भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.60

1.60.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने एकोनषष्टितमो ऽध्यायः
सनदन उवाच
अवतीर्णेषु विप्रेषु यासः पुत्रसहायवान् ।
तूर्ष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्

1.60.2

तमुवाचाशरी री वाक् व्यासं पुत्रसमन्वितम् ।
भो भो महर्षे बासिष्ठ ब्रह्मघोषो न वर्तते

1.60.3

एको ध्यानपरस्तूष्णी किमाःसे चिन्तयन्निव ।
ब्रह्मघोषैर्विरहितः पर्वतो ऽयं न शोभते

1.60.4

तस्मादधीष्व भगवन्सार्द्ध पुत्रेण धीमता ।
वेदान्वेदविदा चैव सुप्रसन्नमनाः सदा

1.60.5

तच्छुत्वा वचनं व्यासो नभोवाणीसमीरितम् ।
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्

1.60.6

तयोरभ्यसतोरेवं बहुकालं द्विजोत्तम ।
वातो ऽतिमात्रं प्रववौ समुद्रानिलवीजितः

1.60.7

ततो ऽनध्याय इति तं व्यासः पुत्रमवारयत् ।
शुको वारितमात्रस्तु कौतूहलसमन्वितः

1.60.8

अपृच्छत्पितरं तत्र कुतो वायुरभूदयम् ।
आख्यातुमर्हति भवान्सर्वं वायोर्विचैष्टितम्

1.60.9

शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ।
अनध्यायनिमित्तऽस्मिन्निदं वचनं मब्रवीत्

1.60.10

दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः ।
तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः

1.60.11

तस्यात्मनि स्वयं वेदान्बुद्ध्वा समनुचिन्तय ।
देवयानचरो विष्णोः पितृयानश्च तामसः

1.60.12

द्वावेतौ प्रत्ययं यातौ दिवं चाधश्च गच्छतः ।
पिथिव्यामन्तरिक्षे च यतः संयान्ति वायवः

1.60.13

सप्त ते वायुमार्गा वै तान्निबोधानुपूर्वशः ।
तत्र देवगणाः साध्याः समभूवन्महाबलाः

1.60.14

तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ।
उदानस्तस्य पुत्रो ऽभूव्द्यानस्तस्याभवत्सुतः

1.60.15

अपानश्च ततो जज्ञे प्राणश्चापि ततः परम् ।
अनपत्यो ऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः

1.60.16

पृथर्क्क्ंमाणि तेषां तु प्रवक्ष्यामि यथा तथा ।
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक्

1.60.17

प्रीणनाञ्चैव सर्वेषां प्राण इत्यभिधीयते ।
प्रेषयत्यभ्रसंघातान्धूमजांश्चोष्मजांस्तथा

1.60.18

प्रथमः प्रथमे मार्गे प्रवहो नाम सो ऽनिलः ।
अंबरे स्नेहमात्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः

1.60.19

आवहो नाम सो ऽभ्येति द्वितीयः श्वसनो नदन् ।
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः

1.60.20

अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः ।
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयते जलम्

1.60.21

उद्धृत्य ददते चापो जीमूतेभ्यो वने ऽनिलः ।
यो ऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छती

1.60.22

उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ।
संनीयमाना बहुधा येन नीला महाघनाः

1.60.23

वर्षमोक्षकृतारंभास्ते भवन्ति घनाघनाः ।
यो ऽसौ वहति देवानां विमानानि विहायसा

1.60.24

चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ।
येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः

1.60.25

पञ्चमः स महावेगो विवहो नाम मारुतः ।
यस्मिन्परिप्लवे दिव्या वहॄन्त्यापो विहायसा

1.60.26

पुण्यं चाकाशगङ्गायास्तोयं तिष्टति तिष्टति ।
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः

1.60.27

योनिरंशुसहस्रस्य येन याति वसुंधराम् ।
यस्मादाप्यायते सोमो निधिर्दिव्यो ऽमृतस्य च

1.60.28

षष्ठः परिवहो नाम स वायुर्जीवतां वरः ।
सर्वप्राणभृतां प्राणार्न्यो ऽतकाले निरस्यति

1.60.29

यस्य धर्मे ऽनुवर्तेते मृत्युवेवस्वतावुभौ ।
सम्यगन्वीक्षता बुद्ध्या शान्तयाध्यात्मनित्यया

1.60.30

ध्यानाभ्यासाभिरामाणां यो ऽमृतत्वाय कल्पते ।
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे

1.60.31

दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ।
येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते

1.60.32

परीवहो नाम वरो वायुः स दुरतिक्रमः ।
एवमेते दितेः पुत्रा मरुतः परमाद्भुताः

1.60.33

अनारमन्तः सर्वाङ्गाः सर्वचारिणः ।
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः

1.60.34

कंपितः सहसा तेन पवमानेन वायुना ।
विष्णोर्निःश्वासवातो ऽयं यदा वेगसमीरितः

1.60.35

सहसोदीर्यते तात जगत्प्रव्यथते तदा ।
तस्माद्ब्रह्मविदो ब्रह्म न पठन्त्यतिवायुतः

1.60.36

वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ।
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः

1.60.37

उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा ।
ततो व्यासे गते स्नातुं शुको ब्रह्मविदां वरः

1.60.38

स्वाध्यायमकरोद्ब्रह्मन्वेदवेदाङ्गपारगः ।
तत्र स्वाध्यायसंसक्तं शुकं व्याससुतं मुने

1.60.39

सनत्कुमारो भगवानेकान्ते समुपागतः ।
उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना

1.60.40

ततः प्रोवाच विप्रेन्द्र शुकं विदां वरः ।
किं करोषि महाभाग व्यासपुत्र महाद्युते

1.60.41

शुक उवाच
स्वाध्याये संप्रवृत्तो ऽहं ब्रह्मपुत्राधुना स्थितः ।
त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च

1.60.42

किञ्चित्त्वां प्रष्टुमिच्छामि तत्त्वं मोक्षार्थसाधनम् ।
तद्वदस्व महाभाग यथा त ज्ज्ञानमाप्नुयाम्

1.60.43

सनत्कुमार उवाच
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्

1.60.44

निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ।
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम्

1.60.45

मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति ।
नालं स दुःखमोक्षाय संगो वै दुःखलक्षणः

1.60.46

सक्तस्य बुद्धर्भवति मोहजालविवर्द्धिनी ।
मोहजालावृतो दुःखमिहामुत्र तथाश्नुते

1.60.47

सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ।
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ

1.60.48

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेञ्च मत्सरात् ।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः

1.60.49

आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम्

1.60.50

येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ।
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह

1.60.51

असज्जमानः शान्तात्मा निर्विकारः समाहितः ।
आत्मभूतैरतद्भूतः सह चैव विनैव च

1.60.52

स विमुक्तः परं श्रेयो न चिरेणाधिगच्छति ।
अदर्शनमसंस्पर्शस्तथैवाभाषाणं सदा

1.60.53

यस्य भूतैः सह मुने स श्रेयो विन्दते महत् ।
न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्चरेत्

1.60.54

नेदं जन्म समासाद्य वैरं कुर्वीत केन चित् ।
आकिञ्चन्यं सुसंतोषो निराशिष्ट्वमचापलम्

1.60.55

एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ।
परिग्रहं परित्यज्य भव तातजितेन्द्रियः

1.60.56

अशोकं स्थानमातिष्ट इह चामुत्र चाभयम् ।
निराशिषो न शोचन्ति त्यजेदाशिषमात्मनः

1.60.57

परित्यज्याशिषं सौम्य दुःखग्रामाद्विमोक्ष्यसे ।
तपरोनित्येन दान्तेन मुनिना संयतात्मना

1.60.58

अजितं जेतुकामेन भाव्यं संगेष्वसंगिना ।
गुणसंगेष्वेष्वनासक्त एकचर्या रतः सदा

1.60.59

ब्राह्मणो न चिरादेव सुखमायात्यनुत्तमम् ।
द्वन्द्वारामेषु भूतेषु वराको रमते मुनिः

1.60.60

किञ्चिन्प्रज्ञानतृप्तो ऽसौ ज्ञानतृप्तो न शोचति ।
शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम्

1.60.61

अशुभैश्चाप्यधो जन्म कर्मभिर्लभते ऽवशः ।
तत्र मृत्युजरादुःखैः सततं समभिद्रुतम्

1.60.62

संसारं पश्यते जन्तुस्तत्कथं नावबुध्से ।
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः

1.60.63

अनर्थे वार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ।
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः

1.60.64

कोशकारवदात्मानं वेष्टितो नावबुध्यसे ।
अलं परिग्रहेणेह दोषवान् हि परिग्रहः

1.60.65

कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ।
पुत्रदारकुटुंबेषु सक्ताः सीदन्ति जन्तवः

1.60.66

सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ।
मोहजालसमाकृष्टान्पश्यजन्तून्सुदुःखितान्

1.60.67

कुटुंबं पुत्रदारं च शरीरं द्रव्यसंचयम् ।
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते

1.60.68

यदा सर्वं परित्यज्य गन्तव्यमवशेन वै ।
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्टसि

1.60.69

अविश्रान्तमनालंबमपाथेयमदैशिकम् ।
तमः कर्त्तारमध्वानं कथमेको गमिष्यसि

1.60.70

नहि त्वां प्रस्थितं कश्चित्पृष्टतो ऽनुगमिष्यति ।
सुकृतं दुष्कृतं च त्वां गच्छन्तमनुयास्यतः

1.60.71

विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ।
अर्थार्थमनुशीर्यन्ते सिद्धार्थस्तु विमुच्यते

1.60.72

निबन्धिनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः

1.60.73

तुल्यजातिवयोरूपान् हृतान्पस्यसि मृत्युना ।
न च नामास्ति निर्वेदो लोहं हि हृदयं तव

1.60.74

रूपकूलां मनः स्रोतां स्पर्शद्वीपां रसावहाम् ।
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरारुहाम्

1.60.75

क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकराम् ।
त्यागवाताध्वगां शीघ्रां बुद्धिनावं नदीं तरेत्

1.60.76

त्यक्त्वा धर्ममधर्मं च ह्युभे सत्यानृते त्यज ।
त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया

1.60.77

उभे सत्यानृते बुद्धिं परमनिश्चयात् ।
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्

1.60.78

धर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः ।
जराशोकसमाविष्टं रोगायतनमस्थिरम्

1.60.79

रजस्वलमनित्यं च भूतावासं समुत्सृज ।
इदं विश्वं जगत्सर्वमजगञ्चापि यद्भवेत्

1.60.80

महाभूतात्मकं सर्वमस्माद्यत्परमाणुमत् ।
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा

1.60.81

इत्येष सप्तदशको राशिख्यक्तसंज्ञकः ।
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि हितम्

1.60.82

पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गणः ।
एतैः सर्वैः समायुक्तमनित्यमभिधीयते

1.60.83

त्रिवर्गो ऽत्र सुखं दुःख जीवितं मरणं तथा ।
य इदं वेद तत्त्वेन सस वेद प्रभवाप्ययौ

1.60.84

इन्द्रियैर्गृह्यते यद्यत्तद्व्यक्तमभिधीयते ।
अव्यक्तमथ तज्ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्

1.60.85

इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।
लोके विहितमात्मानं लोकं चात्मनि पश्यति

1.60.86

परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति ।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा

1.60.87

ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।
ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्च देहजात्

1.60.88

लोकबुद्धिप्रकाशेन लोकमार्गो न रिष्यति ।
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम्

1.60.89

अकर्तारममूढं च भगवानाह तीर्तवित् ।
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः

1.60.90

स्वदुःखप्रतिघातार्थं हॄन्ति जन्तुरनेकधा ।
ततः कर्म समादत्ते पुनरन्यन्नवं बहु

1.60.91

तप्यते ऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः ।
अजस्रमेव मोहान्तो दुःखेषु सुखसंज्ञितः

1.60.92

वध्यते तप्यते चैव भयवत्यर्मभिः सदा ।
ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह

1.60.93

परिभ्रमति संसारे चक्रवद्बाहुवर्जितः ।
संयमेन च संबन्धान्निवृत्त्या तपसो बलात्

1.60.94

सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc