भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.59

1.59.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयभागे शुकप्रलोभनं नामाष्टञ्चाशत्तमो ऽध्यायः
सनन्दन उवाच
ततः स राजा सहितो मन्त्रिभिर्द्विजसत्तम ।
पुरः पुरोहितं कृत्वा सर्वाण्यन्तः पुराणि च

1.59.2

शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् ।
महदासनमादाय सर्वरत्नविभूषितम्

1.59.3

प्रददौ गुरुपुत्राय शुकाय परमोचितम् ।
तत्रोपविष्टं तं कार्ष्णिशास्त्रदृष्टेन कर्मणा

1.59.4

पाद्यं निवेद्य प्रथमं सार्घ्यं गां च न्यवेदयत् ।
स च तांमन्त्रतः पूजां प्रतिगृह्य द्विजोत्तमः

1.59.5

पर्यपृच्छन्महातेजाराज्ञः कुशलमव्ययम् ।
उदारसत्त्वाभिजनो राजापि गुरुसूनवे

1.59.6

आवेद्य कुशलं भूमौ निषसाद तदाज्ञया ।
सो ऽपि वैयासकिं भूयः पृष्ट्वा कुशलमव्ययम् ।
किमागमनिमित्येव पर्यपृच्छद्विधानवित्

1.59.7

शुक उवाच
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः ।
विदेहराजोह्याद्योमे जनको नाम विश्रुतः

1.59.8

तत्र त्वं गच्छ तूर्णं वै स ते हृदयसंशयम् ।
प्रवृत्तौ च निवृत्तौ च सर्वं छेत्स्यत्यसंशयम्

1.59.9

सो ऽहं पितुर्नियोगात्त्वा मुपप्रष्टुमिहागतः ।
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि

1.59.10

किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः ।
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा

1.59.11

जनक उवाच
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छुणु ।
कृतोपनयनस्तात भवेद्वेदपरायणः

1.59.12

तपसा गुरुवृत्त्या च ब्रह्मचर्येण चान्वितः ।
देवतानां पितॄणां च ह्यतृष्णश्चानसूयकः

1.59.13

वेदानधीत्य नियतो दक्षिणामपवर्त्य च ।
अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः

1.59.14

समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् ।
अनसूयुर्यथान्यायमाहिताग्निरनादृते

1.59.15

उत्पाद्य पुत्रपौत्रांश्च वन्याश्रमपदे वसेत् ।
तानेवाग्नीन्यथान्यायं पूजयन्नतिथिप्रियः

1.59.16

सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।
निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्

1.59.17

शुक उवाच
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शश्वते ।
न विना गुरुसंवासाज्ज्ञानस्याधिगमः स्मृतः

1.59.18

किमवश्यं तु वस्तव्यमाश्रमेषु न वा नृप ।
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति

1.59.19

जनक उवाच
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ।.
न विना गुरुसंबधाज्ज्ञानस्याधिगमस्तथा

1.59.20

आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते ।
विज्ञाय कृतकृत्यस्तु तीर्णस्तत्रोभयं त्यजेत्

1.59.21

अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ।
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते

1.59.22

भावितैः कारणैश्चार्यं बहुसंसारयोनिषु ।
आसादयति शुद्धात्मा मोक्षं हि प्रथमाश्रमे

1.59.23

तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।
त्रिधाश्रमेषु कोन्वर्थो भवेत्परमभीप्सतः

1.59.24

राजसांस्तामसांश्चैव नित्यं दोषान्विसर्जयेत ।
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना

1.59.25

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नैव लिप्येत जले वारिचरगो यथा

1.59.26

पक्षीवत्पवनाद्वर्ध्वममुत्रानुन्त्यश्नुते ।
विहाय देहं निर्मुक्तो निर्द्वन्द्वः शुभसंगतः

1.59.27

अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना ।
धार्यते या द्विजैस्तात मोक्षशास्त्रविशारदैः

1.59.28

ज्योतिश्चात्मनि नान्यत्र रत्नं तत्रैव चैव तत् ।
स्वयं च शक्यं तद्द्रष्टुं सुसमाहितर्चतसा

1.59.29

न बिभेति परो यस्मान्न बिभेति पराच्च यः ।
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते स तु

1.59.30

यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
पूर्वैराचरितो धर्मश्चतुराश्रमसंज्ञकः

1.59.31

अनेन क्रमयोगेन बहुजातिसुकर्मणाम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा

1.59.32

र्सुयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् ।
त्यक्त्व कामं च लोभं च ततो ब्रह्मत्वमश्नुते

1.59.33

यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाव्ययम् ।
समो भवति निर्द्वुद्वो ब्रह्म संपद्यते तदा

1.59.34

यदा स्तुति च र्निदां च समत्वेन च पश्यति ।
काञ्चनं चायसं चैव सुखदुःखे तथैव च

1.59.35

शीतमुष्णं तथैवार्थमनर्न्थं प्रियमप्रियम् ।
जीवितं मरणं चैव ब्रह्म संपद्यते तदा

1.59.36

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः ।
तर्थेद्रियाणि मनसा संयन्तव्यानि भिक्षुणा

1.59.37

तमः परिगतं वेश्य यथा दीपेन दृश्यते ।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्

1.59.38

एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतांवर ।
यञ्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्भवान्

1.59.39

ब्रह्मर्षे विदितश्वासि विषयान्तमुपागतः ।
गुरोश्चैव प्रसादेन तव चैवोपशिक्षया

1.59.40

तस्य चैव प्रसादेन प्रादुर्भूतं महामुनेः ।
ज्ञानं दिव्यं समादीप्तं तेनासि विदितो विदितो मम

1.59.41

अर्धिकं तव विज्ञानमधि कावगतिस्तव ।
अधिकं च तवैश्वर्यं तञ्च त्वं नावबुध्यसे

1.59.42

बाल्याद्वा संशयाद्वापि भयाद्वापि विमेषजात् ।
उत्पन्ने चापि विज्ञा ने नाधिगच्छन्ति ताङ्गतिम्

1.59.43

व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयाः ।
विमुच्य हृदयग्रन्थीनार्तिमासादयन्ति ताम्

1.59.44

मवांश्चोत्पन्नविज्ञानः स्थिरबगुद्धिरलोलुपः ।
व्यवसायादृते ब्रह्मन्नासादयति तत्पदम्

1.59.45

नास्ति ते सुखदुःखेषु विशेषो नास्ति वस्तुषु ।
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते

1.59.46

न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् ।
पश्यामित्वां महाभाग तुल्यनिन्दात्मसंस्तुतिम्

1.59.47

अहं च त्वानुपश्यामि ये चान्ये ऽपि मनीषिणः ।
आस्थितं परमं मार्गे अक्षयं चाप्यनामयम्

1.59.48

यत्फलं ब्राह्मणस्येह मोक्षार्थश्चापदात्मकः ।
तस्मिन्वै वर्तसे विप्रकिमन्यत्परिपृच्छसि

1.59.49

सनन्दन उवाच
एतच्छुत्वा तु वचनं कतात्मा कृतनिश्चयः ।
आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना

1.59.50

कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः ।
शैशिरं गिरिमासाद्य पाराशर्यं ददर्श च

1.59.51

शिष्यानध्यापयन्तं च पैलादीन्वेदसंहिताः ।
आरर्णेयो विशुद्धात्मा दिवाकरसमप्रभः

1.59.52

पितुर्जग्राह पादौ चज सादरं हृष्टमानसः ।
ततो निवेदयामास पितुः सर्वमुदारधीः

1.59.53

शुको जनकराजेन संवादं मोक्षसाधनम् ।
तच्छत्वा वेदकर्तासौ प्रहृष्टेनान्तरात्मना

1.59.54

समालिङ्ग्य सुतं व्यासः स्वपार्श्वस्थं चकार च

1.59.55

ततः पैलादयो विप्रा वेदान् व्यासादधीत्य च ।
शैलशृङ्गाद्भुवं प्राप्ता याजनाध्यापने रताः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc