नारद पुराण · अध्याय 1.65
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे चतुःषष्टितमो ऽध्यायः
सनत्कुमार उवाच
परीक्ष्य शिष्यं तु गुरुर्मन्त्रशोधनमाचरेत् ।
प्राक्प्रत्यग्दक्षिणोदक्चपञ्चसूत्राणि पातयेत्
चतुष्टयं चतुष्कानां स्यादेवं नृपकोष्टके ।
तत्राद्यप्रथमे त्वाद्यं द्वितीयाद्ये द्वितीयकम्
तृतीयाद्ये तृतीयं स्याञ्च तुर्थाद्ये तुरीयकम् ।
तत्तदाग्नेयकोष्टेषु तत्तत्पञ्चममक्षरम्
विलिख्य क्रमतो धीमान्मनुं संशोधयेत्ततः ।
नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम्
चतुष्के यत्र नामार्णस्तत्स्यात्सिद्धिचतुष्ककम् ।
प्रादक्षिण्यात्तद्द्वितीयं साध्याख्यं परिकीर्तितम्
तृतीयं पुंसि सिद्धाख्यं तुरीयमरिसंज्ञकम् ।
द्वयोर्वर्णावेककोष्टे सिद्धसिद्धेति तन्मतम्
तद्द्वितीये तु मन्त्रार्णे सिद्धसाध्यः प्रकीर्तितः ।
तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तञ्चतुर्थके
नामार्णान्यचतुष्कात्तु द्वितीये मन्त्रवर्णके ।
चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम्
तत्र तत्कोष्टमारभ्य गणयेत्पूर्ववत्क्रमात् ।
साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्च तद्रिप्रुः
तृतीये चेञ्चतुष्के तु यदि स्यान्मन्त्रवर्णकः ।
तदा पूर्वोक्तरीत्या तु क्रमाद्द्वेयं मनीषिभिः
सुसिद्धसिद्धस्तत्साध्यस्तत्सुसिद्धश्च तदृषिः ।
तुरीये चेञ्चतुष्के तु तदैवं गणयेत्सुधीः
अरिसिद्धो ऽरिसाध्यश्च तत्सुसिद्धश्च तद्रिपुः ।
रिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः
सिद्धः सुसिद्धोर्द्धतयात्सिद्धारिर्हति गोत्रजान् ।
द्विगुणात्साध्यसिद्धस्तु साध्यसाध्यो विलंबतः
साध्यः सुसिद्धो द्विगुणात्साध्यारिर्हन्ति बान्धवान् ।
सुसिद्धसिद्धोर्द्धतया तत्साध्यो द्विगुणाज्जपात्
तत्सुसिद्धप्राप्तिमात्रात्सुसिद्धारिः कुटुंबहृत् ।
अरिसिद्धस्तु पुत्रध्नो ऽरिशाध्यः कन्यकापहः
तत्सुसिद्धः कलत्रध्नः साधकध्नोरे ऽप्यरिः स्मृतः ।
अन्ये ऽप्यत्र प्रकारा हि संति वै बहवों मुने
सर्वेषु मुख्यो ऽयं ते ऽत्र कथितो कथहाभिधः ।
एवं संशोध्य मन्त्रं तु शुद्धे काले स्थले तथा
दीक्षयेञ्च गुरुः शिष्यं तद्विधानमुदीर्यते ।
नित्यकृत्यं विधायाथ प्रणम्यगुरुपादुकाम्
प्रार्थयेत्सद्गुरुं भक्त्याभीषअटार्थमादृतः ।
संपूज्य वस्त्रालङ्कारगोहिरण्यधरादिभिः
कृत्वा स्वस्ति विधानं तु मण्डलादि च तुष्टिमान् ।
गुरुः शिष्येण सहितः शुचिर्यागगृहं विशेत्
सामान्यार्घोदकेनाथ संप्रोक्ष्य द्वारमस्त्रतः ।
दिव्यानुत्सारयेद्विघ्नान्नभस्थानर्च्य वारिणा
पार्ष्णिघातैस्त्रिभिर्भौंमांस्ततः कर्म समाचरेत् ।
वर्णकैः सर्वतोभद्रे यथोक्तपरिकल्पिते
वह्निमण्डलमभ्यर्च्य तत्कलाः परिपूज्य च ।
अस्त्रप्रक्षालितं कुंभं यथाशक्ति विनिर्मितम्
तत्र संस्थाप्य विधिवत्तत्र भानोः कलां यजेत् ।
विलोममातृकामूलमुञ्चरन् शुद्धवारिणा
आपूर्य कुंभं तत्रार्चेत्सोमस्य विधिवत्कलाः ।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी
सुश्रीः सुरूपा कपिला हव्यकव्यवहा तथा ।
वह्नेर्दश कलाः प्रोक्ताः प्रोच्यन्ते ऽथ रवेः कलाः
तपिनी तापिनी धूम्रा मरीचिज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा
अथेन्द्रोश्च कला ज्ञेया ह्यमृता मानदा पुनः ।
पूषा तुष्टिश्च पुष्टिश्च रतिश्च धृतिसंज्ञिकाः
शशिनी चन्द्रिका कातिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णापूर्णामृता चेति प्रोक्ताश्चन्द्रमसः कलाः
वस्रयुग्मेन संवेष्ट्य तस्मिन्सर्वैषधीः क्षिपेत् ।
नवरत्नानि निक्षिप्य विन्यसेत्पञ्चपल्लवान्
पनसाम्रवटाश्वत्थवकुलेति च तान् विदुः ।
मुक्तामाणिक्यवैडूर्यगोमेदान्वज्रविद्रुमौ
पद्मरागं मरकतं नीलं चेति यथाक्रम् ।
एवं रत्नानि निक्षिप्य तत्रावाह्येष्टदेवताम्
संपूज्य विधिवन्मन्त्री ततः शिष्यं स्वलङ्कृतम् ।
वेद्यां संवेश्य संप्रोक्ष्य प्रोक्षणीस्थेन वारिणा
भूतशुद्ध्यादिकं कत्वा तच्छरीरे विधानतः ।
न्यासजालेन संशोध्य मूर्ध्नि विन्यस्य पल्लवान्
अष्टोत्तरशतेनाथ मूलमन्त्रेण मन्त्रितैः ।
अभिषिञ्चेत्प्रियं शिष्यं जपन्मूलमनुं हृदि
शिष्टोदकेन वाचम्य परिधायांबरं शिशुः ।
गुरुं प्रणम्य विधिवत्संविशेत्पुरतः शुचिः
अथ शिष्यस्य शिरसि हस्तं दत्वा गुरुस्ततः ।
जपेदष्टोत्तरशतं देयमन्त्रं विधानतः
समो ऽस्त्वित्यक्षरान्दद्यात्ततऋ शिष्योर्ऽचयेद्गुरुम् ।
ततः सचन्दनं हस्तं दत्वा शिष्यस्य मस्तके
तत्कर्णे प्रवदेद्विद्यामष्टवारं समाहितः ।
संप्राप्तविद्यः शिष्यो ऽपि निपतेद्गुरुपादयोः
उत्तिष्ठ वत्स मुक्ते ऽसि सम्यगाचारवान्भव ।
कीर्तिश्रीकान्तिपुत्रायुर्बलारोग्य सदास्तु ते
ततः शिष्यः समुत्थाय गन्धाद्यैर्गुरुमर्चयेत् ।
दद्याञ्च दक्षिणां तस्मै वित्तशाठ्यविवर्जितः
संप्राप्यैवं गुरोर्मन्त्रं तदारभ्य धनादिभिः ।
देहपुत्रकलत्रैश्च गुरुसेवापरो भवेत्
स्वष्टदेवं यजेन्मध्ये दत्वा पुष्पाञ्जलिं ततः ।
अग्निनैरृतिवागीशान् क्रमेण परिपीजयेत्
यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकम् ।
रविं शिवां शिवं चैव यदा मध्ये तु शङ्करम्
रविं गणेशमंबां च हरिं चाथ यदा शिवाम् ।
ईशं विघ्नार्कगोविन्दान्मध्ये चेद्गणनायकम्
शिवं शिवां रविं विष्णुं रवौ मध्यगते पुनः ।
गणेषं विष्णुमंबां च शिवं चेति यथाक्रमम्
एवं नित्य समभ्यर्च्य देवपञ्चकमादृतः ।
ब्राह्मे मुहूर्त्ते ह्युत्थाय कृत्वाचा वश्यकं बुधः
अशङ्कितो वा शय्यायां स्वकीयशिरसि स्मरेत् ।
सहस्रदलशुक्लाब्जकार्ंणकास्थदुमण्डले
अकथादित्रिकोणस्थं वराभयकरं गुरुम् ।
द्विनेत्रं द्विभुजं शुक्लगन्धमाल्यानुंलेपनम्
वामे शक्त्या युतं ध्यात्वा मानसैरुपचारकैः ।
आराध्य पादुकामन्त्रं दशधाप्रजपेत्सुधीः
वा माया श्रीर्भगेन्द्वाढ्या वियद्धंसखकाग्नयः ।
हसक्षमलवार्यग्निवामकर्णैदुयुग्मरुत्
ततो भृग्वाकाशरवाग्निभगेन्द्वाढ्याः परन्तिमः ।
सहक्षमलतोयाग्निचन्द्रशान्तियुतो मरुत्
ततः श्रीश्चामुकान्ते तु नन्दनाथामुकी पुनः ।
देव्यंबान्ते श्रीपान्दुकां पूजयामि हृदन्तिमे
अयं श्रीपादुकामन्त्रः सर्वसिद्धिप्रदो नृणाम् ।
गुह्येति च समर्प्याथ मन्त्रैरेतैर्नमेत्सुधीः
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः
नमो ऽस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे ।
यस्य वागमृतं हॄन्ति विषं संसारसंज्ञकम्
इति नत्वा पठेत्स्तोत्रं सद्यः प्रत्ययकारकम् ।
ओं नमस्ते नाथ भगवान् शिवाय गुरुरूपिणे
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ।
नवाय तनरूपाय परमार्थैकरूपिणे
सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ।
स्ततन्त्राय दयाकॢप्तविग्रहाय शिवात्मने
परत्र त्राय भक्तानां भव्यानां भावरूपिणे ।
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्
प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।
पुरस्तात्पार्श्वयोः पृष्टे नमस्तुभ्यमुपर्यधः
सदा सञ्चित्स्वरूपेण विधेहि भवदासनम् ।
त्वत्प्रसादादहं देव कृताकृत्यो ऽस्मि सर्वतः
मायामृत्युमहापाशाद्विमुक्तो ऽस्मि शिवो ऽस्मि वः ।
इति स्तुत्वा ततः सर्व गुरवे विनिवेदयेत्
प्रातः प्रभृति सायान्तं सांयादिप्रातरन्ततः ।
यत्करोमि जगन्नाथ तदस्तु तव पूजनम्
ततश्च गुरुपादाब्जगलितामृतधारया ।
क्षालितं निजमात्मानं लिर्मलं भावयेत्सुधीः
मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ।
मूलाधारादधो भागे वर्तुलं वायुमण्डलम्
तत्रस्थवायुबीजोत्थवायुना च तद्रूर्द्ध्वकम् ।
त्रिकोणं मण्डलं वह्नेस्तत्रस्थवह्निबीजतः
उत्पन्नेनाग्निना मूलाधारावस्थितविग्रहाम् ।
प्रसुप्तभुजगाकारां स्वयंभूलिङ्गवेष्टिनीम्
विसतन्तुनिभां कोटिविद्युदाभां तनीयसीम् ।
कुलकुण्डलिनीं ध्यात्वा कूर्चेनोत्थापयेञ्च ताम्
सुषुम्णावर्त्मनातां च षट्चक्रक्रमभेदिनीम् ।
गुरुपदिष्टविधिना ब्रह्मरन्ध्रं नयेत्सुधीः
तत्रस्थामृतसंमग्नीकृत्यात्मानं विभावयेत् ।
तत्प्रभापटलव्याप्तैविमलं चिन्मयं परम्
पुनस्तां स्वस्थलं नीत्वा हृदिदेवं विचिन्तयन् ।
दृष्ट्वा च मानसैर्द्रव्यैः प्रार्थयेन्मनुनामुना
त्रैलोक्यचैत न्यमयादिदेव श्रीनाथ विष्णो भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये
विष्णोरिति स्थले विप्र कार्य ऊहो ऽन्यदैवते ।
तततः कुर्यात्सर्वसिद्ध्यै त्वजपाया निवेदनम्
षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।
अजपाख्यां तु गायत्रीं जीवोजपति सर्वदा
ऋषिर्हंसस्तथाव्यक्तगात्रीछन्द ईरितम् ।
देवता परमोहंसश्चाद्यन्ते बीजशक्तिकम्
ततः षडङ्गं कुर्वीत सूर्यः सोमोनिरञ्जनः ।
निराभासश्च धर्मश्च ज्ञानं चेति तथा पुनः
क्रमादेतान्हंसपूर्वानात्मनेपदपश्चिमान् ।
जातयुक्तान्साधकेन्द्र षडङ्गेषु नियोजयेत्
हकारः सूर्यसंकाशतेजाः संगच्छते बहिः ।
सकारस्तादृशश्चैव प्रवेशे ध्यानमीरितम्
एवं ध्यात्वार्पयेद्धीमान्वह्न्यर्केषु विभागशः ।
मूलाधारे वादिसांतबीजयुक्ते चतुर्दले
बन्धूकाभे स्वशक्त्या तु सहितापास्वगाय च ।
पाशाङ्कुशसुधापात्रमोदकोल्लासपाणये
षट्शतं तु गणेशाय वागधीशाय चार्पयेत् ।
स्वाधिष्टाने विद्रुमाभे वादिलान्तार्णसंयुते
वामाङ्गशक्तियुक्ताय विद्याधिपतये तथा ।
स्रुवाक्षमालालसितबाहवे पद्मजन्मने
ब्रह्मणे षट्सहस्रं तु हंसारूढाय चार्पयेत् ।
विद्युल्लसितमेघाभे डादिफआन्तार्णपत्रके
मणिपूरे शङ्खचक्रगदापङ्कधारिणे ।
सश्रिये षट्सहस्रं च विष्णवे विनिवेदयेत्
अनाहतेर्ऽकपत्रे च कादिठान्तार्णसंयुते ।
शुक्ले शूलाभयवरसधाकलशधारिणे
वामाङ्गे शक्तियुक्ताय विद्याधिपतये सुधीः ।
वृषारूढाय रुद्राय षट्सहस्रं निवेदयेत्
विशुद्दे षोडशदले स्वराढ्ये शुक्नत्रणके ।
महाज्योतिप्रकाशायेन्द्रियाधिपतये ततः
सहस्रमर्पयेत्प्राणशक्त्या युक्तेश्चराय च ।
आज्ञाचक्रे हक्षयुक्ते द्विदिले ऽब्जे सहस्रकम्
सदाशिवाय गुरवे पराशक्तियुताय वै ।
सहस्रारे महापद्मे नादबिन्दुद्वयान्विते
विलसन्मातृकावर्णे वरामयकराय च ।
प्ररमाद्ये च गुरवे सहस्रं विनिवेदयेत्
चुलुकेंऽबु पुनर्द्धृत्वा स्वभावादेव सिध्यतः ।
एकविंशतिसाहस्रप्रमितस्य जपस्य च
षट्शताधिकसंख्यास्या दजपाया विभागशः ।
संकल्पेन मोक्षदाता विष्णुर्मे प्रीयतामिति
अस्याः संकल्पमात्रेण महापापैः प्रमुच्यते ।
ब्रह्मैवाहं न संसारी नित्यमुक्तो न शोकभाक्
सञ्चिदानन्दरूपो ऽहमात्मानमिति भावयेत् ।
ततः समाचरेद्देहकृत्यं देवार्चनं तथा
तद्धिधानं प्रवक्ष्यामि सदाचारस्य लक्षणम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0