भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.67

1.67.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने तृतीयपादे संध्यादिनिरूपणं नाम षट्षष्टितमो ऽध्यायः
सनत्कुमार उवाच
अथ वक्ष्ये देवपूजां साधकाभीष्टसिद्धिदाम् ।
त्रिकोणं चतुरस्रं वा वामभागे प्रकल्प्य च

1.67.2

सम्पूज्या स्रेण संक्षाल्य हृदाधारं निधाय च ।
तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्रतः

1.67.3

आधारे नामसं स्थाप्य तत्र चेद्रविमण्डलम् ।
क्लिममातृका पूलमुञ्चरन्पूरपेज्जलैः

1.67.4

चत्रेञ्जुमण्डलं प्रार्च्य तीर्थान्यावाह्य पूर्ववत् ।
गोमुद्रयामृतीकृत्य कवचेनावगुण्ठयेत्

1.67.5

संक्षाल्यास्रेण प्रणवं तदुपर्यष्टधा जपेत् ।
सामान्यार्घमिदं प्रोक्तं सर्वसिद्धिकरं नृणाम्

1.67.6

तज्जलं र्किचिदुदूधृत्य प्रोक्षिण्या साधकोत्तमः ।
आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पुथक्

1.67.7

आत्मवामाग्रतः कुर्यात्षट्ट्कोणान्तस्रिकोणकम् ।
चतुरस्रेण संवेष्ट्य संक्षाल्यार्घोदकेन च

1.67.8

ततस्तु साधकश्रेष्ठः स्तंभयेच्छङ्खमुद्रया ।
आग्नेयादिषु कोणेषु हृदाद्यङ्गचतुष्टयम्

1.67.9

नेत्रं मध्ये दिक्षु चास्रं त्रिकोणे पूजयेत्ततः ।
मूलखण्डत्रयेनाथाधारशक्तिं तु मध्यगाम्

1.67.10

एवं संपूज्य विधिवदस्रंसंक्षालितं हृदा ।
प्रतिष्टाप्य त्रिपदिकां पूजयेन्मनुनामुना

1.67.11

मं वह्निमण्डला येति ततो देशकलात्मने ।
अमुकार्ध्येति पात्रान्ते सनापहृदयोंऽतिमे

1.67.12

चतुर्विंशतिवर्णो ऽयमाधारस्यार्चने मनुः ।
स्वमन्त्रक्षालितं शरंवं संस्याप्याय समर्चयेत्

1.67.13

तारः कार्ंममहांस्ते तु ततो जलचराय च ।
वर्म फट् हृदयं पाञ्चजन्याय हृदयं मनेः

1.67.14

तत्रार्कमण्डलायेति द्वादशान्ते कलारमने ।
अमुकार्ध्येति पात्रान्ते नमोन्तस्त्र्यक्षिवर्णवान्

1.67.15

सम्पूज्य तेन तत्रार्चेद्द्वादशार्ककलाः क्रमात् ।
ततः शुद्धजलैर्मूलं विलोममातृकां पठन्

1.67.16

शङ्खमापूरयेत्तस्मिन्पूजयेन्मनुनामुना ।
ओं सोममण्डलायेति षोडशान्ते कलात्मने

1.67.17

अमुकार्ध्यामृतायेति हृन्मनुश्चार्ध्यपूजने ।
तत्र षोडशसंख्याका यजेञ्चन्द्रमसः कलाः

1.67.18

ततस्तु तीर्थान्यावाह्य गङ्गे चेत्यादिपूर्ववत् ।
गोमुद्रयामृतीकृत्याच्छादयेन्मत्स्ममुद्रया

1.67.19

कवचेनावगुण्ठ्याथ रक्षेदस्त्रेण तत्पुनः ।
चिन्तयित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत्

1.67.20

शङ्खमौशलचकाख्याः परमीकरणं ततः ।
महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः

1.67.21

गारुडी गालिनी चैव मुख्ये मुद्रे प्रकीर्तिते ।
गन्धपुष्पादिभिस्तत्र पूजयेद्देवतां स्मरनट्

1.67.22

अष्टकृत्वो जपेन्मूलं प्रणवं चाष्टधा तथा ।
शङ्खाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत्

1.67.23

प्रोक्षण्यां तज्जलं किञ्चित्कृत्वात्मानं त्रिधा ततः ।
आत्मतत्त्वात्मने हृञ्च विद्यातत्त्वात्मने नमः

1.67.24

शिवतत्त्वात्मने हृञ्च इत्येतैर्मनुभिस्त्रिभिः ।
प्रोक्षेत्पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधीः

1.67.25

अथवा मूलगायत्र्या पूजाद्रव्याणि प्रोक्षयेत् ।
पाद्यार्ध्याचमनूयार्थं मधुपर्कार्थमप्युत

1.67.26

पात्राण्याधारयुक्तानि स्थापयेद्विधिना पुरः ।
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्तजलैः स्मृतम्

1.67.27

अर्ध्यं पुष्पाक्षतयवैः कुशाग्रतिलसर्षपैः ।
गन्धदूर्वादलैः प्रोक्तं ततश्चाचमनीयकम्

1.67.28

जातीफलं च कङ्कोलं लवङ्गं च जलान्वितम् ।
क्षौद्राज्यदधिसंमिश्रं मधुपर्कसमीरितम्

1.67.29

एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् ।
शङ्करार्कार्चने शङ्खमयेनैव प्रशस्यते

1.67.30

श्वेताकृष्णारुणापीताश्यामारक्तासितासिताः ।
रक्तांबराभयकराध्येयाःस्पुः पीठशक्तयः

1.67.31

स्वर्णादिलिखिते यन्त्रे शालग्रामे मणौ तथा ।
विधिना स्थापितायां वा प्रतिमायां प्रपूजयेत्

1.67.32

अङ्गुष्टादिवितस्त्यन्तमाना स्वर्णादिधातुभिः ।
निर्मिता शुभदा गेहे पूजनाय दिने दिने

1.67.33

वक्रां दग्धां खण्डितां च भिन्नमूर्द्धदृशं पुननः ।
स्पष्टां वाप्य न्त्यजाद्यैश्च प्रतिमां नैव पूजयेत्

1.67.34

बाणादिलिङ्गे वाभ्यर्चेत्सर्वलक्षणलक्षिते ।
मूलेन मूर्तिं संकल्प्य ध्यात्वा देवं यथोदितम्

1.67.35

आवाहा पूजयेतस्यां परिवारगणैः सह ।
शालग्रामे स्थापितायां नावाहनविसर्जने

1.67.36

पुष्पाञ्जलिं समादाय ध्यात्वा मन्त्रमुदीरयेत्

1.67.37

आत्मसंस्थमजं शुद्धं त्वामहं परमेश्वर ।
अरण्यामिव हव्याशं मूर्तावावाहयाम्यहम्

1.67.38

तवेयं हि महामूर्तिस्तस्यां त्वां सर्वगं प्रभो ।
भक्तिरेवहसमाकृष्टं दीपवत्स्थापयाम्यहम्

1.67.39

सर्वान्तर्यामिणे देवं सर्वबीजमय शुभम् ।
रवात्मस्थआय परं शुद्धमासनं कल्पयाव्यहम्

1.67.40

अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ।
सांनिध्यं कुरु तस्यां त्वं भक्तानुग्राहकारक

1.67.41

अज्ञानाजुच मत्तत्त्वाद्वैकल्यात्साधनस्य च ।
यद्यपूर्णं भवेत्कल्पं कतथाप्यभिमुखो भव

1.67.42

दृशा पूयूषवर्षिण्या पूरयन्यज्ञविष्टरे ।
मूर्तौं वा यज्ञसंपूर्त्यै स्थितो भव महेश्वर

1.67.43

अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरायितद्युते ।
स्वतेजः पञ्जरेणाशु वेष्टितो भव सर्वतः

1.67.44

यस्य दर्शनामिच्छन्ति देवाः स्वाभीष्टसिद्धये ।
तस्मै ते परमेशाय स्वागतं स्वागतं च मे

1.67.45

कृतार्थो ऽनुगृहीतो ऽस्मि सफलं जीवितं मम ।
आगतो देवदेवेशः सुखागतमिदं पुनः

1.67.46

यद्भक्तिलेप्तसंपर्कात्परमानन्दसंभवः ।
तस्मै मे परणाब्जाय पाद्यं शुद्धाय कल्प्यते

1.67.47

वेदानामपि वेदाय देवानां देवतात्मने ।
आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे

1.67.48

तापत्रयहर दिव्यं परमानन्दलक्षणम् ।
तापत्रयविनिर्मुक्त्यै तवार्घ्यं कल्पयाम्यहम्

1.67.49

सर्वकालुष्यहीनाय परिपूर्णसुखात्मने ।
मधुपर्कमिदं देव कल्पयामि प्रसीद मे

1.67.50

अवच्छिष्टो ऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम्

1.67.51

स्नेहं गृहाण स्नेहेन लोकनाथ महाशय ।
सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम्

1.67.52

परमानन्दबोधाब्धिनिमग्ननिजमूर्तये ।
सांगोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते ।
सहस्रं वा शतं वापि यथाशक्त्यादरेण च

1.67.53

गन्धपुष्पादिकैरीश मनुनां चाभिषिञ्चेत्

1.67.54

मायाचि त्रपटच्छन्ननिजगुह्योरुतेजसे ।
निरावरणविज्ञान वासस्ते कल्पयाम्यहम्

1.67.55

यमाश्रित्य म हामाया जगत्संमोहिनी सदा ।
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम्

1.67.56

रक्तं शक्त्यर्कविघ्नेषु पीतंविष्णौ सितं शिवे ।
तैलादिदूषितं जीर्णं सच्छिद्रं मलिनं त्यजेत्

1.67.57

यस्य शक्तित्रयेणदं संप्रीतमखिलं जगत् ।
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये

1.67.58

स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते ।
भूषणानि विचित्राणि कल्पयाम्यमरार्चित

1.67.59

परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् ।
गृहाण परम गन्ध कृपया परमेश्वर

1.67.60

तुरीयवनसंभूतं नानागुणमनोहरम् ।
अमन्दसौरभपुष्पं गृह्यतामिदमुत्तमम् ।
जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत्क्वचित्

1.67.61

केतकीं कुटजं कुन्दं बन्धूकं केसरं जपाम् ।
मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे

1.67.62

मातुलिङ्गं च तगरं रवौ नैवार्पयेत्क्वचित् ।
शक्तौ दूर्वार्कमन्दारान् गणेशे तुलसीं त्यजेत्

1.67.63

सरोजिनीदमनकौ तथा मरुबकः कुशः ।
विष्णुक्रान्ता नागवल्ली दूर्वापामार्गदाडिमौ

1.67.64

धात्री मुनियुतानां च पत्रैर्देवार्चनं चरेत् ।
कदली बदरी धात्री तिन्तिणी बीजपूरकम्

1.67.65

आम्रदाडिमजंबीरजंबूपनसभूरुहाः ।
एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः

1.67.66

शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि

1.67.67

धात्री खदिरबित्वानां तमालस्य दलानि च ।
छिन्नभिन्नान्यपि मुने न दूष्याणि जगुर्बुधाः

1.67.68

पद्ममामलकं तिष्टेच्छुद्धं चैव दिनत्रयम् ।
सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा

1.67.69

पलाशकाशकुसुमैस्तमालतुलसीदलैः ।
छात्रीदलैश्च दूर्वाभिर्नार्चयेज्जगदंबिकाम्

1.67.70

नार्पयेत्कुसुमं पत्रं फलं देवे ह्यधोमुखम् ।
पुष्पपत्रादिकं विप्र यथोत्पन्नं तथार्पयेत्

1.67.71

वनस्पतिरसं दिव्यं गन्धाढ्यं सुमनोहरम् ।
आघ्रेयं देवदेवेश धूपं भक्त्या गृहाम मे

1.67.72

सुप्रकाशं महादीपं सर्वदा तिमिरापहम् ।
घृतवर्तिसमायुक्तं गृहाण मम सत्कृतम्

1.67.73

अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।
भक्त्या गृहाण मे देव नैवेद्यन्तुष्टिदंसदा

1.67.74

नागवल्लीदलं श्रेष्ठं पूगखदिरचूर्णयुक् ।
कर्पूरादिसुगन्धाढ्यं यद्दत्तं तद्गृहाण मे

1.67.75

दद्यात्पुष्पाञ्जलिं पश्चात्कुर्यादावरणार्चनम्

1.67.76

यदाशाभिमुखो भूत्वा पूजनं तु समाचरेत् ।
सैव प्राची तु विज्ञेया ततो ऽन्या विदिशो दश

1.67.77

केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् ।
नेत्रमग्रे दिक्षु चास्त्रं अङ्गमन्त्रैर्यथाक्रमम्

1.67.78

शुक्लश्वेतसितश्यामकृष्णरक्तार्चिषः क्रमात् ।
वराभयकरा ध्येयाः स्वस्वदिक्ष्वं गशक्तयः

1.67.79

अमुकावरणान्ते तु देवता इति संवदेत् ।
सालङ्कारास्ततः पश्चात्सांगाः सपरिचारिकाः

1.67.80

सवाहनाः सायुधाश्च ततः सर्वो पचारकैः ।
संपूजितास्तर्पिताश्च वरदाः संत्विदं पठेत्

1.67.81

मूलान्ते च समुञ्चार्य दिवतायै निवेदयेत् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सल

1.67.82

भक्तया समर्पये तुभ्यममुकावरणार्चनम् ।
इत्युञ्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके

1.67.83

ततस्त्वभ्यर्च्यनीयाः स्युः कल्पोक्ताश्चावृतीः क्रमात् ।
सायुधांस्तत इन्द्राद्यान्स्वस्वदिक्षु प्रपूजयेत्

1.67.84

इद्रो वह्निर्यमो रक्षो वरुणः पवनो विधुः ।
ईशानो ऽथ विधिश्चैवमधस्तात्पन्न गाधिपः

1.67.85

ऐरावतस्तथा मेषो महिषः प्रेतस्तिमिर्मृगः ।
वाजी वृषो हंसकूर्मौं वाहनानि विदुर्बुधाः

1.67.86

वज्रं शक्तिं दण्डखड्गौ पाशां कुशगदा अपि ।
त्रिशूलं पद्मचक्रे च क्रमादिन्द्रादिहेतयः

1.67.87

समाप्यावरणार्चां तु देवतारार्तिकं चरेत् ।
शङ्खतोयं परिक्षिप्योद्वाहुर्नृत्यन् पतेत्क्षितौ

1.67.88

दण्डवञ्चाप्यथोत्थाय प्रार्थयित्वा निजे श्वरम् ।
दक्षिणे स्थण्डिलं कृत्वा तत्र संस्कारमाचरेत्

1.67.89

मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं पुनः ।
कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम्

1.67.90

प्रदाप्य तत्र जुहुयाद्ध्यात्वा चैवेष्टदेवताम् ।
महाव्याहृतिभिर्यस्तु समस्ताभिश्चतुष्टयम्

1.67.91

जुहुयात्सर्पिषा भक्तैस्तिलैर्वा पायसेन वा ।
सघृतैः साधकश्रेष्ठः पञ्चविंशतिसंख्यया

1.67.92

पुनर्व्याहृतिभघिर्हुत्वा गन्धाद्यैः पुनरर्चयेत् ।
देवं संयोजयेन्मूर्तौं ततो वह्निं विसर्जयेत्

1.67.93

भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक ।
कर्मान्तरे ऽपि संप्राप्ते सान्निध्यं कुरु सादरम्

1.67.94

विसृज्याग्निदेवतायै दद्यादाचमनीयकम् ।
अवशिष्टेन हविषा गन्धपुष्पाक्षतान्वितम्

1.67.95

देवतापार्षदेभ्यो ऽपि पूर्वोक्तेभ्यो बलिं ददेत् ।
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः

1.67.96

योगिन्यो ह्युग्ररूपाश्च गणानामधिपाश्च ये ।
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताःग

1.67.97

सर्वे ते प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ।
इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत्

1.67.98

पानीयममृतीकृत्य मुद्रया धेनुसंज्ञया ।
देवतायाः करे दद्यात्पुनश्चाचमनीयकम्

1.67.99

देवमुद्वास्य मूर्तिस्थं पुनस्तत्रैव योजयेत् ।
नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने

1.67.100

महेश्वरस्य चण्डेशो विष्वक्सेनस्तथा हरेः ।
चण्डांशुस्तरणेर्वक्ततुण्डश्चापि गणेशितुः ।
शक्तेरुच्छिष्टचाण्डाली प्रोक्ता उच्छिष्टभोजिनः

1.67.101

ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडङ्गकम् ।
जप्त्वा मन्त्रं यथाशक्ति देवतायै निवेदयेत्

1.67.102

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता

1.67.103

ततः पराङ्मुखं चार्घं कृत्वा पुष्पैः प्रपूजयेत् ।
दोर्भ्यां पभ्द्यां च जानुभ्यामुरसा शिरसादृशा ।
मनसा वचसा चेति प्रणामो ऽष्टाङ्ग ईरितः

1.67.104

बाहुभ्यां च सजानुभ्यां शिरसा वचसापि वा ।
पञ्चाङ्गकः प्रणामः स्यात्पूजायां प्रवरावुभौ

1.67.105

नत्वा च दण्डवन्मन्त्री ततः कुर्यात्प्रदक्षिणाः ।
विष्मुसोमार्कविघ्नानां वेदार्धेन्द्वद्रिवह्नयः

1.67.106

ततः स्तोत्रादिकं मन्त्री प्रपठे द्भक्तिपूर्वकम् ।
इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः

1.67.107

जाग्रत्स्वप्नसुषुप्त्यन्ते ऽवस्थासु मनसा वदेत् ।
वाचा हस्ताभ्यां च पद्भ्या मुदरेण ततः परम्

1.67.108

शिष्णान्ते यत्स्मृतं पश्चाद्यदुक्तं यत्कृतं ततः ।
तत्सर्वं च ततो ब्रह्मर्पणं भवतु ठद्वयम्

1.67.109

मां मदीयं च सकलं विष्णवे च समर्पये ।
तारं तत्सदतो ब्रह्मर्पणमस्तु मनुर्मतः

1.67.110

प्रणवाद्यो ऽष्टवस्वर्णो ह्यनेनात्मानमर्पयेत् ।
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च

1.67.111

यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ।
द्रव्यहीनं क्रियाहीनं मन्त्रहीनं मयान्यथा

1.67.112

कृतं यत्तत्क्षमस्वेश कृपया त्वं दयानिधे ।
यन्मया क्रियते कर्म जाग्रत्स्वप्रसुषुप्तिषु

1.67.113

तत्सर्वं तावकी पूजा भूयाद्भूत्यै च मे प्रभो ।
भूमौ स्खलितपादानां भूमिरेवावलंबनम्

1.67.114

त्वयि जातापराधानां त्वमेव शरणं प्रभो ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम

1.67.115

तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर ।
अपराधसहस्राणि क्रियन्ते ऽहर्न्निशं मया

1.67.116

दासो ऽयमिति मां मत्वा क्षमस्व जगतां पते ।
आवाहनं न जानामि न जानामि विसर्जनम्

1.67.117

पूजां चैव न जानामि त्वं गतिः परमेश्वर ।
संप्रार्थ्यैवं ततो मन्त्री मूलान्ते श्लोकमुञ्चरेत्

1.67.118

गच्छ गच्छ परं स्थानं जगदीश जगन्मय ।
यन्न ब्रह्मादयो देवा जानन्ति च सदाशिवः

1.67.119

इति पुष्पाञ्जलिं दत्वा ततः संहारमुद्रया ।
निधाय देवं सांगं च स्वीयदृत्सरसीरुहे

1.67.120

सुषुम्णावर्त्मना पुष्पमाघ्रायोद्वासयेद् बुधः ।
शङ्खचक्रशिलालिङ्गविघ्नसूर्यद्वयं तथा

1.67.121

शक्तित्रयं न चैकत्र पूजयेद्दुःखकारणम् ।
अकालमृत्युहरणं सर्वव्याधिविनाशन्

1.67.122

सर्वपापक्षयकरं विष्णुपादोदकं शुभम्

1.67.123

तत्तद्भक्तैर्गृही तव्यं तन्नैवेद्यनिवेदितम् ।
अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम्

1.67.124

शालग्रामशिलास्पर्शात्सर्वं याति पवित्रताम् ।
पूजा पञ्चविधा तत्र कथिता नारदाखिलैः

1.67.125

आतुरी सौतिकी त्रासी साधना भाविनी तथा ।
दौर्बोधी च क्रमादासां लक्षणानि शृणुषअव मे

1.67.126

रोगादियुक्तो न स्रायान्न जपेन्न च पूजयेत् ।
विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमण्डलम्

1.67.127

प्रणम्याथ स्मरन्मन्त्रमर्पयेत्कुमाञ्जलिम् ।
रोगे निवृत्ते स्नात्वाथ नत्वा संपूञ्चेद्गुरुम्

1.67.128

त्वत्प्रसादाज्जगन्नाथ जगत्पूज्य दयानिधे ।
पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम्

1.67.129

द्विजानपि च संपूज्य यथाशक्त्या प्रतोष्य च ।
तेभ्यश्चाशिषमादाय देवं प्राग्वत्ततोर्ऽचयेत्

1.67.130

आतुरी कथिता ह्येषा सोतिक्यथ निगद्यते ।
सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम्

1.67.131

तत्र स्नात्वा मानसीं तु कृत्वा संध्यां समाहितः ।
मनसैव यजेद्देवं मनसैव जपेन्मनुम्

1.67.132

निवृत्ते सूतके प्राग्वत्संपूज्य च गुरुं द्विजान् ।
तेभ्यश्चाशिषमादाय ततो नित्यक्रमं चरेत्

1.67.133

एषा तु सौतिकी प्रोक्ता त्रासी चाथ निगद्यते ।
दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारङ्कैः

1.67.134

मानसैर्वै यजेद्देवं त्रासी सा परिकीर्तिता ।
पूजासाधनवस्तूनाम सामर्थ्ये तु सर्वतः

1.67.135

पुष्पैः पत्रैः फलैर्वापि मनसा वा यजेद्विभुम् ।
साधनाभाविनी ह्येषा दौर्बोधीं शृणु नारद

1.67.136

स्त्रियो वृद्धा स्तथा बाला मूर्खास्तैस्तु यथाक्रमम् ।
यथाज्ञानकृता सा तु दौर्बोधीति प्रकीर्तिता

1.67.137

एवं यथाकथञ्चित्तु पूजां कुर्याद्धि साधकः ।
देवपूजाविहीनो यः स गच्छेन्नरकं ध्रुवम्

1.67.138

वैश्वदेवादिकं कृत्वा भोजयेद्द्विजसत्तमान् ।
देवे निवेदितं पश्चाद्भुञ्जीत स्वगणैः स्वयम्

1.67.139

आचम्याननशुद्धिं च कृत्वा तिष्टेत् कियत्क्षणम् ।
पुराणमितिहासं च शृणुयात्स्वजनैः सह

1.67.140

समर्थः सर्वकल्पेषु यो ऽनुकल्पं समाचरेत् ।
न सांगशयिकं तस्य दुर्मतेर्जायते फलम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc