नारद पुराण · अध्याय 1.62
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमो ऽध्यायः
सूत उवाच
एतच्छ्रृत्वा तु वचनं नारदो भगवानृषिः ।
पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम्
नारद उवाच
भगवन्सर्वमाख्यातं त्वयातिकरुणात्मना ।
यच्छ्रृत्वा मानसं मे ऽद्य शान्तिमग्र्यामुपागतम्
पुनश्च मोक्षशास्त्रं मे त्वमादिश महामुने ।
नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे
ये तु संसारनिर्मुक्ता मोक्ष शास्त्रपरायणाः ।
कुत्र ते निवसंतीह संशयो मे महानयम्
तं छिन्धि सुमहाभागत्वत्तो नान्यो विदांवरः ।
सनं.उ
धारयामास चात्मानं यथाशास्त्रं महामुनिः
पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् ।
ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते
पाणिपादं समाधाय विनीतवदुपाविशत् ।
न तत्र पक्षिसंघातो न शब्दो न च दर्शनम्
यत्र वैयासकिर्द्धाम्नि योक्तुं समुपचक्रमे ।
स ददर्श तदात्मानं सर्वसंगविनिःसृतः
प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् ।
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये
महायोगीश्वरो भूत्वा सो ऽत्यक्रामद्विहायसम् ।
अन्तरीक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः
तमुन्द्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् ।
ददृशुः सर्वभूतानि मनोमारुतरंहसम्
यथाशक्ति यथान्यायं पूजयाञ्चक्रिरे तथा ।
पुष्प वर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ।
ऋषयश्चैव संसिद्धाः को ऽयं सिद्धिमुपागतः
ततो ऽसौ स्वाह्रयं तेभ्यः कथयामास नारद ।
उवाच च महातेजास्तानृषीन्संप्रहर्षितः
पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ।
तस्मै प्रतिवचोदेयं भवद्भिस्तु समाहितैः
बाढमुक्तस्ततस्तैस्तु लोकान्हित्वा चतुर्विधान् ।
तमो ह्यष्टविधं त्यक्त्वा जहौ पञ्चविधं रजः
ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् ।
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गपूजिते
ततः स शृङ्गे ऽप्रतिमे हिमवन्मेरुसन्निभे ।
संश्लिष्टे श्वेतपीते च रुक्मरूप्यमये शुभे
शतयोजनविस्तारे तिर्यागूर्द्ध्च नारद ।
सो ऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः
ते शृङ्गे ऽत्यन्तसंश्लिष्टे सहसैव द्विधाकृते ।
अदृश्येतां द्विजश्रेष्ठ तदद्भुतमिवाभवत्
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः ।
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः
ततो मन्दाकिनीं दिव्या मुपरिष्टादभिव्रजन् ।
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम्
तस्यां क्रीडासु निरताः स्नान्ति चैवाप्सरोगणाः ।
निराकारं तु साकाराददृशुस्तं विवाससः
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः ।
उत्तमां गतिमास्थाय पृष्टतो ऽनुससार ह
शुकस्तु मारुतादूर्द्ध्वं गतिं कृत्वां तरिक्षगाम् ।
दर्शयित्वा प्रभावं स्वं सर्वभूतो ऽभवत्तदा
अथ योगगतिं व्यासः समास्थाय महातपाः ।
निमेषान्तरमात्रेण शुकाभिपतनं ययौ
स ददर्श द्विधा कृत्वा पर्वताग्रं गतं शुकम् ।
शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम्
ततः शुकेतिशब्देन दीर्घेण क्रन्दितं तदाः ।
स्वयं पित्रा स्वरेणोञ्चैस्त्रींल्लोकाननुनाद्य वै
शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतोमुखः ।
प्रत्यभाषत धर्मात्मा भोः शब्देनानुनादयन्
तत एकाक्षरं नादं भोरित्येवमुदीरयन् ।
प्रत्याहरज्जगत्सर्वमुञ्चैः स्थावरजङ्गमम्
ततः प्रभृति वाद्यापि शब्दानुञ्चारितान्पृथक् ।
गिरिगह्वरपृष्टेषु व्याजहार शुकं प्रति
अन्तर्हितप्रभावं तं दर्शयित्वा शुकस्तदा ।
गुणान्संत्यज्य सत्त्वादीन्पदमध्यगमत्परम्
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ।
सो ऽनुनीतो भगवता व्यासो रुद्रेण नारद
किमु त्वं ताम्यसि मुने पुत्रं प्रति समाकुलः ।
पश्यसि विप्र नायान्तं ब्रह्मभूतं निजान्तिरे
इत्येवमनुनीतो ऽसौ व्यासः पुनरुप्राव्रजत् ।
श्वाश्रमं स शुको ब्रह्मभूतो लोकांश्चचार ह
तत कालान्तरे ब्रह्मन्व्यासः सत्यवतीसुतः ।
नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम्
तत्र दृष्ट्वा तु तौ देवौ तप्यमानो महत्तपः ।
स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन्
यावत्तत्र स्थितो व्यासः शुकः परमयोगवित् ।
श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा
तत्र दृष्टप्रभावस्तु श्रीमान्नारायणः प्रभुः ।
दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः
स्तुतश्च शुकदेवेन प्रसन्नः प्राह नारद ।
श्रीभगवानुवाच
त्वया दृष्टो ऽस्मि योगीन्द्र सर्वदेवरहःस्थितः
सनत्कुमारादिष्टेन सिद्धो योगेन वाडव ।
त्वं सदागतिमार्गस्थो लोकान्पश्य यथेच्छया
इत्युक्तो वासुदेवेन तं नत्वारणिसंभवः ।
वैकुण्ठं प्रययौ विप्र सर्वलोकनमस्कृतम्
वैमानिकैः सुरैर्जुष्टं विरजापरिचेष्टितम् ।
यं भान्तमनुभान्त्येते लोकाः सर्वे ऽपि नारद
यत्र विदुमसोपानाः स्वर्णरत्नविचित्रिताः ।
वाप्य उत्पलंसंछन्नाः सुरस्त्रीक्रीडनाकुलाः
दिव्यैर्हंसकुलैर्घुष्टाः स्वच्छांबुनिभृताः सदा ।
तत्र द्वाःस्थैश्चतुर्हस्तेनार्नाभरणभूषितैः
विष्वक्सेनानुगैः सिद्धैः कुमुदाद्यैरवा रितः ।
प्रविश्याभ्यान्तरं तत्र देवदेवं चतुर्भुजम्
शान्तं प्रसन्नवदनं पीतकौशेयवाससम् ।
शङ्खचक्रगदापद्मैर्मूर्तिमद्भिरुपासितम्
वक्षस्थलस्थया लक्ष्म्या कौस्तुभेन विराजितम् ।
कटीसूत्रब्रह्मसूत्रकटकाङ्गदभूषितम्
भ्राजत्किरीटवलयं मणिनूपुरशोभितम् ।
ददर्श सिद्धनि करैः सेव्यमानमहर्निशम्
तं दृष्ट्वा भक्तिभावेन तुष्टाव मधुसूदनम् ।
शुक उवाच
नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे
जगद्बीजस्वरूपाय पूर्णाय निभृतात्मने ।
हरये वासुकिस्थाय श्वेतद्वीपनिवासिने
हंसाय मत्स्यरूपाय वाराहतनुधारिणे ।
नृसिंहाय ध्रुवेज्याय सांख्ययोगेश्वराय च
चतुःसनाय कूर्माय पृथवे स्वसुरवात्मने ।
नाभेयाय जगद्धात्रे विधात्रेंऽतकारय च
भार्गवेन्द्राय रामाय राघवाय पराय च ।
कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे
चतुर्व्युहाय वेद्याय ध्येयाय परमात्मने ।
नरनारायणाख्याय शिषिविष्टाय विष्णवे
ऋतधाम्ने विधाम्ने च सुपर्णाय स्वरोचिषे ।
ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च
विश्वरूपाय विश्वाय सृष्टिस्थित्यन्तकारिणे ।
यज्ञाय यज्ञभोक्ते च स्थविष्ठायाणवे ऽर्थिने
आदित्यसोमनेत्राय सहओजोबलाय च ।
ईज्याय साक्षिणे ऽजायबहुशीर्षाङ्घ्रिबाहवे
श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङ्गिणे ।
अष्टप्रकृत्यधीशाय ब्रह्मणे ऽनन्तसक्तये
बृहदारण्यवेद्याय हृषीकेशाय वेधसे ।
पुण्डरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने
गोविन्दाय जगत्कर्त्रे जगन्नाथाय योगिने ।
सत्याय सत्यसंधाय वैकुण्ठायाच्युताय च
अधोक्षजाय धर्माय वामनाय त्रिधातवे ।
घृतार्चिषे विष्णवे ते ऽनन्ताय कपिलायय च
विरिञ्चये त्रिककुदे ऋग्यजुःसामरूपिणे ।
एकशृङ्गाय च शुचिश्रवसे शास्त्रयोनये
वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे ।
भूर्भुवुःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च
निरञ्जनाय नित्याय ह्यव्ययायाक्षराय च ।
नमस्ते पाहि मामीश शरणागतवत्सल
इति स्तुतः स भगवाञ्च्छङ्खचक्रगदाधरः ।
आरणेयमुवाचेदं भृशं प्रणतवत्सलः
श्रीभगवानुवाच
व्यासपुत्र महाभाग प्रीतो ऽस्मि तव सुव्रत ।
विद्यामाप्नुहि भक्तिं च ज्ञानी त्वं मम रूपधृक्
यद्रूपं मम दृष्टं प्राक् श्वेतद्वीपे त्वया द्विज ।
सो ऽहमेवावतारार्थं स्थितो विश्वंभरात्मकः
सिद्धो ऽसि त्वं महाभाग मोक्षधर्मानुनुचिन्तया ।
वरलोकान्यथा वायुर्यथा रवं सविता तथा
नित्यमुक्तस्वरूपस्त्वं पूज्यमानः सुरैर्नरैः ।
भक्तिर्हि दुर्लभा लोके मयि सर्वपरायणे
तां लब्ध्वा नापरं किञ्चिल्लब्धव्यमवशिष्यते ।
आकल्पान्तः तपः संस्थौ नरनारायणावृषी
तयोर्निदेशतो व्यासो जनक स्तव सुव्रतः ।
कर्ता भागवतं शास्त्रं तदधीष्व भुवं व्रज
स तप्यति तपस्त्वद्य पर्वते गन्धमादने ।
त्वद्वियोगेन खिन्नात्मा तं प्रसादय मत्प्रियम्
एवमुक्तः शुको विप्र नमस्कृत्य चतुर्भुजम् ।
यथागतं निवृत्तो ऽसौ पितुरन्तिकमागमत्
अथ तं स्वन्तिके दृष्ट्वा पाराशर्य्यः प्रतापवान् ।
पुत्रं प्राप्य प्रहृष्टात्मा तपसो निववर्त ह
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
आरणेयसमायुक्तः स्वाश्रमं समुपागमत्
नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर ।
चकार संहितां दिव्यां नानाख्यानसमन्विताम्
वेदतुल्यां भागवतीं हरिभक्तिविवर्द्धिनीम् ।
निवृत्तिनिरतं पुत्रं शुकमध्यापयञ्च ताम्
आत्मारामो ऽपि भगवान्पाराशर्यात्मजः शुकः ।
अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम्
एवमेते समाख्याता मोक्षधर्मास्तवानध ।
पठतां शृण्वतां चापि हरिभक्तिविवर्द्धनाः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0