नारद पुराण · अध्याय 1.68
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवपूजानिरूपणं नाम सप्तषष्टित्तमो ऽध्यायः
श्रीसनत्कुमार उवाच ।
अथ वक्ष्ये गणेशस्य मन्त्रान्सर्वेष्टदायकान् ।
यान्समाराध्य विप्रेन्द्र साधको भुक्तिमुक्तिमान्
अव्ययो विष्णुवनिता शंभुस्त्री मीनकेतनः ।
स्मृतिर्मांसेंदुमन्वाढ्या सा पुनश्चन्द्रशेखरा
ङेंतो गणपतिस्तोयं भुजङ्गो वरदेति च ।
सर्वान्ते जनमुञ्चार्य ततो मे वशमानय
वह्निः प्रियान्तो मन्त्रो ऽयष्टाविंशतिवर्णवान् ।
गणको ऽस्य मुनिश्छन्दो गायत्री वियुदादिका
गणेशो देवता बीजं षष्टशक्तिस्तदादिका ।
श्रीमन्महागणपतिप्रीतये विनियोगकः
ऋषिं शिरसि वक्रे तु छन्दश्च हृदि देवताम् ।
गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः
षड्दीर्घाढ्येन बीजेन यं च बीजादिना पुनः ।
षडङ्गानि न्यसेदस्य जातियुक्तानि मन्त्रवित्
शैवी षडङ्गमुद्राय न्यस्तव्या हि षडङ्गके ।
गामाद्यं चैव भूर्लोकं नाभ्यन्तं पादयोर्न्यसेत्
गीमाद्यं च भुवर्लोकं कण्ठान्तं नाभितो न्यसेत् ।
स्वर्लोकं चैव गूमाद्यं कण्ठदिमस्तकावधि
व्यापकं मूलमन्त्रेण न्यासो ऽयं भुवनाभिधः ।
मूलमन्त्रं समुञ्चार्य मातृकावर्णमीरयेत्
तदन्ते ऽपि च मूलं स्यान्नमोंऽतं मातृकास्थले ।
क्षान्तं विन्यस्य मूलेन व्यापकं रचयेत्सुधीः
वर्णन्या सो ऽयमाख्यातः पदन्यासस्तथोच्यते ।
पञ्चत्रिबाणवह्नीन्दुचन्द्राक्षिनिगमैः क्रमात्
विभक्तैर्मूलगायत्र्या हृदन्तैरष्टभिः पदैः ।
भालदेशे मुखे कण्ठे हृदि नाभ्यूरुजानुषु
पादयोश्चैव विन्यस्य मूलने व्यापकं चरेत् ।
वदेत्तत्पुरुषायान्ते विद्महेति पदं ततः
वक्रतुण्डाय शब्दान्ते धीमहीति समीरयेत् ।
तन्नो दन्तिः प्रचोवर्णा दयादिति वदेत्पुनः
एषोक्ता मूलगायत्री सर्वसिद्धिप्रदायिनी ।
एवं न्यासविधिं कृत्वा ध्यायेदेवं हृदंबुजे
उद्यन्मार्तण्डसदृशं लोकस्थित्यन्तकारणम् ।
सशक्तिकं भूषिताङ्गं दन्त चक्राद्युदायुधम्
एवं ध्यात्वा चतुश्चत्वारिंशत्साहस्रसंयुतम् ।
चतुर्लक्षं जपेन्मन्त्रं अष्टद्रव्यैर्दशांशतः
जुहुयाद्विधिवन्मन्त्री संस्कृते हव्यवाहने ।
इक्षवः सक्तवो मोचाफलानि चिपिटास्तिलाः
मोदका नारिकेलानि लाजा द्रव्याष्टकं स्मृतम् ।
पीठमाधारशक्त्यादिपरतत्वान्तमर्चयेत्
षट्कोणान्तस्त्रिकोणं च बहिरष्टदलं लिखेत् ।
भूपुरं तद्बहिः कृत्वा गमेशं तत्र पूजयेत्
तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपाणी ।
अग्रा तेजोवती सत्या नवमी विध्ननाशिनी
सर्वादिशक्तिकमलासनाय हृदयान्तिकः ।
पीठमन्त्रो ऽयमेतेन दद्यादासनमुत्तमम्
तत्रावाह्य गणाधीशं मध्ये सम्पूज्य यत्नतः ।
विकोणबाह्ये पूर्वादिचतुर्दिक्षअवर्चयेत्क्रमात्
श्रियं श्रियः पतिं चैव गौरीं गौरी पतिं तथा ।
रतिं रतिपतिं पाश्चान्महीपूर्व च पोत्रिणम्
क्रमादिल्ववटाश्वत्थप्रियगूनामधोर्ऽचयेत् ।
रमा पद्मद्वयकरा शङ्खचक्रधरो हरिः
गौरी पाशाङ्कुशधरा टङ्कशूलधरो हरः ।
रतिः पद्मकरा पुष्पबाणचापधरः स्मरः
शूकव्रीह्यग्रहस्ता भूः पोत्री चक्रगदाधरः ।
देवाग्रे पूजयेल्लक्ष्मीसहितं तु विनायकम्
पूजयेत्षट्सु कोणेषु ह्यामोदाद्यान्प्रियायुतान् ।
आमोदं सिद्धिसंयुक्तमग्रतः परिपीजयेत्
प्रमोदं चाग्निकोणे तु समृद्धिसहितं यजेत् ।
ईशकोणे यजेत्कीर्तिसंयुतं सुमुखं तथा
वारुणे मदनावत्या संयुतं दुर्मुखं यजेत् ।
यजेन्नैरृत्यकोणे तु विघ्नं मदद्रवायुतम्
द्राविण्या विघ्नकर्तारं वायुकोणे समर्चयेत् ।
पाशाङ्कुशाभयकरांस्तरुणार्कसमप्रभान्
कपोलविगलद्दानगन्धलुब्धा लिशोभितान् ।
षट्कोणोभयपार्श्वे तु शङ्खपद्मनिभौ क्रमात्
सहितौ निजशक्तिभ्यां ध्यात्वा पूर्ववदर्चयेत् ।
केशरेषु षडङ्गानि पत्रेष्वष्टौ तु मातरः
इन्द्राद्यानपि वज्ज्रादीन्पूजयेद्धरणीगृहे ।
एवमाराध्य विघ्नेशं साधयेत्स्वमनोरथान्
चतुश्चत्वारिंशताढ्यं चतुः शतमतन्द्रितः ।
तर्पयेदंबुभिः शुद्धैर्गजास्यं दिनशः सुधीः
पद्मैस्तु वशयेद्भूपांस्तत्पत्नीश्चोत्पलैस्तथा ।
कुमुदैर्मन्त्रिणो ऽश्वत्थसमिद्भिर्वाडवाञ्शुभैः
उदुंम्बरोत्थैर्नृपतीन्वैश्यान्प्लक्षसमुद्भवैः ।
वटोद्भवैः समिद्भिश्च वशयेदन्तिमान्बुधः
आज्येन श्रियमाप्नोति स्वर्णाप्तिर्मधुना भवेत् ।
गोदुग्धेन गवां लाभो दध्ना सर्वसमृद्धिमान्
अन्नाप्तिरन्नहोमेन समिद्भिर्वेतसां जलम् ।
वासांसि लभते हुत्वा कुसुंभकुसुमैः शुभैः
अथ सर्वेष्टदं वक्ष्ये चतुरावृत्तितर्पणम् ।
मूलेनादौ चतुर्वारं प्रत्येकं च प्रतर्पयेत्
पूर्वमन्त्राक्षरैर्मन्त्रैः स्वाहान्तैश्च चतुश्चतुः ।
मूलमन्त्रैश्चतुर्वारपूर्वकं संप्रतर्प्य च
मिथुनादींस्ततः पश्चात्पूर्ववत्संप्रतर्पयेत् ।
देवेन सहितां शक्तिं शक्त्या च सहितं तु तम्
एवञ्च षड्विंशतिधा मिथुनानि भवन्ति हि ।
स्वनामाद्यर्णबीजानि तानि सन्तर्पयेत्क्रमात्
भवेत्संभूय सचतुश्चत्वारिंशञ्चतुः शतम् ।
एवं संतप्य तत्पश्चात्पूर्ववत्सोपचारकैः
सर्वाभीष्टं च संप्रार्थ्य प्रणम्योद्वासयेत्सुधीः ।
भाद्रकृष्णचतुर्थ्यादिप्रतिमासमतन्द्रितः
आरभ्यार्के दयं मन्त्री यावच्चन्द्रोदयो भवेत् ।
तावन्नोपविशेद्भूमौ जितवाक्क्रियामानसः
ततश्चन्द्रोदये मन्त्री पूजयेद्गणनायकम् ।
पूर्वोक्तविधिना सम्यङ्नानापुष्पोपहारकैः
एकविंशतिसंख्याकान्मोदकांश्च निवेदयेत् ।
तदग्रे प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम्
ततः कर्पूरकाश्मीररक्तपुष्पैः सचन्दनैः ।
अर्ध्यं दद्यात्तु मूलान्ते ङेंते गणपतिं ततः
इदमर्ध्यं कल्पयामि हृदन्तोर्ऽध्यमनुर्मतः ।
स्तुत्वा नत्वा विसृज्याथ यजेच्चन्द्रमसं पुनः
अर्ध्यं दद्याञ्चतुर्वारं पूजयित्वा गुरुं ततः ।
निवेदितेषु विप्राय दद्यादर्धांश्च मोदकान्
स्वयमर्द्धान्प्रभुञ्जीत ब्रह्मचारी जितेन्द्रियः ।
एवं व्रतं यः कुरुते सम्यक्संवत्सरावधि
पुत्रान्पौत्रान्सुखं वित्तमारोग्यं लभते नरः ।
सूर्योदयादशक्तश्चेदस्तमारभ्य मन्त्रवित्
चन्द्रोदयान्तं पूर्वोक्तविधिना व्रतमाचरेत् ।
एवं कृते ऽपि पूर्वोक्तं फलमाप्नोति निश्चितम्
गणिशप्रतिमां दन्तिदन्तेन कपिनापि वा ।
गजभग्रेन निंबेन सितार्केंणाथवा पुनः
कृत्वा तस्यां समावाह्य प्राणस्थापनपूर्वकम् ।
अभ्यर्च्य विधिवन्मन्त्री राहुग्रस्ते निशाकरे
स्पृष्ट्रा चैव निरहारस्तां शिखायां समुद्वहन् ।
द्यूते विवादे समरे व्यवहारे जयं लभेत्
बीजं वराहो बिन्द्धाढ्यौ मन्विन्द्वान्नौ कलौ ततः ।
स्मृतिर्मांसेंदुमन्वाग्रा कर्णोच्छिष्टगणे वदेत्
बकः सदीर्घपवनो महायक्षाय यं बलिः ।
बलिमन्त्रो ऽयमाख्यातो न चेद्वर्णो ऽखिलेष्टदः
प्रणवो भुवनेशानीस्वबीजान्ते नवार्णकः ।
हस्तीति च पिशाचीति लिखेञ्चैवाग्रिंसुंदरी
नवार्णो ऽयं समुद्दिष्टो भजतां सर्वसिद्धिदः ।
पदैः सर्वण मन्त्रेण पञ्चाङ्गानि प्रकल्पयेत्
अन्यत्सर्वं समानं स्यात्पूर्वमन्त्रेण नारद ।
अथाभिधास्ये विधिवद्वक्रतुण्डमनुत्तमम्
तोयं विधिर्वह्नियुक्तकर्णेन्द्वाढ्यो हरिस्तथा ।
सदीर्घो दारको वायुर्वर्मान्तो ऽयं रसार्णकः
भार्गवो ऽस्य मुनिश्छन्दो ऽनुष्टुब्देवो गणाधिपः ।
वक्रतुण्डाभिधो बीजं वं शक्तिः कवचं पुनः
तारदृन्मध्यगैर्मन्त्रवर्णैश्चन्द्रविभूषितैः ।
कृत्वा षडङ्गमन्त्रार्णान्भ्रूमध्ये च गले हृदि
नामौ लिङ्गे पदे न्यस्याखिलेन व्यापकं चरेत् ।
उद्यदर्कद्युतिं हस्तैः पाशाङ्कुशवराभयान्
दधतं गजवक्त्रं च रक्तभूषांबरं भजेत् ।
ध्यात्वैवं प्रजपेत्तर्कलक्षं द्रव्यैर्दशांशतः
अष्टभिर्जुहुयात्पीठे तीव्रादिसहितेर्ऽचयेत् ।
मूर्तिं मूर्तेन संकल्प्य तस्यामावाह्य पूजयेत्
षट्कोणेषु षडङ्गानि पत्रेष्वष्टौ तु शक्तयः ।
यजेद्विद्यां विधात्रीं च भोगदां विप्रघातिनीम्
निधिप्रदीपां पापघ्नीं पुण्यां पश्चाच्छशिप्रभाम् ।
दलाग्रेषु वक्रतुण्ड एकदंष्ट्रमहोदरौ
गजास्यलंबोदरकौ विकटौ विध्नराट् तथा ।
धूम्रवर्णस्ततो बाह्ये लोकेशान्हेतिसंयुतान्
एवमावरणैरिष्ट्वा पञ्चभिर्गणनायकम् ।
साधंयेदखिलान्कामान्वक्रतुण्ड प्रंसादतः
लब्ध्वा गुरुमुखान्मन्त्रं दीक्षासंस्कारपूर्वकम् ।
ब्रह्मचारी हविष्याशी सत्यवाक् च जितेन्द्रियः
जपेदर्कसहस्रं तु षण्मासं होमसंयुतम् ।
दारिद्षं तु पराभूय जायते धनदोपमः
चतुर्थ्यादि चतुर्थ्यन्तं जपेदयुतमादरात् ।
अष्टोत्तरशतं नित्यं हुत्वा प्राग्वत्फलं लभेत्
पक्षयोरुभयोर्मन्त्री चतुर्थ्यां जुहुयाच्छतम् ।
अपूपैर्वत्सरे स स्यात्समृद्धेः परमं पदम्
अङ्गारकचतुर्थ्यां तु देवमिष्ट्वा विधानतः ।
हविषा पा यसान्नेन नैवेद्यं परिकल्पयेत्
ततो गुरुं समभ्यर्न्त्य भोजयेद्विधिवत्सुधीः ।
निवेदितेन जुहुयात्सहरस्रं विधिवद्वसौ
एवं संवत्सरं कृत्वा महतीं श्रियमाप्नुयात् ।
अथान्यत्साधनं वक्ष्ये लोकानां हितकाम्यया
इष्ट्वा गणेशं पृथुकैः पायसापूपमोदकः ।
नानाफलैस्ततोमन्त्री हरिद्रामथ सैन्धवम्
वचां निष्कार्द्धभागं च तदर्द्धं वा मनुं जपेत् ।
विशोध्य चूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेत्
सहस्रकृत्वो मनुना मन्त्रयित्वा प्रयत्नतः ।
स्नातामृतुदिने शुद्धां शुक्लांबरधरां शुभाम्
देवस्य पुरतः स्थाप्य पाययेदौषधं सुधीः ।
सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम्
अथान्यत्संप्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
गोचर्ममात्रां धरणीमुपलिप्य प्रयत्नतः
विकीर्य धान्यप्रकरैस्तत्र संस्थापयेद्धटम् ।
शुद्धोदकेन संपूर्य तस्योपरि निधापयेत्
कपिलाज्येन संपूर्णं शरावं नूतनं शुभम् ।
षडष्टाक्षरमन्त्राभ्यां दीपमारोपयेच्छुभम्
दीपे देवं समावाह्य गन्धपुष्पादिभिर्यजेत् ।
स्नातां कुमारीमथवा कुमारं पूजयेत्सुधीः
दीपस्य पुरतः स्थाप्यध्यात्वा देवं जपेन्मनुम् ।
प्रदीपे स्थापिते पश्येद्द्विजरूपं गणेश्वरम्
पृष्टस्ततः संपदि वा नष्टं चैवाप्यनागतम् ।
सकलं प्रवदेदेवं कुमारी वा कुमारकः
षडक्षरो हृदन्तश्चेद्भवेदष्टाक्षरो मनुः ।
अन्ये ऽपि मन्त्रा देवर्षे सन्ति तन्त्रे गणेशितुः
किन्त्वत्र यन्न साध्यं स्यात्र्रिषु लोकेषु साधकैः ।
अष्टविंशरसार्णाभ्यां तन्न पश्येदपि क्वचित्
एतद्गणेशमन्त्राणां विधानं ते मयोदितम् ।
शठेभ्यः परशिष्येभ्यो वञ्चकेभ्यो ऽपि मा वद
एवं यो भजते देवं गणेशंसर्वसिद्धिदम् ।
प्राप्येह सकलान्भोगनिन्ते मुक्तिपदं व्रजेत्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0