नारद पुराण · अध्याय 1.57
इति श्रीबृहन्न.पूर्व.बृहदुपाख्याने द्वितीयपादे षट्पञ्चाशत्तमो ऽध्यायः
सनन्दन उवाच
वैदिकं लौकिकं चापि छन्दो द्विविधमुच्यते ।
मात्रावर्णविभेदेन तच्चापि द्विविधं पुनः
मयौ रसौ तजौ भनौ गुरुर्लघुरपिद्विज ।
कारणं छन्दसि प्रोक्ताश्छन्दःशास्त्रविशारदैः
सर्वगो मगणः प्रोक्तो मुखलो यगणः स्मृतः ।
मध्यलो रगणश्वैव प्रान्त्यगः सगणो मतः
तगणोंऽतलघुः ख्यातो मध्यगो जो भआदिगः ।
त्रिलघुर्नगणः प्रोक्तस्त्रिका वर्णगणा मुने
चतुर्लास्तु गणाः पञ्च प्रोक्ता आर्यादिसंमताः ।
संयोगश्च विसर्गश्चानुस्वारो लघुतः परः
लघोर्दीर्घत्वमाख्याति दीर्घो गो लो लघुर्मतः ।
पादश्चतुर्थभागः स्याद्विच्छेदोयतिरुच्यते
सममर्द्धसमं वृत्तं विषमं चापि नारद ।
तुल्यलक्षणतः पादचतुष्के सममुच्यते
आदित्रिके द्विचतुर्थे सममर्द्धसमं ततम् ।
लक्ष्म भिन्नं यस्य पादचतुष्के विषमं हि तत्
एकाक्षरात्समारभ्य वर्णैकैकस्य वृद्धितः ।
षड्विंशत्यक्षरं यावत्पादस्तावत्पृथक् पृथक्
तत्परं चण्डवृष्ट्यादिदण्डकाः परिकल्पिताः ।
त्रिभिः षड्भिः पदैर्गाथाः शृणु संज्ञा यथोत्तरम्
उक्तात्युक्ता तथा मध्या प्रतिष्टान्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टष्टप्च बृहती पङ्क्तिरेव च
त्रिष्टुप्च जगती चैव तथातिजगती मता ।
शक्करी सातिपूर्वा च अष्ट्यत्यष्टी ततः स्मृते
धृतिश्च विधृतिश्चैव कृतिः प्रकृतिराकृतिः ।
विकृतिः संकृतिश्चैव तथातिकृतिरुत्कृतिः
इत्येताश्छन्दसां संज्ञाः प्रस्ताराद्भेदभागिकाः ।
पादे सर्वगुरौ पूर्वील्लघुं स्थाप्य गुरोरधः
यथोपरि तथा शेषमग्रे प्रारवन्न्यसेदपि ।
एष प्रस्तार उदितो यावत्सर्वलघुर्भवेत्
नष्टाङ्कार्द्धे समे लः स्याद्विपम् सैव सोर्द्धगः ।
उद्दिष्टे द्विगुणानाद्यादङ्गान्संमोल्य लस्थितान्
कृत्वा सेकान्वदैत्संख्यामिति प्राहुः पुराविदः ।
वणान्सेकान्वृत्तभवानुत्तराधरतः स्थितान्
एकादिक्रमतश्चैकानुपर्य्युपरि विन्यसेत् ।
उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्द्धतः
उपर्याद्याद्गुरोरेवमेकद्व्यादिलगक्रिया ।
लगक्रियाङ्कसंदोहे भवेत्संख्याविमिश्रिते
उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम् ।
संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः
इत्येतत्किञ्चिदाख्यातं लक्षणं छन्दसां नुने ।
प्रस्तारोक्तप्रभेदानां नामानांस्त्यं प्रगाहते
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0