नारद पुराण · अध्याय 1.63
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने मोक्षधर्ंमनिरूपणं नाम द्विषष्टितमो ऽध्यायः
समाप्तश्चायं द्वितीयः पादः ।
शौनक उवाच
सूत साधो चिरं जीव सर्वशास्त्रविशारदः ।
यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतम्
श्रुत्वा तु मोक्षधर्मान्वै नारदो भगवत्प्रियः ।
सनन्दनमुखोद्गीतान्किं पप्रच्छं ततः परम्
मानसा ब्रह्मणः पुत्राः सनकाद्या मुनीश्वराः ।
चरन्ति लोकानन्तसिद्धा लोकोद्धरणतत्पराः
नारदो ऽपि महाभाग नित्यं कृष्णपरायणः ।
तेषां समागमे भद्रा का कथा लोकपावनी
सूत उवाच
साधु पृष्टं महाभाग त्वया लोकोपकारिणा ।
कथयिष्यामि तत्सर्वं यत्पृष्ट नारदर्षिणा
श्रुत्वा सनन्दनप्रोक्तान्मोक्षधर्मान्सनातनान् ।
नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन्
नारद उवाच
सर्वदेवेश्वरो विष्णुर्वेदे तन्त्रे च कीर्तितः ।
समाराध्यः स एवात्र सर्वैः सर्वार्थकाङ्क्षिभिः
कैर्मन्त्रैर्भगवान्विष्णुः समाराध्यो मुनीश्वराः ।
के देवाः पूजनीयाश्च विष्णुपादपरायणैः
तन्त्रं भागवतं विप्रा गुरुशिष्यप्रयोजकम् ।
दीक्षणं प्रातराद्यं च कृत्यं स्याद्यत्तदुच्यताम्
यैर्मासैः कर्मभिर्यैर्वा जप्यैर्हेमादिभिस्तथा ।
प्रीयेत परमात्मा वै तद्ब्रूत मम मानदाः
सूत उवाच
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः ।
सनत्कुमारो भगवानुवाचार्कसमद्युतिः
सनत्कुमार उवाच
शृणु नारद वक्ष्यामि तन्त्रं भागवतं तव ।
यज्ज्ञात्वामलया भक्त्या साधयेद्विष्णुमव्ययम्
त्रिपदार्थं चतुष्पादं महातन्त्रं प्रचक्षते ।
भोगमोक्षक्रियाचर्याह्वया पादाः प्रकीर्तिताः
पादार्थास्तु पशुपतिः पशुपाशास्त्रय एव हि ।
पतिस्तत्र शिवोह्येको जीवास्तु पशवः स्मृताः
यावन्मोहादिसंयोगाः स्वरूपाबोधलक्षणाः ।
तावत्पशुत्वमेतेषां द्वैतवत्पश्य नारद
पाशाः पञ्चविधास्त्वेषां प्रत्येकं तेषु लक्षणम् ।
पशवस्त्रिविधाश्चापि विज्ञाताः कलसंज्ञिकाः
तलपाकलसंज्ञश्च सकलश्चेति नामतः ।
तत्राद्यो मलसंयुक्तो मलकर्मयुतः परः
मलमायाकर्मयुतस्तृतीयः परिकीर्तितः ।
आद्यस्तु द्विविधस्तत्र समासकलुषस्तथा
असमासमलश्चेति द्वितीयो ऽपि पुनस्तथा ।
पक्वापक्वमलेनैव द्विविधः परिकीर्तितः
शुद्धे ऽध्वनि गतावेतौ विज्ञानप्रलयाकलौ ।
कलादितत्त्वनियतः सकलः पर्यटत्ययम्
कर्मानुगशरीरेषु तत्तद्भुवनगेषु च ।
पाशाः पञ्च तथा तत्र प्रथमौ मलकर्मजौ
मायेयश्च तिरोधानशक्तिजो बिन्दुजः परः ।
एको ऽप्यनेकशक्तिर्दृक्क्रियाच्छादनकोमलः
तुषकञ्चुकवद्देहनिमित्तं चात्मनामिह ।
धर्माधर्मात्मकं कर्म विचित्रफलभोगदम्
प्रवाहनित्यं तद्बीजाङ्कुरन्यायेन संस्थितम् ।
इत्येतौ प्रथमौ चाथ मायेयाद्यान् शृणुद्विज
सञ्चिदानन्दविभवः परमात्मा सनातनः ।
पतिर्जयति सर्वेषामेको बीजं विभुः परम्
मनस्यति न चोदेति निवृत्तिं च प्रयच्छति ।
वर्वर्ति दृक्क्रियारूपं तत्तेजः शांभवं परम्
शक्तो मया हरौ भुक्तो पशुगणस्य हि ।
तच्छक्तिमाद्यामेकान्तां विद्रूपाख्यां वदन्ति हि
तया चोज्जृंभितो बिन्दुर्दिक्क्रियात्मा शिवाभिधः ।
अशेषतत्त्वजातस्य कारणं विभुरव्ययम्
अस्मिन्निलीना निखिला इच्छायाः शक्तयः स्वकम् ।
कृत्यं कुर्वन्ति तेनेदं सर्वानुग्राहकं मुने
चिज्जडानुग्रहार्थाय यस्य विश्वं सिसृक्षतः ।
आद्योन्मेषो ऽस्य नादात्मा शान्त्यादिभुवनात्मकः
तच्छक्तितत्त्वं विप्रेन्द्र प्रोक्तं सावयवं परम् ।
ततो ज्ञानक्रियाशक्त्योस्तथोत्कर्षापकर्षयोः
प्रसरश्चाप्यभावेन तत्त्वं चैतत्सदाशिवम् ।
दृक्शक्तिर्यत्र न्यग्भूता क्रियाशक्तिर्विशिष्यते
ईश्वराख्यं तु तत्तत्त्वं प्रोक्तं सर्वार्थकर्तृकम् ।
यत्र क्रिया हि न्यग्भूता ज्ञानाख्योद्रेकमश्नुते
तत्तत्त्वं चैव विद्याख्यं ज्ञानरूपं प्रकाशकम् ।
नादो बिन्दुश्च सकलः सदाख्यं तत्त्वमाश्रितौ
विद्येशाः पुनरैशं तु मन्त्रा विद्याभिधं पुनः ।
इमानि चैव तत्त्वानि शुद्धाध्वेति प्रकीर्तितम्
साक्षान्निमित्तमीशो ऽत्रेत्युपादानसबिन्दुराट् ।
पञ्चानां कालराहित्याक्रमो नास्तीति निश्चितम्
व्यापारवसतो ह्येषां विहिता खलु कल्पना ।
तत्त्वं वस्तुत एकं तु शिवाख्यं चित्रशक्तिकम्
शक्तं यां वृत्तिभेदात्तुविहिताः खलु कल्पनाः ।
चिज्जडानुग्रहार्थाय कृत्वा रूपाणि वै प्रभुः
अनादिमलरुद्धानां कुरुते ऽनुग्रहं चिताम् ।
मुक्तिं च विश्वेषां स्वव्यापारे समर्थेताम्
विधत्ते जडवर्गस्य सर्वानुग्राहकः शिवः ।
शिवसामान्यरूपो हि मोक्षस्तु चिदनुग्रहः
सो ऽनादित्वात्कर्मणो हि तत्तद्भोगं विना भवेत् ।
तेनानुग्राहकः शम्भुस्तद्भुक्त्यै प्रभुर्व्ययः
कुरुते सूक्ष्मकरणभुवनोत्पत्तिमञ्जसा ।
कर्त्तोपादानकरणैर्विना कार्ये न दृश्यते
शक्तयः करणं चात्र मायोपादानमिष्यते ।
नित्यैका च शिवा शक्त्या ह्यनादिनिधना सती
साधारणी नराणां वै भुवनानां च कारणम् ।
स्वभावान्मोहजननी स्वचिताजनकर्मभिः
विश्वी सूक्ष्मा परा माया विकृतैः परत्तु सा ।
कर्माण्यावेक्ष्य विद्येशो मायां विक्षोभ्य शक्तिभिः
विधत्ते जीवभोगार्थं वपूंषि करणानि च ।
सृजत्यादो कालतत्त्वं नानाशक्तिमयी च सा
भावि भूतं मवञ्चेदं जगत्कलयते लयम् ।
सूते ह्यनन्तरं माया शक्तिं नियमनात्मिकाम्
सर्वं नियमयत्येषा तेनेयं नियतिः स्मृता ।
अनन्तरं च सा माया नित्या विश्वविमोहिनी
अनादिनिधना तत्त्वं कलाख्यं जनयत्यपि ।
एकतस्तु नृणां येन कलयित्वा मलं ततः
कर्तृशक्तिं व्यञ्जयति तेनेदं तु कलाभिधम् ।
कालेन च नियत्योपसर्गतां समुपेतया
व्यापारं विदधात्येषा भूपर्यन्तं स्वकीयकम् ।
प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः
प्रकाशरूपं विद्याख्यं तत्त्वं सूते कलैव हि ।
विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा
विषयान्दर्शयत्येषात्मनांशाकारणं ह्यतः ।
करोति भोग्यं यानासौ करणेन परेण वै
उद्बुद्धशक्तिः पुरुषः प्रचोद्य महदादिकान् ।
भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा
भोग्येस्य भोग्यतिर्मासाञ्चिद्व्यक्तिर्भोग उच्यते ।
सुखादिरूपो विषयाकारा बुद्धिः समासतः
भोग्यं भोक्तुश्च स्वेनैव विद्याख्यं करणं तु तत् ।
यद्यर्कवत्प्रकाशा धीः कर्मत्वाञ्च तथापि हि
करणान्तरसापेक्षा शक्ता ग्राहयितुं च तम् ।
संबन्धात्कारणाद्यैस्तद्भोगौत्सुक्येन चोदनात्
तञ्चष्टाफलयोगाञ्च संसिद्धा कर्तृतास्य तु ।
अकर्तृत्वाभ्युपगमे भोक्तृत्वाख्या वृथास्य तु
किं च प्रधानचरितं व्यर्थं सर्वं भवेत्ततः ।
कर्तृत्वरहिते पुंसि करणाद्यप्रयोजके
भोगस्यासंभवस्तस्मात्स एवात्र प्रवर्तकः ।
करणादिप्रयोक्तृआत्वं विद्ययैवास्य संमतम्
अनन्तरं कलारागं सूते भिद्यङ्गरूपकम् ।
येन भोग्याय जनिता भिद्यङ्गे पुरुषे पुनः
क्रियाप्रवृत्तिर्भवति तेनेदं रागसंज्ञिकम् ।
एभिस्तत्त्वैश्च भोक्तृत्वदशायां कलितो यदा
नित्यस्तदायमात्मा तु लभते पुरुषाभिधाम् ।
कलैव प्रश्चादव्यक्तं सूते भोग्याय चास्य तु
सप्तग्रन्थिविधानस्य यत्तद्गौणस्यकारणम् ।
गुणानामविभागो ऽत्र ह्याधारे क्ष्मादिभागवत्
आधारो ऽपि च यस्तेषां तदव्यक्तं च गीयते ।
त्रय एव गुणा ह्यषामव्यक्तादेव संभवः
सत्त्वं रजस्तमःप्रख्या व्यापारनियमात्मिका ।
गुणतो धीश्च विषयाध्यवसायस्वरूपिणी
गुणतस्त्रिविधा सापि प्रोक्ता कर्मानुसारतः ।
महत्तत्तवादहॄङ्कारो जातः संरंभवृत्तिमान्
संभोदादस्य विषयः प्राप्नोति व्यवहार्यताम् ।
सत्त्वा द्विगुणभेदेन स पुनस्त्रिविधो भवेत्
तैजसो राजसश्चैव तामसश्चेति नामतः ।
तत्र तैजसतो ज्ञानेन्द्रियाणि मनसा सह
प्रकाशान्व यतस्तस्माद्वोधकानि भवन्ति हि ।
राजसाञ्च क्रियाहेतोस्तथा कर्मेन्द्रियाणि तु
तामसाञ्चैव जायन्ते तन्मात्रा भूतयोनयः ।
इच्छारूपं च संकल्पव्यापारं तत्र वै मनः
द्विधाधिकारि तञ्चित्तं भोक्तृभोगोपपादकम् ।
बहिः करणभावेन स्वोचितेन यतः सदा
इन्द्रियाणाञ्च सामर्थ्यं संकल्पेनात्मवृत्तिना ।
करोत्यन्तःस्थितं भूयस्ततो ऽन्तः करणं मनः
मनो ऽहॄङ्कारबुद्ध्याख्यमस्त्यन्तः कारणं त्रिधा ।
इच्छासंरंभबोधाख्या वृत्तयः क्रमतो ऽस्य तु
ज्ञानेन्द्रियाणि श्रोत्रं त्वक् चक्षुर्जिह्वा च नासिका ।
ग्राह्याश्च विषया ह्येषां ज्ञेयाः शब्दादयो मुने
शब्दस्पर्शरूपरसगन्धाः शब्दादयो मताः ।
वाक्पाणिपादपायूपस्थास्तु कर्मेन्द्रियाण्यपि
वचनादानगमनोत्सर्गानन्देषु कर्मसु ।
करणानि च सिद्धिना न कृतिः करणैर्विना
दशधा करणैश्चेष्टां कार्यमाविश्य कार्यते ।
चेष्टन्ते कार्यमालंब्य विभुत्वात्करणानि तु
तन्मात्राणि तु खवायुस्तेजो ऽम्भः क्ष्मेति पञ्च वै ।
तेभ्यो भूतान्येकगुणान्याख्यातानि भवन्ति हि
इति पञ्चसु शब्दो ऽयं स्पर्शो भूतचतुष्टये ।
रूपं त्रिषु रसश्चैव द्वयोर्गन्धः क्षितौ तथा
कार्याण्येषां क्रमेणैवावकाशो व्यूहकल्पनम् ।
पाकश्च संग्रहश्चैव धारणं चेति कथ्यते
आशीतोष्णौ महा वाद्यौ शीतोष्णौ वारितेजसोः ।
भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा
रूपं त्रिषु रसोंऽभः सु मधुरः षडिधः क्षितौ ।
गन्धः क्षितावसुरभिः सुरभिश्च प्रकीर्तितः
तन्मात्रं तद्भूतगुणं करणं पोषणं तथा ।
भूतस्य तु विशेषो ऽयं विशेषरहितं तु तत्
इमानि पञ्चभूतानि संनिविष्टानि सर्वतः ।
पञ्चभूतात्मकं सर्वं जगत्स्थावरजङ्गमम्
शरीरसंनिविष्टत्वमेषां तावन्निरूप्यते ।
देहे ऽस्थिमांसकेशत्वङ्नखदन्ताश्च पार्थिवाः
मूत्ररक्तकफस्वेदशुक्रादिषु जलस्थितिः ।
हृदि पङ्क्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात्
प्राणादिवृत्तिभेदेन वायुश्चैवात्र संस्थितः ।
वियत्सर्वासु नाडीषु गर्भवृत्यनुषङ्गतः
प्रयोक्त्यादिमहीप्रान्तमेतदण्डार्थसाधनम् ।
प्रत्यात्मनियतं भोगभेदतो व्यवसीयते
तत्त्वान्येवं कलाद्यानि प्रतिपुंनियतानि हि ।
देहेषु कर्मवशतः सर्वेषु विचरन्ति हि
मायेयश्चैव पाशो ऽयं येनावृतमिदं जगत् ।
अशुद्धाध्वामतो ह्येष धरण्यादिकलावधिः
तत्र भूमण्डलस्थो ऽसौ स्थावरो जङ्गमात्मकः ।
स्थावरा गिरिवृक्षाद्या जङ्गमस्त्रिविधः पुनः
स्वेदजाश्चाण्डजाश्चैव तथैव च जरायुजाः ।
चराचरेषु लक्षाणां चतुराशीतियोनयः
भ्रममाणस्तेषु जीवः कदाचिन्मानुषं वपुः ।
प्राप्नोति कर्मवशतः परं सर्वार्थसाधकम्
तत्रापि भारते खण्डे ब्राह्मणादिकुलेषु च ।
महापुण्यवशेनैव जनिर्भवति दुर्लभा
जनिश्च पुंस्त्रियोर्योगः शुक्रशोणितयोगतः ।
बिन्दुरेकः प्रविशति यदा गर्भे द्वयात्मकः
तदा रजो ऽधिके नारी भवेद्रेतो ऽधिके पुमान् ।
मलकर्मादिपाशेन कश्चिदात्मा नियन्त्रितः
जीवभावं तदा तस्मिन्सकलः प्रतिपद्यते ।
अथ तत्राहृतैर्मात्रा पानान्नाद्यैश्च पोषितः
पक्षमासादिकालेन वर्धते वपुरत्र हि ।
दुःखाद्यः पीडितश्चैवाच्छन्नदेहो जरायुणा
एवं तत्र स्थितो गर्भे प्राग्जन्मोत्थं शुभाशुभम् ।
स्मरंस्तिष्टति दुःखात्मापीड्यमानो मुहुर्मुहुः
कालक्रमेण बालो ऽसौ मातरं पीडयन्नपि ।
संपीडितो निःसरति योनियन्त्रादवाङ्मुखः
क्षणं तिष्टति निश्चेष्टस्ततो रोदितुमिच्छति ।
ततः क्रमेण स शिशुर्वर्धमानो दिनेदिने
बालपौगण्डभेदेन युवत्वं प्रतिपद्यते ।
एवं क्रमेण लोके ऽस्मिन्देहिनां देहसंभवः
मानुषं दुर्लभं प्राप्य सर्वलोकोपकारकम् ।
यस्तारयति नात्मानं तस्मात्पापतरो ऽत्र कः
आहारश्चैव निद्रा च भयं मैथुनमेव च ।
पश्वादीनां च सर्वेषां च सर्वेषां साधारणमितीरितम्
चतुर्ष्वेवानुरक्तो यः स मूर्खो ह्यात्मधातकः ।
मनुष्याणामयं धर्मः रवबन्धच्छेदनात्मकः
पाशबन्धनविच्छेदो दीक्षयैव प्रजायते ।
अतो बन्धनविच्छित्त्यै मन्त्रदीक्षां समाचरेत्
दीक्षाज्ञानाख्यया शक्त्या ह्यपध्वंसितबन्धनः ।
शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते
स्वशक्त्यात्मिकया दृष्ट्या शिवं ध्यायति पश्यति ।
यजते शिवं मन्त्रैश्च रवपरेषां हिताय सः
शिवार्कशक्तिदीधित्या समर्थीकृतचिदृशा ।
शिवशक्त्यादिभिः सार्द्धं पश्यत्यात्मगतावृत्तिः
अन्तःकरणवृत्तिर्या बोधाख्या सा महेश्वरम् ।
न प्रकाशयितुं शक्ता पाशत्वान्निगडादिवत्
दीक्षैव परमो हेतुः पाशविच्छेदने पुनः ।
अतः शास्त्रोक्तविधिना मत्रदीक्षां समाचरेत्
दीक्षितस्तन्त्रविधिना स्ववर्णाचारतत्परः ।
अनुष्टानं प्रकुर्वीत नित्यनमित्तिकात्मकम्
निजवर्णाश्रमाचारान्मनसापि न लङ्घयेत् ।
यो यस्मिन्नाश्रमे तिष्टन्दीक्षां प्राप्नोति मानवः
स तस्मिन्नाश्रमे तिष्ठेत्तद्धर्माननुपालयेत् ।
कृतान्यपि न कर्माणि बन्धनाय भवन्ति हि
एकं तु फलदं कर्म मन्त्रानुष्ठानसंभवम् ।
दीक्षितो ऽभिलषेद्भोगान्यद्यल्लोकगतानसौ
मन्त्राराधनसामर्थ्यात्तद्भुक्त्वा मोक्षमश्नुते ।
नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः
कञ्चित्कालं पिशाचत्वं प्राप्यान्ते मोक्षमश्नुते ।
तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम्
अनुष्ठानं च तेनास्य दीक्षां प्राप्यानुमीयते ।
नित्यनैमित्तिकाचार पालकस्य नरस्य तु
दीक्षावैकल्यविरहात्सद्यो मुक्तिस्तु जायते ।
तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा
दीक्षया गुरुमूर्तिस्थः सर्वानुग्राहकः शिवः ।
दृष्टाद्यर्थतया यस्य गुरुभक्तिस्तु कृत्रिमा
कृते ऽपि विफलं तस्य प्रायश्चित्तं पदे पदे ।
कायेन मनसा वाचा गुरुभक्तिपरस्य च
प्रायश्चित्तं भवेन्नैव सिद्धिस्तस्य पदे पदे ।
गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके
मिथ्याप्रयुक्तमन्त्रस्तु प्रायाश्चित्ती भवेद्गुरुः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0