द्रं तारसम्पुटम् ।
अथवा वै नमोन्तेन न्यसेदित्यपरे जगुः

1.70.16

तत्त्वन्यासं ततः कुर्याद्धिष्णुभावप्रसिद्धये ।
अष्टार्णो ऽष्टप्रकृत्यात्मा गदितः पूर्वसूरिभिः

1.70.17

पृथिव्यादीनि भूतानि ततो ऽहॄङ्कारमेव च ।
महांश्च प्रकृतिश्चैवेत्यष्टौ प्रकृतयो मताः

1.70.18

पादे लिङ्गे हृदि मुखे मूर्ध्नि वक्षसि हृत्स्थले ।
सर्वाङ्गे व्यापकं कुर्यादेकेन साधकोत्तमः

1.70.19

मन्त्रार्णहृत्परायाद्यमात्मने हृदयान्तिमम् ।
तत्तन्नाम समुञ्चार्य्य न्यसेत्तत्तत्स्थले बुधः

1.70.20

अयं तत्त्वाभिधो न्यासः सर्वन्यासोत्तमोत्तमः ।
मूर्तीन्यंसेद्द्वादश वै द्वादशादित्यसंयुताः

1.70.21

द्वादशाक्षरवर्णाद्या द्वादशादित्यसंयुताः ।
अष्टार्णो ऽयं मनुश्चाष्टप्रकृत्यात्मा समीरितः

1.70.22

तासामात्मचतुष्कस्य योगादर्काक्षरो भवेत् ।
ललाटकुक्षिहृत्कण्ठदक्षपार्श्वांसकेषु च

1.70.23

गले च वामपार्श्वां सगलपृष्टेष्वनन्तरम् ।
ककुद्यपि न्यसेन्मन्त्री मूर्तीर्द्वादश वै क्रमात्

1.70.24

धात्रा तु केशवं न्यस्यार्यम्ण नारायणं पुनः ।
मित्रेण माधवं न्यस्य गोविन्दं वरुणेन च

1.70.25

विष्णुं चैवांशुना युक्तं भगेन मधुसूदनम् ।
न्यसेद्विवस्वता युक्तं त्रिविक्रममतः परम्

1.70.26

वामनं च तथाद्रण पूष्णा श्रीधरमेव च ।
हृषीकेशं न्यसेत्पश्चात्पर्जन्येन समन्वितम्

1.70.27

त्वष्ट्रा युतं पद्मनाभं दामोदरं च विष्णुना ।
द्वादसार्णं ततो मन्त्रं समस्ते शिरसि न्यसेत्

1.70.28

व्यापकं विन्यसेत्पश्चात्किरीटमनुना सुधीः ।
ध्रुवःकिरीटकेयूरहारान्ते मकरेतिच

1.70.29

कुण्डलान्ते चक्रशङ्खगदान्तेंऽभोजहस्ततः ।
पीतांबरान्ते श्रीवत्सां कितवक्षः स्थलेति च

1.70.30

श्रीभूमिसहितस्वात्मज्योतिर्द्वयमतः परम् ।
वदेद्दीप्तिकरायान्ति सहस्रादित्यतेजसे

1.70.31

नमोन्तो बाणषङ्वर्णैः किरीटमनुरीरितः ।
एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम्

1.70.32

उद्यत्कोट्यर्कसदृशं शङ्खं चक्रं गदांबुजम् ।
दधतं च करैर्भूमिश्रीभ्यां पार्श्वद्वयाञ्चितम्

1.70.33

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।
हारकेयूरवलयाङ्गदं पीतांबरं स्मरेत्

1.70.34

वर्णलक्षं जपेन्मन्त्रं विधिवन्नियतेन्द्रियः ।
प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद् ध्रुवम्

1.70.35

लक्षद्वयजपेनाथ मन्त्रशुद्धिमवाप्नुयात् ।
लक्षत्रयेण जप्तेन स्वर्लोकमधिगच्छति

1.70.36

विष्णोः समीपमाप्नोति वेदलक्षजपान्नरः ।
तथा च निर्मलं ज्ञानं पञ्चलक्षजपाद्भवेत्

1.70.37

लक्षषष्टेन चाप्नोति मन्त्री विष्णौ1स्थिरा मतिम् ।
सप्तलक्षजपान्मन्त्री विष्णोः सारूप्यमाप्नुयात्

1.70.38

अष्टलक्षं जपेन्मन्त्री निर्वाणमधिगच्छति ।
एवं जप्त्वा ततः प्राज्ञो दशांशं सरसीरुहैः

1.70.39

मधुराक्तैः प्रजुहुयात्संस्कृते हव्यवाहने ।
मण्डूकात्परतत्वान्तं पीठे संपूज्य यत्नतः

1.70.40

विमलोत्कर्षिणी ज्ञाना क्रिया योगा ततः परा ।
प्रह्वी सत्या तथेशाननुग्रहा नवमी मता

1.70.41

तारो नमनो भगवते विष्णवे सर्वभू ततः ।
तात्मने वासुदेवाय सर्वात्मेति पदं वदेत्

1.70.42

संयोगयोगपद्मान्ते पीठाय हृदयान्तिमः ।
षड्विंशदक्षरः पीठमन्त्रो ऽनेनासनं दिशेत्

1.70.43

मूर्तिं संकल्प्य मूलेन तस्यामावाह्य पूजयेत् ।
आदौ चाङ्गानि संपूज्य मन्त्राणां केशरेषु च

1.70.44

प्रागादिदिग्दले वासुदेवं संकर्षणं तथा ।
प्रद्युम्नमनिरुद्धं च शक्तीः कोणेष्वथार्चयेत्

1.70.45

शान्तिं श्रियं सरस्वत्या रतिं संपूजयेत्क्रमात् ।
हेमपीततमालेन्द्रनीलाभाः पीतवाससः

1.70.46

चतुर्भुजाः शङ्खचक्रगदांभघोजधरा इमे ।
सितकाञ्चनगोदुग्धदूर्वावर्णाश्च शक्तयः

1.70.47

दलाग्रेषु चक्रशङ्खगदापङ्कजकौस्तुभान् ।
पूजयेन्मुसलं खड्गं वनमालां यथाक्रमात्

1.70.48

रक्ताजपीतकनकश्यामकृष्णासितार्जुनान् ।
कुङ्कुमाभं समभ्यर्च्येद्वहिरग्रे खगेश्वरम्

1.70.49

पार्श्वयोः पूजयेत्पश्चाङ्खपद्मनिधी क्रमात् ।
मुक्तामाणिक्यसंकाशौ पश्चिमे ध्वजमपर्चयेत्

1.70.50

रक्तं विघ्नं तथाग्नेये श्याममार्यं च राक्षसे ।
दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे

1.70.51

लोकेशा नायुधैर्युक्तान्बहिः संपूजयेत्सुधीः ।
एवमावरणैर्युक्तं योर्ऽचजयेद्विष्णुमव्ययम्

1.70.52

भुक्त्वेहसकलान्भोगानन्ते विष्णुपदं व्रजेत् ।
क्षेत्रधान्यसुवर्णानां प्पाप्तये धारणीं स्मरेत्

1.70.53

देवीं दूर्वादलश्यामां दधानां शालिमञ्जरीम् ।
चिन्तयेद्भारतीं देवीं वीणापुस्तकधारिणीम्

1.70.54

दक्षिणे देवदेवस्य पूर्णचन्द्रनिभाननाम् ।
क्षीराब्धिफेनपुञ्जाभे वसानां श्वेतवाससी

1.70.55

भारत्या सहितं यो वै ध्यायेद्द्वेवं परात्परम् ।
वेदवेदार्थतत्त्वज्ञो जायते सर्ववित्तमः

1.70.56

नारसिंहमिवात्मानं देवं ध्यात्वातिभैरवम् ।
शश्त्रं संमन्त्र्य मन्त्रेण शब्रून्हत्वा निवर्तते

1.70.57

नारसिंहेन बीजेन मन्त्रं संयोज्य साधकः ।
शतमष्टोत्तरं जण्त्वा वामहस्ताभिमन्त्रिताः

1.70.58

पुनः पुनरपः सिंचेत्सर्पदष्टो ऽपि जीवति ।
गारुडेन च संयोज्य पञ्चार्णेन जपेत्तदा

1.70.59

निर्विषीकरणे ध्यायेद्विष्णुं गरुडवाहनम् ।
अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ

1.70.60

अशोकपुष्पैः संपूज्य भगवन्तं तदग्रतः ।
जुहुयात्तानि पुष्पाणि त्रिसंध्यं सप्तपत्रकम्

1.70.61

प्रत्यक्षो जायते पक्षी वरमिष्टं प्रयच्छति ।
गाणपत्येन संयोज्य जपेल्लक्षं पयोव्रतः

1.70.62

महागणपतिं देवं प्रत्यक्षमिह पश्यति ।
वाणिबीजेन संयुक्तं षण्मासं योजयेन्नरः

1.70.63

महाकविवरो भूत्वा मोहयेत्सकलं जगत् ।
हुत्वा गुङ्चीशकलान्यर्द्धागुलमितानि च

1.70.64

दधिमध्वाज्ययुक्तानि मृत्युं जयति साधकः ।
शनैश्वर दिने सम्यक् स्पृष्ट्वा श्वत्थं च पाणिना

1.70.65

जप्त्वा चाष्टशतं युद्धे ह्यपमृत्युं जयत्यसौ ।
पञ्चविंशतिधा जप्त्वा नित्यं प्रातः पिबेज्जलम्

1.70.66

सर्वपापविनिर्मुक्तो ज्ञानवान् रोगवर्जितः ।
कुंभं संस्थाप्य विधिवदापूर्य शुद्धवारिणा

1.70.67

जप्त्वायुतं ततस्तेनाभिषेकः सर्वरोगनुत् ।
चन्द्रसूर्योपरागे तु ह्युपोष्याष्टसहस्रकम्

1.70.68

स्पृष्ट्वा ब्राह्मीधृतं जप्त्वा पिबेत्साधकसत्तमः ।
मेधां कवित्वं वाक्सिद्धिं लभते नात्र संशयः

1.70.69

जुहुयादयुतं विल्वैर्महाधनपतिर्भवेत् ।
नारायणस्य मन्त्रो ऽयं सर्वमन्त्रोत्तमोत्तमः

1.70.70

आलयः सर्वसिद्धीनां कथितस्तव नारद ।
नारायणाय शब्दान्ते विद्महे पदमीरयेत्

1.70.71

वासुदेवपदं ङेंतं धीमहीति ततो वदेत् ।
तन्नो विष्णुः प्रचोवर्णान्संवदेञ्चोदयादिति

1.70.72

एषोक्ता विष्णुगायत्री सर्वपापप्रणाशिनी ।
तारो हृद्भगवान् ङेंतो वासुदेवाय कीर्तितः

1.70.73

द्वादशार्णो महामन्त्रो भुक्तिमुक्तिप्रदायकः ।
स्त्रीशूद्राणां वितारो ऽयं सतारस्तु द्विजन्मनाम्

1.70.74

प्रजापतिर्मुनिश्चास्य गायत्री छन्द ईरितः ।
देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्च हृत्

1.70.75

चन्द्राक्षिवेदपञ्चर्णैः समस्तेनाङ्गकल्पनम् ।
मूर्ध्नि भाले दृशोरास्ये गले दोर्हृदये पुनः

1.70.76

कुक्षौ नाभौ ध्वजे जानुद्वये पादद्वये तथा ।
न्यासेत्क्रमान् मन्त्रवर्णान्सृष्टिन्यासो ऽयमीरितः

1.70.77

हृदादिमस्तकान्तं तु स्थितिन्यासं प्रचक्षते ।
पादादारभ्य मूर्द्धानं न्यासं संहारकं विदुः

1.70.78

तत्त्वन्यासं ततः कुर्यात्सर्वतन्त्रेषु गोपितम् ।
बीवं प्राणं तथा चित्तं हृत्पद्मं सूर्यमण्डलम्

1.70.79

चन्द्राग्निमण्डले चैव वासुदेवं ततः परम् ।
संकर्षणं च प्रद्युम्नमनिरुद्धं ततः परम्

1.70.80

नारायणं चक्रमतस्तत्त्वानि द्वादशैव तु ।
मूलार्णहृत्परायाद्यमात्मने हृदयान्तिमम्

1.70.81

तत्त्वे नाम समुञ्चर्य्य न्यसेन्मूर्द्धादिषु क्रमात् ।
पूर्वोक्तं ध्यानमत्रापि भानुलक्षजपो मनोः

1.70.82

तदृशांशं तिलैराज्यलोलितैर्हवनं चरेत् ।
पीठे पूर्वोदिते मन्त्री मूर्ति संकल्प्य मूलतः

1.70.83

तस्यामावाह्य देवेशं वासुदेवं प्रपूजयेत् ।
अङ्गानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः

1.70.84

शान्त्यादिशक्तयः पूज्याः प्राग्वद्दिक्षु विदिक्षु च ।
तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः

1.70.85

इन्द्राद्यानायुधैर्युक्तान् पूजयेद्धरणीगृहे ।
एवमावरणैरिष्ट्वा पञ्चभिर्विष्णुमव्ययम्

1.70.86

प्राप्नुयात्सकलानर्थानन्ते विष्णुपदे व्रजेत् ।
पुरुषोत्तमसंज्ञस्य विष्णोर्भेदचतुष्टयम्

1.70.87

त्रैलोक्यमोहनस्तेषां प्रथमः परिकीर्तितः ।
श्रीकरश्च हृषीकेशः कृषअणश्चात्र चतुर्थकः

1.70.88

तारः कामो रमा पश्चान् ङेंतः स्यात्पुरुषोत्तमः ।
वर्मास्त्राण्यग्निप्रियान्तो मन्त्रो वह्नीन्दुवर्णवान्

1.70.89

ब्रह्मा मुनिः स्याद्गायत्री छन्दः प्रोक्तो ऽथ देवता ।
पुरुषोत्तमसंज्ञो ऽत्र बीजशक्तीस्मरन्दिरे

1.70.90

भूचन्द्रैकरसाक्ष्यक्षिमन्त्रवर्णोर्विभागतः ।
कृत्वाङ्गानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम्

1.70.91

समुद्यदादित्यनिभं शङ्खचक्रगदांबुजैः ।
लसत्करं पीतवस्रं स्मरेच्छ्रीपुरुषोत्तमम्

1.70.92

महारत्नौघखचितस्फुरत्तोरणमण्डपे ।
मौक्तिकौघशमदमविराजितवितानके

1.70.93

नृत्यद्देवाङ्गनावृन्दक्वणात्किङ्किणिनूपुरे ।
लसन्माणिक्यवेद्यां तु दीत्पार्कायुततेजसि

1.70.94

वृन्दारकव्रातकिरीटाग्ररत्नाभिचर्चिते ।
नवलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः

1.70.95

उत्फुल्लैः कमलैः पीठे पूर्वोक्ते वैष्णवेर्ऽचयेत् ।
एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम्

1.70.96

पुत्रान्पौत्रान्यशः कान्तिं भुक्तिं मुक्तिं च विन्दति ।
उत्तिष्टेति पदं पश्चाच्छ्रीकराग्निप्रियान्तिमः

1.70.97

अष्टार्णो ऽस्य मुनिर्व्यासः पङ्क्तिश्छन्द उदाहृतम् ।
श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः

1.70.98

भीषयद्वितयं हृत्स्यात् त्रासयद्वितयं शिरः ।
शिखा प्रमर्द्दयद्वन्द्वं वर्म प्रध्वंसयद्वयम्

1.70.99

अस्रं रक्षद्वयं सर्वे हुमन्ताः समुदीरिताः ।
मस्तके नेत्रयोः कण्ठहृदये नाभिदेशके

1.70.100

ऊरूजङ्घांयुग्मेषु मन्त्रवर्णान्क्रमान्न्यतसेत् ।
ततः पुरुषसूक्तोक्तमन्त्रैर्न्यासं समाचरेत्

1.70.101

मुखे न्यसेद्ब्राह्मणो ऽस्य मुखमासीदिमं मनुम् ।
बाहुयुग्मे तथा बाहूंराजन्य इति विन्यसेत्

1.70.102

ऊरू तदस्य यद्वैश्य इममूरुद्वये न्यसेत् ।
न्यसेत्पादद्वये मन्त्री पद्भ्यां शूद्रो अजायत

1.70.103

चक्रं शङ्खं गदां पद्मं कराग्रेष्वथ विन्यसेत् ।
एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे

1.70.104

अरुणाब्जासनस्थस्य तार्क्ष्यस्योपरि संस्थितम् ।
पूर्वोक्तरूपिणं देवं श्रीकरं लोकमोहनम्

1.70.105

ध्यात्वैवं पूजयेदष्टलक्षं मन्त्री दशांशतः ।
रक्तांबुजैः समिद्भिश्च विल्वक्षीरिद्रुमोद्भवैः

1.70.106

पयो ऽन्नैः सर्पिषा हुत्वा प्रत्येकं सुसमाहितः ।
अश्वत्थोदुंबरप्लक्षवटाः क्षीरिद्रुमाः स्मृता

1.70.107

पूजयेद्वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ।
अङ्गावरणदिक्पालहेतिभिः सहितं विभुम्

1.70.108

इत्थं सिद्धे मनौ मत्री प्रयोगान्पूर्ववञ्चरेत् ।
तारो हृद्भगवान् ङेंतो वराहेति ततः परम्

1.70.109

रूपाय भूर्भुवः स्वः स्याल्लोहितकामिका च ये ।
भूपतित्वं च मे देहि ददापय शुचिप्रिया

1.70.110

रामाग्निवर्णो मन्त्रो ऽयं भार्गवो ऽस्य मुनिर्मतः ।
छन्दो ऽनुष्टुब्देवतादिवराहः समुदीरितः

1.70.111

एकदंष्ट्राय हृदयं व्योमोल्कायग शिरः स्मृतम् ।
शिखा तेजो ऽधिपतये विश्वरूपाय वर्म च

1.70.112

महादंष्ट्राय चास्त्रं स्यात्पञ्चाङ्गमिति कल्पयेत् ।
अथवा गिरिषट्सप्तबाणैर्वसुभिरक्षरैः

1.70.113

विभक्तैर्मन्त्रवर्यस्य पञ्चागांनि प्रकल्पयेत् ।
ततौ ध्यायेदनेकार्कनिभमादिवराहकम्

1.70.114

आं ह्रीं स्वर्णनिभं जान्वोरधो नाभेः सितप्रभम् ।
इष्टाभीतिगदाशङ्खचक्रशक्त्यसिखेटकान्

1.70.115

दधतं च करैर्दंष्ट्राग्रलसद्धरणिं स्मरेत् ।
एवं ध्यात्वा जपेल्लक्षं दशांशं सरसीरुहैः

1.70.116

मध्वक्तैर्जुहयात्पीठे पूर्वोक्ते वैष्णवे यजेत् ।
मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयेद्विभुम्

1.70.117

अङ्गावरणदिक्पालहेतियन्त्रप्रसिद्धये ।
जपादेवावर्नि दद्याद्धनं धान्यं महीं श्रियम्

1.70.118

सिंहार्के सितपक्षस्याष्टम्यां गव्येषु पञ्चसु ।
शिलां शुद्धां विनिक्षिप्य स्पृष्ट्वा तामयुतं जपेत्

1.70.119

उदङ्मुखस्वतो मन्त्री तां शिलां लिखनेद्भुवि ।
भूतप्रेताहिचौरादिकृतां बाधां निवारयेत्

1.70.120

प्रातर्भृगुदिने साध्यभूतलान्मृदमाहरेत् ।
मन्त्रितां मूलमन्त्रेण विभजेत्तां त्रिधा पुनः

1.70.121

चुल्ल्यामेकं समालिप्याप्यपरं पाकभाजने ।
गोदुग्धे परमालोड्य शोधितांस्तन्दुलान् क्षिपेत्

1.70.122

सम्यक् शुद्धे शुचिः केशे जपन्मन्त्रं पचेञ्चरुम् ।
अवतार्य चरुं पश्चाद्वह्नौ देयं यथाविधि

1.70.123

सम्पूज्य धूपदीपाद्यैः पश्चादाज्यप्लुतं चरुम् ।
जुहुयात्संस्कृते वह्नौ अष्टोत्तरशतं सुधीः

1.70.124

एवं प्रजुहुयान्मन्त्री कविवारेषु सप्तसु ।
विरोधो नश्यति क्षेत्रे शत्रुचौराद्युपद्रवाः

1.70.125

भानूदयेप्यारवारे साध्यक्षेत्रान्मृदं पुनः ।
आदाय पूर्वविधिना हविरापाद्य पूर्ववत्

1.70.126

जुहुयादेधिते वह्नौ पूर्वसंख्याकमादरात् ।
एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये

1.70.127

जुहुयाल्लक्षसंख्याकं गव्यै श्चैव सपायसैः ।
अभीष्टभूम्याधिपत्यं लभते नात्र संशयः

1.70.128

उद्यद्दोः परिधं दिव्यं सितदंष्ट्राग्रभूधरम् ।
स्वर्णाभं पार्थिवे पीते मण्डले सुसमाहितः

1.70.129

ध्यात्वाप्नोति महीं रम्यां वराहस्य प्रसादतः ।
वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभघम्

1.70.130

महोपद्रवशान्तिः स्यात्साधकस्य न संशयः ।
वश्यार्थं च सदा ध्यायेद्वर्ह्याभं वह्निमण्डे

1.70.131

ध्यायेदेवं रिपूञ्चाटे कृष्णाभं वायुमण्डले ।
ह्यमण्डलगतं स्वच्छं वाराहं सर्वसिद्धिदम्

1.70.132

शत्रुभूतग्रहक्ष्वेडामयपीडादिशान्तये ।
भग्वर्धीशयुतं व्योमबिन्दुभूषितमस्तकम्

1.70.133

एकाक्षरो वराहस्य मन्त्रः कल्पद्रुमो ऽपरः ।
पूजाद्यार्ध्यादिकं सर्वमस्यां पूर्वोक्तवञ्चरेत्

1.70.134

सवामकर्णानिद्रास्याद्वराहाय हृदन्तिमः ।
ताराद्यो वसुवर्णो ऽयं सर्वैश्वर्यप्रदायकः

1.70.135

ब्रह्मा मुनिः स्याद्गायत्री छन्दो वाराहसंज्ञकः ।
देवश्चन्द्रेद्वब्धिनेत्रैः सवेणाङ्गक्रिया मता

1.70.136

ध्यानपूजाप्रयोगादि प्राग्वदस्यापि कल्पयेत् ।
प्रणवादौ च ङेन्तं च भगवतीति पदं ततः ।
धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत्

1.70.137

एकोनविंशत्यर्णाढ्यो मन्त्रो वह्निप्रियान्तिमः ।
वराहो ऽस्य मुनिश्छन्दो गायत्री निवृदादिका

1.70.138

देवता धरणी बीजं तारःशक्तिर्वसुप्रिया ।
रामवेदाग्निबाणाक्षिनेत्रार्णैरङ्गरकल्पनम्

1.70.139

श्यामां चित्रविभूषाढ्यां पद्मस्थां तुङ्गसुस्तनीम् ।
नीलांबुजद्वयं शालिमञ्जरीं च शुक्रं करैः

1.70.140

दधतीं चित्रवसनां धरां भगवतीं स्मरेत् ।
एवं ध्यात्वा जपेल्लक्षं दशांशं पायसेन तु

1.70.141

साज्येन जुहुयान्मन्त्री विष्णोः पीठ्ठे समर्चयेत् ।
मूर्तिं संकल्प्य मूलेन तस्यां वसुमतीं यजेत्

1.70.142

अङ्गानि पूर्वमाराध्य भूवह्निजलमारुतान् ।
दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः

1.70.143

निवृत्तिश्च प्रतिष्टा च विद्यानां तैश्च तत्कलाः ।
इन्द्राद्यानपि वञ्चादीन्पूजयेत्तदनन्तरम्

1.70.144

एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः ।
धरणी प्रभजन्नेवं पशुरत्नांबरादिभिः

1.70.145

धरम्या वल्लभः स स्यात्सुखी जीवेच्छतं समा ।
त्रैलोक्यमोहनो मन्त्रो जगन्नाथस्य कीर्त्यते

1.70.146

तारः कामो रमा बीजं हृदन्ते पुरुषोत्तमः ।
श्रीकण्ठः प्रतिरूपान्ते लक्ष्मीति च निवासि च

1.70.147

सकलान्ते जगत्पश्चात्क्षोभणेति पदं वदेत् ।
सर्वस्त्रीहृदयान्ते तु विदारणपदं वदेत्

1.70.148

ततस्त्रिभुवनान्तं तु मदोन्मादकरेति च ।
सुरासुरान्ते मनुजसुंदरीजनवर्णतः

1.70.149

मनांसि तापयद्वन्द्वं दीपयद्वितयं ततः ।
शोषयद्वितयं पश्चान्मारयद्वितयं ततः

1.70.150

स्तंभयद्वितयं भूयो मोहयद्वितय ततः ।
द्रावयद्वितयं तावदाकर्षययुगं ततः

1.70.136

ध्यानपूजाप्रयोगादि प्राग्वदस्यापि कल्पयेत् ।
प्रणवादौ च ङेन्तं च भगवतीति पदं ततः ।
धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत्

1.70.137

एकोनविंशत्यर्णाढ्यो मन्त्रो वह्निप्रियान्तिमः ।
वराहो ऽस्य मुनिश्छन्दो गायत्री निवृदादिका

1.70.138

देवता धरणी बीजं तारःशक्तिर्वसुप्रिया ।
रामवेदाग्निबाणाक्षिनेवार्णैरङ्गकल्पनम्

1.70.139

श्यामां चित्रविभूषाढ्यां पद्मस्थां तुङ्गसुस्तनीम् ।
नीलांबुजद्वयं शालिमञ्जरीञ्च शुकं करैः

1.70.140

दधतीं चित्रवसनां धरां भगवतीं स्मरेत् ।
एवं ध्यात्वा जपेल्लक्षं दशांशं पायसेन तु

1.70.141

साज्येन जुहुयान्मन्त्री विष्णोः पीठे समर्चयेत् ।
मूर्तिं संकल्प्य गूलेन तस्यां वसुमतीं यजेत्

1.70.142

अङ्गानि पूर्वमाराध्य भूवह्निजलमारुतान् ।
दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः

1.70.143

निवृत्तिश्च प्रतिष्टा च विद्यानां तैश्च तत्कलाः ।
इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम्

1.70.144

पूर्नं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः ।
धरणीं प्रभजन्नेवं पशुरत्नांबरादिभिः

1.70.145

धरण्या वल्लभः स स्यात्सुखी जीवेच्छतं समा ।
त्रैलोक्यमोहनो मन्त्रो जगन्नाथस्य कीर्त्यते

1.70.146

तारः कामो रमा बीजं हृदन्ते पुरुषोत्तमः ।
श्रीकण्ठः प्रतिरूपान्ते लक्ष्मीति च निवासिं च

1.70.147

सकलान्ते जगत्पश्चात्क्षोभणेति पदं वदेत् ।
सर्वस्त्रीहृदयान्ते तु विदारणपदं वदेत्

1.70.148

ततस्त्रिभुवनान्तं तु मदोन्मादकरेति च ।
सुरासुरान्ते मनुजसुंदरीजनवर्णतः

1.70.149

मनांसि तापयद्वन्द्वं दीपयद्वितयं ततः ।
शोषयद्वितयं पश्चान्मारयद्वितयं ततः

1.70.150

स्तंभयद्वितयं भूयो मोहयद्वितय ततः ।
द्रावयद्वितयं तावदाकर्षययुगं ततः

1.70.151

समस्तपरमो येन सुभगेन च संयुतम् ।
सर्वसौभाग्यशब्दान्ते करसर्वपदं वदेत्

1.70.152

कामप्रदादमुन्ब्रह्मासेंदुर्हनुयुगं ततः ।
चक्रेण गदया पश्चात्खड्गेन तदनन्तरम्

1.70.153

सर्वबाणैर्भेदियुगं पाशेनान्ते कटद्वयम् ।
अङ्कुशेनेति संप्रोच्य ताडयद्वितयं पुनः

1.70.154

कुरुशब्दद्वयमथो किं तिष्टसि पदं वदेत् ।
तावद्यावत्पदस्यान्ते समाहितमनन्तरम् ।
ततो मे सिद्धिराभास्य भवमन्ते च वर्म फट्

1.70.155

हृदन्तो ऽयं महामन्त्रो द्विशतार्णः समीरितः ।
जैमिनिर्मुनिरस्योक्तश्छन्दश्चामितमीरितम्

1.70.156

देवता जगतां मोहे जगन्नाथः प्रकीर्तितः ।
कामो बीजं रमा शक्तिर्विनियोगो ऽखिलाप्तये

1.70.157

पुरुषोत्तमत्रिभुवनोन्मादकान्ते ऽग्निवर्म च ।
हृदयं कीर्तितं पश्चाज्जगत्क्षोभणशब्दतः

1.70.158

लक्ष्मीदयितवर्मान्तः शिरः प्रोक्तं शिखा पुनः ।
मन्मथो तमशब्दान्ते मङ्गजे पदमीरयेत्

1.70.159

कामदायेति हुं प्रोच्य न्यसेद्वम ततः परम् ।
परमान्ते भृगुकर्णाभ्यां च सर्वपदं ततः

1.70.160

सौभाग्यकरवर्मान्ते कवचं पारिकीर्तितम् ।
सुरासुरान्ते मनुजसुंदरीति पदं वदेत्

1.70.161

हृदयान्ते विदा पश्चाद्रणसर्वपदं वदेत् ।
ततः प्रहरणधरसर्वकामुकतत्पदम्

1.70.162

हनयुग्मं च हृदयं बन्धनानि ततो वदेत् ।
आकर्षयद्वयं पश्चान्महाबलपदं ततः

1.70.163

वर्म चास्त्रं समाख्यातं नेत्रं स्यात्तदनन्तरम् ।
वदेत्रिभुवनं पश्चाच्चर सर्वजनेति च

1.70.164

मनांसि हरयुग्मान्ते दारयद्वितयं च मे ।
वशमानय वर्मान्ते नेत्रमन्त्रः समीरितः

1.70.165

षडङ्गमन्त्रास्ताराद्याः फट्नमोन्ताः प्रकीर्तिताः ।
तारस्त्रैलोक्यशब्दान्ते मोहनेति पदं वदेत्

1.70.166

हृषीकेशेति संप्रोच्याप्रतिरूपादिशब्दतः ।
मम्नथानन्तरं सर्वस्त्रीणां हृदयमीरयेत्

1.70.167

आकर्षणपदा गच्छदागच्छहृदयान्तिमः ।
अनेन व्यापकं कृत्वा जगन्नाथं स्मरेत् सुधीः

1.70.168

क्षीराब्धेस्तु तटे रम्यं सुरद्रुमलताञ्चितम् ।
उद्यदर्काभुजालाभं स्वधाम्नोज्वालदिङ्मुखम्

1.70.169

प्रसूनावलिसौरभ्यमाद्यन्मधुकरारवम् ।
दिव्यवातोञ्चलत्कञ्जपरागोद्धूलितांबरम्

1.70.170

स्वर्वधूगीतमाधुर्याभिराम चिन्तयेद्वनम् ।
तदन्तर्मणिसम्पत्तिस्फुरत्तोरणमण्डपे

1.70.171

विलसन्मौक्तिकोद्दामदामराजद्वितानके ।
मणिवेद्यादि वियत्किरीटाग्रसमर्चिते

1.70.172

दिव्यसिंहासने विप्र समासीनं स्मरेद्विभुम् ।
शङ्खपाशेषु चापानि मुसलं नन्दकं गदाम्

1.70.173

अङ्कुशं दधतं दोर्भिः श्लिष्टे कमलयोरसि ।
पश्यत्यङ्कस्थयांभोजश्रिया रागोल्लसदृशा

1.70.174

ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ।
कुण्डेर्ऽद्धचन्द्रे पद्मैर्वा जातीपुष्पैश्च होमयेत्

1.70.175

यागभूमिं तथात्मानं यागोपकरणं तथा ।
पूजयिष्यन् जगन्नाथं गायत्र्या प्रोक्षयेद्वुधः

1.70.176

त्रैलोक्यमोहनायान्ते विद्महे पदमीरयेत् ।
स्मराय धीमहीत्युक्त्वा तन्नो विष्णुः प्रचोदयात्

1.70.177

गायत्र्येषा समाख्याता सर्वशुद्धिकरी परा ।
कल्पयेदासनं पीठे पूर्वोक्ते वैष्णवे सुधीः

1.70.178

पक्षिराजाय ठद्वन्द्वं पीठमन्त्रो ऽयमीरितः ।
मूर्तिं संकल्पमूलेन तस्यामावाहयेदतः

1.70.179

व्यापकन्यासमन्त्रेण ततः सम्पूज्य भक्तितः ।
श्रीवत्सहृदयं तेन श्रीवत्सं स्तनयोर्यजेत्

1.70.180

कौस्तुभाय हृदन्तेन यजेद्वक्षसि कौस्तुभम् ।
पूजयेद्वनमालायै हृदन्तेन गले च ताम्

1.70.181

कर्णिकायां ततो ऽभ्यर्चयेद्विधिवञ्चाङ्गदेवताः ।
दलेषु पूजयेत्पश्चाल्लक्ष्म्याद्यावृत्तचामराः

1.70.182

बन्धूककुसुमाभासाःमुक्ताहारलसत्कुचाः ।
उत्फुल्लांभघोजनयना मदविभ्रममन्थराः

1.70.183

लक्ष्मी सरस्वती चैव धृतिः प्रीतिस्ततः परम् ।
कान्तिः शान्तिस्तुष्टिपुष्टिबीजाद्या ङेनमोन्तिकाः

1.70.184

भृगुः खड्राशचन्द्राढ्यो देव्या बीजमुदाहृतम् ।
ह्रस्वत्रयक्लीबसर्वरहितस्वरसंयुतम्

1.70.185

देव्या बीजं क्रमादासामादौ च विनियोजयेत् ।
दलाग्रेषु यजेच्छङ्खं शार्ङ्गं चक्रमसिं गदाम्

1.70.186

अङ्कुशं मुसलं पाशं स्वमुद्रामनुभिः पृथक् ।
महाजलचरा यान्ते वर्मास्त्रं वह्निवल्लभा

1.70.187

पाञ्चजन्या प्रताराद्यो नमोन्तः शङ्खपूजने ।
शार्ङ्गाय सशयान्ते च वर्मास्त्रं वह्निवल्लभा

1.70.188

शार्ङ्गाय हृदयं मन्त्रो महाद्यः शार्ङ्गपूजने ।
सुदर्शनमहान्ते तु चक्रराजपदं वदेत्

1.70.189

हययुग्मं सर्वदुष्टभयमन्ते कुरुद्वयम् ।
छिन्धिद्वयं ततः पश्चाद्विदारययुगं ततः

1.70.190

परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं पुनः ।
भूकानि त्रासयद्वन्द्वं वर्मफड्वह्निसुंदरी

1.70.191

सुदर्शनाय हृदयं प्रोक्तश्चक्रर्चने मनुः ।
महाखड्गतीक्ष्णपदाच्छिवियुग्मं समीरयेत्

1.70.192

हुं फट् स्वाहा च खड्गाय नमः खड्गार्चने मनुः ।
महाकौमोदकीत्यन्ते वदेञ्चैव महाबले

1.70.193

सर्वासुरान्तके पश्चात्प्रसीदयुगलेति च ।
वर्मास्त्रवह्निजायान्तकौमोदकि हृक्षतिमः

1.70.194

कौमोदक्यर्चने प्रोक्तो मन्त्रः सर्वार्थसाधकः ।
महाङ्कुशपदात्कुट्चयुग्मं हुंफट्वसुप्रिया

1.70.195

अङ्कुशाय नमः प्रोक्तो मन्त्रग्रौवाकुशर्चने ।
संवर्तकमहान्ते तु मुसलेति पदं वदेत्

1.70.196

योधयद्वितयं वर्म फडन्ते वह्निसुंदरी ।
मुसलाय नमः प्रोक्तो मन्त्रो सुसलपूजने

1.70.197

महापाश हदादघटयमाकर्षयद्वयम् ।
हुं फटे स्वाहा च पाशाय नमः पाशार्चने मनुः

1.70.198

ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत्

1.70.199

वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् ।
मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः

1.70.200

कुमुदैर्वा प्रजुहुयादष्टोत्तरसहस्रकम् ।
मासमात्रेण वश्याःस्युस्तस्य सर्वे नृपोत्तमाः

1.70.201

यस्य नाम युतं मन्त्रं जपेदयुतसंख्यया ।
स भवेद्दासवत्सद्यो मन्त्रस्यास्य प्रभावतः

1.70.202

बहुना किमिहोक्तेन मनुनानेन साधकः ।
साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc