भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.6

1.6.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमो ऽध्यायः
सूत उवाच
भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः ।
पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम्

1.6.2

नारद उवाच
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।
परया दयया तथवं ब्रूहिं शास्त्रार्थपारग

1.6.3

सनक उवाच
शुणु ब्रह्मन्तरं गुह्यं सर्वसंपत्करं परम् ।
दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम्

1.6.4

श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् ।
सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम्

1.6.5

क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः

1.6.6

सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः ।
मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः

1.6.7

गङ्गा पुण्यनदी ज्ञेया यतो विष्णुपदोद्भवा ।
रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः

1.6.8

स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने ।
सर्वपापक्षयकरी सर्वोपद्र वनाशिनी

1.6.9

यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले ।
तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने

1.6.10

इयाज वेधा यज्ञेन यत्र देवं रमापतिम् ।
तथैव मुनयः सर्वे चक्रश्च विविधान्मखान्

1.6.11

सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै ।
गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम्

1.6.12

गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः ।
सो ऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान्

1.6.13

विष्णुपादोद्भवा देवी विश्वेश्वरशिरः स्थिता ।
संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै

1.6.14

यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः ।
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः समुज्ज्वलत्

1.6.15

यन्मज्जन महापुण्यं दुर्लभं त्रिदिवौकसाम् ।
सारुप्यदायकं विष्णोः किमस्मात्कथ्यते परम

1.6.16

यत्र स्त्राताः पापिनो ऽपि सर्वपापविवर्जिताः ।
महद्विमानमारुढाः प्रयान्ति परमं पदम्

1.6.17

यत्र स्नाता महात्मानः पितृमातृकुलानि वै ।
सहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै

1.6.18

स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विच ।
पुण्यक्षेत्रेषु सर्वेषौ स्थितवान्नात्र संशयः

1.6.19

यत्र स्नातं नरं दृष्ट्वा पापो ऽपि स्वर्गभूमिभाक् ।
मदङ्गस्पर्शेमात्रेण देवानामाधपो भवेत्

1.6.20

तुलसीमूलसंभूता द्विजपादोद्भावा तथा ।
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम्

1.6.21

गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ।
अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि

1.6.22

सद्धर्मवक्तुः पदसंभवां मृदं गङ्गोद्भवां चैव तथा तुलस्याः ।
मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः

1.6.23

कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहम् ।
वाञ्च्छत्यपि च यो ह्येवं सो ऽपि विष्णुपदं व्रजेत्

1.6.24

गङ्गाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि ।
न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः

1.6.25

अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ।
यतो वै नरकं यान्ति गङ्गानात्रि स्थिते ऽपि हि

1.6.26

संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ।
तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि

1.6.27

सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

1.6.28

योजनत्रितयं यस्तु गङ्गायामधिगच्छति ।
सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि

1.6.29

सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता ।
मेषतौलिमृगाकर्षु पावयत्यखिलं जगत्

1.6.30

गोदावरी भीमरथी कृष्णा रेवा सरस्वती ।
तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा

1.6.31

वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ।
एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता

1.6.32

यथा सर्वगतो विष्णुर्जगव्द्याप्य प्रतिष्टितः ।
तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी

1.6.33

अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् ।
पुनाति पावनीत्येषा न कथं सेव्यते नृभिः

1.6.34

तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ।
वाराणसीति विख्यातं सर्वदेवनिषेवितम्

1.6.35

ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् ।
इह श्रुतिमतां पुंसां काशी याभ्यां श्रुतासकृत्

1.6.36

ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् ।
निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै

1.6.37

योजनानां शतस्थो ऽपि अविमुक्तं स्मरेद्यदि ।
बहुपातकपूर्णो ऽपि पदं गच्छत्यनामयम्

1.6.38

प्राणप्रयाणसमये यो ऽविमुक्तं स्मरेद्वूज ।
सो ऽपि पापविनिर्मुक्तः शैवं पदमवान्पुयात्

1.6.39

काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ।
पृथिव्यामेकराडू भूत्वा काशीं प्राप्य च मुक्तिभाक्

1.6.40

बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति ।
नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः

1.6.41

गङ्गायमुनयोर्योगो ऽधिकः काश्या अपि द्विजा ।
यस्य दर्शनमात्रेण नरा यान्ति परां गतिम्

1.6.42

मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता ।
पुनाति स्त्रानपानाद्यैर्नयन्तीन्द्रपुरं जगत्

1.6.43

यो गङ्गां भजते नित्यं शङ्करो लोकशङ्करः ।
लिङ्गरुपीं कथं तस्या महिमा परिकीर्त्यते

1.6.44

हरिरुपधरं लिङ्गं लिङ्गरुपधरो हरिः ।
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः

1.6.45

अनादिनिधने देवे हरिशङ्करसंज्ञिते ।
अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः

1.6.46

यो देवो जगतामशः कारणानां च कारणम् ।
युगान्ते निगदन्त्येतद्रुद्ररुपधरो हरिः

1.6.47

रुद्रो वै विष्णुरुपेण पालयत्यखिलञ्जगत् ।
ब्रह्मरुपेण सृजति प्रान्तेः हयेतत्रयं हरः

1.6.48

हरिशङ्करयोर्मध्ये ब्रह्मणश्चापि यो नरः ।
भेदं करोति सो ऽभ्येति नरकं भृशदारुणम्

1.6.49

हरं हरिं विधातारं यः पश्यत्येकरुपिणम् ।
स याति परंमानन्दं शास्त्राणामेष विष्वयः

1.6.50

यो ऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः ।
नित्यं संनिहितस्तत्र लिङ्गरुपी जनार्दनः

1.6.51

काशीविश्वेश्वरं लिङ्गज्योतिर्लिङ्गं तदुच्यते ।
तं दृष्ट्वा परमं ज्योतिराप्रोति मनुजोत्तमः

1.6.52

काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ।
सत्पद्वीपासाब्धिशैला भूः परिक्रमितामुना

1.6.53

धातुमृद्दारपाषाणलेख्याद्या मूर्तयो ऽमलाः ।
शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः

1.6.54

तुलसीकाननं यत्र यत्र पह्मवनं द्विजा ।
पुराणपठनं यत्र यत्र संनिहितो हरिः

1.6.55

पुराणसंहितावक्ता हरिरित्यभिधीयते ।
तद्भक्तिं कुर्वतां नॄणां गङ्गास्त्रानां दिने दिने

1.6.56

पुराणश्रवणे भक्तिर्गङ्गास्त्रानसमा द्विज ।
तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता

1.6.57

पुराणधर्मकथनैर्यः समुद्धरते जगत् ।
संसारसागरे मग्नं स हरिः परिकीर्तितः

1.6.58

नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः ।
नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम्

1.6.59

वर्णानां ब्राह्मणः श्रेष्ठस्तारकाणां यथा शशी ।
यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता

1.6.60

नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः ।
नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी

1.6.61

गङ्गायाः परमं नाम पापारण्यदवानलः ।
भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयन्ततः

1.6.62

गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ।
एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज

1.6.63

गायत्री छन्दसां माता माता लोकस्य जाह्नवी ।
उभे ते सर्वपापानां नाशकारणतां गते

1.6.64

यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति ।
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे

1.6.65

धर्मार्थकामरुपाणां फलरुपे निरञ्जने ।
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे

1.6.66

अतीव दुर्ल्लभा नॄणां गायत्री जाह्नवी तथा ।
तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी

1.6.67

अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ।
हरिलोकप्रदा दृष्टा पीता सारुप्यदायिनी ।
यत्र स्त्राता नरा यान्ति विष्णोः पदमनुत्तमम्

1.6.68

नारायणो जगद्धाता वासुदेवः सनातनः ।
गङ्गास्त्रानपराणां तु वाञ्छितार्थफलप्रदः

1.6.69

गङ्गाजलकरणेनापि यः सिक्तो मनुजोत्तमः ।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम्

1.6.70

यद्विन्दुसेवनादेव सगरान्वयसम्भवः ।
विसृज्यराक्षसं भावं संप्रात्पः परमं पदम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc