नारद पुराण · अध्याय 1.66
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चषष्टिमो ऽध्यायः
सनत्कुमार उवाच
ततः श्वासानुसारेण दत्वा पादं महीतले ।
समुद्रमेखले देवि पर्वतस्तनमण्डले
विष्णुवत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।
इति भूमिं तु संप्रार्थ्य विहरेञ्च यथाविधि
रक्षः कोणे ततो ग्रामाद्गत्वा मन्त्रमुदीरयेत् ।
गच्छन्तु ऋषयो देवाः पिशाचा ये च गुह्यकाः
पितृभूतगणाः सर्वे करिष्ये मलमोचनम् ।
इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा
दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः ।
मलं विसृज्य सौचं तु मृदाद्भिः समुपाचरेत्
एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः ।
करयोः सप्त वै दद्यात्रित्रिवरं च पादयोः
एवं शौचं विधायाथ गण्डूषान्द्वादशैव तु ।
कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते
संप्रार्थ्यैवं दन्तकाष्टं द्वादशाङ्गुलसंमितम् ।
गृहीत्वा काममन्त्रेण कुर्यान्मन्त्री समाहितः
कामदेवपदं ङेन्तं तथा सर्वजनप्रियम् ।
हृदन्तः कामबीजाढ्यं दन्तांश्चानेन शोधयेत्
जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम् ।
देवागारं ततो गत्वा निर्माल्यमपसार्य च
परिधायांबरं शुद्धं मङ्गलारार्तिकं चरेत् ।
अस्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेञ्च तम्
संपूज्य पात्रमादायोत्थाय घण्टां च वादयेत् ।
सुगोघृतप्रदीपेन भ्रामितेन समन्ततः
वाद्यैर्गीतैर्मनोज्ञैश्च देवस्यारार्तिकं भवेत् ।
इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम्
स्नातुं यायान्निम्रगादौ कीर्तयन्देवतागुणान् ।
गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै
मूलाभिमन्त्रितमृदमादाय कटिदेशतः ।
विलिप्यपादपर्यन्तं क्षालयेत्तीर्थवारिणा
ततश्च पञ्चभिः पादौ प्रक्षाल्यान्तर्जले पुनः ।
प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च
मणिबन्धे हस्ततले तदग्रे च तथा पुनः ।
कृत्वाङ्गुल्या गाङ्गमृगमादायास्त्रेण तत्पुनः
निजोपरि च मन्त्रज्ञो भ्रामयित्वा त्यजेत्सुधी ।
तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत्
निमज्य क्षालयेत्सम्यग् मलस्नानमितीरितम् ।
विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत्
अनन्ता दित्यसंकाशं निजभूषायुधैर्युतम् ।
मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम्
धारां च ब्रह्मरन्ध्रेण प्रविशन्तीं निजां तनुम् ।
तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम्
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ।
ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः
मन्त्रस्नानं ततः कुर्यात्तद्विधानमथोच्यते ।
देशकालौ च संकीर्त्य प्राणायामषडङ्गकैः
कृत्वार्कमण्डलात्तीर्थान्याह्वयेन्मुष्टिमुद्रया ।
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः
तेन सत्येन मे देव देहि तीर्थं दिवाकर
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिंधुकावेरि जले ऽस्मिन्संनिधिं कुरु
इत्यावाह्य जले तानि सुधाबीजेन योजयेत् ।
गोमुद्रयामृतीकृत्य कवचेनावगुण्ठ्य च
संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रां प्रदर्शयेत् ।
वह्न्यर्केन्दुमण्डलानि तत्र संचितयेद्रुधः
मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम् ।
मूलेन चैकादशधा तत्र संमन्त्र्य भावयेत्
पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम् ।
स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः
सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः ।
आधारः सर्वभातानां विष्णोरतुलतेजसः
तद्रूपाश्च ततो जाता आपस्ताः प्रणमाम्यहम् ।
इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः
निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत् ।
निमज्ज्योन्मज्ज्य त्रिश्चैवं सिंचेत्कं कुंभमुद्रया
त्रिर्मूलेन चतुर्मन्त्रैरभिषिञ्चेन्निजां तनुम् ।
चत्वारो मनवस्ते ऽत्र कथ्यन्ते तान्त्रिका मुने
सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः ।
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम्
अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता ।
क्षालयन्ति च तां स्पर्शादापो देव्यः पुनन्तु माम्
यन्मे केशेषु दौर्भाग्यं सीमन्ते यञ्च मूर्द्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः
आयुरारोग्यमैश्वर्यमरिपक्षक्षयं शुभम् ।
सन्तोषः क्षान्तिरास्तिक्यं विद्या भवतु वो नमः
विप्रपादोदकं पीत्वा शालग्रामशिलाजलम् ।
पिबेद्धिरुद्धं नो कुर्यादेषां तु नियतो विधिः
पृथिव्यां यानि तीर्थानि दक्षाङ्घ्रौ तानि भूसुरे ।
स्वेष्टदेवं समुद्वास्य मन्त्री मार्तण्डमण्डले
ततस्तीरं समागत्यं वस्त्रं संक्षाल्य यत्नतः ।
वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः
रोगाद्यशक्तो मनुजः कुर्यात्तत्राघर्मषणम् ।
अथवा भस्मना स्नातो रजोभिश्चैव वाक्षमः
अथ सन्ध्यादिकं कुर्यान् स्थित्वा चैवासने शुभे ।
केशवेन तथा नारायणेन माधवेन च
संप्राश्य तोयं गोविन्दविष्णुभ्यां क्षालयेत्करौ ।
मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत्
वामनश्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः ।
हृषीकेशपद्मनाभाभ्यां स्पृशेञ्चरणौ ततः
दामोदरेण मूर्द्धानं मुखं संकर्षणेन च ।
वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः
अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्पृशेत्ततः ।
अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा
नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि ।
हरिणा विष्णुनांसौ च वैष्णवाचमनं त्विदम्
प्रणवाद्यैर्ङेन्तस्वाहान्तैः केशवादिकनामभिः ।
मुखे नसोः प्रदेशिन्यानामया नेत्रकर्णयोः
कनिष्ठया नाभिदेशं सर्वत्राङ्गुष्ट्योजनम् ।
आत्मविद्याशिवैस्तत्त्वैः स्वाहान्तैः शैवमीरितम्
दीर्घत्रयेन्दुयुग्व्योमपूर्वकैश्च पिबेज्जलम् ।
आत्मविद्यासिवैरेव शैवं स्वाहावसानिकैः
वाग्लज्जाश्री मुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः ।
वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम्
तिलकं च ततः कुर्याद्भाले सुष्ठु गदाकृति ।
नन्दकं हृदये शङ्खचक्रे चैव भुजद्वये
शार्ङ्गबाणं मस्तके च विन्यसेत्क्रमशः सुधीः ।
कर्णमूले पार्श्वयोश्च पृष्टे नाभौ ककुद्यपि
एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः ।
अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्यंबकेण तु
किंवाग्निरिति मन्त्रेणाभिमन्त्र्य पञ्चमन्त्रकैः ।
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः
पञ्च कुर्यात्रिपुण्ड्राणि भालांसोदरहृत्सु च ।
शैवं शाक्तस्त्रिकोणा भं नारीवद्वा समाचरेत्
कृत्वा तु वैदिकीं संध्यां तान्त्रिकीं च समाचरेत् ।
आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत्
ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःभिपेत् ।
सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत्
ततश्च प्राणानायम्य कृत्वा न्यासं षडङ्गकम् ।
आदाय वामहस्तेंऽबु दक्षेणाच्छाद्य पाणिना
वियद्वाय्वग्नितोयक्ष्माबीजैः संमन्त्र्य मन्त्रवित् ।
मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया
स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम् ।
कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत्
जलं तेजोमयं तञ्चाकृष्यान्तश्चेडया पुनः ।
प्रक्षाल्यान्तर्गतं तेन कल्मषं तज्जलं पुनः
कृष्णवर्णं पिङ्गलया रेचयेत्स्वाग्रतस्तथा ।
क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले
एतद्ध्वि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम् ।
ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित्
समुत्थाय च मन्त्रज्ञस्ताम्रपात्रे सुमादिकम् ।
प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन्
रविमण्डलसंस्थाय देवायार्घ्यं प्रकल्पयेत् ।
दत्त्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत्
स्वकल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम् ।
अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत्
उद्यदादित्यसंकाशां पुस्तकाक्षकरांबुजाम् ।
कृष्णाजिनांबरां ब्राह्मीं ध्यायेत्ताराङ्किते ऽम्बरे
मध्याह्ने वरदां देवीं पार्वतीं संस्मरेत्पराम् ।
शुक्लांबरां वृषारूढां त्रिनेत्रां रविबिंबगाम्
वरं पाशं च शूलं च दधानां नृकरोटिकाम् ।
सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम्
श्यामरङ्गां चतुर्हस्तां शङ्खचक्रलसत्कराम् ।
गदापद्मधरां देवीं सूर्यासनकृताश्रयाम्
ततो देवानृषींश्चैव पितॄंश्चापि विधानवित् ।
तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः
गुरुपङ्क्तिं च संतर्प्यं सांगं सावरणं तथा ।
सायुधं वैनतेयं संतर्पयामीति तर्पयेत्
नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ।
विष्वक्सेन च शैलेयं वैष्णवः परितर्पयेत्
एवं संतर्प्य विप्रेन्द्र दत्त्वार्ध्यं च विवस्वते ।
पूजागारं समागत्य प्रक्षाल्याङ्घ्री उपस्पृशेत्
अग्निहोत्रस्थितानग्नीन् हुत्वोपस्थाय यत्नतः ।
पूजास्थलं समागत्य द्वारपूजां समाचरेत्
गणेशं चोर्द्ध्वशाखायां महालक्ष्मीं च दक्षिणे ।
सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः
क्षेत्रपालं तथा वामे दक्षे गङ्गां प्रपूजयेत् ।
वामे च यमुनां दक्षे धातारं वामतस्तथा
विधातारं शङ्खपद्मनिधींश्च वामदक्षयोः ।
द्वारपालांस्ततो ऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः
नन्दः सुनन्दश्चण्डश्च प्रचण्डः प्रचलोबलः ।
भद्रः सुभद्रश्चेत्याद्या वैष्णवा द्वारपालकाः
नन्दी भृङ्गी रिटी स्कन्दो गणेशोमामहेश्वराः ।
वृषभश्च महाकालः शैवा वै द्वारपालकाः
ब्राह्मयाद्या मातरो ऽष्टौ तु शक्त्यो द्वाःस्थिताः स्वयम् ।
सेंदुः स्वनामाघर्णाद्या ङेनमोंता इमे स्मृताः
ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः ।
दिव्यान्तरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः
केशवाद्यां मातृकान्तु न्यसेद्वैष्णवसत्तमः ।
केशवः कीर्तिसंयुक्तः कान्त्या नारायणस्तथा
माधवस्तुष्टिसहितो गोविन्दः पुष्टिसंयुतः ।
विष्णुस्तु धृतिसंयुक्तः शान्तियुङ्मधुसूदनः
त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः ।
श्रीधरो मेधया युक्तो हृषीकिशश्च हर्षया
पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता ।
वासुदेवश्च लक्ष्मीयुक् संकर्षणसरस्वती
प्रद्युम्नः प्रीतिसंयुक्तो ऽनिरुद्धो रतिसंयुतः ।
चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः
शार्ङ्गी तु प्रभया युक्तः खड्गी युक्तस्तु सत्यया ।
शङ्खी चण्डासमायुक्तो हली वाणीसमायुतः
मुसली च बिलासिन्या शूली विजययान्वितः ।
पाशी विरजया युक्तो कुशी विश्वासमन्वितः
मुकुन्दो विनतायुक्तो नन्दजश्च सुनन्दया ।
निन्दी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः
समृद्धियुङ्नरकजिच्छुद्धियुक्च हरिः स्मृतः ।
कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः
सौरिक्षमे सूररमे उमायुक्तो जनार्दनः ।
भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया
वैकुण्ठो वसुधायुक्तो वसुदःपुरुषोत्तमः ।
बली तु परया युक्तो बलानुजपरायणे
बालसूक्ष्मे वृषघ्नस्तु संध्यायुक् प्रज्ञया वृषः ।
हंसः प्रभासमायुक्तो वराहो निशया युतः
विमलो धारया युक्तो नृसिंहो विद्युता युतः ।
केशवादिमातृकाया मुनिर्नारायणो मतः
अमृताद्या च गायत्री छन्दो विष्णुश्च देवता ।
चक्राद्यायुधसंयुक्तं कुंभादर्शधरं हरिम्
लक्ष्मीयुतं विद्युदाभं बहुभूषायुतं भजेत् ।
एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम्
वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकम् ।
त्वगंसृङ्मांसमेदो ऽस्थिमज्जाशुक्राण्यसून्वदेत्
प्राणं क्रोधं तथा मभ्यामन्तान्यादिदशस्वपि ।
एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ
नसोर्द्वयं कपोले च द्वयं द्वे द्विरदच्छदे ।
एकं तु रसनामूले ग्रीवायामेकमेव च
कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके ।
टतवर्गौं पादयोस्तु पफौ कुङ्क्षिद्वये न्यसेत्
पृष्ठवंशे वमित्युक्तं नाभौ भं हृदये तु मम् ।
यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि
क्षं क्रोधे क्रमतो न्यस्य विष्णु पूजाक्षमो भवेत् ।
पूर्णोदर्या तु श्रीकण्ठो ह्यनन्तो विजरान्वितः
सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमातकः ।
महेश्वरो वर्तुलाक्ष्याधींशो वै दीर्घघोणया
दिर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः ।
स्थावरेशो दिर्घजिह्वायुग्धरः कुडोदरीयुतः
उर्द्धकेश्या तु झिण्टीशो भौतिको विकृतास्यया ।
सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः
अक्रूर आस्यया युक्तो महासेनो विद्यया युतः ।
क्रोधीशश्चमहाकाल्या चण्डेशेन सरस्वती
पञ्चान्तकः सिद्धगौर्या युक्तश्चाथ शिरोत्तमः ।
त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्रकः
क्रूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः ।
लम्बोदर्या चतुर्वक्रो ह्यजेशो द्राविणीयुतः
सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः ।
मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी
वारुण्या त्वर्द्धनारीशो उमाकान्तो गुनीश्वरः ।
काकोदर्या तथाषाढी पूतनासंयुक्तो मतः
दण्डीशो भद्रकालीयुत्रीशो योगिनीयुतः ।
मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जयनीयुतः
लोहितः कालरात्र्या च शिखीशः कुजनीयुतः ।
छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया
महाबलो जयायुक्तो बलीशः सुमुखेश्वरी ।
भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः
खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः ।
श्वेतोरस्को विदारिण्या भृगुः सहजया युतः
लकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः ।
संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका
यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत् ।
मुनिःस्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम्
देवता चार्द्धनारीशो विनियोगो ऽखिलाप्तये ।
हलो बीजानि चोक्तानि स्वराः शक्तय ईरिताः
कुर्याद्भृगुस्थाकाशेन षड्दीर्घाढ्येन चाङ्गकम् ।
बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम्
अर्द्धेन्दुशेखरं त्र्यक्षं देववन्द्यं विचिन्तयेत् ।
ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिम्
सौबीजमातृकापूर्वे विन्यसेन्मातृका स्थले ।
विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः
विनायकस्तथा पुष्ट्या शान्तियुक्तः शिवोत्तमः ।
विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती
स्वाहया गणनाथश्च एकदन्तः सुमेधया ।
कान्त्या युक्तो द्विदन्तस्तु कामिन्या गजवक्रकः
निरञ्जनो मोहिनीयुक्कपर्द्दीतुनटीयुतः ।
दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः
वृषध्वजो नन्दया च सुरेश्या गणनायकः ।
गजेन्दः कामरूपिण्या शूर्पकर्णस्तथोमया
विरोचनस्तेजोवत्या सत्या लम्बोदरेण च ।
महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी
सदाशिवः कामदया ह्यामोदो मदजिह्वया ।
दुमुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः
प्रमोदधः सितया युक्त एकपादो रमायुतः ।
द्विजिह्वो महिषीयुक्तो जभिन्या शूरनामकः
वीरो विकर्णया युक्तः षण्मुखो भृकुटीयुतः ।
वरदो लज्जया वामदेवंशो दीर्घघोणया
धनुर्द्धर्या वक्रतुडो द्विंरण्डो यामिनीयुतः ।
सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः
मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया ।
मत्तवाहश्चञ्चलया जटी दीप्तिसमन्वितः
मुंही सुभगया युक्तः खड्गी दुर्भगया युतः ।
वरेण्यश्च शिवायुक्तो भगया वृषकेतनः
भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः ।
मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक्
गणेश्वरः कालिङ्कया प्रोक्ता विघ्नेशमातृकाः ।
गणेशमातृकायास्तु गणो मुनिभिरीरितः
त्रिवृद्गायत्रिकाछन्दो देवः शक्तिगणेश्वरः ।
षड्दीर्घाढ्येन बीजेन कृत्वाङ्गानि ततः स्मरेत्
पांशाङ्कुशाभयवरान्दधानं कञ्जहस्तया ।
पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत्
एवं ध्यात्वा न्यसेत्स्वीयबीजपूर्वाक्षरान्वितम् ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्ततेधिकाः
दीपिका रेचिका चापि मोचिका च पराभिधा ।
सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा
व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका ।
स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः
सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरीका रतिः ।
कामिको वरदा वाथ ह्लादिनी प्रीतिसंयुता
दीर्घा तीक्ष्णा तथा रौद्रा प्रोक्ता निद्रा च तन्द्रिका ।
क्षुधा च क्रोधिनी पश्चाक्रियाकारी समृत्युका
पीता श्रेतारुणा पश्चादसितानन्तया युता ।
उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत्
कलायुङ्मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः ।
गायत्रीछन्द आख्यातं देवता शारदाभिधा
ह्रस्वदीर्घान्तरस्थैश्च तारैः कुर्यात्षडङ्गकम् ।
पद्मचक्रगुणैणांश्च दधतीं च त्रिलोचनाम्
पञ्चवक्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः ।
ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम्
ततश्च मूलमन्त्रस्य षडङ्गानि समाचरेत् ।
हृदयादिचतुर्थ्यन्ते जातीः संयोज्य विन्यसेत्
नमः स्वाहा वषट् हुं वौषट् फट् जातय ईरिताः ।
ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम्
न्यस्याङ्गषट्कं तन्मूर्तौं ततः पूजनमारभेत्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0