नारद पुराण · अध्याय 1.56
इति श्रीनारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने जातकनिरूपणन्नाम पञ्चपञ्चाशत्तमो ऽध्यायः
सनन्दन उवाच
क्रमाञ्चैत्रादिमासेषु मेषाद्याः संक्रमा मताः ।
चैत्रशुक्लप्रतिपदि यो वारः स नृपः स्मृतः
मेषप्रवेशे सेनानीः कर्कटे सस्ययो भवेत् ।
समोद्यधीश्वरः सूर्यो मध्यमश्चोत्तमोविधुः
नेष्टः कुजो बुधो जीवो भृगुस्त्वतिशुभङ्करः ।
अधमो रविजो वाच्यो ज्ञात्वा चैषां बलाबलम्
दण्डाकारे कबन्धे वा ध्वाङ्क्षाकारे ऽथ कीलके ।
दृष्टेर्ऽकमण्डले व्याधिर्भ्रान्तिश्चोरार्थनाशनम्
छत्रध्वजपताकाद्यसन्निभस्तिमितैर्ध्वनैः ।
वरिमण्डलगैर्धूम्रैः सस्फुलिङ्गैर्जगत्क्षयः
सितरक्तैः पीतकृष्णैर्वणैर्विप्रादिपीडनम् ।
घ्नन्ति द्वित्रिचतुर्वर्णैर्भुवि राजजनान्मुने
ऊर्द्धैर्भानुकरैस्ताम्रैर्नाश याति चमूपतिः ।
पीतैर्नृपसुतः श्वेतैः पुरोधाश्चित्रितैर्जनाः
धूम्रैर्नृपपिशङ्गैस्तु जलदाधोमुखैर्जगत् ।
शुभोर्ऽकः शिशिरे ताम्रः कुङ्कुमाभा वसंतिके
ग्रीष्मश्चापाण्डुरश्चैव विचित्रो जलदागमे ।
पद्मोदराभः शरदि हेमन्ते लोहितच्छविः
पीतः शीते वृष्टौ ग्रीष्मे लोहितभारविः ।
रोगानावृष्टिभयकृत् क्रमादुक्तो मुनीश्वर
इन्द्रचापार्द्धमूर्तिस्तु भानुर्भूपविरोधकृत् ।
शशरक्तनिभे भानौ संग्रामो न चिराद्भुवि
मयूरपत्र संकाशो द्वादशाब्दं न वर्षति ।
चन्द्रमासदृशो भानुः कुर्याद्भूपान्तरं क्षितौ
अर्के श्यामे कीटभयं भस्माभे राष्ट्रजं तथा ।
छिद्रेर्ऽकमण्डले दृष्टं महाराजविनाशनम्
घटाकृतिः क्षुद्भयकृत्पुरहा तोरणाकृतिः ।
छत्राकृते देशहतिः खण्डभानुनृपान्तकृत्
उदयास्तमये काले विद्युदुल्काशनिर्यदि ।
तदा नृपवधो ज्ञेयस्त्वथवा राजविग्रहः
पक्षं पक्षार्द्धमर्केन्दुपरिविष्टावहर्निशम् ।
राजानमन्यं कुरुतो लोहिताम्बुदयास्तगौ
उदयास्तमये भानुराच्छिन्नः शस्त्रसन्निभेः ।
घनैर्युद्धं खरोष्ट्राद्यैः पापरूपैर्भयप्रदम्
याम्यशृङ्गोन्नत्तश्चन्द्रः शुभदी मीनमेषयोः ।
सौम्यशृङ्गोन्नतः श्रेष्ठो नृयुङ्मकरयोस्तथा
घटोक्ष्णस्तु समः कर्कचापयोः शरसन्निभः ।
चापवत्कौर्महॄर्ंयोश्च शूलबत्तुलकर्कयोः
विपरीतोदितश्चन्द्रो दुर्भिक्षकलहप्रदः ।
आषाढद्वयमूलेन्द्रधिष्ण्यानां याम्यगः शशी
अग्निप्रदस्तेयचरवनसर्पविनाशकृत् ।
विशाखा मित्रयोर्याम्यपार्श्वगः पापगः शशी
मध्यमः पितृदैवत्ये द्विदैवे सैम्यगः शशी ।
अप्राप्यपौष्णभाद्रामदुक्षाविशशी शुभः
मध्यगोद्वारदक्षाणि अतीत्य नववासवात् ।
यमेन्द्राहीशनोयेशमरुतश्चार्द्धतारकाः
ध्रुवादितिद्विदैवाः स्युरध्यर्द्धांश्चापराः समाः ।
याम्यशृङ्गोन्नतो नेष्टः शुभः शुक्ले पिपीलिका
कार्यहानिः कार्यवृद्धिर्हानिर्वृद्धिर्यथाक्रमम् ।
सुभिक्षकृद्विशालेन्दुरविशालोघनाशनः
अधोमुखे शस्त्रभयङ्कलहोदण्डसन्निभे ।
कुजाद्यैर्निहते शृङ्गे मण्डले वा यथाक्रमम्
क्षेमाद्यं वृष्टिभूपालजननाशः प्रजायते ।
सत्याष्टनवमर्क्षेषु सोदयाद्विक्रिमे कुजे
तद्वक्रमुष्णंसंज्ञं स्यात्प्रजापीडाग्निसंभवः ।
दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः
कूक्रं वक्रमुखं ज्ञेयं सस्यवृष्टिविनाशकृत् ।
कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे
बालास्यचक्रं तत्तस्मिन्सस्यवृष्टिविनाशनम् ।
पञ्चदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम्
दुर्भिक्षं क्षुद्भयं रोगान्करोति क्षितिनन्दनः ।
अष्टादशे सप्तदशे तद्वक्रं मुशलाह्वयम्
दुर्भिक्षं धनधान्यादिनाशने भयकृत्सदा ।
फआल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः
अस्तगश्चतुरास्यार्क्षे लोकत्रयविनाशकृत् ।
उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः
यद्दिग्गो ऽभ्युदितो भौमस्तद्दिग्भूपभयप्रदः ।
मधामध्यगतो भौमस्तत्र चैव प्रतीपगः
अवृष्टिशस्त्रभयदः पीड्यं देवा नृपन्तकृत् ।
पितृद्विदैवधातॄणां भिद्यन्ते गण्डतारकाः
दुर्भिक्षं मरणं रोगं करोति क्षितिजस्तदा ।
त्रिषूत्तरासु रोहिण्यां नैरृते श्रवणे मृगे
अवृषअटिदश्चरन्भौमो दक्षिणेरोहिणीस्थितः ।
भूमिजः सर्वधिष्ण्यानामुदगामी शुभघप्रदः
याम्यगो ऽनिष्टफलदो भवेद्भेदकरो नृणाम् ।
विनोत्पातेन शशिनः कदाचिन्नोदयं व्रजेत्
अनावृष्टाग्निभयकृदनर्थनृपविग्रहऋ ।
वसुवैष्णवविश्वेन्दुधातृभेषु चरन्बुधः
भिनत्ति यदि तत्तारां बाधावृष्टिभयङ्करः ।
आर्द्रादिपितृभान्तेषु दृश्यते यदि चन्द्रजः
तदा दुर्भिक्षकलहरोगानावृष्टिभीतिकृत् ।
हस्तादिषट्सु तारासु विचरन्निन्दुनन्दनः
क्षेमं सुभिक्षमारोग्यं कुरुते रोगनाशनम् ।
अहिर्बुध्न्यार्यमाग्नेययाम्यभेषु चरन्बुधः
भिषक्तरङ्गवाणिज्यवृत्तीनां नाशकृत्तादा ।
पूर्वात्रयेचरन्सौम्यो योगतारां भिनत्ति चेत्
क्षुच्छस्त्रानलचौरेभ्यो भयदः प्राणिनां तदा ।
याम्याग्निधातृवायव्यधिष्णयेषु प्राकृता गतिः
रौद्रेन्दुसार्पपित्र्येषु ज्ञेया मिश्राह्वया गतिः ।
भाग्यार्यमेज्यादितिषु संक्षिप्ता गतिरुच्यते
गतितीक्ष्णाजचरणाहिर्बुध्यभाश्रिभेषुया ।
योमातिकातिविश्वाबुमूलमत्स्यैन्यजस्य च
घोरा गतिर्हरित्वाष्ट्रवसुवारुणभेषु च ।
इन्द्राग्निमित्रमार्तण्डभेषु पापाह्वयागतिः
प्राकृताद्यासु गति ह्युदितो ऽस्तमितोपिवा ।
यावन्त्येव दिनान्येष दृश्यस्तावत्यदृश्यगः
चत्वारिंशत्क्रमात्रिंशद्रवीन्द्र भूसुतो नव ।
पञ्चदशैकादशभिर्दिवसैः शशिनन्दनः
प्राकृतायां गतः सौम्यः क्षेमारोग्यसुभिक्षकृत् ।
मिश्रसक्षिप्तयोर्मध्ये फलदो ऽन्यासु वृष्टिदः
वैशाख श्रावणे पौषे आषाढे ऽभ्युदितो बुधः ।
जगतां पापफलदस्त्वितरेषु शुभप्रदः
इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः ।
उदितश्चन्द्रजः श्रेष्ठो रजतस्फटिकोपयः
द्विभाटजोदिमास्तस्य पञ्चमैकादशास्त्रिमाधवः शुभदो ज्येष्टो नृणां मध्यफलप्रदः ।
शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नरः
कार्तिको मार्गशीर्षश्च नृणां दुष्टफलप्रदः ।
शुभप्रदौ पौषमाधौ मध्यमौ फआल्गुनो मधुः
माधवः शुभदो ज्येष्टो नृणां मध्यफलप्रदः ।
शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नर
अतिश्रेष्ठ इषः प्रोक्तो मासानां फलमीदृशम् ।
सौम्ये भागे चरन्भानां क्षेमारोग्यसुभिक्षकृत्
विपरीतो गुरुर्याम्ये मध्ये चरति मध्यमम् ।
पीताग्निश्यामहरितरक्तवर्णोगिराः क्रमात्
व्याध्यग्निचौरशस्त्रास्त्रभयदः प्राणिनां भवेत् ।
अनावृष्टिं भूम्ननिभः करोति सुरपूजितः
दिवादृष्टो नृपवध्यामयंवाराष्ट्रनाशनम् ।
संवत्सरशरीरं स्यात्कृत्तिका रोहिणी तथा
नाभिस्त्वापाठयुगलमाद्री हृत्कुसुमं मघा ।
दुर्भिक्षाग्निमरुद्भीतिः शरीरं क्रूरपीडिते
नाभ्यां क्षुत्तृङ्भयं पुष्ये सम्यङ्मूलफलक्षयः ।
हृदयेशस्य निधनं शुभं स्यात्संयुतैः शुभैः
शस्यवृद्धिः प्रजारोग्यं युद्धं जीवात्यवर्षणम् ।
इति द्विजातिमध्यां तु गोनृपस्त्रीसुखं महत्
निःस्वनावृष्टिफणि भिर्वृष्टिः स्वास्थ्यं महोत्सवः ।
महार्घमपि संपत्तिर्देशनाशो ऽतिवर्षणम्
अवैरं रोगमभयं रोगभीः सस्यवर्षणे ।
रोगो धान्यं नभो ऽदृष्टिमघाद्यृक्षगते गुरौ
सौम्यमध्यमयाम्येषु मार्गेषु वीथिकात्रयम् ।
शुक्रस्य दस्त्रभाज्ज्ञेयं पर्यायैश्च त्रिभिस्त्रिभिः
नागेभैरावताश्चैव वृषभोष्ट्रखराह्वयाः ।
मृगाञ्जदहनाख्याः स्युर्यामयान्ता वीथयो नव
सौम्य मार्गे च तिसृषु चरन्वीथिषु भार्गवः ।
धान्यार्थवृष्टिसस्यानां परिपूर्ति करोति हि
मध्यमार्गे च तिसृषु सर्वमप्यधमं फलम् ।
पूर्वस्यां दिशि मेघस्तु शुभदः पितृपञ्चके
स्वातित्रये पश्चिमायां तस्यां शुक्रस्तथाविधः ।
विपरीते त्वनावृष्टिदृद्बुधसंयुतः
कृष्णाष्टम्यां चतुर्दश्याममायां च यदा सितः ।
उन्दयास्तमनं याति तदा जलमयी मही
मिथः सप्तमराशिस्थौ पश्चात्प्राग्वीथिसंस्थितौ ।
गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ
कुजज्ञजीवरविजाः शुक्रस्याग्रेसरा यदि ।
युद्धान्तिवायुर्दुर्भिक्षजलनाशकरा मताः
जलमित्रार्यमाहीन्द्रनक्षत्रेषु सुभिक्षकृत् ।
सच्छस्त्रावृष्टिदो मूले ऽहिर्बुध्न्यभयोर्भयम्
श्रवणानिलह्तार्द्राभरणीभाग्यमेषु च ।
चरत्र्छैश्चरो नॄणां सुभिक्षारोग्यस्यकृत्
मुखे चैकं गुदे द्वे च त्रीणि के नयने द्वयम् ।
हृदये पञ्च ऋक्षाणि वामहस्ते चतुष्टयम्
वामपादे तथा त्रीणि दक्षिणे त्रीणे भानि च ।
चत्वारि दक्षिणे हस्ते जन्मभाद्रविजस्थितिः
रोगो लाभस्तथा हानिर्लाभः सौख्यं च बन्धनम् ।
आयासः श्रेष्ठयात्रा च धनलाभः क्रमात्फलम्
बहुधारविजस्त्वेतद्वक्रगः फलमीदृशम् ।
करोत्येव समः साम्यं शीघ्रगेषूत्क्रमात्फलम्
विष्णुचक्रोत्कृत्तशिराः हङ्गुः पूयूषपानतः ।
अमृत्युतां गतस्तत्र खेटस्तत्र खेटत्वे परिकल्पितः
वरणधातुरर्केन्दू तुदतेः सर्वपर्वणि ।
विक्षेपावनतेर्वङ्गाद्गाहुर्दूरगतस्तयोः
षण्मासवृद्ध्या ग्रहणं शोधयेन्द्रविचन्द्रयोः ।
पर्वेशास्तु तथा सत्यदेवा ख्यादितः क्रमात्
ब्रह्मेन्द्र्विन्द्रधनाधीशवरुणाग्नियमाह्वयोः ।
पशुसस्यद्विजातीनां वृद्धिर्ब्रह्मे तु पर्वणि
तद्वदेव फलं सौम्ये श्लेष्मपीडा च पर्वणि ।
विरोधो भूभुजां दुःखमैन्द्रे सस्यविनाशनम्
धनिनां धनहानिः स्यात्कौबेरं धान्यवर्धनम् ।
नृपाणामशिवं क्षेममितरेषां च वारुणे
प्रवर्षणं सस्यवृद्धिः क्षेमं हौताशपर्वणि ।
अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि
वेलाहीने स्यहानिर्नृपाणां दारुणं रणम् ।
अतिवेले पुष्पहानिर्भयं सस्यविनाशनम्
एकस्मिन्नेव मासे तु चन्द्रार्कग्रहणं यदा ।
विरोधो धरणीशानामर्थवृष्टिविनाशनम्
ग्रस्तोदितावस्तमितौ नृपधान्यविनाशदौ ।
सर्वग्रस्ताविनेन्दूतु क्षुद्व्याध्यग्निभयप्रदौ
सौम्यायने क्षत्रविप्रानितरांहन्ति दक्षिणे ।
द्विजातींश्चक्रमाद्धन्ति राहुदृष्टोरगादितः
तथैव ग्रामभेदाः स्युर्मोक्षभे दास्तथा दश ।
नो शक्ता लक्षितुं देवाः किं पुनः प्राकृता जनाः
आनीय खेटान्गणितांस्तेषां वारं विचिन्तयेत् ।
शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम्
तस्मादन्वेषणीयं तत्कालज्ञानाय धीमता ।
उत्पातरूपाः केतूनामुदयास्तमया नृणाम्
दिव्यान्तरिक्षा भौमास्ते शुभाशुभफलप्रदाः ।
यज्ञध्वजास्त्रभवनरक्षवृद्धिङ्गजोपमाः
स्तम्भशूलाङ्कुशाकारा आन्तरिक्षाः प्रकीर्तिताः ।
नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः
एको ऽपि भिन्नरूपः स्याज्जन्तुर्नाम शुभाय वै ।
यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः
तावन्मासैः फलं यच्छत्यष्टौ सारव्यवत्सरैः ।
ये दिव्याः केतवस्ते ऽपि शश्वज्जीवफलप्रदाः
ह्रस्वः स्निग्धः सुप्रसन्नः श्वेतकेतुः सुवृष्टिकृत् ।
क्षिप्रादस्तमयं याति दीर्घकेतु रवृष्टिकृत्
अनिष्टदो धूमकेतुः शक्रचापसमप्रभः ।
द्वित्रिचतुःशूलरूपः स च राज्यान्तकृन्मतः
मणिहारस्तुवर्णाभा दीप्तिमन्तो ऽर्कसूनवः ।
केतवश्चोदिताः पूर्वापरयोर्नृपहानिदाः
वंसुकबिंबक्षितिजच्छुकतुण्डादिसन्निभाः ।
हुताशनोदितास्ते ऽपि केतवः फलदाः स्मृताः
भूसुता जलतैलाभा वर्तुलाः क्षुद्भयप्रदाः ।
सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः
पितामहात्मजः केतुस्त्रिवर्णस्त्रिदशान्वितः ।
ब्रह्मदण्डाद्धूमकेतुः प्रजानामन्तकृन्मतः
ऐशान्यां भार्गवसुताः श्वेतरूपास्त्वनिष्टदाः ।
अनिष्टदाः पङ्गुसुता विशिखाः कमकाह्वयाः
विकचाख्या गुरुसुता वेष्टा याम्ये स्थिता अपि ।
सूक्ष्माः शुक्ला बुधसुताश्चौररोगभयप्रदाः
कुजात्मजाः कुङ्कुमाख्या रक्ताः शूलास्त्वनिष्टदाः ।
अग्निजा विश्वरूपाख्या अग्निवर्णाः सुखप्रदाः
अरुणाः श्यामलाकारा अर्कपुत्राश्च पापदाः ।
शुक्रजा ऋक्षसदृशाः के तवः शुभदायकाः
कृत्तिकासु भवो धूमकेतुर्नूनं प्रजाक्षयः ।
प्रासादवृक्षशैलेषु जातो राज्ञां विनाशकृत्
सुभिक्षकृत्कौमुदाख्यः केतुः कुमुदसन्निभः ।
आवर्तकेतुसंध्यायां शशिरो नेष्टदायकः
ब्रह्मदेवमनोर्मान पित्र्यं सौरं च सावनम् ।
चान्द्रमार्क्षं गुरोर्मानमिति मानानि वै नवः
एतेषां नवमानानां व्यवहारो ऽत्र पञ्चभिः ।
तेषां पृथक्पृथक्कार्यं वक्ष्यते व्यवहारतः
ग्रहाणां निखिलश्चारो गृह्यते सौर मानतः ।
वृष्टेर्विधानं स्त्रीगर्भः सावनेनैव गृह्यते
प्रवर्षणां समे गर्भौं नाक्षत्रेण प्रगृह्यते ।
यात्रोद्वाहव्रतक्षौरे तिथिवर्षेशनिर्णयः
पर्ववास्तूपवासादि कृत्स्नं चान्द्रेण गृह्यते ।
गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम्
तत्तन्मासैर्द्वादशभिस्तत्तदष्टौ भवेत्ततः ।
गुरुमध्यमचारेणषष्ट्यब्दाः प्रभावादयः
प्रभवो विभवः शुक्लः प्रमोदो ऽथ प्रजापतिः ।
अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः ।
चित्रभानुःसुभानुश्च तारणः पार्थिवो ऽव्ययः
सर्वजित्सर्वधारी च विरोधी विकृतः खरः ।
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ
हेमलंबो विलंबश्च विकारी शार्वरी लवः ।
शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ
प्लवङ्गः कीलकः सौम्यः सामाप्तश्च विरोधकृत् ।
परिभावी प्रमादी च आनन्दो राक्षसो ऽनलः
पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मतीः ।
दुन्दुभीरुधिरोद्गरी रक्ताक्षः क्रोधनः क्षयः
नामतुल्यफलाः सर्वे विज्ञेयाः षष्टिवत्सराः ।
युगं स्यात्पञ्चभिर्वर्षैर्युगान्येवं तु द्वादश
तेषामीशाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः ।
पुरन्दरो लोहितश्च त्वष्टाहिर्बुध्न्यसंज्ञकः
पितरश्च ततो विश्वे शशीन्द्राद्ग्नयशिनो भगः ।
तथा युगस्य वर्षे शास्त्वग्निनेन्दुविधीश्वराः
अथाद्वेशचमूनाथसस्यपानां बलाबलम् ।
तत्कालं ग्रहचारं च सम्यक् ज्ञात्वा फलं पदेत्
सौम्या यनं मासषट्कं मृगाद्यं भानुभुक्तितः ।
अहः सुराणां तद्रात्रिः कर्काद्यं दक्षिणायनम्
गृहप्रवेशवैवाहप्रतिष्टामैञ्जिबन्धनम् ।
मधादौ मङ्गलं कर्म विधेयं चोत्तरायणे
याम्यायने गर्हितं च कर्म यत्नात्प्रशस्यते ।
माधादि मासौ द्वौ द्वौ च ऋतवः शिशिरादयः
मृगाच्छिशिरवसंतश्च ग्रीष्माः स्युश्चोत्तरायणे ।
वर्षा शरश्च हेमन्तः कर्काद्वै दक्षिणायने
चान्द्रो दर्शीवधिः सौरः संक्रात्या सावनो दिनेः ।
त्रिंशद्भिश्चन्द्रभगणो मासो नाक्षत्रसंज्ञकः
मधुश्च माधवः शुक्रः शुचिश्चाथ नभस्ततः ।
नभस्य इष ऊर्जश्च सहाश्चैव सहस्यकः
तपास्तपस्य क्रमशश्चैत्रादीनां समाह्वया ।
यस्मिन्मासे पौर्णमासी येन धिष्णेन संयुता
तन्नक्षत्राह्वयो मासः पौर्णमासी तदाह्वया ।
तत्पक्षौ दैव पित्राख्यौ शुक्लकृष्णौ तथापरे
शुभाशुभे कर्मणि च प्रशस्तौ भवतः सदा ।
क्रमात्तिथीनां ब्रह्माग्नी विरिञ्चिविष्णुशैलजाः
विनायकयमौ नागचन्द्रौ स्कन्दोर्ऽकवासवौ ।
महेन्द्रवासवौ नागदुर्गादण्डधराह्वयः
शिवविष्णूहरिरवीकामः सर्वः कलीततः ।
चन्द्रविश्वेदर्शसंज्ञतिथीशाः पितरः स्मृताः
नन्दाभद्राजयारिक्ता पूर्णाः स्युतिथयः पुनः ।
त्रिरावृत्त्या क्रमाज्ज्ञेया नेष्टमध्येष्टदाः सिते
कृष्णपक्षे त्विष्टमध्यानिष्टदाः क्रमशस्तदा ।
अष्टमी द्वादशी षष्टी चतुर्थी च चतुर्दशी
तिथयः पक्षरन्ध्राख्या ह्यतिरूक्षा प्रकीर्तिताः ।
समुद्रमनुरन्ध्राङ्कतत्त्वसंख्यास्तु नाडिकाः
त्याज्याः स्युस्तासु तिथिषु क्रमात्पञ्च च सर्वदा ।
अमावास्या च नवमी हित्वा विषमसंज्ञिका
तिथयस्तुप्रशस्तास्युर्मध्यमा प्रतिपत्सिता ।
षषअट्यां तैलं तथाष्टम्यां मासं क्षौरं कलेस्तिथौ
पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत् ।
देर्शे षष्ट्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु
नवम्यां च न कुर्वीत कदाचिद्दन्तधावनम् ।
व्यतीपाते च संक्रान्तावेकादश्यां च पर्वसु
अर्कभौमदिने षष्ट्यां नाभ्यङ्गो वैधृतौ तथा ।
यः करोति दशम्यां च स्नानमामलकैर्नरः
पुत्रहानिर्भवेत्तस्य त्रंयोदश्यां धनक्षयः ।
अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः
अमायां च नवम्यां च सप्तम्यां च कुलक्षयः ।
या पौर्णिमा दिवा चन्द्रमती सानुमती स्मृता
रात्रौ चन्द्रवती राकाप्यमावास्या तथा द्विधा ।
सिनीवाली चेन्दुमती कुहूर्नेन्दुमती मता
कार्तिके शुक्लनवमी त्वादिः कृतयुगस्य च ।
त्रेतादिर्माधवे शुक्ले तृतीया पुण्यसंज्ञिता
कृष्णा पञ्चदशी माघे द्वापरादिमुदीरिता ।
कल्पादिः स्यात्कृष्णपक्षे नभस्तस्य त्रयोदशी
द्वादश्यूर्जे शुक्लपक्षे नवम्यच्छेश्वयुज्यपि ।
चैत्रे भाद्रपदे चैव तृतीया शुक्लसंज्ञिता
एकादशी सिता पौषे ह्याषाढेर्देशमीसिता ।
माघे च सप्तमी शुक्ला नभस्ये त्वसिताष्टमी
श्रावणे मास्यमावास्या फआल्गुने मासि पौर्णिमा ।
आषाढे कार्तिके मासि ज्यष्टे चैत्रे च पौर्णिमा
मन्वादयो मानवानां श्राद्धेष्वत्यन्तपुण्यदा ।
भाद्रे कृष्णत्रयोदश्यां मघामिन्दुः करे रविः
गजच्छाया तदा ज्ञेया श्राद्धे ह्यत्यन्तपुण्यदा ।
एकस्मिन्वासरे तिस्रस्तिथयः स्यात्तिथिक्षयः
तिथिर्वारत्रये त्वेका ह्यधिका द्वे च निन्दिते ।
सूर्यास्तमनपर्यन्तं यस्मिन्वारे तु या तिथिः
विद्यते सा त्वखण्डा स्यान्न्यूना चेत्खञ्जसंज्ञिता ।
तिथेः पञ्चदशो भागः क्रमात्प्रतिपदादयः
क्षणसंज्ञास्तदर्द्धानि तासामर्द्धप्रमाणतः ।
रविः स्थिरश्चरश्चन्द्रः क्रूरो वक्रोखिलो बुधः
लघुरीज्यो मृदुः शुक्रस्त्रीक्ष्णो दिनकरात्मजः ।
अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत्
ऋक्षेशे कान्तिभाग्भौमे व्याधि सौभाग्यमिन्दुजे ।
जीवे नैवं सिते हानिर्मन्दे सर्वसमृद्धयः
लङ्कोदयात्स्याद्वारादिस्त स्मादूर्ध्वमधो ऽपिवा ।
देशान्तरस्वचरार्द्धनाडीभिरपरे भवेत्
बलप्रदस्य खेटस्य कर्म सिद्ध्यति यत्कृतम् ।
तत्कर्म बलहीनस्य दुःखेनापि न सिद्ध्याति
इन्दुज्ञजीवशुक्राणां वासराः सर्वकर्मसु ।
फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः
रक्तवर्णौं रविश्चन्द्रौ गौरो भौमस्तुलोहितः ।
दूर्वावर्णो वुधो जीवः पीतश्वेतस्तु भार्गवः
कृष्णः सौरिः स्ववारेषु स्वस्ववर्णक्रिया हिताः ।
अद्रिवाणाश्च यस्तर्कपातालवसुधाधराः
बाणाग्निलोचनानिह्यवेदबाहुशिलीमुखाः ।
त्र्येकाहयो नेत्रगोत्ररामाश्वद्ररसर्तवः
कुलिकाश्चोपकुलिका वारवेला स्तथा क्रमात् ।
प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात्
यस्मिन्वारे क्षणो वारदृष्टस्तद्वासराधिपः ।
आद्यः षष्टो द्वितीयो ऽस्मत्तत्षष्ठस्तुतृतीयकः
षष्टः षष्टश्चेतरेषां कालहोराधिपाः स्मृताः ।
सार्द्धनाडीद्वयेनैव दिवा रात्रौ यथाक्रमात्
वारप्रोक्ते कर्मकार्ये तद्ग्रहस्य क्षणे ऽपि सन् ।
नक्षत्रेशाः क्रमाद्दस्रयमवह्निपितामहाः
चन्द्रेशादितिजीवाहिपितरो भगसंज्ञकः ।
अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवः
नैरृत्युदकविश्वेजगोविन्दवसुतोयपाः ।
अजैकपादहिर्बुध्न्या पूषा चेति प्रकीर्तिताः
पूर्वात्रयं मधाह्यग्निविशाखाय ममूलभम् ।
अधोमुखं तु नवकं भानौ तत्र विधीयते
बिलप्रवेशगणितभूतसाधनलेखनम् ।
शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत्
मित्रेन्दुत्वाष्ट्रहस्तेन्द्रादितिभान्त्याश्विवायुभम् ।
तिर्यङ्मुखाख्यं नवकं भानौ तत्र विधीयते
हलप्रवाहगमनं गन्त्रीपत्रगजोष्ट्रकम् ।
खरगोरथनौयानलुलायहयकर्म च
ब्रह्मविष्णुमहेशार्यशततारावसूत्तराः ।
ऊर्द्धास्यं नवकं भानां प्रोक्तमत्र विधीयते
नृपाभिषेकमाङ्गल्यवारणध्वजकर्मच ।
प्रासादतोरणारामप्राकाराद्यं च सिद्ध्यति
स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूरयाश्विपुष्यभम् ।
साधारणं द्विदैवत्यं वह्निभं च प्रकीर्तितम्
वस्वदित्यंवुपुष्याणि विष्णुभं चरसंज्ञितम् ।
मृद्विन्दुमित्रचित्रान्त्यमुग्रं पूर्वामघात्रिकम्
मूलार्द्राहीन्द्रभं तीक्ष्णं स्वनामसदृशं फलम् ।
चित्रादित्यंबुविष्ण्वंबान्त्याधिमित्रवसूडुषु
समृगेज्येषु बालानां कर्णवेधङ्क्रिया हिता ।
दस्रेन्द्वदितितिष्येषु करादित्रितये तथा
गजकर्माखिलं यत्तद्विधेयं स्थिरभेषु च ।
वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः
चित्रावरुणवैरिञ्चत्र्युत्तरासु गमागमम् ।
दर्शाष्टभ्यां चतुर्दश्यां पशूनां न कदाचन
मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च ।
हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः
हलादौ वृषानाशाय भत्रयं सूर्यमुक्तभात् ।
अग्रे वृद्ध्यै त्रयं लक्ष्म्ये सौम्यपार्श्वे च पञ्चकम्
शूलत्रयेपि नवकं मरणाय च पञ्चकम् ।
श्रियै पुष्ट्यै त्रयं श्रेष्ठं स्याच्चक्रे लाङ्गलाह्वये
मृदुध्रुवक्षिप्रभेषु पितृवायुवसूङ्षु ।
समूलभेषु बीजोप्तिरत्युन्त्कृष्टं फलप्रदा
भवेद्भत्रितयं मूर्घ्नि धान्यनाशाय राहुभात् ।
गले त्रयं कज्जलाय वृद्ध्यै च द्वादशोदरे
निस्तंहुलत्वं लाङ्गूले भचतुष्टयभीतिदम् ।
नाभौ वह्निः पञ्चकं यद्वीजोप्ताविति चिन्तयेत्
स्थिरेष्वदितिसार्पान्त्यपितृमारुतभेषु च ।
न कुर्याद्रोगमुक्तस्य स्नानमाहीं दुशुक्रयोः
उत्तरात्रयमैत्रेन्द्रवसुवारुणभेषु च ।
पुष्यार्कपौष्णधिष्ण्येषु नृत्यारंभः प्रशस्यते
पूर्वार्द्धयुञ्जि षङ्भनि पौष्णभादुदभात्ततः ।
मध्ययुञ्जि द्वादशर्क्षाणीन्द्रभान्नवभानि च
परार्द्धयुञ्जि क्रमशः संप्रीतिर्दम्पतेर्मथः ।
जघन्यास्तोयपार्द्राहिपवनान्तकनाकपाः
क्रमादितिद्विदैवत्या बृहत्ताराः पराः समाः ।
तासां प्रमाणघटिकास्त्रिंशन्नवतिद्यष्टयः
क्रमादभ्युदिते चन्द्रे नयत्यर्घसमानि च ।
अश्वग्रीन्द्वीज्यनैरृत्यत्वाष्ट्रजत्त्युत्तराभवाः
पितृद्विदैववस्वाख्यास्ताराः स्युः कुलसंज्ञिकाः ।
धातृज्येष्टादितिस्वातीपौष्णार्कहरिदेवताः
अजाह्यन्त्यकभौजङ्गताराश्चैवाकुलाह्वयाः ।
शेषाः कुलाकुलास्तारास्तासां मध्ये कुलोडुषु
प्रयाति यदि भूपालस्तदाप्नोति पराजयम् ।
भेषूपकुलसंज्ञेषु जयमाप्नोति निश्चितम्
संधिर्वापि तयोः साम्यं कुलाकुलगणोडुषु ।
अर्कार्किभौमवारे चेद्भद्राया विषमाङ्घ्रिभम्
त्रिपुष्करं त्रिगुणदं द्विगुणं यमलाहिभम् ।
तद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा
द्विपुष्करे द्वयं दद्यान्न दोषस्त्वृक्षभो ऽपि वा ।
क्रूरविद्धो युतो वापिपुष्यो यदि बलान्वितः
विना पाणिग्रहं सर्वमङ्गलेष्विष्टदः सदा ।
रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषु च
नेत्रबाहुशरेद्विन्दुबाहुवेदाग्निसंकराः ।
वेदनेत्राब्ध्यग्निशतबाहुनेत्ररदाः क्रमात्
तारासंख्याश्च विज्ञेया दस्रादीनां पृथक् पृथक् ।
या दृश्यन्ते दीप्तताराः स्वगणे योगतारकाः
वृषो वृक्षोश्चभायाम्यधिष्ण्येयमकरस्तरुः ।
उडुंबरश्चाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः
इन्दुभात्खदिरो जातः कृष्णप्लक्षश्च रौद्रभात् ।
संभूतो ऽदितिभाद्वंशः पिप्पलः पुष्यसंभवः
सर्वधिष्ण्यान्नागवृक्षो वटः पितृभसंभवः ।
पालाशो भाग्यभाज्जातः अक्षश्चार्यमसंभवः
अरिष्टवृक्षो रविभाच्छ्रीवृक्षस्त्वाष्ट्रसंभवः ।
स्वात्युक्षजोर्ऽजुनो वृक्षो द्विदैवत्याद्विकङ्कतः
मित्रभाद्बकुलोजातो विष्टिः पौरन्दरर्क्षजः ।
सर्ज्जवृक्षो मूलभाञ्च वञ्जुलो वारिधिष्ण्यजः
पनसो वैश्वभाज्जातश्चार्कवृक्षश्च विष्णुभात् ।
वसुधिष्ण्याच्छमीवृक्षः कदंबो वारुणर्क्षजः
अजाहेश्चूतवृक्षोभूद्बुध्न्यजः पिचुमन्दकः ।
मधुवृक्षः पौष्णधिष्ण्याद्धिष्ण्यवृक्षाः प्रकीर्तिताः
यस्मिञ्छंनैश्वरो धिष्ण्ये तद्रृक्षो ऽर्च्यः प्रयत्नतः ।
योगेशा यमविश्वेन्दुधातृजीवनिशाकराः
इन्द्रतोयाहिवह्न्यर्कभूमिरुद्रकतोयपाः ।
गणेशरुद्रधनदत्वष्ट्टमित्रषडाननाः
सावत्री कमला गौरी नासत्यौ पितरो ऽदितिः ।
वैधृतिश्च व्यतीपातो महापातावुभौ सदा
परिघस्य च पूर्वार्द्धं सर्वकार्येषु गर्हितम् ।
विष्कंभवज्रयोस्तिस्रः षड्वा गण्डातिगण्डयाईः
व्यागघाते नव शूले तु पञ्च नाड्यो हि गर्हिताः ।
अदितीन्दुमधाह्यश्वमूलमैत्रेज्यभानि च
ज्ञेयानि सहचित्राणि मूर्द्धभानि यथाक्रमम् ।
लिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश
तत्र रवार्जूरिके चक्रे कथितं मूर्ध्नि भं न्यसेत् ।
भाज्यैकरेरवागतयोः सूर्याचन्द्रमसोर्मिथः
एकार्गलो दृष्टिपातश्चाभिजिद्वर्जितानि वै ।
विनाडीभिर्द्वादशभी रहितं घटिकाद्वयम्
योगं प्रकरणं योगाः क्रमात्तु सप्तविंशतिः ।
इन्द्रः प्रजापतिर्मित्रस्त्वष्टाभूहरितिप्रिया
कीनाशः कलिरुद्राख्यो तिथ्यर्द्धेशास्त्वहिर्मरुत् ।
बवादिवणिजान्तानि शुभानि करणानि षट्
परीता विपरीता वा विष्यिर्नेष्टा तु मङ्गले ।
मुखे पञ्चगले चैका वक्षस्येकादश स्मृतः
नाभौ चतस्रः षट् कट्यां तिस्रः पुच्छाख्यनाजिकाः ।
कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता
कट्यामुन्मत्तता नाभौ च्युतिः पुच्छे ध्रुवं जयः ।
स्थिराणि मध्यमान्येषां मध्यनागचतुष्पदौ
दिवामुहूर्ता रुद्राहिमित्रपितृवसूदकम् ।
विश्वेविधातृब्रह्मेन्द्ररुद्राग्निवसुतोयपाः
अर्यमा भगसंज्ञश्च विज्ञेया दश पञ्च च ।
ईशाजपादाहिर्बुध्न्यपूषाश्वियमवह्नयः
धातृ इन्द्रादितीज्याख्या विष्ण्वर्कत्वष्टृवायवः ।
अह्नः पञ्चदशो भागस्तथा रात्रिप्रमाणतः
मुहूर्तमानं द्वरावक्षणर्क्षाणि समेश्वरम् ।
अर्यमा राक्षसब्राह्नौ पित्र्याग्नेयौ तथाभिजित्
राक्षसाख्यौ ब्राह्मपित्र्यौ भर्गाजांशावलिनादिषु ।
वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मसु
येषु ऋक्षेषु यत्कर्म कथितं निखिलं च तत् ।
तद्दैवत्ये मुहूर्ते ऽपि कार्यं यात्रादिकं सदा
भूकंपः सूर्यभात्सप्तमर्क्षे विद्युञ्च पञ्चमे ।
शूलो ऽष्टमे च दशमे शानिरष्टादशे ततः
केतुः पञ्चदशे दण्ड उल्का एकोनविंशतौ ।
निर्घातपातसंज्ञश्च ज्ञेयः स नवपञ्चमे
मोहनिर्घातकं पाश्च कुलिशं परिवेषणम् ।
विज्ञेया एकविंशर्क्षादारभ्य च यथाक्रमम्
चन्द्रयुक्तेषु भेष्वेषु शुभकर्म न कारयेत् ।
सूर्यभात्सर्वपित्र्यर्क्षं त्वाष्ट्रमित्रप्तभेषु च
सविषअणुभेषु क्रमशो हस्तभाञ्चन्द्रसंयुतः ।
धिष्ण्ये तावति सत्यत्र दुष्टयोगः पतत्यसौ
चण्डीशचण्डायुधाख्यस्तस्मिन्नैवाचरेच्छुभम् ।
त्रयोदश स्युर्मिलनसंख्यया तिथिवारयोः
क्रकचो नाम योगो ऽयं मङ्गलेष्वतिगर्द्दितः ।
सप्तम्यामर्कवारश्चेत्प्रतिपत्सौम्यबासरे
संवतयोगो विज्ञेयः शुभकर्मविनाशकृत् ।
आनन्दः कालदण्डाख्यो धूम्रधातृसुधाकराः
ध्वाङ्क्षध्वजाख्यश्रीवत्सवज्रमुद्गरछत्रकाः ।
मित्रमानसपद्माख्यलुम्बकोत्पातमृत्यवः
काणसिद्धिशुभा मृत्युमुशलान्तकर्कुजराः ।
राक्षसाख्यवरस्थैर्यवर्द्धमानाः क्रमादमी
योगाः स्वसंज्ञाफलदा अष्टाविंशतिरीरिताः ।
रविवारे क्रमादेव दस्रभार्दिदुभाद्विधौ
सार्पाद्धौमे पुधे हस्तान्मैत्रभात्सुरमन्त्रिणि ।
वैश्वदेवाद्भगुसुते वारुणाद्भास्करात्मजे
हस्तर्क्षं च खार्विदौ चन्द्रभं दस्रभं कुजे ।
सौम्ये मित्रभमाचार्यं तिष्यः पौष्णं भृगोः सुते
रोहिणी मन्दवारे च सिद्धियोगाह्वया अमी ।
आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः
जयासौम्ये गुरौ रिक्ता शनौपूर्णेति नो शुभाः ।
नन्दा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया
रिक्ता मन्दे गुरोर्वारे पूर्णा सिद्धाह्वया अमी ।
एकादश्यामिन्दुवारो द्वादश्यामर्कवासरः
षष्टी गुरौ तृतीया ज्ञे ऽष्टमी शुक्रे शनैश्चरे ।
नवमी पञ्चमी भौमे दग्धयोगाः प्रकीर्तिताः
भरण्यर्कदिने चन्द्रे चित्राभौमेतु विश्वभम् ।
बुधे श्रविष्टार्यमभे गुरौ ज्येष्टा भृगोर्दिने
रेवती मन्दवारे तु ग्रहजन्मर्क्षनाशनम् ।
विशाखादिचतुर्वर्गमर्कमर्कवारादिषु क्रमात्
उत्पातमृत्युकारणाख्यसिद्धियोगाः प्रकीर्तिताः ।
तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः
हूणवङ्गखसेष्वन्यदेशेष्वतिशुभप्रदाः ।
घोराष्टाक्षीमहोदर्यो मन्दा मन्दाकिनी तथा
मिश्रा राक्षसिका सूर्यवारादिषु यथाक्रमम् ।
शूद्रतस्करवैश्यक्ष्मादेवभूपगवां क्रमात्
अनुक्तानां च सर्वेषां घोराद्याः सुखदाः स्मृताः ।
पूर्वाह्ने नृपतीन्हन्ति विप्रान्मध्यन्दिने विशः
अपराह्ने ऽस्तगे शूद्रान्प्रदोषे च पिशाचकान् ।
निशि रात्रिचरान्नाट्यकारानपररात्रिके
गोपानुषसि संध्यायां लिङ्गिनो रविसंक्रमः ।
दिवा चेन्मेषसंक्रान्तिरनर्थकलहप्रदा
रात्रौ सुभिक्षमतुलं संध्ययोर्वृष्टिनाशनम् ।
हरिशार्दूलवाराहखरकुञ्जरमाहिषाः ।
अश्वश्पवाजवृषाः पादायुधाः करणवाहनाः
भुशुडी च गदाखड्गौ दण्ड इषअवासतोमरौ
कुन्तपाशाङ्कुशास्त्रेषून्बिभर्ति करयोस्त्विनः ।
अन्नं च पायसं भैक्ष्यं सयूषं च पयो दधि
मिष्टान्नं गुडमध्वाज्यशर्करा ववतो हविः ।
ववोवीवणिजेविश्वां बालवे गोचरस्थितौ
कौलवे शकुनौ भानुः किंस्तुघ्ने चोर्द्धसंस्थितथः ।
चतुः पादे तिलेनागे सुप्तः क्रान्तिं करोति हि
धर्मायुर्वृष्टिषु समं श्रेष्ठं नष्टं फलं क्रमात् ।
आयुधं वाहनाहारौ यज्जातीयं जनस्य च
स्वापोपविष्टास्तिष्ठन्तस्ते लोकाः क्षेममाप्नुयुः ।
अन्धकं मन्दसंज्ञं च मध्यसंज्ञं सुलोचनम्
पपीयाद्गणयोद्भानि रोहिण्यादिचतुर्विधम् ।
स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया
षडशीतिमुखा ज्ञेया द्विस्वभावेषु राशिषु ।
तुलाघटाजयोर्ज्ञेयो विषुवत्सूर्यसंक्रमः
याम्यायने स्थिरे त्वाद्याः पराः सौम्येन्दुमूर्तिभैः ।
मेध्या विषुवति प्रोक्ताः पुण्यनाड्यस्तु षोडश
संध्या त्रिनाडी प्रमितार्कबिंबोर्द्धोदयास्ततः ।
प्राक्पश्चाद्याम्यसौम्ये चेत्पुण्यं पूर्वांपरे ऽहनि
यादृशेनेन्दुना भानोः संक्रान्तिस्तादृशं फलम् ।
नरः प्राप्नोति तद्राशौ शीतांशोः साध्वसाधु च
संक्रान्तेः परतो भानुर्भुक्त्वा यावद्भिरंशकैः ।
रवेरयनसंक्रान्तिस्तदा तद्राशिसंक्रमात्
सक्रान्तिग्रहगर्क्षंवा जन्मन्युभयपार्श्वयोः ।
व्रतोद्वाहादिकेष्वेव द्वयं नेष्टं तु तत्क्रमात्
तिलोपरिलिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम् ।
तत्र हेम विनिक्षिप्य दद्याद्दोषापवृत्तयेः
ताराबलेन शीतांशुर्बलवांस्तद्वशाद्रविः ।
बली संक्रममाणस्तु तद्वत्खेटा बलाधिकाः
शुभोर्ऽके जन्मतस्त्र्यायदशषट्सु मुनीश्वर ।
नवपञ्चांबुरिष्फस्थैर्व्यर्किभिर्विध्यते न चेत्
शुभो जन्मर्क्षतश्चन्द्रो द्यूनाङ्गायारिस्वत्रिषु ।
यथेष्टान्त्यांबुधर्मस्थैविबुधैर्विध्यते न चेत्
त्र्यायारिषु कुजः श्रेष्ठो जन्मना चेन्न विध्यते ।
व्ययेष्वङ्कस्थितैः सौरिसौम्यसूर्यैः शुभौषधात्
ज्ञः स्वायार्यष्टरवयिषु जन्मतश्चेन्न विधअयते ।
धीत्र्यकादिगजान्तस्थैः शशाङ्करहितैः शुभैः
जन्मराशेर्गुरुः श्रेष्ठः स्वायगो ऽध्यस्तगो न चेत् ।
विध्यतेन्त्याष्टरवांबुत्रिगतैः रवैटैर्मुनीश्वरा
जन्मभादासुताष्टाङ्कान्त्यायेष्विष्टो भृगोःसुतः ।
चेन्न विद्धो ऽष्टसप्ताङ्गम् रवाङ्काद्यायारिरामगैः
न ददाति शुभं किञ्चिद्गोचरे वेधसंयुते ।
तस्माद्वेधं विचार्याथ कथनीयं शुभाशुभम्
वामभेदविधानेन दुष्टो ऽपि स्याच्छुभङ्करः ।
सौम्येक्षितो ऽनिष्टफलः शुभदः पापवीक्षितः
निष्फलौ तौ ग्रहौ स्वेन शत्रुणा च विलोकितौ ।
नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतो ऽपि वा
शुभाशुभफलं नैव दद्यादस्तमितोपि वा ।
ग्रहेषु विषमस्थेषु शान्तिं कुर्यात्प्रयत्नतः
हानिर्वृद्धिर्ग्रहाधीना तस्मात्पूज्यतमा ग्रहाः ।
मणिर्मुक्ताफलं विद्रुमाख्यं मरक तं तथा
पुष्परागं तथा वज्रं नीलं गोमेदसंज्ञितम् ।
दूर्य्यं भास्करादीनां तुष्ट्य धार्यं यथाक्रमम्
शुक्लपक्षादिदिवसे चन्द्रो यस्य शुभप्रदः ।
स पक्षस्तस्य शुभदः कृष्णपक्षोन्यथाशुभः
शुक्लपक्षे शुभश्चन्द्रो द्वितीयनवपञ्चमे ।
रिःफरन्ध्रांबुसंस्थैश्चैन्न विद्धो गगने चरैः
जन्म संपद्विपत् क्षेम प्रत्यरिः साधको वधः ।
मित्रं परममित्रं च जन्मभात्तु पुनः पुन
जन्मत्रिपञ्चसप्ताख्यास्तारा नेष्ट फलप्रदाः ।
शाकं गुडं च लवणं सतिलं काञ्चनं क्रमात्
अनिष्टफलनाशाय दद्यादेतद्द्विजातये ।
कृष्णे बलवती तारा शुक्लपक्षे बलू शशी ।
चन्द्रस्य द्वादशावस्था राशौराशौ यथाक्रमम्
यात्रोद्वाहादिकार्येषु नामतुल्यफलप्रदाः ।
षष्टिघ्नं गतचन्द्रर्क्षं तत्कालघटिकान्वितम् ।
वेदघ्नमिषुवेदान्त्यमवस्था भानुभागतः
प्रवासनष्टाख्यमृता जयो हास्यं रतिमुदा ।
शिनिभुक्तिर्ज्वरः कंपः सुस्थितिर्नामसन्निभाःऋ
पट्टबन्धनयानोग्रसंधिविग्रहभूषणम् ।
धात्वाकरं युद्धकर्म मेषलग्ने प्रसिद्ध्यति
मङ्गलानि स्थिराण्यंवुवेश्मकर्मप्रवर्तनम् ।
कृषिवाणिज्यपश्वादिदुष्टलग्ने प्रसिद्ध्यति
कलाविज्ञानशिल्पानि भूषणाहवसंश्रवम् ।
गजोद्वाहाभिषेकाद्यं कर्त्तव्यं मिथुनोदये
वापीकूपतडागादि वारिबन्धनमोक्षणम् ।
पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये
इक्षुधान्यवणिक्पण्यकृषिसेवादयःस्थिरे ।
साहसाहवभूपाद्यं सिंहलग्ने प्रसिद्ध्यति
विद्याशिल्पौषधं कृत्यं भूषणं च चरस्थिरम् ।
कन्या लग्ने विधेयं च पौष्टिकाखिलमङ्गलम्
कृषिवाणिज्ययानं च पशूद्वाहव्रतादिकम् ।
तुलायामखिलं कर्म तुलाभाराश्रिते च यत्
स्थिरकर्माखिलं कार्यं राजसेवाभिषेचनम् ।
चौर्यकर्मस्थिरारंभाः कर्तव्या वृश्चिकोदये
व्रतोद्वाहप्रयाणाश्वगजशिल्पकलादिकम् ।
चरस्थिरविमिश्रं च कर्तव्यं कार्मुकोदये
चापबन्धनमोक्षास्त्रकृषिगोश्वादिकम् यत् ।
प्रस्थानं पशुदासादि कर्तव्यं मकरोदये
कृषिवाणिज्यपश्वंबुशिल्पङ्कर्मकलादिकम् ।
जलपात्रास्त्राशस्त्रादि कर्तव्यं कलशोदये
व्रतोद्वाहाभिषेकांबुस्थापनं सन्निवेशनम् ।
भूषणं जलपात्राश्वकर्म मीनोदये शुभम्
मेषादिषु क्लिग्नेषु शुद्धेष्वेवं प्रसिद्ध्यति ।
क्रूरग्रहेक्षितेषूग्रसंयुतेषूग्रमेव हि
गोयुग्मकर्ककन्यान्त्यतुलाचापधराः शुभाः ।
शुभर्क्षत्वाशुभासत्य इतरा पापराशयः
ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्भवम् ।
फलं ताभ्यां विहीनो ऽसौ स्वभावमुपसर्पति
आदौ संपूर्णफलदं मध्ये मध्यफलप्रदम् ।
अन्ते तुच्छफले लग्ने सर्वस्मिन्नेवमेव हि
सर्वत्र प्रथमं लग्नं कर्तुश्चन्द्रबलं ततः ।
कल्प्यामदिन्दौ बलिनि सप्तमे बलिनो ग्रहाः
चन्द्रस्य वलिमाधारमाधेय चान्यखेटकम् ।
आधारभूतेनाधेयं धीयते परिधिष्टिनम्
चेन्दिन्दुः शुभदः सर्वे ग्रहाः शुभफलप्रदाः ।
अशुभश्चेदशुभदा वर्जयित्वा धनाधिपम्
लग्नस्याभ्युदिता येंशास्तेष्वंशेषु स्थितो ग्रहः ।
लग्नोद्भवं फलं धत्ते धनातीतो द्वितीयकम्
एवं स्थानेषु शेषेषु चैवमेवं प्रकल्पयेत् ।
लग्नं सर्वगुणोपेतं लभ्यते ऽल्पैर्दिनैर्नो
दोषाल्पत्वं गुणाधिक्यं बहु संततमिष्यते ।
दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः
अप्यशौचतुणाधिक्यं दोषान्यत्ते ततो हि ते ।
अमारिक्ताष्टमीषष्टीद्वादशीप्रतिपत्स्वपि
परिघस्य च पूर्वार्द्धं व्यतीपाते सवैधृतौ ।
संध्यासूपप्लवे विष्ट्यामशुभं प्रथमार्त्तवम्
रुग्णा पतिप्रिया दुःखी पुत्रिणी भोगमी तथा ।
पतिव्रता केशयुक्ता सूर्यवारादिषु क्रमात्
यामाग्निरौद्रभाग्ययाहिद्वीशेन्द्रादिह्युपद्विषाः ।
तारका न हिता मासा मधूर्जशुचिपौषकाः
भद्रा च संक्रमोनिद्रा रात्रिश्चन्द्रार्कयोर्ग्रहः ।
कुलटा पापभोगेषु निन्द्यर्क्षे निन्द्यवासरे
तिलाज्यदूर्वा जुहुयाद्गायत्र्याष्टशतं बुधः ।
सुवर्णगोतिलान्दद्यात्सर्वदोषापनुत्तये
आद्या निशश्चतस्रस्तु त्याज्या ह्यपि समाः परैः ।
ओजराश्यंशगे चन्द्रे लग्ने पुङ्ग्रहवीक्षिते
उपवीती युग्मतिथावनग्नः कामयेत्स्त्रियम् ।
पुत्रार्थी पुरुषशस्त्यक्त्वा पौष्णमूलाहिपित्र्यभम्
प्रसिद्धे प्रथमे गर्भे तृतीये वा द्वितीयके ।
मासे पुंसवनं कार्यं सीमन्तं च यथा तथा
चतुर्थे मासि षष्टे वाप्यष्टमे वा तदीश्वरे ।
बलोपपन्ने दंपत्योश्चन्द्रताराबलान्विते
अरिक्तापर्वदिवसे कुजजीवार्कवासरे ।
तीक्ष्णमिश्रार्कवर्ज्येषु पुंभांशेरात्रिनायके
शुद्धे ऽष्टमे जन्मलग्नात्तयोर्लग्ने न नैधने ।
शुभग्रहयुते दृष्टे पापदृष्टिविवर्जिते
शुभग्रहेषु धीधर्मकेन्द्रेष्वरिभवे त्रिषु ।
पापेषु सत्सु चन्द्रेत्यनिधनाद्यरिवर्जिते
क्रूरग्रहाणामेकोपि लग्नादन्त्यात्मजाष्टगः ।
सीमन्तिनीं वा तद्गर्भं बली हॄन्ति न संशयः
तस्मिञ्जन्ममुहूर्ते ऽपि सूतकान्तेपि वा शिशोः ।
जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम्
सूतकान्ते नामकर्म विधेयं तत्कुलोचितम् ।
नामपूर्वं प्रशस्तं स्यान्मङ्गलैः सुसमीक्षितैः
देशकालोपघाताद्यैः कालातिक्रमणं यदा ।
अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे
चरस्थिरमृदुक्षिप्रनक्षत्रे शुभवासरे ।
चन्द्राताराबलोपेते दिवसे च शिशोः पितुः
शुभलग्ने शुभांशे च निधने शुद्धिसंयुते ।
षष्टे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे
सप्तमे मासि वा कार्यं नवान्नप्रशनं शुभम् ।
रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीमथ
त्यक्त्वान्यतिथिषु प्रोक्तं प्रशनं शुभवासरे ।
चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने
दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके ।
पूर्वार्द्धे सौम्यखेटेन संयुक्ते वीक्षितेपि वा
त्रिषष्टलाभगैः क्रूरैः केन्द्रधीधर्मगैः शुभैः ।
व्ययारिनिधनस्थे च चन्द्रे ऽन्नप्राशनं शुभम्
तृतीये पञ्चमे चाब्दे स्वकुलाचारतो ऽपि वा ।
बालानां जन्मतश्चौलं स्वगृह्योक्तविधानतः
सौम्यायने नास्तगयोः सुरारिसुरमन्त्रिणोः ।
अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेन्दुवासरे
दस्रादितीज्यचन्द्रेन्द्रपूषभानि शुभानि च ।
चौलकर्मणि हस्तक्षार्र्त्रीणित्रीणि च विष्णुभात्
पट्टबन्धनचौलान्नप्राशने चोपनायने ।
शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि
अष्टमे शुद्धिसंयुक्तें शुभलग्ने शुभांशके ।
जन्माष्टमे न शीतांशौ षष्टाष्टान्त्यविवर्जिते
धनत्रिकोणकेन्द्रस्थैः शुभैस्त्र्यायारिगैः परैः ।
अभ्यक्ते सन्ध्ययोर्नारे निशि भुक्त्वा न वाहवे
नोत्कटे भूषिते नैव याने न नवमे ऽह्नि च ।
क्षौरकर्म महीपानां पञ्चमेपञ्चमे ऽहनि
कर्तव्यं क्षोरनक्षत्रे ऽप्यथ वास्योदये शुभम् ।
नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणें
उद्वाहे ऽखिलवारर्क्षतिथिषु क्षौरमिष्टदम् ।
कर्तव्यं मङ्गलेष्वादौ मङ्गलाय क्षुरार्पणम्
नवमे सप्तमे वापि पञ्चमे दिवसे ऽपि वा ।
तृतीये बीजनक्षत्रे शुभवारे शुभोदये
सम्यग्गृहाण्यलङ्कृत्य वितानध्वजतोरणैः ।
आशिषो वाचनं कार्यं पुण्यं पुण्याङ्गनादिभिः
सहवादित्रनृत्याद्यैर्गत्वा प्रागुत्तरां दिशम् ।
तत्र मृदततस्तीक्ष्णा गृहीत्वा पुनरागतः
मृण्यये ऽप्यथवा वैणवे ऽपि पात्रे प्रपूरयेत् ।
अनेकबीजसंयुक्तं तोयं पुष्पाभिशोभितम्
आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम् ।
राज्ञा मेकादशे मैञ्जीबन्धनं द्वादशे विशाम्
जन्मतः पञ्चमे वर्षे वेदशास्त्ररिंशारदः ।
उपवीती यतः श्रीमान्कार्यं तत्रोपनायनम्
बालस्य बलहीनो ऽपरि सितो जीवः शुभप्रदः ।
यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम्
दृश्यमानगुरौ शुक्रे शाखेशे चोत्तरायणे ।
वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात्
शरद्ग्रीष्मवसंतेषु व्युत्क्रमात्तु द्विजन्मनाम् ।
मुख्यं साधारणं तेषां तपोमासादिपञ्चसु
स्वकुलाचारधर्मज्ञो माधमासे तु फल्गुने ।
विधिज्ञश्चार्थवांश्चैत्रे वेदवेदाङ्गपारगः
वैशाषे धनवान्वेन्दशास्त्रविद्याविशारदः ।
उपनीतो बलाढ्यश्च ज्येष्ठे विधिविदां वरः
शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा ।
त्रयोदशी च दशमी सप्तमी व्रतबन्धने
श्रेष्ठा त्वेकादशी षष्टी द्वादश्यन्यास्तु मध्यमाः ।
कृथष्णे द्वित्रीषुसंख्याश्च तिथ्यो ऽन्या ह्यतिनिन्दिताः
धिष्णान्यर्कत्रयान्तेज्यरुद्रादित्युत्तराणि च ।
विष्णुत्रयांश्विमित्राब्जयोनिभान्युपनायने
जन्मभाद्दशमं कर्म संघातर्क्षं तु षोडशम् ।
अष्टादशं समुदयं त्रयोविंशं विनाशनम्
मानसं मानसं पञ्चविंशर्क्षं नाचरेच्छुभमेषु तु ।
आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः
वारौ तु मध्यमौ चैव व्रते ऽन्यौ निन्दितौ मतौ ।
त्रिधा विभज्य दिवसं तत्रादौ कर्म दैविकम्
द्वितीये मानुषं कार्यं तृतीये ःंशे च पैतृकम् ।
स्वनीचगे तदंशे वा स्वारिभे वा तदंशके
गुरुशिखिनोश्च शाखेशे कलाशीलविवर्जितः ।
स्वाधिशत्रुगृहस्थे वा तदंशस्थे ऽथ वा व्रती
शाखेशे वा गुरौ शुक्रे महापातककृद्भवेत् ।
स्वोच्चसंस्थे तदंशे वा स्वराशौ राशिगे गणे
शाखेशे वा गुरौ शुक्रे केन्द्रगे वा त्रिकोणगे ।
अतीव धनवांश्चैव वेदवेदाङ्गपारगः
परमोच्चगते जीवे शाखेशे वाथ वा सते ।
व्रती विशुद्धे निधने वेदशास्त्रविशारदः
स्वाधिमित्रगृहस्थे वा तस्योञ्चस्थे तदंशगे ।
गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः
शाखाधिपतिवारश्च शाखाधिपबलं शिशोः ।
शआखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते
तस्माद्वेद्वांशगे चन्द्रे व्रती विद्याविशारदः ।
पापांशगे वा दरिद्रो नित्यदुःखितः
श्रवणादिनि नक्षत्रे कर्कांशस्थे निशाकरे ।
तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान्
शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते ।
लग्ने तु निधने सौम्यैः संयुते वा निरीक्षिते
इष्टैर्जीवार्कचन्द्राद्यैः पञ्चभिर्बलिभिर्ग्रहै ।
स्थानादिबलसंपूर्णैश्चतुर्भिर्वा शुभान्वितैः
ईक्षन्नैवात्रैकविंशमहादोषविवर्जिते ।
राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः
शुभनवांशकगता ग्राह्यास्ते शुभराशयः ।
न कदाचित्कर्कटांशशुभेक्षितयुतो ऽपि वा
तस्माद्गोमिथुनांशाश्च तुलाकन्यांशकाः शुभाः ।
एवंविधे लग्नगते नवांशे व्रतमीरितम्
त्रिषडायगतैः पापैः षडष्टान्त्यविवर्जितैः ।
शुभैः षष्टाष्टलग्नान्त्यवर्जितेन हिमांशुना
स्वोञ्चसंस्थो ऽपि शीतांशुर्व्रतिनो यदि लग्नगः ।
न करोति शिशुं निःस्वं सर्वतः क्षयरोगिणम्
स्फूर्जिते केन्द्रगे भानौ व्रतिनां पितृनाशनम् ।
पञ्चदोषोनितं लग्नं शुभदं चोपनायने
विना वसंतऋतुना कृष्णपक्षे गलग्रहे ।
अनध्याये विष्टिषष्ट्योर्न तु सस्कारमर्हति
त्रयोदश्यादिचत्वारि सप्तम्यादिदिनत्रयम् ।
चतुर्थी वा शुभाः प्रोक्ता अष्टावेते गलग्रहाः
क्षुरिकाबन्धं वक्ष्ये नृपाणां प्राक्करग्रहात् ।
विवाहोक्तेषु मासेषु शुक्लपक्षे ऽप्यनस्तगे
जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते ।
मैञ्जीबन्धोक्ततिथिषु कुजवर्जितवासरे
नचेन्नवांशके कर्तुरष्टमोदयवर्जिते ।
शुद्धे ऽष्टमे विधौ लग्ने षष्टाष्टान्त्यविवर्जिते
धनत्रिकोणकेन्द्रस्थैः शुभैस्त्र्यायारिगैः परैः ।
क्षुरिकाबन्धनं कार्यमर्चयित्वामरान्पितॄन्
अर्चयेत्क्षुरिकां सम्यग्देवतानां च सन्निधौ ।
ततः सुलग्ने बध्नीयात्कट्यां लक्षणसंयुताम्
आयामार्द्धाग्रविस्तारप्रमाणेनैवच्छेदयत् ।
तच्छेदखण्डान्यायाः स्युर्ध्वजाये रिपुनाशनम्
घूम्राये मरणं सिंहे जयः शुनि च रोगिता ।
धनलाभो वृषे ऽत्यन्तं दुःखी भवति गर्दभे
गजाये ऽत्यन्तसंप्रीतिर्ध्वाङ्क्षे वित्तविनाशनम् ।
खड्गपुत्रिकयोर्मानं गणयेत्स्वाङ्गुलेन तु
मानाङ्गुलेषु पर्यायामेकादशमितां त्यजेत् ।
शेषाणामगुलीनां च फलानि स्युर्यथाक्रमम्
पुत्रलाभः शत्रुवधः स्त्रीलाभो गमन शुभम् ।
अर्थहानिश्चार्थवृद्धिः प्रीति सिद्धिजयः स्तुतिः
स्थितो ध्वजे वृषाये वा नष्टाचेत्पूर्वतो व्रणम् ।
सिंहेगजे मध्यभागे त्वन्तभागे श्वकाकयोः
धृम्रगर्द्दभयोर्नैव व्रणं श्रयोन्त्यभागगम् ।
अथोत्तरायणे शुक्रजीवयोर्द्दश्यमानयोः
द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ।
चित्रोत्तरादितीज्यान्त्यहरिमित्रविधातृषु
भेष्वर्केन्दुज्ञेज्यशुक्रवारलग्नांशकेषु च ।
प्रतिपत्पर्वरिक्ता मा चाष्टमी च दिनत्रयम्
हित्वान्यदिवसे कार्यं समावर्तनमुण्डनम् ।
सर्वाश्रमाणां विप्रेन्द्र ह्युत्तमो ऽयं गृहाश्रमः
सुखं तत्रापि भामिन्यां शीलवत्यां स्थितं ततः ।
तस्याः सच्छीलर्ला धस्तु सुलग्नवशतः खलु
पितामहोक्तं संवीक्ष्य लग्नशुद्धिं प्रवच्म्यहम् ।
पुण्ये ऽह्निलक्षणोपेतं सुखासीनं सुचेतसम्
प्रणम्य देववत्पृच्छेर्द्दैवज्ञं भक्तिपूर्वकम् ।
तांबूलफलपुष्पाद्यैः पूर्णाञ्जलिरुपागतः
तत्र चेल्लग्नगः क्रूरस्तस्मात्सप्तमगः कुजः ।
दंपत्योर्मरण वाच्य वर्षाणामष्टकात्पुरा
यदि लग्नगतश्चन्द्रस्तस्मात्सप्तमगः कुजः ।
विज्ञेयं भर्तृमरणमष्टवर्षान्त्तरे बुधैःझ
लग्नात्पञ्चमगः पापः शत्रुदृष्टश्च नीचगः ।
मृतपुत्राथ वा कन्या कुलटा वा न संशयः
तृतीयपञ्चसप्तायकर्मगो वा निशाकरः ।
लग्नात्करोति संबन्धं दंपत्योर्गुरुवीक्षितः
तुलागोकर्कटा लग्नसंस्थः शुक्रेन्दुसंयुताः ।
वीक्षिताः पृच्छतां नॄणां कन्यालाभो भवेत्तदा
स्त्रीद्रेष्काणः स्त्रीनवांशे युग्मलग्नं समागतम् ।
वीक्षितं चन्द्रशुक्राभ्यां कन्यालाभो भवेत्तदा
एवं स्त्रीणां भर्तृलब्धिः पुंलग्ने पुंनवांशके ।
पृच्छकस्य भवेल्लग्नं पुङ्ग्रहैरवलोकितम्
कृष्णपक्षे प्रश्नलग्नाद्यस्य राशी यदा ।
पापदृष्टो ऽथ वा रन्ध्रे न संबन्धो भवेत्तदा
पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मङ्गलम् ।
दंपत्योरशुभैरेतैरशुभं सर्वतो भवेत्
पञ्चाङ्गशुद्धिदिवसे चन्द्रताराबलान्विते ।
विवाहभस्योदये वा कन्यावरणमन्वयैः
भूषणैः पुष्पतांबूलफलैर्गन्धाक्षतादिभिः ।
शुक्लांबरैर्गीतवाद्यैंर्विघ्नाशीर्वचनैः सह
कारयेत्कन्यकागेहे वरः प्रणवपूर्वकम् ।
तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम्
कुलशीलवयोरूपवित्तविद्यायुताय च ।
वराय च रूपवतीं कन्यां दद्याद्यवीयसीम्
संपूज्य प्रार्थयित्वा च शचीं देवीं गुणाश्रयाम् ।
त्रैलोक्यसुन्दरीं दिव्यगन्धमाल्यांबरावृताम्
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् ।
अनर्घमणिमालाभिर्भासयन्तीं दिगन्तरान्
विलासिनीसहस्राद्यैः सेवमानामहर्निशम् ।
एवंविधां कुमारीं तां पूजान्ते प्रार्थयेदिति
देवीन्द्राणि नमस्तुभ्यां देवेन्द्रप्रियभामिनि ।
विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे
युग्मे ऽब्दे जन्मतः स्त्रीणां पीतिदं पाणिपीडनम् ।
एतत्पुंसामयुग्मे ऽब्दे व्यत्ययेनाशनं तयोः
माघफआल्गुनवैशाखज्येष्टमासाः शुभप्रदाः ।
मध्यमा कार्तिको मार्गशीर्षो वै निन्दिताः परे
न कदाचिद्वशर्क्षेषु भानोरार्द्राप्रवेशनात् ।
विवाहो देवतानां च प्रतिष्टां चोपनायनम्
नास्तङ्गते सिते जीवे न तयोर्बालवृद्धयोः ।
न गुरौ सिंहराशिस्थे सिंहांशकगतेपि वा
पश्चात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः ।
बुद्धः पञ्चदिनं पक्षं गुरुः पक्षं च सर्वतः
अप्रबुद्धो हृषीकेशो यावत्तावन्न मङ्गलम् ।
उत्सवे वासुदेवस्य दिवसे नान्यमङ्गलम्
न जन्ममासे जन्मर्क्षे न जन्मदिवसे ऽपि च ।
आद्य गर्भसुतस्याथ दुहितुर्वा करग्रहः
नैवोद्वाहो ज्येष्ठपुत्रीपुत्रयोश्च परस्परम् ।
ज्येष्टमासे तयोरेकज्येष्ठे श्रेष्ठश्च नान्यथा
उत्पातग्रहणादूर्द्धं सप्ताहमखिलग्रहे ।
नाखिले त्रिदिनं नेष्टं त्रिद्युस्पृक् च क्षयं तथा
ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्ग्रस्तोदये ऽथवा ।
संध्यायां त्रिदिनं तद्वन्निशीथे सप्त एव च
मासान्ते पञ्च दिवसांस्त्यजेद्रिक्तां तथाष्टमीम् ।
व्यतीपातं वैधृतिं च संपूर्णं परिघार्द्धकम्
पौष्णभत्र्युत्तरामैत्रमरुञ्चन्द्रार्कपित्र्यभैः ।
समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते
विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः ।
चेत्पूजा यत्नतः कार्या दुर्बल ग्रहयोस्तयोः
गोचरं वेधजं चाष्टवर्गजं रूपजं बलम् ।
यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम्
चन्द्रताराबलं वीक्ष्य ततः पञ्चाङ्गजं बलम् ।
तिथिरेकगुणा वारो द्विगुणस्त्रिगुणं च भम्
योगश्चतुर्गुणः पञ्चगुणं तिथ्यर्द्धसंज्ञितम् ।
ततो मनहूर्तो बलवांस्ततो लग्नं बलाधिकम्
ततो बलवती होरा द्रेष्काणो बलवांस्ततः ।
ततो नवांशो बलवान्द्वादशांशो बली ततः
त्रिंशांशो बलवांस्तस्माद्वीक्ष्यमेतद्बलाबलम् ।
शुभेक्षितयुताः शस्ता उद्वाहे ऽखिलराशयः
चन्द्रार्केज्यादयः पच यस्य राशेस्तुखेचराः ।
इष्टास्तच्छुभदं लग्नं चत्वारो ऽपि बलान्विताः
जामित्रशुद्ध्यैकविंशन्महादोषविवर्जितम् ।
एकविंशतिदोषाणां नामरूपफलानि च
वक्ष्यन्ते ऽत्र समासेन शृणु नारद सांप्रतम् ।
पञ्चाङ्गशुद्धिराहित्यं दोषस्त्वाद्यः प्रकीर्तितः
उदयास्तशुद्धिर्हानिर्द्वितीयः सूर्यसंक्रमः ।
तृतीयः पापषड्वर्गो भृगुः षष्टः कुजो ऽष्टमः
गण्डान्तं कर्तरी रिषअफषडष्टेन्दुगतो ग्रहः ।
दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा
दुर्मुहीर्तो वारदोषः खार्जूरिकसमाङ्घ्रिभम् ।
ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम्
कुनवांशो महापातो वैधृतिश्चैकविंशतिः ।
तिथिवारर्क्षयोगानां करणस्य च मेलनम्
पञ्चाङ्गमस्य शुद्धिस्तु पञ्चाङ्गशुद्धिरीरिता ।
यस्मिन्पञ्चाङ्गदोषो ऽस्ति तस्मिंल्लग्ने निरर्थकम्
त्यजेत्पञ्चैष्टिकं चापि विषसंयुक्तदुग्धवत् ।
लग्नलग्नांशकौ स्वस्वपतिना वीक्षितौ युतौ
न चेद्वान्योन्यपतिना शुभघमित्रेण वा तथा ।
वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ
एवं तौ न युतौ दृष्टौ मुत्युर्वध्वाः करग्रहे ।
त्याज्याः सूर्यस्य संक्रान्तेः पूर्वतः परतस्तथा
विवाहादिषु कार्येषु नाड्यः षोडशषोडशा । ।
षड्वर्गः शुभदः श्रेष्ठो विवाहसथापनादिषु
भृगुषष्ठाह्वयो दोषो लग्नात्षष्ठगते सिते ।
उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत्
कुजो ऽष्टमो महादोषो लग्नादष्टमगे कुजे ।
शुभत्रययुतं लग्नं न त्यजेत्तुङ्गगो यदि
पूर्णानन्दाङ्ख्ययोस्तिथ्योः संधिर्नाडीद्वयं यदा ।
गण्डान्तं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु
कुलीरसिंहयोः कीटचापयोर्मिनमेषयोः ।
गण्डातंमन्तरालं स्याद्धटिकार्द्धं मृतिप्रदम्
सार्पैन्द्रपौष्णोभेष्वन्त्यषोडशेशा भसंधयः ।
तदग्निमेष्वाद्यपादा भानां गण्डातसंज्ञकाः
उग्रं च संधित्रितयं गण्डातं त्रिविधं महत् ।
लग्नाभिमुखयोः पापग्रहयोरृजुवक्रयोः
सा कर्तरीति विज्ञेया दंपत्योर्गलकर्तरी ।
कर्तरीयोगदुष्टं यल्लग्नं तत्परिवर्जयेत्
अपि सौम्यग्रहैर्युक्त गुणैः सर्वैः समन्वितम् ।
षडष्टरिष्फगे चन्द्रे लग्नदोषः स्वसंज्ञकः
तल्लग्नं वर्जयेद्यत्राज्जीवशुक्रसमन्वितम् ।
उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे
अपि सर्वगुणोपेतं दंपत्योर्निधनप्रदम् ।
शशाङ्के ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः
तस्मिन्संग्रहदोषे तु विवाहं नैव कारयेत् ।
सूर्येण संयुते चन्द्रे दारिद्यं भवति स्फुटम्
कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता ।
दौर्भाग्यं गुरुणा युक्ते सापत्यं भार्गवेण तु
प्रव्रज्या सूर्यपुत्रेण राहुणा मूलसंक्षयः ।
केतुना संयुते चन्द्रे नित्यं कष्टं दरिद्रता
पापग्रहयुते चन्द्रे दंपत्योर्मरणं भवेत् ।
शुभग्रहयुते चन्द्रे स्वोच्चस्थे मित्रराशिगे
दोषायनं भवेल्लग्नं दंपत्योः श्रेयसे सदा ।
स्वोच्चगो वा स्वर्क्षगो वा मित्र क्षेत्रगतोपि वा
पापग्नहयुतश्चन्द्रः करोति मरणं तयोः ।
दंपत्योरष्टमं लग्नमष्टमो राशिरेव च
यदि लग्नगतः सोपि दंपत्योर्मरणप्रदः ।
स राशिः शुभसंयुक्तो लग्नं वा शुभसंयुतम्
लग्नं विवर्जयेद्यत्नात्तदंशांशतदीश्वराम् ।
दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः
अर्थहानिस्तयोरस्मात्तदंशस्वामिनं त्यजेत् ।
जन्मराश्युदयश्चैव जन्मलग्नोदयः शुभः
तयोरुपचयस्थानं लग्नेत्यन्तशुभप्रदम् ।
खमार्गणा वेदपक्षाः खरामा वेदमार्गणाः
वह्निचन्द्रा रूपदस्राः खरामा व्योमबाहवः ।
द्विरामाः स्वाग्नंयः शून्यदस्राः कुञ्जरभूमयः
रूपपक्षा व्योमदस्रा वेदचन्द्राश्चतुर्द्दश ।
शून्यचन्द्रा वेदचन्द्रा षडृक्षा वेदबाहवः
शून्यदस्राः शून्यचन्द्राः पूर्णचन्द्रा गतेन्द्रवः ।
तर्कचन्द्रा वेदपक्षाः खरामाश्चाश्विभात्क्रमात्
आभ्याः परास्तु घटिकाश्चतस्रो विषसंज्ञिताः ।
विवाहादिषु कार्येषु विषनाडीं विवर्जयेत्
भास्करादिषु वारेषु ये मुहूर्ताश्च निन्दिताः ।
विवाहादिषु ते वर्ज्या अपिलक्षगुणैर्युताः
निहितावारदोषा ये सूर्यवारादिषु क्रमात् ।
अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्गले
एकार्गलाङ्घ्रितुल्यं यत्तल्लग्नं च विवर्जयेत् ।
अपिशुक्रेज्यसंयुक्तं विषसंयुक्तदुग्धवत्
ग्रहणोत्पातभं त्याज्यं मङ्गलेषु ऋतुत्रयम् ।
यावच्च शशिना भुक्त्वा मुक्तभं दग्धकाष्टवत्
मङ्गलेषु त्यजेत्शेटैर्विद्धं च क्रूरसंयुतम् ।
अखिलर्क्षं पञ्चगव्यं सुराबिन्दुयुतं तथा
पाद एव शुभैर्विद्धमशुभं नैव कृत्स्त्रभम् ।
क्रूरविद्धं युतं धिष्ण्यं निखिलं नैव मङ्गलम्
तुलामिथुनकन्यांशा धनुरन्त्यार्द्धसंयुताः ।
एते नवांशाः शुभदा वृषभस्यांशकाः खलु
अन्त्यांशास्तेपि शुभदा यदि वर्गोत्तमाह्वयाः ।
अन्ये नवांशा न ग्राह्या यतस्ते कुनवांशकाः
कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम् ।
यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे
अपि सर्वगुणोपेतं दम्पत्योर्मृत्युदं यतः ।
अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नीहारवृष्टयः
प्रत्यर्कपरिवेषेन्द्रचापांबुधरगर्जनाः ।
लत्तोपग्रहपाताख्या मासदग्धाह्वया तिथिः
दग्धलग्नान्धबधिरपङ्गुसंज्ञाश्च राशयः ।
एवमाद्यास्ततस्तेषां व्यवस्था क्रियते ऽधुना
अकालजा भवन्त्येते विद्युन्नीहारवृष्टयः ।
दोषाय मङ्गले नूनमदोषायैव कालतः
बृहस्पतिः केन्द्रगतः शुक्रो वा यदि वा बुधः ।
एको ऽपि दोषनिचयं हरत्येव न संशयः
तिर्यक्पञ्चोर्द्धूगाः पञ्च रेखा द्वे द्वे च कोणयोः ।
द्वितीये शंभुकोणे ऽग्निधिष्ण्यं चक्रे प्रविन्यसेत्
भान्यत्र साभिजित्येकरेखाखेटेन विद्धभम् ।
पुरतः पृष्टतोर्ऽकाद्या दिनर्क्षं लत्तयन्ति यत्
अर्काकृतिगुणाद्य्नङ्गबाणाष्टनवसंख्यभम् ।
सूर्यभात्सार्प्पपित्र्यान्त्यत्वाष्ट्रमित्रोडुविष्णुभम्
संख्याया दिनभेतावदश्विभात्पातदुष्टभम् ।
सौराष्ट्रे साल्वदेशे तु लत्तितं भं विवर्जयेत्
कलिङ्गवङ्गदेशेषु पातितं न शुभप्रदम् ।
बाह्लिके कुरुदेशे चान्यस्मिन्देशे न दूषणम्
तिथयो मासदग्धाश्च दग्धलग्नानि यान्यपि ।
मध्यदेशे विवर्ज्यानि न दृष्टानीतरेषु च
षङ्ग्वं धकाणलग्नानि मासशून्याश्च राशयः ।
गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः
दोषदुष्टं सदा कालं सन्निमार्ष्टुं न शक्यते ।
अपि धातुरतो ग्राह्यं दोषाल्पत्वं गुणाधिकम्
एवं सुलग्ने दंपत्योः कारयेत्सम्यगीक्षणम् ।
हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समन्ततः
स्तंभश्चतुर्भिः सुश्लक्ष्णैर्वामभागे तु सन्नताम् ।
समण्डपां चतुर्दिक्षु सोपानैरतिशोभिताम्
प्रागुदक्प्रवणां रंभास्तंभैर्हंसशुकादिभिः ।
विचित्रितां चित्रकुंभैर्विविधैस्तोरणाङ्कुरैः
शृङ्गारपुष्पनिचयैर्वर्णकैः समलङ्कृताम् ।
विप्राशीर्वचनैः पुण्यस्रीभिर्दिव्यैर्मनोरमाम्
वादित्रनृत्यगीताद्यैर्हृदयानन्दिनीं शुभाम् ।
एवं विधां समारोहेन्मिथुनं स्वाग्निवेदिकाम्
अष्टधा राशिकूटं च स्वादूडुगणराशयः ।
राशीशयोनिर्वर्णाख्यऋतवः पुत्रपौत्रदाः
एकराशौ पृथग्दिष्ण्ये दंपत्योः पाणिपीजनम् ।
उत्तमं मध्यमं भिन्नं राश्यैकत्वं ययोस्तयोः
एकर्क्षे त्वेकराशौ हि विवाहः प्राणहानिदः ।
स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमतिनिन्दितम्
द्वितीये मध्यमं श्रेष्ठं तृतीये नवके नृभम् ।
तिस्रः पूर्वोत्तरा धातृयाम्यमाहेशतारकाः
इति मर्त्यगणे ज्ञेयः स्यादमर्त्यगणः परः ।
हर्यादित्यार्कवाय्वन्त्यमित्राश्वीज्येन्दुतारकाः
रक्षोगणः पितृत्वाष्ट्रद्विदैवाग्नीन्द्रतारकाः ।
वसुवारीशमूलाहितारकाभिर्युतास्ततः
दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा ।
मध्यमा देवमर्त्यानां राक्षसानां तयोर्मृतिः
मृत्युः षष्टाष्टके पञ्चनवमे त्वनपत्यता ।
नैःस्व्य द्विर्द्वादशे ऽन्येषु दंपत्योः प्रीतिरुत्तमा
एकाधिपे मित्रभावे शुभदं पाणिपीडनम् ।
द्विर्दादशे त्रिकोणे च न कदाचित्षडष्टके
अश्वेभमेषसर्पाहिह्योतुमेषोतुमूषकाः ।
आखुगोमहिषव्याघ्रकालीव्याघ्रमृगद्वयम्
श्वानः कपरिर्बभ्रुयुगे कपिसिंहतुरङ्गमाः ।
सिंहगोदन्तिनो भानां योनयः स्युर्यथाश्विभात्
श्वैणं बभ्ररगं मेषवानरौ सिंहवारणम् ।
गोव्याघ्रमाखुमार्जारं महिषाश्चं च शात्रवम्
झषालिकर्कटा विप्रास्त दूर्ध्वाः क्षत्रियादयः ।
पुंवर्णराशेः स्त्रीराशौ सतिहीने यथाशुभम्
चतुस्त्रिव्द्यङ्घ्रिभोत्थायाः कन्यायाश्चाश्विभात्क्रमात् ।
वह्निभादिन्दुभान्नाडीत्रिचतुःपञ्चपर्वसु
गणयेत्संख्यया चैकनाड्यां मृत्युर्न पार्श्वयोः ।
प्राजापत्यब्राह्मदैवा विवाहाश्चार्षसंयुताः
उक्तकाले तु कर्तव्याश्चत्वारः फलदायकाः ।
गन्धर्वासुरपैशाचराक्षसाख्यास्तु सर्वदा
चतुर्थमभिजिल्लग्नमुदयर्क्षाञ्च सप्तमम् ।
गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम्
प्राच्या न च कलिङ्गानां मुख्यं गोधूलिकं स्मृतम् ।
अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत्
मध्यन्दिनगते भानौ मुहूर्तो ऽभिजिदाह्वयः ।
नाशयत्यखिलान्दोषान्पिनाकी त्रिपुरं यथा
पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये ।
न तयोर्व्रतमुद्वाहान्मङ्गले नान्यमङ्गलम्
विवाहश्चैकजन्यानां षण्मासाभ्यन्तरे यदि ।
असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत्
प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् ।
न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके
नैवं कदाचिदुद्वाहो नैकदा मुण्डनद्वयम् ।
दिवाजातस्तु पितरं रात्रौ तु जननीं तथा
आत्मानं संध्ययोर्हन्ति नास्ति गण्डे विपर्ययः ।
सुतः सुता वा नियतं श्वसुरं हॄन्ति मूलजः
तदन्त्यपादजो नैव तथाश्लेषाद्यपादजः ।
ज्येष्टान्त्यपादजौ ज्येष्टं बालो हॄन्ति न बालिका
न बालिकांबुमूलर्क्षे मातरं पितरं तथा ।
सैन्द्री धवाग्रजं हॄन्ति देवरं तु द्विदैवजा
आरभ्योद्वाहदिवसात् षष्टे वाप्यष्टमे दिने ।
वधूप्रवेश संपत्त्यैदशमे सप्तमे दिने
हायनद्वितयं जन्मभलग्नदिवसानपि ।
संत्यज्य ह्यतिशुक्रे ऽपि यात्रा वैवाहिकी शुभा
श्रीप्रदं सर्वगीर्वाणस्थापनं चोत्तरायणे ।
गीर्वाणपूर्वगीर्वाणमत्रिणोर्दृश्यमानयोः
विचैत्रेष्वेव मासेषु माघादिषु च पञ्चसु ।
शुक्लपक्षेषु कृष्णेषु तदादिष्वष्टसु शुभम्
दिनेषु यस्य देवस्य या तितिस्तत्र तस्य च ।
द्वतीयादिद्वये पञ्चम्यादितस्तिसृषु क्रमात्
दशम्यादेष्चतसृषु पौर्णमास्यां विशेषतः ।
त्र्युत्तरादितिचन्द्रान्त्यहस्तत्रयगुरूडुषु
साश्विधातृजलाधीशहरिमित्रवसुष्वपि ।
कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे
चन्द्रताराबलोपेते पूर्वाह्ने शोभने दिने ।
शुभलग्ने शुभांशे च कर्त्तुर्न निधनोदये
राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ।
पञ्चाष्टके शुभे लग्ने नैधने शुद्धिसंयुते
लग्नस्थाश्चन्द्रसूर्यारराहुकेत्वर्कसूनवः ।
कर्त्तुर्मृत्युप्रदाश्चान्ये धनधान्यसुखप्रदाः
द्वितीये नेष्टदाः पापाः सौम्याश्चन्द्रश्चः वित्तदाः ।
तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः
चतुर्थे सुखदाः सौम्याः क्रूराः खेटाश्च दुःखदाः ।
ग्लानिदाः पञ्चमे क्रूराः सौम्याः पुत्रसुखप्रदाः
षष्टे शुभाः शत्रुदाः स्युः पापाः शब्रुक्षयङ्कराः ।
व्याधिदाः सप्तमे पापाः सौम्याः शुभफलप्रदाः
अष्टमस्थाः खगाः सर्वेकर्तुर्मृत्युप्रदायकाः ।
धर्मे पापा घ्नन्ति सौम्याः शुभदा मङ्गलप्रदाः
कर्मगा दुःखदाः पापा सौम्याश्चन्द्रश्च कीर्तिदाः ।
लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः
व्ययस्थानगताः शश्वद्बहूव्ययकरा ग्रहाः ।
हॄन्त्यर्थहीनाः कर्तारं मन्त्रहीनास्तु ऋत्विजम्
स्रियं लक्षणहीनास्तु न प्रतिष्टासमो रिपुः ॥
गुणाधिकतरे लग्ने दोषः स्वल्पतरो यदि
सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम् ।
निर्माणायतनग्रामगृहादीनां समासतः
क्षेत्रमादौ परीक्षेत गन्धवर्णरसांशकैः ।
मधुपुष्पाम्लपिशितगन्धं विप्रानुपूर्वकम्
सितं रक्तं च हरितं कृष्णवर्णं यथाक्रमम् ।
मधुरं कटुकं तिक्तं कषायकरसं क्रमात्
अत्यन्तवृद्धिदं नॄणामीशानप्रागुदग्प्लवम् ।
अन्यदिक्षु प्लवे तेषां शश्वदत्यन्तहानिदम्
समगर्तारत्निमात्रं खनित्वा तत्र पूरयेत् ।
अत्यन्तवृद्धिरधिके हीने हानिः समे समम्
तथा निशादौ तत्कृत्वा पानीयेन प्रपूरयेत् ।
प्रातर्दृष्टे जले वृद्धिः समं पङ्के क्षयः क्षये
एवं लक्षणसंयुक्तं सम्यक् क्षेत्रं समीक्ष्यते ।
दिक्साधनाय तन्मध्ये समं मण्डलमालिखेत्
द्वादशाङ्गुलकं शङ्कुं स्थाप्येक्षेत्तत्र दिक्त्रमम् ।
चतुरस्रीकृते क्षेत्रे षड्वर्गपरिशोधिते
रेखामार्गे च कर्त्तव्यं प्राकारं सुमनोहरम् ।
आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि
अष्टावष्टौ प्रतिदिशं द्वाराणि स्युर्यथाक्रमम् ।
प्रदक्षिणक्रमात्तेषाममूनि च फलानि वै
हानिर्नैः ख्यन्धनप्राप्तिर्नृपपूजा महद्वनम् ।
अतिचौर्यमतिक्रोधो भीतिर्दिशि शचीपतेः
निधनं बन्धनं भीतिरर्थाप्तिर्द्धनवर्द्धनम् ।
अनान्तकं व्याधिभयं निःसत्त्वं दक्षिणादिशि
पुत्रहानिः शत्रुवृद्धिर्लक्ष्मीप्राप्तिर्द्धनागमः ।
सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्च पश्चिमे
कलत्रहानिर्निः सत्त्वं हानिर्द्धान्यधनागमः ।
संपद्वृद्धिर्मासभीतिरामयं दिशि शीतगोः
एवं गृहादिषु द्वारविस्ताराद्द्विगुणोच्छ्रितम् ।
पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्गृहे
प्राकारान्तः क्षितिं कुर्यादेकाशीतिपदं यथा ।
मध्ये नवपदे ब्रह्मस्थानं तदतिनिन्दितम्
द्वात्रिंशदंशाः प्राकारसमीयांशाः समन्ततः ।
पिशाचांशे गृहारंभे दुःखशोकभयप्रदः
शेषाशाः स्युश्च निर्माणे पुत्रपौत्रधनप्रदाः ।
शिराः स्युर्वास्तुनोरेखा दिग्विदिग्मध्यसंभवाः
ब्रह्मभागाः पिशाचांशाः शिराणां यत्र संहतिः ।
तत्र तत्र विजानीयाद्वास्तुनो मर्मसंधयः
मर्माणि संधयो नेष्टाः स्वस्थे ऽप्येवं निवेशने ।
सौम्यफआल्गुनवैशाखमाघश्रावणकार्तिकाः
मासाः स्युर्गृहनिर्माणे पुत्रारोग्यधनप्रदाः ।
अकारादिषु भाग्षु दिक्षु प्रागादिषु क्रमात्
खरोश्वोथ हरिः श्वाख्यः सपोखुगजशाशकाः ।
दिग्वर्गाणामियं योनिः स्ववर्गात्पञ्चमो रिपुः
साध्यवर्गः पुरः स्थाप्य पृष्टतः साधकं न्यसेत् ।
व्यत्यये नाशनं तस्य ऋणमध्यं धनाच्छुभम्
आरभ्य साधकं घिष्ण्यं साध्यं यावच्चतुर्गुणम् ।
विभेजेत्सप्तभिः शेषं साधकस्य धनं तदा
विस्तार आयामगुणो गृहस्य पदमुच्यते ।
तस्माद्धनाधनायर्क्षवारांशाः संख्यया क्रमात्
धनाधिकं गृहं वृद्ध्यै ऋणाधिकमशोभनम् ।
विषमायः शुभघायैव समायो निर्धनाय च
घनक्षयस्तृतीयर्क्षे पञ्चमर्क्षे परः क्षयः ।
आत्मक्षयः सप्तमर्क्षे भवत्येव हि भर्तृभात्
द्विर्द्वादशो निर्धनाय त्रिकोणमसुताय च ।
षट्काष्टकं मृत्यवे स्याच्छुभदाराशयः परे
सूर्याङ्गारकवारांशा वैश्वानरभयप्रदाः ।
इतरे ग्रहवारांशाः सर्वकामार्थसिद्धिदाः
नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् ।
पूर्वादिकशिरोवामपार्श्वेशायाप्रदक्षिणम्
चराह्वयो वास्तुपुमान् चरत्येवं महोदरः ।
यद्दिङ्मुखो वास्तुपुमान् कुर्यात्तद्दिङ्मुखं गृहम्
प्रतिकूलमुखं गेहं रोगशोकभयप्रदम् ।
सबलो मुखगेहानामेष दोषो न विद्यते
वृत्येटिकां स्वर्णरेणुधान्यशैवलसंयुतम् ।
गृहमध्ये हस्तमात्रे गर्ते न्यासाय विन्यसेत्
वस्त्वायामदलं नाभिस्तस्मादध्यङ्गुलत्रयम् ।
कुक्षिस्तस्मिन्न्यसेच्छङ्कुं पुत्रपौत्रविवर्धनम्
चतुर्विशत्रयोर्विंशत्षोडशद्वादशाङ्गुलैः ।
विप्रादीनां कुक्षिमानं स्वर्णवस्त्राद्यलङ्कृतम्
खदिरार्जुनशालोत्थं युगयन्त्रं तरूद्भघवम् ।
रक्तचन्दनपालाशरक्तशानविशालजम्
शकुं त्रिधा विभज्यान्द्यं चतुरस्रं ततः परम् ।
अष्टास्रं च तृतीयासौ मन्वस्रं मृदुमव्रणम्
एवं लक्षणसंयुक्तं परिकल्प्य शुभे दिने ।
षड्वर्गशुद्धिसूत्रेण सूत्रिते धरणीतले
मृदुध्रुवक्षिप्रभेषु रिक्तामावर्जिते दिने ।
व्यर्कारचरलग्नेषु पापे चाष्टमवर्जिते
नैधने शुद्धिसंयुक्ते शुभघलग्ने शुभांशके ।
शुभेक्षिते ऽथ वा युक्ते लग्ने शङ्कुं विनिक्षिपेत्
पुण्याहघोषैर्वादित्रैः पुण्यपुण्याङ्गनादिभिः ।
स्वत्रिकेन्द्रत्रिकोणस्थैः शुभैस्त्र्यायारिगैः परैः
लग्नांशाष्टारिचन्द्रेण दैवज्ञार्चनपूर्वकम् ।
एकद्वित्रिचतुःशालाः सप्त शाला दशाह्वयाः
ताः पुनः षड्विधाः शालाः प्रत्येकं दशषड्विधाः ।
ध्रुवं धान्यं जयं नन्दं खरः कान्तं मनोरमम्
सुमुखं दुर्मुखं क्रूरं शत्रुं स्वर्णप्रदं क्षयम् ।
आक्रन्दं विपुलाख्य च विजयं षोडशं गृहम्
गृहाणि गणयेदेवं तेषां प्रस्तारभेदतः ।
गुरोरघो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्न्यसेत्
गुरुभिः पूरयेत्पश्चात्सर्वलध्ववधीर्विधिः ।
कुर्याल्लघुपदे ऽलिन्दं गृहद्वारात्प्रदक्षिणम्
पूर्वादिगेष्वलिन्देषु गृहभेदास्तु षोडश ।
स्नानागारं दिशि प्राच्यामाग्नेय्यां पाकमन्दिरम्
याम्यां च शयनागारं नैरृत्यां शास्रमन्दिरम् ।
प्रतीच्यां भोजनगृहं वा यव्यां धान्यमदिरम्
कौबेर्यां देवतागारमीशान्यां क्षिरमन्दिरम् ।
शय्यामूत्रास्त्रतद्विच्च भोजनं मङ्गलाश्रयम्
धान्यस्त्रीभोगवित्तं च शृङ्गारायतनानि च ॥।
ईशान्यादिक्रमस्तेषां गृहनिर्माणकं शुभम्
एतेष्वेतानि शस्त्राणि स्वं स्थाप्यानि स्वदिक्ष्वपि ।
ध्वजो धूम्रोथ सिंहः श्वा सौरमेयः खरो गजाः
ध्वाङ्क्षश्चैव भवन्त्यष्टौ पूर्वादिपाः क्रमादमी ।
प्लक्षोदुंबरचूताख्या निंबस्तु हि विभीतकाः
य कटका दुग्धवृक्षा वृक्षाश्वत्थकपित्थकाः ।
अगस्तिसिंधुवालाख्यतिन्तिडीकाश्च निन्दिताः
पित्तवाग्रजदेहस्यात्पश्चिमे दक्षिणे तथा ।
गृहपादागृहस्तभाः समाः शस्ताश्च नासमाः
नात्युच्छ्रितं नातिनीचं कुड्योत्सेधं यथारुचि ।
गृहोपरि गृहादीनामेवं सर्वत्र चिन्तयेत्
गृहादीनां गृहश्रावं क्रमशो ऽष्टविधं स्मृतम् ।
पाञ्चालमानं वैदेहं कौरवं च कुजन्यकम्
मागधं शूरसेनं च गान्धारावतिका स्मृतम् ।
सचतुर्भागविस्तारमुत्सेधं यत्तदुच्यते
पाञ्चालमातुलानां च ह्युत्तरोत्तरवृद्धितः ।
वैदेहादीन्यशेषाणि मानानि स्युर्यथाक्रमम्
पाञ्चालमानं सर्वेषां साधारणमतः परम् ।
अवन्तिमानं विप्राणां गान्धारं क्षत्रियस्य च
कौजन्यमानं वैश्यानां विप्रादीनां यथोत्तरम् ।
यथोदितं जलस्त्राव्यं द्वित्रिभूमिकवेश्मनाम्
उष्ट्रकुञ्जरशालानां ध्वजायेप्यथा वा गजे ।
पशुशालाश्च शालानां ध्वजायेप्यथ वा गजे
द्वारशय्याशनामत्रध्वजाः सिंहवृषध्वजाः ।
वास्तुपूजाविधिं वक्ष्ये नववेश्मप्रवेशने
हस्तमात्रा लिखेद्रेखा दश पूर्वा दशोत्तराः ।
गृहमध्ये तण्डुलोपर्येकाशीतिपदं भवेत्
पञ्चोत्तरान्वक्ष्यमाणांश्चत्वरिंशत्सुरान् लिखेत् ।
द्वात्रिन्द्वाह्यतः पूज्यास्तत्रान्तःस्थास्रयोदश
तेषां स्थानानि नामानि वक्ष्यामि क्रमशोधुना ।
ईशानकोणतो बाह्यो द्वात्रिंशत्र्रिदशा अमी
कृपीटयोनिः पर्जन्यो जयन्तः पाकशासनः ।
सूर्यः शशी मृगाकाशौ वायुः पूषा च नैरृतिः
गृहाक्षतो दण्डधरो गान्धर्वो भृगुराजकः ।
मृगः पितृगणाधिशस्ततो दौवारि काह्वयः
सामः सूर्यो ऽदितिदिती द्वात्रिंशत्र्रिदशा अमी ।
अथेशानादिकोणस्थाश्चात्वारस्तत्समीपगाः
आपः सावित्रघसंज्ञश्च जयो रुद्रः क्रमादमी ।
एकान्तरा स्युः प्रागाद्याः परितो ब्रह्मणः स्मृताः
अर्यमा सविता बिंबविवत्त्कान्वक्तुधाधिपः ।
मित्रोथ राजयक्ष्मा च तथा पृथ्वीधराह्वयः
आपवत्सो ऽष्टमः पञ्चचत्वारिंशत्सुरा अमी ।
आपश्चैवापवत्सश्च पर्जन्यो ऽग्निर्दितिः क्रमात्
यद्दिक्कानां च वर्गो ऽयमेवं कोणेष्वशेषतः ।
तन्मध्ये विंशतिर्बाह्या द्विपदास्ते तु सर्वदा
अर्यमा च विवस्वांश्च मित्रः पृथ्वी धराह्वयः ।
ब्रह्मणः पारितो दिक्षु चत्वारस्त्रिपदाः स्मृताः
ब्रह्माणं च तथैकद्वित्रिपदानर्चयेत्सुरान् ।
वास्तुमन्त्रेण वास्तुज्ञो दूर्वादध्यक्षतादिभिः
ब्रह्ममन्त्रेण वा श्वेतवस्त्रयुग्मं प्रदापयेत् ।
आवाहनादिसर्वोपचारांश्च क्रमशस्तथा
नैवेद्यं त्रिविधान्नेन वाद्यैः सहसमर्पयेत् ।
ताम्बूलं च ततः कर्ता प्रार्थयेद्वास्तुपूरुषम्
वास्तुपुरुष नमस्ते ऽस्तु भूशय्यानिरत प्रभो ॥
मद्गृहे धनधान्यादिसमृद्धं कुरु सर्वदा
इति प्रार्थ्य यथाशक्त्या दक्षिणामर्चकाय च ।
दद्यात्तदग्रे विप्रेभ्यो भोजनं च स्वशक्तितः
अनेन विधिना सम्यग्वास्तुपूजां करोति यः ।
आरोग्यं पुत्रलाभं च धनं धान्यं लभेन्नरः
अकृत्वा वास्तुपूजां यः प्रविशेन्नवमन्दिरम् ।
रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटम्
अकपाटमनाच्छन्नमदत्तबलिभोजनम् ।
गृहं न प्रविशेदेवं विपदामाकरं हि तत्
अथो यात्रा नृपादीनामभीष्टफलसिद्धये ।
स्यात्तथा तां प्रवक्ष्यामि सम्यग्विज्ञातजन्मनाम्
अज्ञातजन्मनां नॄणां फलाप्तिर्घुणवर्णवत् ।
प्रश्नोदयनिमित्ताद्यैस्तेषामपि फलोदयः
षष्ट्यष्टमीद्वादशीषु रिक्तामापूर्णिमासु च ।
यात्रा शुक्लप्रतिपदि निर्द्धनाय क्षयाय च
मैत्रादितीन्द्वार्कान्त्याश्विहागितिष्यवसूडुषु ।
असप्तपञ्चत्र्याद्येषु यात्राभीष्टफलप्रदाः
न मन्देन्दुदिने प्राचीं न व्रजेद्दक्षिणं गुरौ ।
सितार्कयेर्न प्रतीचीं नोदीचीं ज्ञारयोर्द्दिने
इन्द्राजपादचतुरास्यार्यमर्क्षाणि पूर्वतः ।
शूलानि सर्वद्वाराणि मित्रार्केज्याश्वभानि च
क्रमाद्दिग्द्वारभानि स्युः सप्तसप्ताग्निधिष्ण्यतः ।
परिघं लङ्घयेद्दण्डं नाग्निश्वसनर्दिग्गमम्
आग्नेयं पूर्वदिग्धिष्ण्यैर्विदिशश्चैवमेव हि ।
दिग्राशयस्तु क्रमशो मेषाद्याश्च पुनः पुनः
दिगीश्वरे ललाटस्थे यातुर्न पुनरागमः ।
लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः
द्वादशैकादशः शुक्रो ऽप्याग्नेय्यान्तु ललाटगः ।
दशमस्थः कुजो लग्नाद्याभ्यां यातुर्ललाटगः
नवमाष्टमगो राहुर्नैऋत्यां तु ललाटगः ।
लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः
षष्टः पञ्चमगश्चन्द्रो वायव्यां च ललाटगः ।
चतुर्थस्थानगः सौम्यश्चोत्तरस्यां ललाटगः
द्वित्रिस्थानगतो जीव ईशान्यां वै ललाटगः ।
ललाटं तु परित्यज्य जीवितेच्छुर्व्रजेन्नरः
विलोमगो ग्रहो यस्य यात्रालग्रोपगो यदि ।
तस्य भङ्गप्रदो राज्ञस्त द्वर्गो ऽपि विलग्नगः
रवीन्द्वयनयोर्यातमनुकूलं शुभप्रदम् ।
तदभावे दिवारात्रौ यायाद्यातुर्वधो ऽन्यथा
मूढे शुक्रे कार्यहानिः प्रतिशुक्रे पराजयः ।
प्रतिशुक्रकृतं दोषं हॄन्तुं शक्ता ग्रहा न हि
वासिष्टकाश्यपेयात्रिभारद्वाजाः सगौतमाः ।
एतेषां पञ्चगोत्राणां प्रतिशुक्रो न विद्यते
एकग्रामे विवाहे च दुर्भिक्षे राजविग्रहे ।
द्विजक्षोभे नृपक्षोभे प्रतिशुक्रो न विद्यते
नीचगो ऽरिगृहस्थो वा वक्रगो वा पराजितः ।
यातुर्भङ्गप्रदः शुक्रः स्वोञ्चस्थश्चेज्जयप्रदः
स्वाष्टलग्नेष्टराशौ वा शत्रुभात्त्वष्टमेपि वा ।
तेषामीशस्थराशौ वा यातुर्मृत्युर्न संशयः
जन्मेषाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ ।
जन्मराश्यष्टमर्क्षोत्थदोषा नश्यन्तिं भाक्तः
क्रूरग्रहेक्षितो युक्तो द्विःस्वभावो ऽपि भङ्गदः ।
याने स्थिरोदये नेष्टो भव्ययुक्तेक्षितः स्वयम्
वस्वन्त्यार्द्धादिपञ्चर्क्षे संग्रहं तृणकाष्टयोः ।
याम्यदिग्गमनं शय्या न कुर्याद्गेहगोपनम्
जन्मोदये जन्मभे वा तयोरीशस्यभेपि वा ।
ताभ्यां तयोरिकेन्द्रेषु यातुः शत्रुक्षयो भवेत्
शीर्षोदये लग्नगते दिग्लग्ने लग्नगोपि वा ।
शुभवार्गोथ वा लग्ने यातुः शत्रुक्षयस्तदा
शत्रुजन्मोदये जन्मराशेर्वा निधनोदये ।
तयोरीशस्थिते राशौ यातुः शत्रुक्षयो भवेत्
वक्रः पन्था मीनलग्ने यातुर्मीनांशकेपि वा ।
निन्द्यो निखिलयात्रासु घटलग्नो घटांशकः
जललग्नो जलांशो वा जलयोनेः शुभावहः ।
मूर्तिः कोशो धन्विनश्च वाहनं मन्त्रसंज्ञकम्
शत्रुमार्गस्तथायुश्च मनोव्यापारसंज्ञिकम् ।
प्राप्तिरप्राप्तिरुदयाद्भावाः स्युर्द्वादशैव ते
घ्नन्ति क्रूरास्त्र्याप्तिवर्गं भावान्सूर्यमहीसुतौ ।
न निघ्नतो हि व्यापारं सौम्याःढ पुष्णन्त्यरिं विना
शुक्रो ऽस्तं च न पुष्णाति मूर्तिं मृत्युं च चन्द्रमाः ।
याम्यदिग्गमनं त्यक्त्वा सर्वकाष्ठासु यायिनाम्
अभिजित्क्षणयोगो ऽयमभीष्टफलसिद्धिदः ।
पञ्चाङ्गशुद्धिरहिते दिवसे ऽपि फलप्रदः
यात्रायोगा विचित्रास्तान्योगान्वक्ष्ये यतस्ततः ।
फलसिद्धिर्यागलग्नाद्राज्ञां विप्रश्य धिष्ण्यतः
मुहूर्तशक्तितो ऽन्येषां शकुनैस्तस्करस्य च ।
केन्द्रत्रिकोणे ह्येकेन योगः शुक्रज्ञसूरिणाम्
अधियेगो भवेद्द्वाभ्यां त्रिभिर्योगाधियोगकः ।
योगे ऽपि यायिनां क्षेममधियोगे जयो भवेत्
योगाधियोगे क्षेमं च विजयार्थविभूतयः ।
व्यापारशत्रुमूर्तिस्थैश्चन्द्रमन्ददिवाकरैः
रणे गतस्य भूपस्य जयलक्ष्मीः प्रमाणिका ।
शुक्रार्कज्ञार्किभौमेषु लग्नाध्वस्तत्रिशत्रुषु
गतस्याग्रे वैरिचमृर्वह्नौ लाक्ष्वे लीयते ।
लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः
गतस्य राज्ञो ऽरिसेना नीयते यममन्दिरम् ।
लग्ने शुक्रे रवौ लाभे चन्द्रे बन्धुस्थिते यदा
गतो नृपो रिपून्हॄन्ति केसरीवेभसंहतिम् ।
स्वोच्चसंस्थे सिते लग्ने स्वोच्चे चन्द्रे च लाभगे
हॄन्ति यातो ऽरिष्टतनां केशवःपूतनामिव ।
त्रिकोणे केन्द्रगाः सौम्याः क्रूरास्त्र्यायारिगा यदि
यस्य यातेरलक्ष्मीस्तमुपैतीवाभिसारिका ।
जीवार्कचन्द्रा लग्नारिरन्ध्रगा यदि गच्छतः
तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनी ।
त्रिखडायेषु मन्दारौ बलवन्तः शुभा यदि
यात्रायां नृपतस्तस्य हस्तस्था शत्रुमेदिनी ।
स्वोञ्चस्थे लग्नगे जीवे चन्द्रे लाभगते यदि
गतो राजा रिपून्हति पिनाकी त्रिपुरं यथा ।
मस्तकोदयगेशुक्र लग्नस्थे लाभगे गुरौ
गतो राजा रिपून्हॄन्ति कुमारस्तारकं यथा ।
जीवं लग्नगते शुक्रे केन्द्रे वापि त्रिकोणगे
गतो दहत्यरीव्राजा कृष्णवर्त्मा यथा वनम् ।
लग्नगे ज्ञे शुभे केन्द्रे धिष्ण्ये चोपकुले गतः
नृपाः शुष्यन्त्यरीन् ग्रीष्मे ह्रदिनीं वार्करश्मयः ।
शुभि त्रिकोणे केन्द्रस्थे लाभे चन्द्रे ऽथवा रवी
शत्रून्हन्ति गतो राजा ह्यन्धकारं यथा रविः ।
स्वक्षेत्रगे शुभे कद्रे त्रिकोणोयगते गतः
विनाशयत्यरीत्राजा तृलराशिमिवानलः ।
इन्दौ स्वस्थे गुरौ केन्द्रे मन्त्रः सप्रणवो गतः
नॄपो हॄन्ति रिपून्सर्वान्पापान्पञ्चाक्षरो यथा ।
वर्गोत्तमगते शुक्रे ऽप्येवस्मिन्नेव लग्नगे
हरिस्मृतिर्यथाघौघान्हॄन्ति शत्रून् गतो नृपः ।
शुभे केन्द्रे त्रिकोणस्थे चन्द्रे वर्गोत्तमे गतः
सगोत्रारीन्नृपान् हॄन्ति यथा गोत्रांश्चगोत्रभित् ।
मित्रभे ऽथ गुरौ केन्द्रे त्रिकोणस्थे ऽथ वा सिते
शत्रून्हॄन्ति गतो राजा भुजङ्गान् गरुडो यथा ।
शुभकद्रत्रिकोणस्थे वर्गोत्तमगते गतः
विनाशयत्यरीन्राजा पापान्भागीरथी यथा ।
ये नृपा यान्त्यरीञ्जेतुं तेषां योगैर्नृपाह्वयैः
उपैति शान्तिं कोपाग्निः शत्रुयोषाश्रुबिन्दुभिः ।
बलक्षयपक्षदशमीमासीषे विजयाभिधा
विजयस्तत्र यातॄणां सधिर्वा न पराजयः ।
निमित्तशकुनादिभ्यः प्रधानं हि मनोदयः
तस्मान्मनस्विनां यत्नात्फलहेतुर्मनोदयः ।
उत्सवोपनयोद्वाहप्रतिष्टाशौचसूतके
असमाप्ते न कुर्वीत यात्रां मर्त्यो जिजीविषुः ।
महिषोन्दुरयोर्युद्धे कलत्रकलहार्त्तवे
वस्त्रादेः स्खलिते क्रोधे दुरुक्ते न व्रजेन्नृपः ।
घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम्
प्रागादिक्रमशो भुक्त्वा याति राजा जयत्यरीन् ।
सज्जिका परमान्नं च काञ्जिक च पयो दधि
क्षीरं तिलोदनं भुक्त्वा भानुवारादिषु क्रमात् ।
कुल्माषांश्च तिलान्नं च दधि क्षौद्रं घृतं पयः
मृगमांसं च तत्सारं पायसं च खगं मृगम् ।
शशमांसं च षाष्टिक्यं प्रियगुङ्कमपूपकम्
चित्राण्डजपलं कूर्मश्वाविद्गोधांश्च शास्वकम् ।
हविष्यं कृशरान्नं च मुद्गान्नं यवपिष्टिकम्
मत्स्यान्नं च विचित्रान्नं दध्यन्नं दस्रभात्क्रमात् ।
भुक्त्वा राजेभाश्वरथनरैर्याति जयत्यरीन्
हुताशनं तिलैर्हुत्वा पूजयेत दिगीश्वरम् ।
प्रणम्य देवभूदेवानाशीर्वादैर्नृपो व्रजेत्
यद्वर्णवस्रगन्धाद्यैस्तन्मन्त्रेण विधानतः ।
इन्द्रमैरावतारूढं शच्या सह विराजितम्
वज्रपाणिं स्वर्णवर्णं दिव्याभरणभूषितम् ।
सप्तहस्तं सप्तजिह्वं षण्मुखं मेषवाहनम्
स्वाहाप्रिये रक्तवर्णं स्रुकूस्रुवायुधधारिणम् ।
दण्डायुधं लोहितार्क्षं यमं महिषवाहनम्
श्यामलं सहितं रक्तवर्णैरूर्द्ध्वमुखं शुभम् ।
खड्गचर्मधरं नीलं निरृतिं नखाहनम्
उर्द्ध्वकेशं विरूपाक्षं दीर्घग्रीवायुतं विभुम् ।
नागपाशधरं पीतवर्णं मकरवाहनम्
वरुणं कालिकानाथं रत्नाभरणभूषितम् ।
प्राणिनां प्राणरूपं तं द्विबाहुं दण्डपाणिकम्
वायुं कृष्णमृगारूढं पूजयेदञ्जनीपतिम् ।
अश्वारूढं कुंभपाणिं द्विबाहुं स्वर्णसन्निभम्
कुबेरं चित्रलेखेशं यक्षगन्धर्वनायकम् ।
पिनाकिनं वृषारूढं गौरीपतिमनुत्तम्
श्वेतवर्णं चन्द्रमौलिं नागयज्ञोपवीतिनम् ।
अप्रयाणे स्वयं कार्या प्रेक्षया भूभुजस्तथा
कार्यं निगमनं छत्रं ध्वजशस्त्रास्त्रवाहनैः ।
स्वस्थानान्निर्गमस्थानं दडानां च शतन्द्वयम्
चत्वारिंशद्द्वादशैव प्रस्थितः स स्वयं गतः ।
दिनान्येकत्र न वसेत्सप्तष्ट् वा परो जनः
पञ्चरात्रं च पुरतः पुनर्लग्नान्तरे व्रजेत् ।
अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु
उत्पातेषु त्रिविधेषु सप्तरात्रं तु न व्रजेत् ।
स्न्ताकुड्यशिवाकाककपोतानां गिरस्तथा
झझेभुखेमवक्षीरस्वराणां वामतो गतिः ।
पीतकारभरद्वाजपभिणां दक्षिणा गतिः
चाषं त्यक्त्वा चतुष्पात्तु शुभदावामतो मताः ।
कृष्णं त्यक्त्वा प्रयाणे तु कृकलासेन वीक्षितः
वाराहशशगोधास्तु सर्पाणां कीर्तनं शुभम् ।
हृतेक्षणं नेष्टमेवाव्यपत्ययं कपिऋक्षयोः
मयूरच्छागनकुलचाषपारावताः शुभाः ।
दृष्टमात्रेण यात्रायां व्यस्तं सर्वं प्रवेशने
यात्रासिद्धिर्भवेद्दृष्टे शवेरादनवजिते ।
प्रवेशे रोदनयुतः शवः शवप्रदस्तथा
पतितक्लीबजटिलमत्तवान्तौषधादिभिः ।
अभ्यक्तवसास्थिचर्माङ्गारदारुणरोगिभिः
गुडकार्पासलवणरिपुप्रश्नतृणोरगैः ।
वन्ध्याकुञ्जककाषायमुक्तकेशबुभुक्षितैः
प्रयाणसमये नग्नैर्द्दृष्टैः सिद्धिर्न जायते ।
प्रज्वलाग्नीन्सुतुरगनृपासनपुराङ्गनाः
गन्धपुषअपाक्षतच्छत्रचामरान्दोलिकं नृपः ।
भक्ष्येक्षुफलमृत्स्नान्नमध्वाज्यदधिगोदयाः
मद्यमांससुधाधौतवस्त्रशङ्खवृषध्वजाः ।
पुण्यस्त्रीपुण्यकलशरत्नभृङ्गारगोद्विजाः
भेरीमृदङ्गपटहघण्टावीणादिनिःस्वनाः ।
वेदमङ्गलघोषाः स्युः या यिनां कार्यसिद्धिदाः
आदौ विरुद्धशकुनं दृष्ट्वा यायीष्टदेवताम् ।
स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत्
सर्वदिक्षुक्षुतं नेष्टं गोक्षुतं निधनप्रदम् ।
अफलं यद्बालवृद्धरोगिपैनसिकैः कृतम्
परस्त्री द्विजदेवस्वं तत्रपृशेद्दिग्गजाश्वकान् ।
हन्यात्परपुरप्राप्तो न स्त्रीर्नित्यं निरायुधान्
आदौ सौम्यायने कार्यंनववास्तुप्रवेशनम् ।
विधाय पूर्वदिवसे वास्तुपूजाबलिक्रियाम्
माघफआल्गुनवैशाखज्येष्टमासेषु शोभनम् ।
प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः
शशीज्यान्तेषु वरुणत्वाष्ट्रमित्रस्थिरोडुषु ।
शुभः प्रेवशो देवेज्यशुक्रयोर्द्दृश्यमानयोः
व्यर्कारवारे तिथिषु रिक्तामावर्जितेषु च ।
दिवा वा यदि वा रात्रौ प्रवेशो मङ्गलप्रदः
चन्द्रताराबलोपेते पूर्वाह्ने शोभने दिने ।
स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयुते
त्रिकोणकेन्द्रसंस्थैश् सौम्यैस्त्र्यायारिगैः परैः ।
लग्रान्त्याष्टमषष्टस्थवर्जितेन द्वियांशुना
कर्तुर्षा जन्मभे लग्ने ताभ्यामुपचये ऽपि वा ।
प्रवेशल्ग्ने स्यामृद्धिरन्यभेशोकनिःस्वता
दर्शनीय गृहं रम्यं विधिधैर्मङ्गलस्वनैः ।
कृत्वार्कं वामतो विद्वान्भृङ्गारं चाग्रतो विशेत्
वर्षाप्रवेशे शशिनि जलराशिगतेपि वा ।
केन्द्रगे वा शुक्लपक्षे चातिवृष्टिः शुभेक्षिते
अल्पवृष्टिः पापदृष्टे प्रावृट्काले ऽचिराद्भवेत् ।
चन्द्रश्चेद्धार्गवे सर्वमेवंविध गुणान्विते
प्रावृषीन्दुः सितात्सप्तराशिगः शुभवीक्षितः ।
मन्दात्र्रिकोणसप्तस्थो यदि वा वृद्धिकृद्भवेत्
सद्यो वृष्टिकरः शुक्रो यदा बुधसमीपगः ।
तयोर्ंमध्यगते भानौ भवेद्ष्टिविनाशनम्
मघादिपञ्चधिष्ण्यस्थः पूर्वे स्वातित्रये परे ।
प्रवर्षणं भृगुः कुर्याद्विपरीते न वर्षणम्
पुरतः पृष्टतो भानोर्ग्रहा यदि समीपगाः ।
तदा वृष्टिं प्रकुर्वन्ति न ते चेत्प्रतिलोमगाः
वामभागस्थितः शुक्रो वृष्टिकृच्चेत्तु याम्यगः ।
उदयास्तेषु वृष्टिः स्याद्भानोरार्द्राप्रवेशने
संध्ययोः सस्यवृद्धिः स्यात्सर्वसंपन्नृणान्निशि ।
स्तोकवृष्टिरनर्घः स्यादवृष्टिः सस्यसंपदः
आद्रोदयेग्रभिन्ना चद्भवेदिति न संशयः ।
चन्द्रेज्ये ज्ञेथ वा शुक्रे केन्द्रेन्बीतिर्विनश्यति
पूर्वाषाढा गतो भानुर्जीमूतैः परिवेष्टितः ।
वर्षत्यार्द्रादिमृलान्तं प्रत्यक्षं प्रत्यहं तथा
वृष्टिश्चेत्पौष्णभें तस्माद्दशर्क्षेषु न वर्षति ।
सिंहे भिन्ने कुजो वृष्टिरभिन्ने कर्कटे तथा
कन्योदये प्रभिन्ने चेत्सर्वदा वृष्टिरुत्तम ।
अहिर्बुध्न्यं पूर्वशस्यं परशस्या च रेवती
भरणी सर्वसस्या च सर्वनाशाय चाश्विनी ।
गुरोः सप्तमरा तिस्थः प्रत्यग्गो भृगुजो यदा
तदातिवर्षणं भूरि प्रावृट्काले बलोज्झिते ।
आसप्तमर्क्षंशशिनः परिवेशगतोत्तरा
विद्युत्प्रपूर्णमण्डूकास्वनावृष्टिर्भवेत्तदा ।
यदाप्रत्यङ्नता मघाः खसप्तोपरि संस्थिताः
पतन्ति दक्षिणस्था येभवेद्वृष्टिस्तदाचिरात् ।
नखैर्लिखन्तोमार्जाराश्चावनिं लोहसंयुते
रथ्यायां सेतुबन्धाः स्युर्बालानां वृष्टिहेतवः ।
पिपीलिकाश्रेणयश्छिन्नाः खद्योता बहवस्तदा
द्रुमादिरोहः सर्पाणां प्रीतिर्दुर्वृष्टिसूचकाः ।
उदयास्तमये काले विवर्णोर्ऽकेथ वा शशी
मधुवर्णो ऽतिवायुश्चेदतिवृष्टिर्भवेत्तदा ।
प्राङ्मुखस्य तु कूर्मस्य नवाङ्गेषु धरामिमाम्
विभज्य नवधा खण्डे मण्डलानि प्रदक्षिणम् ।
अन्तर्वेदाश्च षाञ्चालस्तस्येदं नाभिमण्डलम्
प्राच्या मागधलाटोत्था देशास्तन्मुखमण्डलम् ।
स्त्रीकलिङ्गकिराताख्या देशास्तद्बाहुमण्डलम्
अवन्ती द्रविडा भिल्ला देशास्तत्पार्श्वमण्डलम् ।
गौडकैङ्कणशाल्वान्ध्रपौड्रस्तत्पादमण्डलम्
सिंधुकाशिमहाराष्ट्रसौराष्ट्राः पुच्छमण्डलम् ।
पुलिन्दचीनयवनगुर्जराः पादमण्डलम्
कुरुकाश्मीरमाद्रेयमत्स्यास्तत्पार्श्वमण्डलम् ।
खसांगवङ्गबाह्लीकं कांबोजाः पाणिमण्डलम्
कृत्तिकादीनि धिष्ण्यानि त्रीणि त्रिणि क्रमान्न्यसेत् ।
नाभ्यादिषु नवाङ्गेषु पापैर्दुष्टं शुभैः शुभम्
देवता यत्र नृत्यन्ति पतन्ति प्रज्वलन्ति च ।
मुहू रुदन्ति गायन्ति प्रस्विद्यन्ति हसंति च
वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो जलम् ।
अधोमुखाधितिष्टन्ति स्थानात्स्थानं व्रजन्ति च
एवमाद्या हि दृश्यन्ते विकाराः प्रतिमासु च ।
गन्धर्वनगरं चैव दिवा नक्षत्रदर्शनम्
महोत्कापतनं काष्टतृणरक्तप्रवर्षणम् ।
गान्धर्वं देहदिग्धूमं भूमिकंपं दिवा निशि
अनग्नौ च स्फुलिङ्गाश्च ज्वलनं च विनेन्धनम् ।
निशीन्द्रचापमण्डूकं शिखरे श्वेतवायसः
दृश्यन्ते विस्फुलिङ्गाश्च गोगजाश्वोष्ट्रगात्रतः ।
जन्तवो द्वित्रिशिरसो जायन्ते वापि योनिषु
प्रातः सूर्याश्चतसृषु ह्यर्दितायुगपद्रवेः ।
जम्बूकग्रामसंवासः केतूनां च प्रदर्शनम्
काकानामाकुलं रात्रौ कपोतानां दिवा यदि ।
अकाले पुष्पिता वृक्षा दृश्यन्ते फलिता यदि
कार्यं तच्छेदनं तत्र ततः शान्तिर्मनीषिभिः ।
एवमाद्या महोत्पाता बहवः स्थाननाशदा
केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्च भयप्रदाः ।
मध्याद्भयं यशो मृत्युः क्षयः कीर्तिः सुखासुखम्
ऐस्वर्यं धनहानिं च मधुच्छन्नं च वाल्मिकम् ।
इत्यादिषु च सर्वेषूत्पातेषु द्विजसत्तम
शान्तिं कुर्यात्प्रयत्नेन कल्पोक्तविधिना शुभम् ।
इत्येतत्कथितं विप्र ज्यौतिषं ते समासतः
अतः परं प्रवक्ष्यामि च्छन्दः शास्त्रमनुत्तमम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0