भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.7

1.7.1

इति श्रीवृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टो ऽध्यायः
नारद उवाच
को ऽसौ राक्षसभावाद्धि मोचितः सगरावन्वये ।
सगरः को मुनिश्रेष्ठ तन्म्रमाख्यातुमर्हसि

1.7.2

सनक उवाच
श्रुणुष्व मुनिशार्दूल गङ्गामाहात्म्यमुत्तमम् ।
यज्जलस्पर्शमात्रेण पावितं सागरं कुलम् ।
गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम्

1.7.3

आसीद्रविकुले बाहुर्नाम वृकात्मजः ।
बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः

1.7.4

ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च जन्तवः ।
स्थापिताः स्वस्वधर्मेषु तेन बाहुर्विशांपतिः

1.7.5

अश्वमेधैरियाजासौ सत्पद्वीपेषु सत्पभिः ।
अतर्प्पयद्भूमिदेवान् गोभूस्वर्णाशुकादिभिः

1.7.6

अशासन्नीतिशास्त्रेण यथेष्टं परिपन्थिनः ।
मेने कृतार्थमात्मानमन्यातपनिवारणम्

1.7.7

चन्दनानि मनोज्ञानि बलिं यत्सर्वदा जनाः ।
भूषिता भूषणौर्दिव्यैस्तद्राष्ट्रे सुखिनो मुने

1.7.8

अकृष्टपच्या पृथिवी फलपुष्पसमन्विता

1.7.9

ववर्ष भूमौ देवेन्द्रः काले काले मुनिश्वरः ।
आधर्मनिरतापाये प्रजा धर्मेण रक्षिताः

1.7.10

एकदा तस्य भूपस्य सर्वसंपद्विनाशकृत् ।
अहॄङ्कारो महाञ्जज्ञे सासूयो लोपहेतुकः

1.7.11

अहं राजा समस्तानां लोकानां पालको बली ।
कर्त्ता महाक्रतूनां च मत्तः पूज्यो ऽस्ति को ऽपरः

1.7.12

अहं विचक्षणः श्रीमाञ्जिताः सर्वे मयरयः ।
वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्र विशारदः

1.7.13

अजेयो ऽव्याहतैश्वर्यो मत्तः को ऽन्यो ऽधिको भुवि ।
अहॄङ्कारपरस्यैवं जातासूया परेष्वपि

1.7.14

असूयातो ऽभवत्कामस्तस्य राज्ञो मुनीश्वर ।
एषु स्थितेषु तु नरो विनाषं यत्यसंशयम्

1.7.15

यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्

1.7.16

तस्यासूया नु महती जाता लोकविरोधिनी ।
स्वदेहनाशिनी विग्र सर्वसंपद्विनाशिनी

1.7.17

असूयाविष्टमनसि यदि संपत्प्रवर्त्तते ।
तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत

1.7.18

असूयोपेतमनसां दम्भाचारवतां तथा ।
परुषोक्तिरतानां च सुखं नेह परत्र च

1.7.19

असूयाविष्टचित्ता नां सदा निष्ठुरभाषिणाम् ।
प्रियावा तनया वापि बान्धवा अप्यरातयः

1.7.20

मनोभिलाषं कुरुते यः समीक्ष्य परस्त्रियम् ।
स स्वसंपद्विनाशाय कुठारो नात्र संशयः

1.7.21

यः स्वश्रेयोविनाशाय कुर्याद्यत्नं नरो मुने ।
सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सूरं कुधीः

1.7.22

मित्रापत्यगृहक्षेत्र धनधान्यपषुष्वपि ।
हानिमिच्छन्नरः कुर्यादसूयां सततं द्विज

1.7.23

अथ तस्याविनीतस्य ह्यसूयाविष्टचेतसः ।
हैहयास्ताललजङ्घाश्च बलिनो ऽरातयो ऽभवन्

1.7.24

यस्यानुकूलो लक्ष्मीशः सौभाग्यं तस्य वर्द्धते ।
स एव विमुखो यस्य सौभाग्यं तस्य हीयते

1.7.25

तावत्पुत्राश्च पौत्राश्च धनधान्यगृहादयः ।
यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद

1.7.26

अपि मूर्खान्धबधिरजडाः शूरा विवेकिनः ।
श्लाध्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये

1.7.27

सौभाग्यं तस्य हीयेत यस्यासूयादिलाञ्छनम् ।
जायते नात्र संदेहो जन्तुद्वेषो विशेषतः

1.7.28

सततं यस्य कस्यापि यो द्वेषं कुरुते नरः ।
तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसतम्

1.7.29

असूया वर्द्धते यस्य तस्य विष्णुः पराङ्मुखः ।
धनं धान्यं मही संपनद्विश्यति ततो ध्रुवम्

1.7.30

विवेकं हन्त्यहॄङ्कारस्त्वविवेकात्तु जीविनाम् ।
आपदः संभवन्त्येवेत्यहॄङ्कारं त्यजेत्ततः

1.7.31

अहं कारो भवेद्यस्य तस्य नाशो ऽतिवेगतः ।
असूयाविसृष्टमनसस्तस्य राज्ञः परैः सह

1.7.32

आयोधनमभीद्धोरं मासमेकं निरन्तरम् ।
हैहयैस्तालजङ्घैश्च रिपुभिः स पराजितः

1.7.33

स तु बाहुस्ततो दुःखी अन्तर्वत्न्या स्वभार्यया ।
अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः

1.7.34

असूयोपेतमनसस्तस्य भावं निरीक्ष्य च ।
सरोगतविहङ्गास्ते लीनाश्चित्रमिदं महत्

1.7.35

अहो कष्टमहो रुपं घोरमत्र समागतम् ।
विशन्तस्त्वरया वासमित्यूचुस्ते विहङ्गमाः

1.7.36

सो ऽवगाह्यसरोभूपः पत्नीभ्यां सहितो मुता ।
पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रितः

1.7.37

तस्मिन्बाहौ वनं याते तेनैव परिरक्षिताः ।
दुर्गुणान्विगणय्यास्यधिग्धिगित्यब्रुवन्प्रजाः

1.7.38

यो वा को वा गुणी मर्त्यः सर्वश्वाध्यतरोद्विजः ।
सर्वसंपत्समायुक्तो ऽप्यगुणीनिन्दितो जनैः

1.7.39

अपकीर्तिसमो मृत्युर्लोकेष्वन्यो न विद्यते ।
यदा बाहुर्वनं यातस्तदा तद्रागगा जनाः ।
संतुष्टिं परमां याता दवथौ विगते यथा

1.7.40

निन्दातो बहुशो बाहुर्मृतवत्काननेस्थितः ।
निहत्य कर्म च यशो लोके द्वजवरोत्तम

1.7.41

नास्त्यकीर्तिसमो मृत्युर्मास्ति क्रोधसमो रिपुः ।
नास्ति निन्दासमं पापं नास्ति मोहसमासवः

1.7.42

नास्त्यसूयासमा कीर्तिर्नास्ति कामसमो ऽनलः ।
नास्ति रागसमः पाशो नास्ति सङ्गसमं विषम्

1.7.43

एवं विलप्यबहुधा बाहुरत्यन्तदुःखितः ।
जीर्णाङ्गोमनसस्तापाद् वृद्धभावादभूदसौ

1.7.44

गते बहुतिथे काले और्वाश्रमसमीपतः ।
स बाहुर्व्याधिना ग्रस्ते ममार मुनिसत्तम

1.7.45

तस्य भार्या च दुःखार्ता कनिष्ठा गर्भिणी तदा ।
चिरं विलप्य बहुधा सहगन्तुं मनो दधे

1.7.46

समानीय चसैधांसि चितां कृत्वातिदुःखिता ।
समारोप्य तन्पूरुढं स्वयं समुपचक्रमे

1.7.47

एतस्मिन्नन्तरे धीमनौर्वस्तेजोनिधिर्मुनिः ।
एतद्विज्ञातवान्सर्वं परमेण समाधिना

1.7.48

भूतं भव्यं वर्त्तमानं त्रिकालज्ञामुनीश्वराः ।
गतासूया महात्नानः पश्यन्तिज्ञान चक्षुषा

1.7.49

तपोभिस्तेजसां राशिरौर्वपुण्यसमो मुनिः ।
संप्रात्पस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता

1.7.50

चितामारोढुमुद्युक्तां तां दृष्ट्वा मुनिसत्तमः ।
प्रोवाच धर्ममूलानि वाक्यानि मुनिसत्तमः

1.7.51

और्व उवाच
राजवर्यप्रिये साध्वि मा कुरुष्वातिसाहसम् ।
तवोदरे चक्रवर्ती शनुहन्ता हि तिष्टति

1.7.52

बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ।
रजस्वला राजसुतेनारोहति चिन्ताशुभो

1.7.53

ब्रह्महत्यादिपापानां प्रोक्ता निष्कृतिरुत्तमैः ।
दाम्भिनोनिन्दकस्यापि भ्रूणघ्रस्य न निष्कृतिः

1.7.54

नास्तिकस्य कृतन्घस्य धर्मोपेक्षाकरस्य च ।
विश्वासघातकस्यापि निष्कृतिर्नास्ति सुव्रते

1.7.55

तस्मादेतन्महत्पापं कर्त्तुं नार्हसि शोभने ।
यदेतद्दुःखमुत्पन्नं तत्सर्वं शान्तिमेष्यति

1.7.56

इत्युक्ता मुनिना साध्वी विश्वस्य तदनुग्रहम् ।
विललापातिदुःखार्ता समुह्यधवपत्कुजौ

1.7.57

और्वो ऽपि तां पुनः प्राह सर्वशास्त्रार्थकोविदुः ।
मारोदीराज ननये श्रियमग्र्ये गमिष्यसि

1.7.58

मा भुं चास्त्रमाहाभागेप्रेतो दाह्यो ऽद्य सज्जनैः ।
तस्माच्छोकं परित्यज्य कुरु कालोचिता क्रि पाम्

1.7.59

पण्डिते वापिमूर्खे वा दरिद्रे वाश्रियान्विते ।
दुर्वृत्ते वा सुवृत्ते वा मृत्योःसर्वत्रतुल्यता

1.7.60

नगरे वा तथामन्ये दैन्यमत्रातिरिच्यते

1.7.61

यद्यत्पुरातनं कर्मतत्तदेर्विह युज्यते ।
कारणं दैवमेवात्र मन्ये सोपाधिका जनाः

1.7.62

गर्भे वा बाल्यभावे वा यौवने वापि वार्द्धके ।
मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने

1.7.63

हन्ति पाति च गोविन्द्रो जन्तून्कर्मवशे स्थितान् ।
प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु

1.7.64

तस्मादुःखं परित्यज्य सुखिती भव सुव्रते ।
कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव

1.7.65

एतच्छरीरं दुःखानां व्याधीनामथुतैर्गृतम् ।
सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम्

1.7.66

इत्याश्चास्य महाबुद्धिस्तया कार्याण्यकारयत् ।
त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम्

1.7.67

किमत्र चित्रं यत्सन्तः परार्थफलकाङ्क्षिणः ।
नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले

1.7.68

यो ऽन्यदुःखानि विज्ञाय साधुवाक्यैः प्रबोधयेत् ।
स एव विष्णुःसत्त्वस्थो यतः परिहिते स्थितः

1.7.69

अन्य दुःखेन यो दुःखी यो ऽन्यहर्षेण हर्षितः ।
स एव जगतामीशो नररुपधरो हरिः

1.7.70

सद्भिः श्रुतानि शास्त्राणि परदुःखविमुक्तये ।
सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि

1.7.71

यत्र सन्तः प्रवर्त्तते तत्र दुःखं न बाधते ।
वर्तते यत्र मार्ताण्डः कथं तत्रतमो भवेत्

1.7.72

इत्येवं वादिनी सा तु स्वपत्युश्चापराः क्रियाः ।
चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः

1.7.73

स्थिते तत्र मुनौ राजा देवराडिव संज्वलन् ।
चितामध्याद्विनिष्क्रम्य विमानवरमास्थितः ।
प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम्

1.7.74

महापातकयुक्ता वा युक्ता वा चोपपातकैः ।
परं पदं प्रयान्त्येव महद्भिरवलोकिताः

1.7.75

कलेवरं वा तद्भस्म तद्धूमं वापि सत्तम ।
यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम्

1.7.76

पत्युः कृतक्रिया सा तु गत्वाश्रमपदंमुनेः ।
चकार तस्य शुश्रूषां सपत्न्या सह नारद्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc