भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.61

1.61.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमो ऽध्यायः
सनत्कुमार उवाच
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् ।
निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते

1.61.2

हर्षस्थानसहस्राणि शोकस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

1.61.3

अनिष्टसंप्रंयोगाश्च विप्रयोगात्प्रियस्य च ।
मनुष्या मानसैर्दुःखैर्युज्यन्ते ये ऽल्पबुद्धयः

1.61.4

द्रव्येषु समतीतेषु ये गुणास्तेन्न चिन्दयेत् ।
ताननाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते

1.61.5

दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्त्तते ।
अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते

1.61.6

नार्थो न धर्मो न यशो यो ऽतीतमनुशोचति ।
अस्याभावेन युज्येतं तञ्चास्य तु निवर्तते

1.61.7

गुणैर्भूतानि युज्यन्ते तथैव च न युज्यते ।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते

1.61.8

मृतं वा यदि वा नष्टं यो ऽतीतमनुशोचति ।
दुःखेन लभते दुःखं महानर्थे प्रपद्यते

1.61.9

दुःखोपघाते शारीरे मानसे चाप्युपस्थिते ।
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुर्चितयेत्

1.61.10

भैषज्यमेतद्दःखस्य यदेतन्नानुचिन्तयेत् ।
चिन्त्यमानं हि न व्येति भूयश्चाभिप्रवर्द्धते

1.61.11

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञाय सामर्थ्यं न वान्यैः समतामियात्

1.61.12

अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः ।
आरोग्यं प्रियसंवासं न मृध्येत्पण्डितः क्वचित्

1.61.13

नाज्ञानप्रभवं दुःखमेकं शोचितुमर्हति ।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम्

1.61.14

सुखात्प्रियतरं दुःखं जीविते नात्र संशयः ।
जरामरणदुःखेभ्यः प्रियमात्मानमुद्धरेत्

1.61.15

भजन्ति हि शारीराणि रोगाः शरीरमानसाः ।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः

1.61.16

व्याधितस्य चिकित्साभिस्त्रस्यतो जीवितैषिणः ।
आमयस्य विनाशाय शरीरमनुकृष्यते

1.61.17

स्रंसंति न निवर्तन्ते स्रोतांसि सरितामिव ।
आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः

1.61.18

अपयन्त्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः ।
जातं मर्त्यं जरयति निमिषं नावतिष्टते

1.61.19

सुखदुःखाभिभूतानामजरो जरयत्यसून् ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च

1.61.20

अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।
इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः

1.61.21

यो यदिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् ।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्

1.61.22

संयताश्चैव तक्षाश्च मतिमन्तश्च मानवाः ।
दृश्यन्ते निष्फलाः संतः प्रहीनाश्च स्वकर्मभिः

1.61.23

अपरे निष्फलाः सन्तो निर्गुणाः पुरुषाधमाः ।
आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः

1.61.24

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकेषु ससुखेष्वेव जीयते

1.61.25

अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्टति ।
कश्चित्कर्माणि कुरुते न प्राप्यमधिगच्छति

1.61.26

अपराधान्समाच्ष्टुं पुरुषस्य स्वभावतः ।
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति

1.61.27

तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः ।
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते

1.61.28

केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम् ।
सिद्धौ प्रयतमानानां नैवाण्डमुपजायते

1.61.29

गर्भादुद्विजमानानां क्रुद्धादशीविषादिव ।
आयुष्मान् जायते पुत्रः कथं प्रेतः पितेव सः

1.61.30

देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रहेतुभिः ।
दशमासान्परिधृता जायते कुलपांसनाः

1.61.31

अपरे धनधान्यानि भोगांश्च पितृसंचितान् ।
विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः

1.61.32

अन्योन्य समभिप्रेत्य मैथुनस्य समागमे ।
उपद्रवैवादृष्टो योनौ गर्भः प्रपद्यते

1.61.33

स्निग्धत्वादिन्द्रियार्थेषु मोहान्मरणमप्रियम् ।
परित्यजति यो दुःखं सुखमप्युभयं नरः

1.61.34

अत्येति ब्रह्म सो ऽत्यन्तं सुखमप्यश्नुते परम् ।
दुःखमर्था हि त्यज्यन्ते पालने च न ते सुखाः

1.61.35

श्रुत्वैव नाधिगमनं नाशमेषां न चिन्तयेत् ।
अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः

1.61.36

अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः ।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः

1.61.37

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ।
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम्

1.61.38

तस्मात्संतोषमेवेह धनं शंसन्ति पण्डिताः ।
निमेषमात्रमपि हि यो ऽधिगच्छन्न तिष्टति

1.61.39

सशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् ।
भूतेषु भावं संचिन्त्य ये बुद्ध्या तमसः परम्

1.61.40

न शोचन्ति गताध्वानः पश्यन्ति परमां गतिम् ।
संचिन्वन्नेकमेवैनं कामानावितृप्तकम्

1.61.41

व्याघ्र पशुमिवासाद्य मृत्युरादाय गच्छति ।
अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे

1.61.42

अशोचन्नारभेन्नैव युक्तश्चाव्यसनी भवेत् ।
शब्दे स्पर्शे रसे रूपे गन्धे च परमं तथा

1.61.43

नोपभोगात्परं किञ्चिद्धनिनो वाधनस्य वा ।
वाक्संप्रयोगाद्भृतानां नास्ति दुःखमनामयम्

1.61.44

विप्रयोगश्च सर्वस्य न वाचा न च विद्यया ।
प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च

1.61.45

विचरेदसमुन्नद्धः स सुखी स च पण्डितः ।
अध्यात्मगतमालीनो निरपेक्षो निरामिषः

1.61.46

आत्मनैव सहायेन चश्चरेत्स सुखी भवेत् ।
सुखदुःखविपर्यासो यदा समुपपद्यते

1.61.47

नैनं प्रज्ञा सुनियतं त्रायते नापि पौरुषम् ।
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति

1.61.48

उपद्रव इवानिष्टो योनिं गर्भः प्रपद्यते ।
तानि पूर्वशरीराणि नित्यमेकं शरीरिणम्

1.61.49

प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ।
निर्दग्धं परदेहेन परदेंहं बलाबलम्

1.61.50

विनश्यति विनाशान्ते नावि नावमिवाचलाम् ।
संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्

1.61.51

केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ।
अन्नपानानि जीर्यन्ते यत्र भक्ष्याश्च भक्षिताः

1.61.52

तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यति ।
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः

1.61.53

धारणे वा विसर्गे च न कर्तुं विद्यते ऽवशः ।
प्रभवन्त्युदरे गर्भा जायमानास्तथापरे

1.61.54

आगमेन महान्येषां विनाश उपपद्यते ।
एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते

1.61.55

पूजां न लभते काञ्चित्पुनर्द्धन्द्वेषु मज्जति ।
गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम्

1.61.56

प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ।
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः

1.61.57

व्याधिभिश्च विवध्यन्ते व्याघ्रैः क्षुद्रमृगा इव ।
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलन्धनम्

1.61.58

वेदना नापकर्षन्ति यतमानाश्चिकित्सकाः

1.61.59

ते चापि विविधा वैद्याः कुशला संमतौषधाः ।
व्याधिभिः परिकृष्यन्ते मृगा ज्याघ्रैरिवार्दिताः

1.61.60

ते पिबन्ति कषायांश्च सर्पीषि विविधानि च ।
दृश्यन्ते जरया भग्ना नागैर्नागा इवोत्तमाः

1.61.61

कैर्वा भुवि चिकित्स्येन्त रोगार्त्ता मृगपक्षिणः ।
श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवन्ति ते

1.61.62

घोरानपि दुराधर्षान्नृपतीनुग्रतेजस ।
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा

1.61.63

इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।
स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा

1.61.64

न धनेन न राज्येन नोग्रेण तपसा तथा ।
स्वभावा ह्यतिवर्तन्ते ये निर्मुक्ताः शरीरिषु

1.61.65

उपर्यपरि लोकस्य सर्वो भवितुमिच्छति ।
यतते च यथाशक्ति न च तद्वर्तते तथा

1.61.66

न म्रियेरन्नजीर्येरन्सर्वे स्युः सार्वकामिकाः ।
नाप्रियं प्रतिपद्येरन्नुत्थानस्य फलं प्रति

1.61.67

ऐश्वर्यमदमत्ताश्च मानान्मयमदेन च ।
अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते

1.61.68

शोकाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षताम् ।
स्वं स्वं च पुनरन्येषां न कञ्चिदतिगच्छति

1.61.69

महञ्च फलवैषम्यं दृश्यते कर्मसंधिषु ।
वहॄन्ति शिबिकामन्ये यान्त्यन्ये शिबिकारुहः

1.61.70

सर्वेषामृद्धिकामानामन्ये रथपुरः सराः ।
मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः

1.61.71

द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ।
इदमन्यत्परं पश्य नात्र मोहं करिष्यसि

1.61.72

धर्मं चापि त्यजा धर्मं त्यज सत्यानृतां धियम् ।
सर्वं त्यक्त्वा स्वरूपस्थः सुखी भव निरामयः

1.61.73

एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ।
येन देवाः परित्यज्य भर्त्यलोकं दिवं गताः

1.61.74

सनन्दन उवाच
इत्युक्त्वा व्यासतनयं समापृच्छ्य महामुनिः ।
सनत्कुमारः प्रययौ पूजितस्तेन सादरम्

1.61.75

शुको ऽपि योगिनां श्रेष्ठः सम्यग्ज्ञात्वा ह्यवस्थितम् ।
ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ

1.61.76

ततः पित्रा समागम्य प्रणम्य च महामुनिः ।
शुकः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम्

1.61.77

व्यासस्तद्विरहाद्दूनः पुत्रस्नेहसमावृतः ।
क्षणैकं स्थीयतां पुत्र इति च क्रोश दुर्मनाः

1.61.78

निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ।
मोक्षमेवानुसंचित्य गत एव परं पदम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc