भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.58

1.58.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे सङ्क्षिप्तच्छन्दोवर्णनं नाम सप्तपञ्चाशत्तमो ऽध्यायः
नारद उवाच
अनूचानप्रसंगेन वेदाङ्गान्यखिलानि च ।
श्रुतानि त्वन्मुखांभोजात्समासव्यासयोगतः

1.58.2

शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते ।
सनन्दन उवाच
मेरुशृङ्गे किल पुरा कर्णिकारवनायते

1.58.3

विजहार महोदेवो भौमैभूतगणैवृतः ।
शैलराजसुता चैव देवी तत्राभवत्पुरा

1.58.4

तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ।
योगेनात्मानमाविश्य योगधर्मपरायणः

1.58.5

धारयन्स तपस्तेपे पुत्रार्थं सुनिसंत्तमः ।
अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाभितः

1.58.6

वीर्येण संमतः पुत्रो मम भूयादिति स्म ह ।
संकल्पेनाथ सो ऽनेन दुष्प्रापमकगृतात्मभिः

1.58.7

वरयामास देवेशमास्थितस्तप उत्तमम् ।
अतिष्टन्मारुताहारः शतं किल समाः प्रभुः

1.58.8

आराधयन्महादेवं बहुरूपमुमापतिम् ।
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा

1.58.9

लोकपालाश्च साध्याश्च वसुभिश्चाष्टभिः सह ।
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ

1.58.10

विश्वा वसुश्च गन्धर्वः सिद्धाश्चाप्सरासांगणाः ।
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम्

1.58.11

धारयानः स्रजं भाति शारदीव निशाकरः ।
तस्निन् दिव्ये वने रम्ये देवदेवर्षिसंकुले

1.58.12

आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः ।
न चास्य हीयते वर्णो न ग्लानिरुपजायते

1.58.13

त्रयाणामपिलोकानां तदद्भुतमिवाभवत् ।
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः

1.58.14

प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ।
एवं विधेन तपसा तस्य भक्त्या च नारद

1.58.15

महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ।
उवाच चैनं भगवांस्त्र्यंबकः प्रहसन्निव

1.58.16

यथा ह्यग्नियथा वायुर्यथा भूमिर्यथा जलम् ।
यथा खे च तथा शुद्धो भविष्यति सुतस्तंव

1.58.17

तद्भावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः ।
तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम्

1.58.18

एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः ।
अरणिं त्वथ संगृह्य ममन्थाग्निचिकीर्षया

1.58.19

अथ रूपं परं विप्र बिभ्रतीं स्वेन तेजसा ।
घृताचीं नामाप्सरसं ददर्श भगवान्नृषिः

1.58.20

स तामप्सरसं दृष्ट्वा सहसा काममोहितः ।
अभवद्भगवान्व्यासो वने तस्मिन्मुनीश्वर

1.58.21

सा तु कृत्वा तदा व्यासं कामसंविग्नमानसम् ।
शुकीभूया महारम्या घृताची समुपागमत्

1.58.22

स तामप्सरसं दृष्ट्वा रूपेणान्येनसंवृताम् ।
स्मरराजेनानुगतः सर्वगात्रातिगेन ह

1.58.23

स तु महता निगृह्णन् हृच्छयं मुनिः ।
न शशाक नियन्तुं तं व्यासः प्रविसृतं मनः

1.58.24

भावित्वाञ्चैव भाव्यस्य घृताच्या वपुषा ।
हृतम् यत्नान्नियच्छतश्चापि मुने एतञ्चिकीर्षया

1.58.25

अरण्यामेव सहसा तस्य शुक्रमवापतत् ।
शुक्रे निर्मथ्यमाने ऽस्यां शुको जज्ञे महातपाः

1.58.26

परमर्षिर्महायोगी अरणीगर्भसंभवः ।
यथैव हि समिद्धो ऽग्निर्भाति हव्यमुपात्तवान्

1.58.27

तथा रूपः शुको जज्ञे प्रज्वलन्निव तेजसा ।
बिभ्रञ्चित्रं च विप्रेन्द्र रूपवर्णमनुत्तमम्

1.58.28

तं गङ्गां सरितां श्रेष्ठां मेरुपृष्ठे स्वरूपिणीम् ।
अभ्येत्य स्नापयामास वारिणा स्वेन नारद

1.58.29

कृष्णाजिनं चान्तरिक्षाच्छुकार्थे भुव्यवापतत् ।
जगीयन्त च गन्धर्वा ननृतुञ्चाप्सरोगणाः

1.58.30

देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः ।
विश्वावसुश्च गन्धर्वस्तथा तुंबुरुनारदौ

1.58.31

हाहाहूहूश्च गन्धर्वौं तुष्टुवुः शुकसंभवम् ।
तत्र शक्रपुरोगाश्च लोकपालाः समागताः

1.58.32

देवा देवर्षथयश्चटैव तथा ब्रह्मर्षयो ऽपि च ।
दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः

1.58.33

जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ।
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः

1.58.34

जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ।
तस्य देवेश्वरः शक्तो दिव्यमद्भुतदर्शनम्

1.58.35

ददौ कमण्डलुं प्रीत्या देवा वासांसि चाभितः ।
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः

1.58.36

प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च नारद ।
आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः

1.58.37

तत्रैवोवास मेधावी व्रतचारी समाहितः ।
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः

1.58.38

उपतस्थुर्मुनिश्रेष्ठं यथास्य पितरं तथा ।
बृहस्पतिं स वव्रे च वेदवेदाङ्गभाष्यवित्

1.58.39

उपाध्यायं द्विजश्रेष्ठ धर्ममेवानुचिन्तयन् ।
सो ऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान्

1.58.40

इतिहासं च कार्त्स्न्येन वेदशास्त्राणि चाभितः ।
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः

1.58.41

उग्रं तपः समारेभे ब्रह्मचारी समाहिताः ।
देवतानामृषीणां च बाल्ये ऽपि सुमहातपाः

1.58.42

संमत्रणीयो जन्यश्च ज्ञानेन तपसा तथा ।
न त्वस्य रमते बुद्धि राश्रमेषु मुनीश्वर

1.58.43

त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ।
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्

1.58.44

प्राहाभिवाद्य च तदा श्रेयोर्ऽथी विनयान्वितः ।
मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे

1.58.45

यथैव मनसः शान्तिः परमा संभवेन्मुने ।
शृत्वा पुत्रस्य वचनं परमर्षिरुवाच तम्

1.58.46

अधीष्व मोक्षशास्त्रं वै धर्मांश्च विविधानपि ।
पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः

1.58.47

योगशास्त्रं च निखिलं कापिलं चैव नारद ।
शतं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्

1.58.48

मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशारदम् ।
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्

1.58.49

स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः ।
पितुर्नियोगादगमज्जनकं मेथखिलं नृपम्

1.58.50

प्रष्टुं धर्मस्य निष्टां वै मोक्षस्य च परायणम् ।
उक्तश्च मानुषेण त्वं तथा गच्छेत्यविस्मितः

1.58.51

न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ।
आर्जवेनैव गन्तव्यं न सुखाय क्षणात्त्वया

1.58.52

न द्रष्टव्या विशेषा हि विशेषा हि प्रसंगिनः ।
अहॄङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे

1.58.53

स्थातव्यं वसथे तस्य स ते छेत्स्यति संशयम् ।
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः

1.58.54

यथा यथा च ते ब्रूयात्तत्कार्यमविशङ्कया ।
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः

1.58.55

पभ्द्यां शक्तोन्तरिक्षेण क्रान्तुं भूमिं ससागराम् ।
सगिरीं श्चाप्यतिक्रम्य भारतं वर्षमासदत्

1.58.56

स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः ।
विदेहान्वै समासाद्य जनकेन समागमत्

1.58.57

राजद्वारं समासाद्य द्वारपालैर्निवारितः ॥ट
तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः

1.58.58

आतपे ग्लानिरहितो ध्यानयुक्तश्च नारद ।
तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः

1.58.59

मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ।
जूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः

1.58.60

प्रावेशयत्ततः कक्षआं द्वितीयां राजवेश्मनः ।
तत्रान्तःपुरसंबद्धं महच्चैत्रग्थोपमम्

1.58.61

सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ।
दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत्

1.58.62

श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुङ्क्त च ।
सेवायै तस्य भावस्य ज्ञानाय मुनिसतम

1.58.63

तं चारुकेश्यः शुश्रेण्यस्तरुण्यः प्रियदर्शनाः ।
सूक्ष्मरक्तांबरधरास्तप्तकाञ्चनभूषणाः

1.58.64

संलापालापकुशाला भावज्ञाः सर्वकोविदाः ।
परं पञ्चाशतस्तस्य पाद्यादीनि व्यकल्पयन्

1.58.65

देश कालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ।
तस्य भुक्तवतस्तात तास्ततः पुरकाननम्

1.58.66

सुरम्यं दर्शयामासुरेकैकत्वेन नारद ।
क्रीडन्त्यश्च हसंत्यश्च गायन्त्यश्चैव ताः शुकम्

1.58.67

उदारसत्वं सत्वज्ञाःसर्वाः पर्य्यचरंस्तदा ।
आरणेयस्तु शुद्धात्मा जितक्रोधो जितेन्द्रियः

1.58.68

ध्यानस्थ एव सततं न हृष्यति न कुप्यति ।
पादशौचं तु कृत्वा वै शुकः संध्यामुपास्य च

1.58.69

निषसादासने पुण्ये तमेवार्थं व्यचिन्तयत् ।
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः

1.58.70

मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः ।
ततः प्रातः समुत्थाय कृत्वा शौचमनन्तरम्

1.58.71

स्त्रीभिः परिवृत्तो धीमान्ध्यानमेवान्वपद्यत ।
अनेन विधिना तत्र तदहःशेषमप्युत

1.58.72

तां च रात्रिं नृपकुले वर्तयामास नारद

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc