भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.5

1.5.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भक्तिवर्णनप्रसङ्गेन मार्कण्डेयचरितारम्भो नाम चतुर्थो ऽध्यायः
नारद उवाच
ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः ।
किं चकार च तद्ब्रुहि हरिर्भार्गववंशजः

1.5.2

श्रूयते चपुराणेषु मार्कण्डेयो महामुनिः ।
अपश्यद्वैष्णवीं मायां चिरञ्जीव्यस्य संप्लवे

1.5.3

सनक उवाच
श्रुणु नारद वक्षअयामि कथामेतां सनातनीम् ।
विष्णुभक्तिसमायुक्तां मार्कुण्डेयमुनिं प्रति

1.5.4

तपसो ऽन्ते मृकण्डुस्ते मृकण्डुस्तु भार्यामुदूह्य सत्तमः ।
गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः

1.5.5

तस्य भार्या शुचिर्दक्षा नित्यं पतिपरायणा ।
मनसा वचसा चापि देहेन च पतिव्रता

1.5.6

काले दधार सा गर्भं हरितेजोंशसंभवम् ।
रुषुवे दशमासान्ते पुत्रं तेजस्विनां परम्

1.5.7

स ऋषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् ।
जातकं कारयामास मङ्गलं विधिपूर्वकम्

1.5.8

स बालो ववृधे तत्र शुक्लपक्ष इवीडुपः ।
ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः

1.5.9

शिक्षां चकार विप्रेन्द्र वैदिकीं धर्मसंहिताम् ।
नमस्कार्या द्विजाः पुत्र सदादृष्टा विधानतः

1.5.10

त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्चलिदानतः ।
वैदिकं कर्म तर्तव्यं वेदाध्ययनपूर्वकम्

1.5.11

ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा ।
निषिद्धं वर्जनीयं स्यादृष्टसंभाषणादिकम्

1.5.12

साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा ।
न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत्

1.5.13

इज्याध्यंयनदानानि सदा कार्याणि ते सुत ।
एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः

1.5.14

चचार धर्मं सततं सदा संचिन्तयन्हरिम् ।
मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः

1.5.15

आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः ।
वशीं शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः

1.5.16

तपश्चचारं महामच्युतप्रीतिकारणम् ।
आराधितो जगन्नाथो माक्रण्डेयेन धीमता

1.5.17

पुराणसंहितां कर्त्तुदत्तवान्वरमच्युतः ।
मार्कण्डेयो मुनि तपश्चचारं परममच्युतप्रीतिकारणम् ।
मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः

1.5.18

चिरजीवी महाभक्तो देवदेवस्य चक्रिणः ।
जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः

1.5.19

तस्य दर्शयितुं विग्रास्तं न संहृतवान्हरिः ।
मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः

1.5.20

तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत् ।
मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम्

1.5.21

तस्य प्रमाणं वक्ष्यामि कालस्य वदतः श्रुणु ।
दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता

1.5.22

काष्टातत्रिंशतो ज्ञेया कला पह्मजनन्दन ।
तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भर्घटिका स्मृता

1.5.23

तद्वयेन मुहूर्त्तं स्याद्दिनं तत्रिंशता भवेत् ।
त्रिंशद्दिनेर्भवेन्यासः पक्षद्वितयसंयुतः

1.5.24

ऋतुर्मासद्वयेन स्यात्तत्रयेणायनं स्मृतम् ।
तद्दयेन भवेदब्दः स देवानां दिनं भवेत्

1.5.25

उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् ।
मानुषेणैव मासेन पितॄणां दिनमुच्यते

1.5.26

तस्मात्सुर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् ।
दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम्

1.5.27

दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ।
एकसत्पतिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः

1.5.28

चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसंमुने ।
यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता

1.5.29

नाशमायाति विप्रेन्द्र तस्मिन्काले जगन्नयम् ।
मनुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु

1.5.30

चतुर्युगसहस्राणि ब्रह्मणो दिवसं मुने ।
तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः

1.5.31

परार्द्धद्वयकालस्तु तन्मतेन भवेद्विजाः ।
विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता

1.5.32

मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत् ।
तस्मिन्घोरे जलमये विष्णुशक्त्युपबृंहितः ।
आत्मानं परमं ध्यायन्स्थितवान्हरिसान्निधौ

1.5.33

अथ काले समायाते योगनिद्राविमोचितः ।
सृष्टवान्ब्रह्मरुपेण जगदेतच्चराचरम्

1.5.34

संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः ।
विस्मितः परमप्रीतो ववन्दे चरणौ हरेः

1.5.35

शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः ।
तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम्

1.5.36

मार्कण्डेय उवाच
सहस्रशिरसं देवं नारायणमनामयम् ।
वासुदेवमनाधारं प्रणतो ऽस्मिजनार्दनम्

1.5.37

अमेयमजरं नित्यं सदानन्दैकविग्रहम् ।
अप्रतर्क्यमनिर्देश्यं प्रणतो ऽस्मि जनार्द्दनम्

1.5.38

अक्षरं परमं नित्यं विशाक्षं विश्वसम्भवम् ।
सर्वतत्त्वमयं शान्तं प्रणतो ऽस्मि जनार्द्दनम्

1.5.39

पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम् ।
परात्परतरं रुपं प्रणतो ऽस्मि जनार्द्दनम्

1.5.40

परञ्ज्योतिः परं धाम पवित्रं परमं पदम् ।
सर्वैकरुपं परमं प्रणतो ऽस्मि जनार्द्दनमम्

1.5.41

तं सदानन्दचिन्मात्रं पराणां परमं पदम् ।
सर्वं सनातनं श्रेष्ठं प्रणतो ऽस्मि जनार्द्दनम्

1.5.42

सगुणं निर्गुणं शान्तं मायातीतं सुमायिनम् ।
अरुपं बहुरुपं तं प्रणतो ऽस्मि जनार्द्दनम्

1.5.43

यत्रतद्भगवान्विश्वं सृजत्यवत्ति हन्ति च ।
तमादिदेवमीशानं प्रणतो ऽस्मि जनार्द्दनम्

1.5.44

परेश परमानन्द शरणागतवत्सल ।
त्राहि मां करुणासिन्धो मनोतीति नमो ऽस्तुते

1.5.45

एवं स्तवन्तं विप्रेन्द्रं मार्कण्डेयजगद्गुरुम् ।
उवाच परया प्रीत्या शङ्खचक्रगदाधरः

1.5.46

श्रीभगवानुवाच
लोके भागवता ये च भगवद्भक्तमानसाः ।
तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा

1.5.47

अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः ।
भगवद्भक्तरुपेण लोकाक्रक्षामि सर्वदा

1.5.48

मार्कण्डेय उवाच
किंलक्षणा भागवता जायन्ते केन कर्ंमणा ।
एतदिच्छाम्यदं श्रोतुं कौतुहलपरो यतः

1.5.49

श्रीभगवानुवाचा
लक्षणं भागवतानां श्रुणुष्व मुनिसत्तम् ।
वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः

1.5.50

यो हिताः सर्वजन्तूनां गतासूया अअमत्सरा ।
विशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः

1.5.51

कर्ंमणा मनसा वाचा परपीडां न कुर्वते ।
अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः

1.5.52

सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ।
तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः

1.5.53

मातापित्रोश्च शुश्रुषां कुर्वन्ति ये नरोत्तमाः ।
गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः

1.5.54

ये तु देवार्च्चनरता ये तु तत्साधकाः स्मृताः ।
पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः

1.5.55

व्रतिनां च यतीनां च परिचर्यापराशअच ये ।
वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः

1.5.56

सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ।
ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः

1.5.57

आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ।
तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः

1.5.58

धर्ंमशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ।
सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः

1.5.59

व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा ।
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः

1.5.60

ये गोब्राह्मणशुश्रूषआं कुर्वते सततं नराः ।
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः

1.5.61

अन्येषामुदयं दृष्ट्वा ये ऽभिनवन्दन्ति मानवाः ।
हरिनामपरा ये च ते वै भागवतोत्तमाः

1.5.62

आरामारोपणरतास्तडापरिरक्षकाः ।
कासारकूपकर्त्तारस्ते वै भागवतोत्तमाः

1.5.63

ये वै तडागकर्त्तारो देवसह्मानि कुर्वते ।
गोयत्रीनिरता ये च ते वै भागवतोत्तमाः

1.5.64

ये ऽभिनन्दन्ति नामानि हरेः श्रुत्वातिहर्षिताः ।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः

1.5.65

तुलसीकावनं दृष्ट्वा ये नमस्कुर्वते नराः ।
तत्काष्टाङ्कितकर्णा ये ते वै भागवतोत्तमाः

1.5.66

तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ।
तन्मूलमृत्तिकां ये च ते वै भागवतोत्तमाः

1.5.67

आश्रमाचाचरनिरतास्तथैवातिथिपूजकाः ।
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः

1.5.68

शिवाप्रियाः शिवासक्ताः शिवपादार्च्चने रताः ।
त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः

1.5.69

व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः ।
रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः

1.5.70

ये यजन्ति महादेवं ऋतुभिर्बहुदक्षिणैः ।
हरिं वा परया भक्त्या ते वै भागवतोत्तमाः

1.5.71

विदितानि च शास्त्राणि परार्थं ग्रवदन्ति ये ।
सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः

1.5.72

शिवे च परमेशे च विष्णौ च परमात्मनि ।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः

1.5.73

शिवाग्रिकार्यनिरताः पञ्चाक्षरजपे रताः ।
शिवध्यानरता ये च ते वै भागवतोत्तमाः

1.5.74

पानीयदाननिरता ये ऽन्नदानरतास्तथा ।
एकादर्शीव्रतरता वै भागवतोत्तमाः

1.5.75

गोदाननिरता ये च कन्यादानरताश्च ये ।
मदर्थं कर्ंमकर्त्तारस्ते वै भागवतोत्तमाः

1.5.76

एते भागवता विप्र केचिदत्र प्रकीर्तिताः ।
मयापि गदितुं शक्या नाब्दकोटिशतैरपि

1.5.77

तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा ।
सर्वभूताश्रयो दान्तो मेत्रो धर्ंमपरायणः

1.5.78

पुनर्युगान्तपर्य्यन्तं धर्ंमं सर्वं समाचरन् ।
मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि

1.5.79

एवं मृकण्डुपुत्रस्य स्वभक्तस्य कृपानिधिः ।
दत्त्वा वरं स देवेशस्तत्रैवान्तरधीयत

1.5.80

मार्कण्डेयो महाभागो हरिभक्तिरतः सदा ।
चचार परमं धर्ममीजे च विधिवन्मखैः

1.5.81

शालप्रामे महाक्षेत्रे तताप परमं तपः ।
ध्यानक्षपितकर्मा तु परं निर्वाणमात्पवान्

1.5.82

तस्माज्जन्तुषु सर्वेषु हितकृद्धरिपूजकः ।
ईप्सिवं मनसा यद्यनत्तदान्प्रोत्यसंशयम्

1.5.83

सनक उवाच
एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम ।
भगवद्भक्ति माहात्म्यं किमन्यच्छ्रोतुमिच्छसि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc