भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.64

1.64.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे त्रिषष्टितमो ऽध्यायः
सनत्कुमार उवाच
अथ जीवस्य पाशौघच्छेदनायेष्टसिद्धिदम् ।
दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम्

1.64.2

दिव्यं भावं यतो दद्यात्क्षिणुया द्दुरितानि च ।
अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः

1.64.3

मननं सर्ववेदित्वं त्राणं संखार्यनुग्रहः ।
मननात्राणधर्मत्त्वान्मन्त्र इत्यभिधीयते

1.64.4

स्त्रीपुंनपुंसकात्मानस्ते मन्त्रास्तु त्रिधा मताः ।
स्त्रीमन्त्रास्तु द्विठान्ताः स्युः पुंमन्त्रा हुंफडन्तकाः

1.64.5

क्लीबाश्चैव नर्मो ऽताः स्मुर्मन्त्राणां जातयः स्मृताः ।
पुन्दैवतास्तु मन्त्रा स्युर्विद्याः स्त्रीदैवता मताः

1.64.6

षट् क्रमसु प्रशस्तास्ते मनवस्त्रिविधाः पुनः ।
तारान्त्यरेफः स्वाहास्तु तत्राग्नेयाः समीरिताः

1.64.7

सौम्यास्तु भृगुपीयूषबीजढ्याः कथिता मुने ।
अग्नीषोमात्मका ह्येवं मन्त्रा ज्ञेया मनीषिभिः

1.64.8

बोधमायान्ति चाग्नेयाः श्वसने पिङ्गलाश्रिते ।
सौमयाश्चैव प्रबुध्यन्ते वामे वहति मारुतेः

1.64.9

सर्वे मन्त्राः प्रबुध्यन्ते वायौ नाडिद्वयाश्रिते ।
स्वापकाले तु मन्त्रस्य जपो ऽनर्थफलप्रदः

1.64.10

प्रत्येकं मन्त्रमुञ्चार्य नाव्यानां तान्समुञ्चरेत् ।
अनुलोभे बिन्दुयुक्तान्विलोभे सर्गसंयुतान्

1.64.11

जप्तो यदि स वै देवं प्रबुद्धः क्षिप्रसिद्धिदः ।
अनया मालया जप्तो दुष्टमन्त्रो ऽपि सिद्ध्यति

1.64.12

क्रूरे कर्माणि चाग्नेयाः सौम्याः सौम्य फलप्रदाः ।
शान्तज्ञानेतिरौद्रेयशान्तिजाति समन्वितः

1.64.13

शान्तो ऽपि रौद्रतामेति हुंफटीपल्लवयोजनात् ।
छिन्नादिदोषयुक्तास्ते नैव रक्षन्ति साधकम्

1.64.14

छिन्नो रुद्धः शक्तिहीनस्ततश्चैव पराङ्मुखः ।
कर्महीनो नेत्रहीनः कीलितः स्तंभितस्तथा

1.64.15

दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ।
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः

1.64.16

हतवीर्यो भ्रान्तसंज्ञः प्रध्वस्तो बालकस्तथा ।
कुमारो ऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा

1.64.17

निर्बीजः सिद्विहीनश्च मन्दः कूटो निरंशकः ।
सत्त्वहीनः केकरश्च बीजहीनश्च धृमितः

1.64.18

आलिङ्गितो मोहितश्च क्षुधार्तश्चातिदीप्तकः ।
अङ्गहीनो ऽतिक्रुद्धश्चातिक्रूरे व्रीडितस्तथा

1.64.19

प्रशान्तमानसः स्थानभ्रष्टश्च विकलस्तथा ।
अतिवृद्धो ऽतिनिःस्नेहः पीडितश्च तथा पुनः

1.64.20

दोषा ह्येते समाख्याता वक्ष्याम्येषां च लक्षणम् ।
संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम्

1.64.21

मनोर्यस्यादिमध्यन्ति वह्निबीजं तथोच्यते ।
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः

1.64.22

मनोर्यस्यादिमध्यान्ते भूबीजद्वयमुच्यते ।
स तु रुद्धो मनुज्ञेयो ह्यतिक्लशेन सिद्धिदः

1.64.23

तारवर्मत्रया लक्ष्मीरेवं हीनस्तु यो मनुः ।
शक्तिहीनः स विज्ञेयश्चिरकालफवप्रधः

1.64.24

कामबीजं मुखे मायाह्यन्ते चैवाङ्कुशं तथा ।
असौ पराङ्मुखो ज्ञेयो भजतां चिरसिद्धिदः

1.64.25

आदिमध्यावसानेषु सकारो दृश्यते यदि ।
स मन्त्रो बधिरः प्रोक्तः कष्टेनाल्पफलप्रदः

1.64.26

पञ्चार्णो यदि रेफर्कबिन्दुवर्जितविग्रहः ।
नेत्रहीनस्तु विज्ञेयः क्लेशेनापि न सिद्धिदः

1.64.27

आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ ।
हंसेंदुर्वा सकारो वा फकारो वर्म वा पुन

1.64.28

माप्रा नमामि च पदं नास्ति यस्मिन्स कीलितः ।
एवं मध्ये द्वयं मूर्घ्नि यस्मिन्नस्रलकारकौ

1.64.29

न विद्येते स मन्त्रस्तु स्तंभितः सिद्धिरोधकृत् ।
अग्निः पवनसंयुक्तो मनोर्यस्य तु मूर्द्धनि

1.64.30

स सार्णो दृश्यते यस्तु स मन्त्रो दग्धसंज्ञकः ।
अस्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यते ऽक्षरेः

1.64.31

त्रस्तः स मन्त्रो विज्ञेयो मुखे तारविवर्जितः ।
हकारः शक्तिरथवा भीतो मन्त्रः स एव हि

1.64.32

मनोर्यस्यादिमध्यान्ते स्यान्मकारचतुष्टयम् ।
मलिनस्तु स विज्ञेयो ह्यतिक्लेशेन सिद्धिदः

1.64.33

दार्णो यस्य मनोर्मध्ये मूर्ध्नि क्रोधयुगं तथा ।
अस्रं चास्ति स मन्त्रस्तु तिरस्कृत उदीरितः

1.64.34

म्योद्वयं हृदयं शीर्षे वषड्वौषट्कमध्यमः ।
यस्य स्याद्भेदितो मन्त्रस्त्याज्यः क्लिष्टफलप्रदः

1.64.35

त्र्यक्षरो हंसहीनो यः सुषुप्तः कीर्तितस्तु सः ।
विद्या वाप्यथवा मन्त्रो भवेत्सप्तदशाक्षरः

1.64.36

षट्कारपञ्चकादिर्यो मदोन्मत्तस्तु स स्मृतः ।
यस्य मध्ये स्थितं चास्रं स मन्त्रो मूर्च्छितः स्मृतः

1.64.37

विरामस्थानगं चास्रं हतवीर्यः स उच्यते ।
मन्त्रस्यादौ च मध्ये च मूर्ध्नि चास्रचतुष्टयम्

1.64.38

ज्ञातव्यो भ्रान्त इत्येष यः स्यादष्टा दशाक्षरः ।
पुनर्विशतिवर्णो वा यो मन्त्रः स्मरसंयुतः

1.64.39

हृल्लेखाकुंशबीजाढ्यः प्रध्वस्तः स कथ्यते ।
सप्तार्णो बालमन्त्रस्तु कुमारो वसुवर्णवान्

1.64.40

षोडशार्णो युवा प्रौढश्चत्वारिंशतिवर्णकः ।
त्रिंशद्वर्णश्चतुःषष्टिवर्णश्चापि शताक्षरः

1.64.41

चतुःशताक्षरो मन्त्रो वृद्ध इत्यभिधीयते ।
नवार्णस्तारसंयुक्तो मन्त्रो निस्त्रिंश उच्यते

1.64.42

यस्यान्ते हृदयं प्रोक्तं शिरोमन्त्रो ऽथ मध्यगः ।
शिखा वर्म च यस्यान्ते नेत्रमस्रं च दृश्यते

1.64.43

शिव शक्त्यार्णहीनो वा निर्बीजः स मनुः स्मृतः ।
आद्यन्तमध्ये फट्कारः षोढा यस्मिन्प्रदृश्यते

1.64.44

स मनुः सिद्धिहीनः स्यान्मन्दः पङ्क्त्यक्षरो मनुः ।
कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः

1.64.45

द्विवर्णः सत्त्वहीनः स्यात्केकरश्चतुरक्षरः ।
षड्वर्णो बीजहीनो वा सार्द्धसप्ताक्षरो ऽपि वा

1.64.46

सार्द्धद्वादशवर्णो वा धूमितो र्निदितस्तु सः ।
सार्द्धबीजत्रययुतो मन्त्रो विंशतिवर्णवान्

1.64.47

त्रिंशद्वर्णश्चैकविंशद्वर्णश्चार्लिङ्गितस्तु सः ।
यो मन्त्रो दन्तवर्णस्तु मोहितः स तु कीर्तितः

1.64.48

चतुर्विशतिवर्णो वा सप्तविंशतिवर्णवान् ।
क्षुधार्तः स तु विज्ञेयो मन्त्रसिद्धिविवर्जितः

1.64.49

एकादशाक्षरो वापि पञ्चविंशतिवर्णकः ।
त्रयोर्विंशतिवर्णो वा स मनुर्दृप्तसंज्ञकः

1.64.50

षड्विंशत्यक्षरो वापि षट्त्रिंशद्वर्णङ्को ऽपि वा ।
एकोन त्रिंशदर्णो वा मन्त्रो हीनाङ्गकः स्मृतः

1.64.51

अष्टाविंशतिवर्णो वा तथैकत्रिंशदर्णकः ।
अतिक्रूरः स विज्ञेयो ऽखिलकर्मसु गर्हितः

1.64.52

चत्वारिंशत्समारभ्य त्रिषष्ट्यन्तस्तु यो मनुः ।
व्रीडितः स तु विज्ञेयः सर्वकर्मसु न क्षमः

1.64.53

पञ्चषष्ट्यक्षरा मन्त्रा ज्ञेया वै शान्तमानसाः ।
पञ्चषषअट्यर्णमारभ्य नवनन्दाक्षरावधि

1.64.54

ये मन्त्रास्ते तु विज्ञेयाः स्थानभ्रष्टा मुनीश्वर ।
त्रयोदशार्णा ये मन्त्रास्तिथ्यर्णाश्च तथा पुनः

1.64.55

विकसास्तें समाख्याताः सर्वतन्त्रविशारदैः ।
शतं सार्द्धशतं वापि शतद्वयमथापि वा

1.64.56

द्विनवत्येकहीनो वा शतत्रयमथापि वा ।
ये मन्त्रा वर्णसंख्याका निःस्नेहास्ते प्रकीर्तिताः

1.64.57

चतुःशतं समारभ्य सहस्रार्णावधि द्विज ।
अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः

1.64.58

सहस्रवर्णदधिका मन्त्रास्ते पीडिताह्वयाः ।
तद्वर्द्ध्वं चैव ये मन्त्राः स्तोत्ररूपास्तु ते स्मृताः

1.64.59

एवं विधाः समाख्याता मनवो दोष संयुताः ।
दोषानेतानविज्ञाय मन्त्रानेताञ्जपन्ति ये

1.64.60

सिद्धिर्न जायते तेषां कल्पकोटिशतैरपि ।
छिन्नादिदोषदुष्टानां मन्त्राणां साधनं ब्रुवे

1.64.61

योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ।
यं कञ्चिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः

1.64.62

सव्यपाष्णि गुदे स्थाप्य दक्षिणं च ध्वजोपरि ।
योनिमुद्राबन्ध एवं भवेदासनमुत्तमम्

1.64.63

अन्यो ऽप्यत्र प्रकारो ऽस्ति योनिमुद्रानिबन्धने ।
तदग्रे सरहस्यं ते कथयिष्यामि नारद

1.64.64

पारंपर्यक्रमप्राप्तो नित्यानुष्टानतत्परः ।
गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः

1.64.65

सुंदरः सुमुखः शान्तः कुलीनः सुलभो वशी ।
मन्त्रतन्त्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः

1.64.66

निरपेक्षो मुनिर्दान्तो हितवादी विचक्षणः ।
तत्त्वनिष्कासने दक्षो विनयी च सुवेषवान्

1.64.67

आश्रमी ध्याननिरतः संशयच्छित्सुवुद्धिमान् ।
नित्यानुष्टानसंयुक्तस्त्वाचार्यः परिकीर्तितः

1.64.68

शान्तो विनीतः शुद्धात्मा सर्वलक्षणसंयुतः ।
शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः

1.64.69

शुद्धदेहो ऽन्नपानद्यैर्द्धार्मिकः शुद्धमानसः ।
दृढव्रतसमाचारः कृतज्ञः पापभीरुकः

1.64.70

गुरुध्यानस्तुतिकथासेवनासक्तमानसः ।
एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc