भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.69

1.69.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे गणेशमन्त्रविधाननिरूपणं नामाष्टषष्टितमो ऽध्यायः
सनत्कुमार उवाच
अथ वक्ष्ये त्रयीमूर्तेर्विधानं त्वब्जिनीपतेः ।
मन्त्राणां यत्समाराध्य सर्वेष्टं प्रामुयाहृवि

1.69.2

तारो रेचिकया युक्तो मेधानेत्रयुता रतिः ।
ससर्गा बामकर्णोढ्यो भृगुर्वढ्यासनो मरुत्

1.69.3

शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः ।
देवभागो मुनिश्छन्दो गायत्री देवता रविः

1.69.4

माया वीजं रमा शक्तिर्दृष्टादृष्टे नियोगकः ।
सत्याय हृदयं पश्चाद्ब्रह्मणे शिर ईरितम्

1.69.5

विष्णवे तु शिखावर्म रुद्राय परिकीर्तितम् ।
नेत्रं स्यादग्रये पश्चात्शर्वायास्रमुदाहृतम्

1.69.6

नेत्रो ज्वाला मनो हुं फट्स्वाहान्ता मनवो गणाः ।
पुनः षडर्णैर्ह्री लक्ष्म्याः कृत्वान्तः स्थैः षडङ्गकम्

1.69.7

शिष्टारौजठरे पृष्टे तयोर्ङेंताख्यया न्यसेत् ।
आदित्यं च रविं पश्चाद्भानुं भास्करमेव च

1.69.8

सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः ।
सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्ङें हृदयोंऽतिमान्

1.69.9

ह्रीं रमामध्यगामष्टौ वर्णांस्तारादिकान्न्यसेत् ।
मूर्द्धास्यकण्ठहृत्कुक्षिनाभिलिङ्गगुदेषु च

1.69.10

सचन्द्रस्वरपूर्वं तु ङेतं शीतांशुमण्डलम् ।
मूर्द्धादिकण्ठपर्यन्तं न्यसेञ्चान्द्रिमनुस्प्ररन्

1.69.11

स्पर्शान्सेंदून्समुञ्चार्य ङेंतं भास्करमण्डलम् ।
न्यसेत्कण्ठादिनाभ्यन्तं ध्यायन्प्रद्योतनं हृदि

1.69.12

यादीन्सचन्द्रानुञ्चार्य ङेतं च वह्निमण्डलम् ।
नाभ्यादिपादपर्यन्तं न्यसेद्वह्निमनुस्मरन्

1.69.13

प्रोक्तो ऽयं मण्डलन्यासो महातेजोविधायकः ।
आदिठान्तार्णपूर्वं ङेंनमोन्तं सोममण्डलम्

1.69.14

मूर्द्धादिहृदयान्तं तु विन्यसेत्साधकोत्तमः ।
डकारादिक्षकारान्तवर्णाद्यं पह्निमण्डलम्

1.69.15

ङेंतं हृदादिपादान्तं विन्यसेत्सुसमाहितः ।
अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः

1.69.16

न्यसेत्सेंदून्मातृकार्णाञ्जयान्तपुरुषात्मने ।
नमोन्ते व्यापकं मन्त्री हंस्नयासो ऽयमीरितः

1.69.17

अष्टावष्टौ स्वराञ्शेषान्पञ्चपञ्च मितान्पुनः ।
उक्तादित्यमुखानेतान्विन्यसेञ्च नवग्रहान्

1.69.18

आधारलिङ्गयोर्नाभौ हृदि कण्ठे मुखान्तरे ।
भ्रूमध्ये च तथा भाले ब्रह्मरङ्घ्रे न्यसेत्क्रमात्

1.69.19

हंसाख्यमग्नीषोमाख्यं मण्डलत्रयमेव च ।
पुनर्न्यासत्रयं कुर्यान्मूलेन व्यापकं चरेत्

1.69.20

एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं हृदबुजे ।
दानाभयाब्जयुगलं धारयन्तं करै रविम्

1.69.21

कुण्डलां गदकेयूरहारिणं च त्रयीतनुम् ।
ध्यात्वैवं प्रजपेन्मन्त्री वसुलक्षं दशांशतः

1.69.22

रक्तांभोजैस्तिलैर्वापि जुहुयाद्विधिवद्वसौ ।
प्रथमं पीठयजने धर्मादीनां स्थले यजेत्

1.69.23

प्रभूतं विमलं शारं समाराध्यमनन्तरम् ।
परमादिमुखं मध्ये खबिंबान्तं प्रपूजयेत्

1.69.24

सोमाग्निमण्डलं पूज्यरविमण्डलमर्चयेत् ।
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा

1.69.25

अमोघा विद्युता सर्वतोमुखी पीठशक्तयः ।
ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्नीन्दुसंयुताः

1.69.26

स्वरा बीजानि शक्तीनां तदाद्याः पूजयेत्तुः ताः ।
ब्रह्मविष्णुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ

1.69.27

एवं चान्ते योग पीठात्मने हृदयमीरयेत् ।
ताराद्यो ऽयं पीठमन्त्रस्त्वनेनासनमादिशेत्

1.69.28

ध्रुवो वियद्बिन्दुयुतं खं खखोल्काय दृन्मनुः ।
नवार्णाय च मनवे मूर्तिं संकल्पयेत्सुधीः

1.69.29

साक्षिणं जगतां तस्यामावाह्य विधिवद्यजेत् ।
ततः षडङ्गामाराध्य द्विक्ष्वष्टाङ्गं प्रपूजयेत्

1.69.30

संपूज्य मध्ये वादित्यं रविं भानुं च भास्करम् ।
सूर्यं दिशासु सद्यादिपञ्च ह्रस्वादिकानिमान्

1.69.31

स्वस्वनामादिवर्णाद्याः शक्तयोर्ऽच्या विदिक्षु च ।
उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत्

1.69.32

पुरतो ऽरुणमभ्यर्च्य सोमं ज्ञं च गुरुं भृगुम् ।
दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम्

1.69.33

राहुं केतुं च कोणेषु पूर्ववत्परिपूजयेत् ।
इन्द्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः

1.69.34

इत्थं संपूज्य विधिवद्भास्करं भक्तवत्सलम् ।
समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने

1.69.35

प्राणानायम्य सद्भूमौ न्यासान्कृत्वा पुरोदितान् ।
विधाय मण्डलं भानोः पीठं पूर्ववदर्चयेत्

1.69.36

ध्यात्वार्कं प्रयजेद्द्विव्यैर्मानसैरुपचारकैः ।
पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम्

1.69.37

निधाय मण्डले रक्तचन्दनादिविनिर्मिते ।
विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः

1.69.38

सूर्यबिंबविनिर्गच्छत्सुधांबुधिविभावितैः ।
कुङ्कुमं रोजनां राजीं चन्दनं रक्तचन्दनम्

1.69.39

करवीरं जपाशालिकुशश्यामाकतण्डुलान् ।
तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे

1.69.40

सांगं सावरणं तत्रावाह्यार्कं पूर्ववद्यजेत् ।
गन्धपुष्पधूपदीपनैवेद्याद्यै र्विधानतः

1.69.41

प्राणायामत्रयं कृत्वा कुर्यादङ्गानि पूर्ववत् ।
सुधाबीजं चन्दनेन दक्षे करतले लिखेत्

1.69.42

तेनाच्छाद्यार्ध्यपात्रं च जपेन्मनुमनन्यधीः ।
अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम्

1.69.43

हस्ताभ्यां पात्रमादाय जानुभ्यामवनीं गतः ।
आमूर्ध्नि पात्रमुद्धृत्यांबरेण वरणे रवेः

1.69.44

दृष्टिं चाधाय मनसा पूजयित्वा रविं पुनः ।
साधकेन स्वकैक्येन मूलमन्त्रं धिया जपन्

1.69.45

अर्ध्यं दद्याद्रविं ध्यायव्रक्तचन्दनमण्डले ।
दत्त्वा पुष्पाञ्जलिं भूयो जपेदष्टोत्तरं शतम्

1.69.46

नित्यं वा तद्विने ऽप्येवमर्ध्यं दद्याद्विवस्वते ।
तेन तुष्टो दिनेशो ऽस्मै दद्याद्वित्तं यशः सुखम्

1.69.47

पुत्रान्पौत्रानभीष्टं च यद्यत्सर्वं प्रयच्छति ।
अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम्

1.69.48

धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् ।
तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम्

1.69.49

गायत्र्याराधनासक्तः संध्यावन्दनतत्परः ।
एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित्

1.69.50

विकर्तनाय निर्माल्यमेवं संपूज्य दापयेत् ।
वियद्वह्निमरुत्साद्यान्तार्वीसेंदुसमन्वितम्

1.69.51

मार्तण्डभैरवाख्यं हि बीजं त्रैलोक्यमोहनम् ।
बिंबबीजेन पुटितं सर्वकामफलप्रदम्

1.69.52

पूर्ववत्सकलं चान्यदत्र ज्ञेयं मनीषिभिः ।
भृगुर्जलेन्दुमन्वाढ्यः सोमाय हृदयान्तिमः

1.69.53

षडक्षरो मन्त्रराजो मुनिरस्य भृगुर्मतः ।
छन्दः पङ्क्तिस्तु सोमो ऽस्य देवता परिकीर्तिता

1.69.54

आद्यं बीजं नमः शक्तिर्विनियोगो ऽखिलाप्तये ।
षड्दीर्घेण स्वबीजेन षडङ्गानि समाचरेत्

1.69.55

पूर्णेद्वास्यं स्फटिकभं नीलालकलसन्मुखम् ।
विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम्

1.69.56

ऋतुलक्षं जपेन्मन्त्रं पायसेन ससर्पिषा ।
जुहुयात्तद्दशांशेन पीठे सोमान्तपूजिते

1.69.57

मूर्तिमूलेन संकल्प्य पूजयेद्विधिवद्विधुम् ।
केसरेष्वङ्गपूजा स्यात्पत्रेष्वेताश्च शक्तयः

1.69.58

रोहिणी कृत्तिका चैव रेवती भरणी पुरः ।
रात्रिरार्द्रा ततो ज्येत्स्ना कला हारसमप्रभा

1.69.59

सुशुक्लमाल्यवसनामुक्ताहारविभूषिताः ।
सर्वाःस्तनभराक्रान्ता रचिताञ्जलयः शुभाः

1.69.60

स्वप्रियासक्तमनसो मदविभ्रममन्थराः ।
समभ्यर्च्याः सरोजाक्ष्यः पूर्णेन्दुसदृशाननाः

1.69.61

दलाग्रेषु समभ्यर्च्यास्त्वष्टौ सूर्यादिका ग्रहाः ।
आदित्यभूसुतबुधमन्ददेवेज्यराहवः

1.69.62

शुक्रकेतुयुता ह्येते पूज्याः पत्रग्रगाग्रहाः ।
रक्तारुणश्वेतनीलपीतधूम्रसितासिताः

1.69.63

वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः ।
सोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः

1.69.64

एव संसाधितो मन्त्रः प्रयच्छेदिष्टमात्मनः ।
पौर्णमास्यां जिताहारो दद्यादर्ध्यं विधूदये

1.69.65

मण्डलत्रितर्यं कुर्यात्प्राक्प्रत्यगायतं भुवि ।
पश्चिमे मण्डले स्थित्वा पूजाद्रव्यं च मध्यमे

1.69.66

संस्थाप्य सोममन्यस्मिन्मण्डले ऽब्जसमन्विते ।
समभ्यर्च्यं विधानेन पीठपूजनपूर्वकम्

1.69.67

स्थापयेद्राजतं पात्रं पुरतस्तत्र मन्त्रवित् ।
सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम्

1.69.68

अष्टोत्तरशतं पश्चाद्विद्या मन्त्रेण मन्त्रवित् ।
दद्यान्निशाकरायार्ध्यं सर्वाभीष्टार्थसिद्धये

1.69.69

कुर्यादनेन विधिना प्रतिमासमतन्द्रितः ।
वषान्तरेण सवष्टं प्राप्नोति भुविमानवः

1.69.70

विद्ये विद्यामालिनि स्यादन्त चन्द्रिणि कतवदेत् ।
चन्द्रमुखि द्विठान्तो ऽयं विद्यामन्त्र उदाहृतः

1.69.71

एवं कुमुदिनीनाथमन्त्रं यो जपति ध्रुवम् ।
धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभते ऽचिरात्

1.69.72

अथाङ्गारकमन्त्रं तु वक्ष्ये धनसुतप्रदम् ।
तारो दीर्घेन्दुयुग्व्योम तदेवेन्दुयुतः पुनः

1.69.73

षान्तः सर्गी च चण्डीशौ क्रमार्दिदुविसर्गिणै ।
षडर्णो ऽयं महामन्त्रो मङ्गलस्याखिलेष्टदः

1.69.74

विरूपाक्षो मुनिश्छन्दोगायत्रं देवता कुजः ।
मन्त्रार्णैः षड्भिरङ्गानि क्रुर्वन्ध्यायेद्धरात्मजम्

1.69.75

मेषस्थं रक्तवस्राङ्गं शूलशक्तिगदावरान् ।
करैर्बिभ्राणमीशानस्वेदजं भूंसुतं स्मरेत्

1.69.76

रसलक्षं जपेन्मन्त्रं दशांशं खदिरोद्भवैः ।
समिद्भिर्जुहुयादग्नौ शैवे पीठे यजेत्कुजम्

1.69.77

प्रागङ्गानि समाराध्य ह्येकविंशतिकोष्टकम् ।
मङ्गलोभूमिपुत्रश्च ऋणहर्ता धनप्रदः

1.69.78

स्थिरासनो महाकायः सर्वकर्मावरोधकः ।
लोहितो लोहिताक्षश्च सामगानां कृपाकरः

1.69.79

धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ।
अङ्गारको महीसूनुः सर्वरोगापहारकः

1.69.80

वृष्टिकर्ता वृष्टिहर्ता सर्वकार्यार्थसिद्धिदः ।
इत्येक र्विशतिः प्रोक्ता मूर्तयो भूसुतस्य वै

1.69.81

मङ्गलादीन्यजेन्मन्त्री स्वस्वस्थानस्थितान्क्रमात् ।
इन्द्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः

1.69.82

सुतकामा कुरङ्गाक्षी भौमव्रतमुपाचरेत् ।
मार्गशीर्षे ऽथ वैशाखे व्रतारंभः प्रशस्यते

1.69.83

अरुणोदयवेलायामुत्थायावश्यकं पुनः ।
विनिर्वर्त्य रदान्धावेदपामार्गेण वाग्यता

1.69.84

स्नात्वा रक्तांबरधरा रक्तमाल्यविलेपना ।
नैवेद्यादींश्च संभारान्रक्तान्सर्वान्प्रकल्पयेत्

1.69.85

योग्यं विप्रं समाहूय कुजमर्चेत्तदाज्ञया ।
रक्तगोगोमयालिप्तभूमौ रक्तासने विशेत्

1.69.86

आचम्य देशकालौ च स्मृत्वा काम्य समुच्चरन् ।
मङ्गलादीनि नामानि स्वकीयाङ्गेषु विन्यसेत्

1.69.87

मुखे प्रविन्यसेत्साध्वी सामगानां कृपाकरम् ।
धरात्मजं नसोरक्ष्णोः कुजं भौमं ललाटके

1.69.88

भूमिदं तु भ्रुवोर्मध्ये मस्तके भूमिनन्दनम् ।
अङ्गारकं शिखायां च सर्वाङ्गे च महीसुतम्

1.69.89

बाहुद्वये न्यसेत्पश्चात्सर्वरोगापहारकम् ।
मूर्द्धादि वृष्टिकर्तारमापादान्तं न्यसेत्सुधीः

1.69.90

विन्यसेद्रृष्टिहर्तारं मूर्द्धान्तं चरणादितः ।
न्यसेदन्ते ततो दिक्षु सर्वकार्यार्थसिद्धिदम्

1.69.91

नाभौ हृदि शिरस्यारं वक्रे भूमिजमेव च ।
विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम्

1.69.92

मानसैरुपचारैश्च संपूज्यार्ध्यं निधापयेत् ।
एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे

1.69.93

आवाह्याङ्गारकं तत्र रक्तपुष्पादिभिर्यजेत् ।
अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत्

1.69.94

एकविंशतिकोष्ठेषु चक्रमारं च भूमिजम् ।
त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः

1.69.95

इन्द्रादीनथ वज्रादीन्बाह्ये संपूजयेत्पुनः ।
धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत्

1.69.96

ताम्रपात्रे शुद्धतोयपूरिते रक्तचन्दनम् ।
रक्तपुष्पाक्षतफलान्याक्षिप्यार्ध्यं समर्पयेत् ।
मङ्गलाय ततो मन्त्री इदं मन्त्रद्वयं पठेत्

1.69.97

भूमिपुत्र महातेजः स्वेदोद्भवपिनाकिनः ।
सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमो ऽस्तु ते

1.69.98

रक्तप्रवालसंकाश जपाकुसुमसन्निभ ।
महीसुत महाभाग गृहाणार्ध्यं नमो ऽस्तु ते

1.69.99

एकविंशतिपूर्वोक्तैर्ङेनमोन्तैंश्च नामभिः ।
ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः

1.69.100

धरणीगर्भसंभूतं विद्युत्तेजः समप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्

1.69.101

ततो रेखात्रयं कुर्यात्खदिराङ्गारकेण च ।
मार्जयेद्वामपादेन मन्त्राभ्यां च समाहिता

1.69.102

दुःखदौर्भाग्यनाशाय पुत्रसंतानहेतवे ।
कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम्

1.69.103

ऋणदुः खविनाशाय मनोभीष्टार्थसिद्धिये ।
मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः

1.69.104

स्तुवीत धरणीपुत्रं पुष्पाञ्जलिकरा ततः ।
ध्यायन्ती तत्पदांभोजं पूजासांगत्वसिद्धये

1.69.105

ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्रयनाशिने ।
सौभाग्यसुखदो नित्यं भव मे धरणीसुत

1.69.106

तप्तकाञ्चनसंकाश तरुणार्कसमप्रभ ।
सुखसौभाग्यधनद ऋणदारिद्षनाशक

1.69.107

ग्रहराज नमस्ते ऽस्तु सर्वकल्याणकारक ।
प्रसादं कुरु देवेश सर्वकल्याणभाजन

1.69.108

देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।
आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः

1.69.109

आचिरादेव लोके ऽस्मिन्यस्याराधनतो जनाः ।
प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे

1.69.110

यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति ।
पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः

1.69.111

नभसि द्योतमानाय सर्वकल्याणहेतवे ।
मङ्गलाय नमस्तुभ्यं धनसंतानहेतवे

1.69.112

प्रसादं कुरु मे भौममङ्गलप्रद मङ्गल ।
मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः

1.69.113

एवं स्तुत्वा प्रणम्याथ विसृज्य धरणीसुतम् ।
यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः

1.69.114

गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम्

1.69.115

एवमावत्सरं कुर्यात्प्रतिमङ्गलवासरम् ।
तिलैर्हेमं विधायाथ शतार्द्धं भोजयोद्द्विजान्

1.69.116

भौममूर्तिं स्वर्णमयीमाचार्याय समर्पयेत् ।
मण्डलस्थे घटे ऽभ्यर्च्येत्सुतसौभाग्यसिद्धये

1.69.117

एवं व्रतपरा नारी प्राप्नुयात्सुभगान्सुतान् ।
ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि

1.69.118

ब्राह्मणः प्रजपेन्मन्त्रंमग्निर्मूर्द्धेति वैदिकम् ।
अङ्गारकस्य गायत्रीं वक्ष्ये यजनसिद्धये

1.69.119

अङ्गारकाय शब्दान्ते विद्महे पदमीरयेत् ।
शक्तिहस्ताय वर्णान्ते धीमहीति समुञ्चरेत्

1.69.120

तन्नो भौमः प्रचोवर्णान्दयान्दिति च संवदेत् ।
भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा

1.69.121

भौमोपासनमेतद्धि बुधमन्त्रमथोच्यते ।
फआन्तः कर्णेन्दुसंयुक्तो बुधो ङेंते हदन्तिमः

1.69.122

रसाणों बुधमन्त्रो ऽयं मुनिब्रह्मास्य कीर्तितः ।
पङ्क्तिश्छैदो देवता तु बुधः सर्वेष्टदो नृणाम्

1.69.123

आद्यं बीजं नमः शक्तिर्विनियोगो ऽखिलाप्तये ।
वन्दे बुधं सदा भक्त्या पीताम्बरविभूषणम्

1.69.124

जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् ।
ध्यात्वेवं प्रजपेसहस्रं विजितेन्द्रियः

1.69.125

दशांशं जुहुयादाज्यैः पीठे पूर्वोदितेर्ऽचयेत् ।
अङ्गमातृदिशापालहेतिभिर्बुधमर्चयेत्

1.69.126

एवं सिद्धे मनौ मन्त्री साधयेत्स्वमनोरथान् ।
सहस्रं प्रजपेन्मन्त्रं नित्यं दशदिनावधि

1.69.127

तस्याशु ग्रहजा पीडा नश्यत्येव न संशयः ।
बुधस्याराधनं प्रोक्तं गुरोराराधनं शृणु

1.69.128

बृंहस्पतिपदं ङेंतं सेंद्वाद्यर्णाघमण्डितम् ।
नमोन्तो वसुवर्णो ऽयं मुनिर्ब्रह्मास्य संमतः

1.69.129

छन्दो ऽनुष्टुप्सुराचार्यो देवता बीजमादिमम् ।
हृच्छक्तिर्दीर्घवह्नीन्दुयुगलेनाङ्गकल्पना

1.69.130

न्यस्तवामकरं राशौ रत्नानां दक्षिणात्करात् ।
किरन्तं पीतपुष्पालङ्कारालेपांशुकार्चितम्

1.69.131

सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेत् ।
लक्षं जपो दशांशेन घृतेनान्नेन वा हुनेत्

1.69.132

धर्मादिपीठे प्रयजेदङ्गदिक्पालहेतिभिः ।
एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः

1.69.133

विपरोगादिपीडासु कलहे स्वजनोद्भवे ।
पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये

1.69.134

हुत्वा दिनत्रयं मन्त्री निशापुष्पैर्घृतप्लुतैः ।
स विंशतिशतं शीघ्रं वासांसि लभते महीम्

1.69.135

गुरोराराधनं प्रोक्तं शृणु शुक्रस्य सांप्रतम् ।
वस्रं मे देहि शुक्राय ठद्वयान्तो ध्रुवादिकः

1.69.136

रुद्रार्णो ऽयं मनुर्ब्रह्मा मुनिश्छन्दो विराहुत ।
दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया

1.69.137

भूनेत्र चन्द्रनेत्राग्निनेत्रार्णैः स्यात्षडङ्गकम् ।
शुक्लांबरालेपभूषं करेण ददतं धनम्

1.69.138

वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत्सुधीः ।
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद् घृतैः

1.69.139

धर्मादिपीठे प्रयजेदङ्गेन्द्रादितदायुधैः ।
श्वेतपुष्पैः सुगन्धैश्च जुहुयाद् भृगुवासरे

1.69.140

एकविंशतिवारं यो लभतेसोंऽशुकं मणीन् ।
मनवो ऽमो सदा गोप्या न देया यस्य कस्यचित्

1.69.141

भक्तियुक्ताय शिष्याय देया वा निजसूनवे

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc