भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.54

1.54.1

इति श्रीबृहन्नारदीयपुराण पूर्वभागे बृहदुपाख्याने द्वितीयपादे निरुक्तलक्षणनिरूपणं नाम त्रिपञ्चाशत्तमो ऽध्यायः
सनन्दन उवाच
ज्योतिषाङ्गं प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा ।
यस्य विज्ञान मात्रेण धर्मसिद्धिर्भवेन्नृणाम्

1.54.2

त्रिस्कन्धं ज्यौतिषां शास्त्रं चतुर्लक्षमुदाहृतम् ।
गणितं जातकं विप्र संहितास्कन्धसंज्ञिताः

1.54.3

गणिते परिकर्मादि खगमध्यस्फुटक्रिंये ।
अनुयोगश्चन्द्रसूर्यग्रहणं तचोदस्याकम्

1.54.4

छाया शृङ्गोन्नतियुती पातसाधानमीरितम् ।
जातके राशिभेदाश्च ग्रहयोनिश्च योनिजम्

1.54.5

निषेकजन्मारिष्टानि ह्यायुर्दायो दशाक्रमः ।
कर्माजीवं चाष्टवर्गो राजयोगाश्च नाभसाः

1.54.6

चन्द्रयोगाः प्रव्रज्याख्या राशिशीलं च दृक्फलम् ।
ग्रहभावफलं चैवाश्रययोगप्रकीर्णके

1.54.7

अनिष्टयोगाः स्रीजन्मपलं निर्याणमेव च ।
नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम्

1.54.8

संहिताशास्त्ररूपं च ग्रहचारो ऽब्दलक्षणम् ।
तिथिवासरनक्षत्रयोगतिथ्यर्द्धसंज्ञकाः

1.54.9

मुहूर्तोपग्रहाः सूयसंक्रान्तिर्गोचरः क्रमात् ।
चन्द्रता राबलं चैव सर्वलग्रार्तवाह्वयः

1.54.10

आधानपुंससीमन्तजातनामान्नभुक्तयः ।
चौलङ्कर्ण्ययणं मैञ्जी क्षुरिकाबन्धनं तथा

1.54.11

समावर्तिनवैवाहप्रतिष्टासद्मलक्षणम् ।
यात्राप्रवेशनं सद्योवृष्टिः कर्मविलक्षणम्

1.54.12

उत्पत्तिलक्षणं चैव सर्वं संक्षेपतो ब्रुवे ।
एकं दश शतं चैव सहस्रायुतलक्षकम्

1.54.13

प्रयुतं कोटिसंज्ञां चार्बुदमब्जं च रर्ववकम् ।
निरवर्व च महापद्मं शङ्कुर्जलधिरेव च

1.54.14

अत्यं मध्यं परार्द्धं च संज्ञा दशगुणोत्तराः ।
क्रमादुत्क्रमतो वापि योगः कार्योत्तरं तथा

1.54.15

हन्याद्गुणेन गुण्यं स्यात्तैनैवोपान्तिमादिकान् ।
शुद्धेद्धरोयद्गुणश्चभाज्यान्त्यात्तत्फलं मुने

1.54.16

समाङ्कतो ऽथो वर्गस्यात्तमेवाहुः कृतिं बुधाः ।
अन्त्यात्तु विषमात्त्यक्त्वा कृतिं मूलंन्यसेत्पृथक्

1.54.17

द्विगुणेनामुना भक्ते फलं मूले न्यसेत्क्रमात् ।
तत्कृतिं च त्यजेद्विप्र मूलेन विभजेत्पुनः

1.54.18

एवं मुहुर्वर्गमूलं जायते च मुनीश्वर ।
समत्र्यङ्कहतिः प्रोक्तो घनस्तत्रविधिः पदे

1.54.19

प्रोच्यते विषमं त्वाद्यं समे द्वे च ततः परम् ।
विशोध्यं विषमादन्त्याद्धनं तन्मूलमुच्यते

1.54.20

त्रिघ्नाद्भजन्मूलकृत्या समं मूले न्यसेत्फलम् ।
तत्कृतित्वेन निहतान्निघ्नीं चापि विशोधयेत्

1.54.21

घनं च विषमादेवं घनमूलं मुर्हुभवेत् ।
अन्योन्यहारनिहतौ हरांशौ तु समुच्छिदा

1.54.22

लवा लवघ्नाश्च हरा हरघ्ना हि सवर्णनम् ।
भागप्रभागे विज्ञेयं मुने शास्रार्थचिन्तकैः

1.54.23

अनुबन्धे ऽपवाहे चैकस्य चेदधिकोनकः ।
भागास्तलस्थहारेण हरं स्वांशाधिकेन तान्

1.54.24

ऊनेन चापि गुणयेद्धनर्णं चिन्तयेत्तथा ।
कार्यस्तुल्यहरां शानां योगश्चाप्यन्ततो मुने

1.54.25

अहारराशौ रूप्यं तु कल्पयेद्धरमप्यथा ।
अंशाहतिश्छेदघातहृद्भिन्नगुणने फलम्

1.54.26

छेदं चापि लवं विद्वन्परिवर्त्य हरस्य च ।
शेषः कार्यो भागहारे कर्तव्यो गुणनाविधिः

1.54.27

हारांशयोः कृती वर्गे घनौ घनविधौ मुने ।
पदसिद्ध्यै पदे कुर्यादथोरवं सर्वतश्च रवम्

1.54.28

छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम् ।
ऋणं स्वं स्वमृणं कुर्यादृश्ये राशिप्रसिद्धये

1.54.29

अथ स्वांशाधिकोने तु लवाढ्यो नो हरो हरः ।
अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवत्

1.54.30

उद्दिष्टाराशिः संक्षिप्तौ हृतोंऽशै रहितो युतः ।
इष्टघ्नदृष्टेनैतेन भक्तराशिरनीशितः

1.54.31

योगोन्तरेणोनयुतोद्वितोराशीतसंक्रमे ।
राश्यन्तरहृतं वर्गोत्तरं योसुतश्च तौ

1.54.32

गजग्रीष्टकृतिर्व्यैका दलिता चेष्टभाजिता ।
एको ऽस्य वर्गो दलितः सैको राशिः परो मतः

1.54.33

द्विगुणेष्टहृतं रूपं श्रेष्ठं प्राग्रूपकं परम् ।
वर्गयोगान्तरे व्येके राश्योर्वर्गोस्त एतयोः

1.54.34

इष्टवगेकृतिश्चेष्टघनोष्टग्रौ च सौककौ ।
एषीस्यानामुभे व्यक्ते गणिते व्यक्तमेव च

1.54.35

गुणघ्नमूलोनयुतः सगुणार्द्धे कृतं पदम् ।
दृष्टस्य च गुणार्द्धो न युतं वर्गीकृतं गुणः

1.54.36

यदा लवोनपुम्राशिर्दृश्यं भागोनयुग्भुवा ।
भक्तं तथा मूलगुणं ताभ्यां साध्योथ व्यक्तवत्

1.54.37

प्रमाणेच्छे सजातीये आद्यन्ते मधअयगं फलम् ।
इच्छघ्नमाद्यहृत्सेष्टं फलं व्यस्ते विपर्ययात्

1.54.38

पञ्चरास्यादिके ऽन्योन्यपक्षं कृत्वा फलच्छिदाम् ।
बहुराशिवधं भक्ते फलं स्वल्पवधेन च

1.54.39

इष्टकर्मवधेमूलं च्युतं मिश्रात्कलान्तरे ।
मानघ्नकालश्चातीतकालाघ्नफलसंहृताः

1.54.40

स्वयोगभक्तानिघ्नाः स्युः संप्रयुक्तदलानि च ।
बहुराशिपलात्स्वल्पराशिमासफलं बहु

1.54.41

चेद्राशिविवरं मासफलान्तरहृतं च यः ।
क्षेपा मिश्रहताः क्षेपोयोगभक्ताः फलानि च

1.54.42

भजेच्छिदाएंशैस्तैर्मिश्रै रूपं कालश्च पूर्तिकृत् ।
पूर्णोगच्छेत्समेध्यव्येसमेवर्गोर्द्धितेत्यतः

1.54.43

व्यस्तं गच्छतं फलं यद्गुणवर्गं भचहि तत् ।
व्येकं व्येकगुणाप्तं च प्राध्नं मानं गुणोत्तरे

1.54.44

भुजकोटिकृतियोगमूलं कर्णश्च दोर्भवेत् ।
श्रुतिकृत्यन्तरपद कोटिर्दोः कर्णवर्गयोः

1.54.45

विंवरात्तत्कर्णपदं क्षेत्रे त्रिचतुरस्रके ।
राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः

1.54.46

वर्गयोगोथ योगान्तहॄन्तिर्वर्गान्तरं भवेत् ।
व्यास आकृतिसंक्षण्णोव्यासास्यात्परिधिर्मुने

1.54.47

ज्याव्यासयोगविवराहतमूलोनितो ऽर्द्धितः ।
व्यासः शरः शरोनाञ्च व्यासाच्छरगुणात्पदम्

1.54.48

द्विघ्नं जीवाथ जीवार्द्धवर्गे शरहृते युते ।
व्यासोष्टतेभवेदेवं प्रोक्तं गणितकोविदैः

1.54.49

चापोननिघ्नः परिधिः प्रगङ्लः परिधेः कृते ।
तुर्यांशेन शरध्नेनाघेनिनाधं चतुर्गणम्

1.54.50

व्यासध्नं प्रभजेद्विप्र ज्या काशं जायते स्फुटा ।
ज्याङ्घ्रीषुध्नोवृत्तवर्गोबग्धिघ्नव्यासाढ्यमौर्विहृत्

1.54.51

लब्धोनवृत्तवर्गाद्रिपदेर्धात्पतिते धनुः ।
स्थूलमध्यापृवन्नवेधो वृत्ताङ्काशेषभागिकः

1.54.52

वृत्ताङ्गांशकृतिर्वेधनिप्रीयनकरामितौ ।
वारिव्यासहतं दैर्ध्यंवेधाङ्गुलहतं पुनः

1.54.53

खरवेन्दुरामविहतं मानं द्रोणादिवारिणः ।
विस्तारायामवेधानांमङ्गुल्योन्यनाडिघ्नाः

1.54.54

रसांकाभ्राब्धिभिर्भक्ता धान्ये द्रोणादिकामितिः ।
उत्सेधव्यासदैर्ध्याणामङ्गुल्यान्यस्य नो द्विज

1.54.55

मिथोघ्नाति भजेत्स्वाक्षेशैर्द्रेणादिमितिर्भवेत् ।
विस्ताराद्यं गुलान्येवं मिथोघ्नान्यपसांभवेत्

1.54.56

वाणेभमार्गणैर्लब्धं द्रोणाद्यं मानमादिशेत् ।
दीपशङ्कुतलच्छिद्रघ्नः शङ्कुर्भैवंभवेन्मुने

1.54.57

नरोन दीपकशिखौच्यभक्तो ह्यथ भोद्वने ।
शङ्कौनृदीपाधश्छिद्रघ्नैर्दीपौच्च्यं नरान्विते

1.54.58

विंशकुदीपौच्चगुणाच्छाया शङ्कूद्धृता भवेत् ।
दीपशङ्क्वन्तरं चाथ च्छायाग्रविवरघ्नभा

1.54.59

मानान्तरद्रुद्भूमिः स्यादथोभूनराहतिः ।
प्रभाप्ता जायते दीपशिखौच्च्यं स्यात्त्रिराशिकात्

1.54.60

एतत्संक्षेपतः प्रोक्तं गणिते परिकर्मकम् ।
ग्रहमध्यादिकं वक्ष्ये गणिते नातिविस्तरान्

1.54.61

युगमानं स्मृतं विप्र खचतुष्करदार्णवाः ।
तद्दशांशास्तु चत्वारः कृताख्यं पादमुच्यते

1.54.62

त्रयस्रेता द्वापरः द्वौ कलिरेकः प्रकीर्तितः ।
मनुकृताब्दसहिता युगानामेकसप्ततिः

1.54.63

विधेर्द्दिने स्युर्विप्रेन्द्र मनवस्तु चतुर्दश ।
तावत्येव निशा तस्य विप्रेन्द्र परिकीर्तिता

1.54.64

स्वयंभुवा शरगतानब्दान्संपिण्ड्य नारद ।
खचरानयनं कार्यमथवेष्टयुगादितः

1.54.65

युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ।
पूजार्किगुरुशुक्राणां भगणापूर्वपापिनाम्

1.54.66

इन्दोरसाग्नित्रिषु सप्त भूधरमार्गणाः ।
दस्रत्र्याष्टरसांकाश्विलोचनानि कुजस्य तु

1.54.67

बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः ।
बृहस्पतेः खदस्राक्षिवेदस्रङ्हूयस्तथा

1.54.68

शितशीघ्रस्य यष्णसत्रियमाश्विस्वभूधराः ।
शनेर्भुजगषट्पचरसवेदनिशाकराः

1.54.69

चन्द्रोञ्चस्याग्निशून्याक्षिवसुसर्पार्णवा युगे ।
वामं पातस्य च स्वग्नियमाश्विशिखिदस्रकाः

1.54.70

उदयादुदयं भानोर्भूमैः साचेन वासराः ।
वसुव्द्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे

1.54.71

षड् वहित्रिहुताशाङ्कतिथयश्चाधिमासकाः ।
तिथिक्षयायमार्थाक्षिद्व्यष्टव्योमशराश्विनः

1.54.72

रवचतुष्का समुद्राष्टकुर्पचरविमासकाः ।
षट्त्र्यग्निवेदग्निपञ्चशुभ्रांशुमासकाः

1.54.73

प्रागातेः सूर्यमन्दस्य कल्पेसप्ताष्टवह्नयः ।
कौजस्य वेदस्वयमा बौधस्याष्टर्तुवह्नयः

1.54.74

रवरवरन्ध्राणि जैवस्य शौक्रस्यार्धगुणेषवः ।
गोग्नयः शनिमन्दस्य पातानामथवा मतः

1.54.75

मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ।
कृताद्रिचन्द्राजैवस्य रवैकस्याग्निरवनन्दकाः

1.54.76

शनिपातस्य भगणाः कल्पे यमरसर्तवः ।
वर्तमानयुगे पानावत्सराभगणाभिधाः

1.54.77

मासीकृतायुता मासैर्मधुशुक्लादिभिर्गतैः ।
पृथक्त्थासिधिमासग्रासूर्यमासविभाजिताः

1.54.78

अथाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः ।
द्विस्थास्तितिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः

1.54.79

लथोनरात्रिरहितालङ्कार्यामर्द्धरात्रिकाः ।
सावनोद्यूगसारर्कादिर्दिनमासाब्दयास्ततः

1.54.80

सप्तिभिः क्षपितः शेषः मूर्याद्योवासरेश्वरः ।
मासाब्ददिनसंख्यासंद्वित्रिघ्नं रूपसंयुतम्

1.54.81

सप्तोर्द्धनावशेषौ तौ विज्ञेयौ मासवर्षपौ ।
स्नेहस्य भगणाभ्यस्तो दिनराशिः कुवासरैः

1.54.82

विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् ।
एवं ह्यशीघ्रमन्दाञ्चये प्रोक्ताः पूर्वपापिनः

1.54.83

विलोमगतयः पातास्तद्वञ्चक्राष्विशोधिताः ।
योजनानि शतान्यष्टौ भूकर्णौं द्विगुणाः स्मृतः

1.54.84

तद्वर्गतो दशगुणात्पद भूपरिधिर्भवेत् ।
लंबज्याघ्नस्वजीवाप्तः स्फुटो भूपरिधिः स्वकः

1.54.85

तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता ।
कलादितत्फलं प्रार्च्याः ग्रहेभ्यः परिशोधयेत्

1.54.86

रेखाप्रतीचिसंस्थाने प्रक्षिपेत्स्युः स्वदेशतः ।
राक्षसातपदेवौकः शैलयोर्मध्यसूत्रगाः

1.54.87

अवन्तिकारोहतिकं तथा सन्निहितं सरः ।
वारप्रवृत्तिवाग्देशे क्षयार्द्धेभ्यधिको भवेत्

1.54.88

तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् ।
इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम्

1.54.89

गते शोद्ध्यं तथा योज्यं गम्ये तात्कालिको ग्रहः ।
भचक्रलिप्ताशीत्यंशः परमं दक्षिणोत्तरम्

1.54.90

विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः ।
तत्र वासं द्विगुणितजीवस्रिगुणितं कुजः

1.54.91

बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम् ।
राशिलिप्ताष्टमो भागः प्रथमं ज्यार्द्धमुच्यते

1.54.92

ततो द्विभक्तलब्धोनमिश्रितं तद्द्वितीयकम् ।
आद्येनैव क्रमात्पिण्डान्भक्ताल्लब्धोनितैर्युतान्

1.54.93

खण्डकाः स्युश्चतुर्विशा ज्यार्द्धपिण्डाः क्रमादमी ।
परमा पक्रमज्या तु सप्तरन्ध्रगुणेन्दवः

1.54.94

तद्गुमज्या त्रिजिवाप्ता तञ्चापं क्रान्तिरुच्यते ।
ग्रहं संशोध्य मन्दोञ्चत्तथा शीघ्नाद्विशोध्य च

1.54.95

शेषं कन्दपदन्तस्माद्भुजज्या कोटिरेव च ।
गताद्भुजज्याविषमे गम्यात्कोटिः पदे भवेत्

1.54.96

समेति गम्याद्वाहुदज्या कोटिज्यानुगता भवेत् ।
लिप्तास्तत्त्वयमैर्भक्ता लब्धज्यापिण्डकं गतम्

1.54.97

गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः ।
तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके

1.54.98

स्यात्क्रमज्याविधिश्चैवमुत्क्रमज्यागता भवेत् ।
लिप्तास्तत्त्वयमैर्भक्ता लब्धज्या पिण्डकं गतम्

1.54.99

गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः ।
तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके

1.54.100

स्यात्क्रमज्याविधिश्चैवमुक्रमज्यास्वपिस्मृतः ।
ज्यां प्रोह्य शेषं तत्त्वताश्वि हॄन्तं तद्विवरोद्धृम्

1.54.101

संख्यातत्त्वाश्विसंवर्ग्यसंयोज्यं धनुरुच्यते ।
रवेर्मन्दपरिध्यंशा मनवः शीतगोरदाः

1.54.102

युग्मान्ते विषमान्ते तुनखलिप्तोनितास्तयोः ।
युग्मान्तेर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः

1.54.103

ओजेद्व्यगा च सुयमारदारुद्रागजाब्धयः ।
कुजादीनामतः शौघ्न्यायुग्मान्तेर्थाग्निदस्रकाः

1.54.104

गुणाग्निचन्द्राः खनगाद्विरसाक्षीणि गो ऽग्रयः ।
ओजान्ते द्वित्रियमताद्विविश्वेयमपर्वताः

1.54.105

खर्तुदस्नाविपद्वेदाः शीघ्नकर्मणि कीर्तिताः ।
ओजयुग्मान्तरगुणाभुजज्यात्रिज्ययोद्धृताः

1.54.106

युग्मवृत्तेधनर्णश्यादोजादूने ऽधिके स्फुटम् ।
तद्गुणे भुजकोटिज्येभगणांशविभाजिते

1.54.107

तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् ।
शैऽयकोटिफलं केन्द्रे मकरादौ धनं स्मृतम्

1.54.108

संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् ।
तद्बाहुफलवर्गैक्यान्मूलकर्णश्चलाभिधः

1.54.109

त्रिज्याभ्यस्तं भुजफलं मकरादौ धनं स्मृतम् ।
संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम्

1.54.110

तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः ।
त्रिज्याभघ्यस्तं भुजफलं पलकर्णविभाजितम्

1.54.111

लब्धस्य चापं लिप्तादि फलं शैध्र्यमिदं स्मृतम् ।
एतदादौ कुजादीनां चतुर्थे चैव कर्मणि

1.54.112

मान्द्यं कर्मैकमर्केन्द्वोर्भौन्द्वोर्भौंमादीनामाथोच्यते ।
शैर्ध्यं माद्यं पुनर्मान्द्यं शैर्घ्यं चत्वार्यनुक्रमात्

1.54.113

अजा दिकेन्द्रे सर्वेषां मान्द्ये शैर्घ्ये च कर्मणि ।
धनं ग्रहाणां लिप्तादि तुलादावृणमेव तत्

1.54.114

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिविभाजिताः ।
भचक्रकलिकाभिस्तु लिप्ताः कार्या ग्रहेर्ऽकवत्

1.54.115

ग्रहभक्तः फलं कार्यं ग्रहवन्मन्दकर्मणि ।
कर्कादौ तद्धनं तत्र मकरादावृणं स्मृतम्

1.54.116

दोर्ज्योत्तरगुणाभुक्तिस्तत्त्वनेत्रोद्धृता पुनः ।
स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृताःकलाः

1.54.117

मन्दस्फुटकृता भुक्तिः शीघ्नोच्चभुक्तितः ।
तच्छेषं विवरेणाथ हन्यात्रिज्याङ्ककर्णयोः

1.54.118

चक्रकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् ।
ऋणमूने ऽधिके प्रोह्य शेषं वक्रगतिर्भवेत्

1.54.119

कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टभिः ।
शररुद्रैश्चतुर्यांशुकेन्द्रांशेर्भूसुतादयः

1.54.120

वक्रिणश्चक्रशुद्धैस्तैरंशैरुजुतिवक्रताम् ।
क्रमज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता

1.54.121

त्रिज्यागुणा दिनव्यासभक्ता चापं च शत्रवः ।
तत्कार्मुकमुदक्रान्तौ धनहीनो पृथक्क्षते

1.54.122

स्वाहोरात्रचतुर्भागेदिनरात्रिदले स्मृते ।
याम्यक्रान्तौ विपर्यस्ते द्विगुणैते दिनक्षये

1.54.123

भभोगो ऽष्टशतीर्लिप्ताः स्वाशिवशैलोस्तथात्तिथेः ।
ग्रहलिप्ता भगाभोगाभानि भुक्त्यादिनादिकम्

1.54.124

रवीन्दुयोगलिप्तास्तु योगाभभोगभाजिताः ।
गतगम्याश्च षष्टिघ्ना भुक्तियोगाप्तनाडिकाः

1.54.125

अर्केनचन्द्रलिप्तास्तु तिथयो भोगभाजिताः ।
गतगम्याश्च षष्टिघ्ना नातोभुक्ततरोद्धृताः

1.54.126

तिथयः शुक्लप्रतिपदो द्विघ्नाः सैका न गाहताः ।
शेषं बवो बालवश्च कौलवस्तैतिलो गरः

1.54.127

वणिजोभ्रे भवेद्विष्टिः कृष्णभूतापरार्द्धतः ।
शकुनिर्नागाश्च चतुष्पद किंस्तुघ्नमेव च

1.54.128

शिलातलेवसंशुद्धे वज्रलेपेतिवासमे ।
तत्र शकाङ्गुलैरिष्टैः सममण्डलमालिखेत्

1.54.129

तन्मध्ये स्थापयेच्छङ्कुं कल्पना द्द्वादशाङ्गुलम् ।
तच्छायाग्रं स्पृशेद्यत्र दत्तं पूर्वापराह्नयोः

1.54.130

तत्र बिन्दुं विधायोभौ वृत्ते पूर्वापराभिधौ ।
तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तत

1.54.131

याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा ।
दिग्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि

1.54.132

चतुरस्तं बहिः कुर्यात्सूत्रैर्मध्याद्विनिःसृतैः ।
भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा मता

1.54.133

प्राङ्क्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् ।
भमण्डलं च विषुवन्मण्डलं परिकीर्तितम्

1.54.134

रेखा प्राच्यपरा साध्या विषुवद्भाग्रया तथा ।
इष्टच्छायाविषुवतोर्मध्येह्यग्राभिधीयते

1.54.135

शङ्कुच्छायाकृतियुतेर्मूलं कर्ंणो ऽय वर्गतः ।
प्रोह्य शङ्कुकृते मूलं छाया शेकुविपर्ययात्

1.54.136

त्रिंशत्कृत्योयुगे भानां चक्रं प्राक्परिलंबते ।
तद्गुणाद्भदिनैर्भक्त्या द्युगणाद्यदवाप्यते

1.54.137

तद्दोस्रिव्नादशाध्नांशा विज्ञेया अयतानिधाः ।
तत्संस्वकृताद्धहात्कान्तिच्छायावरदलादिकम्

1.54.138

शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्कभाजिते ।
लंबाक्षज्ये तयोश्छाये लंबाक्षौ दक्षिमौ सदा

1.54.139

साक्षार्कापक्रमयुतिर्द्दिक्साम्येन्तरमन्यथा ।
शेषह्यानांशाः सूर्यस्य तद्वाहुज्याथ कोटिजाः

1.54.140

शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाङ्क्रमम् ।
कोटीज्ययाविभज्याप्ते छायाकर्माबहिर्द्दले

1.54.141

स्वाक्षार्कनतभागानां दिक्साम्ये ऽतरमन्यथा ।
दिग्भेदोपक्रमः शेषस्तस्य ज्या त्रिज्यया हता

1.54.142

परमोपक्रमज्याप्त चापमेपादिगो रविः ।
कर्कादौ प्रोह्यचक्रार्द्धात्तुलादौ भार्द्धसंयुतात्त

1.54.143

मृगादौ प्रोह्यचक्रात्तु मध्याह्नेर्ऽकः स्फुटो भवेत् ।
तन्मन्दमसकृद्धामंफलं मध्यो दिवाकरः

1.54.144

ग्रहोदयाः प्राणहताः खखाष्टैकोद्धता गतिः ।
चक्रासवो लब्धयुती स्व्रहोरात्रासवः स्मृताः

1.54.145

त्रिभद्युकर्णार्द्धगुणा स्वाहोरात्रार्द्धभाजिताः ।
क्रमादेकद्वित्रिभघाज्या तच्चापानि पृथक् पृथक्

1.54.146

स्वाधोधः प्रविशोध्याथ मेषाल्लङ्कोदयासवः ।
स्वागाष्टयोर्थगोगैकाः शरत्र्येकं हिमांशवः

1.54.147

स्वदेशचरखण्डोना भवन्तीष्टोदयासवः ।
व्यस्ताव्यस्तैर्युतास्तैस्तैः कर्कटाद्यास्ततस्तु यः

1.54.148

उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः ।
गतभोग्यासवः कार्याः सायनाःस्वेष्टभास्कराः

1.54.149

स्वोदयात्सुहता भक्ता भक्तभोग्याः स्वमानतः ।
अभिष्टधटिकासुभ्यो भोग्यासून्प्रविशोधयेत्

1.54.150

तद्वदेवैष्यलग्नासूनेवं व्याप्तास्तथा क्रमात् ।
शेषं त्रिंशत्क्रमाद्ध्यस्तमशुद्धेन विभाजितम्

1.54.151

भागयुक्तं च हीनं च व्ययनांशं तनुः कुजे ।
प्राक्पश्चान्नतनाडीभ्यस्तद्वल्लङ्कोदयासुभिः

1.54.152

भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ।
भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च

1.54.153

सपिण्ड्यान्तरलग्नासूनेवं स्यात्कालसाधनम् ।
विराह्वर्कभुजांशाश्चेदिन्द्राल्पाः स्याद् ग्रहो विधोः

1.54.154

तेषां शिवघ्नाः शैलाप्ता व्यावर्काजः शराएङ्गुलैः ।
अर्कं विधुर्विधुं भूभा छादयत्यथा छन्नकम्

1.54.155

छाद्यछादकमानार्धं शरोनं ग्राह्यवर्जितम् ।
तत्स्वच्छन्नं च मानैक्यार्द्धांशषष्टं दशाहतम्

1.54.156

छन्नघ्नमस्मान्मूलं तु खाङ्गोनग्लौवपुर्हृतम् ।
स्थित्यर्द्धं घटिकादिस्याद्व्यङ्गबाह्वंशसंमितैः

1.54.157

इष्टैः पलैस्तदूनाढ्यं व्यगावूनेर्ऽकषङ्गुणः ।
तदन्यथाधिके तस्मिन्नेवं स्पष्टे सुखान्त्यगे

1.54.158

ग्रासेन स्वाहते च्छाद्यमानामे स्युर्विशोपकाः ।
पूर्णान्तं मध्यमत्र स्याद्दर्शान्तेञ्जं त्रिभोनकम्

1.54.159

पृथक् तत्क्रान्त्यक्षभागसंस्कृतौ स्युर्नतांशकाः ।
तद्दिघ्नांशकृतिद्व्यूनार्द्धार्कयुता हरिः

1.54.160

त्रिभानाङ्गार्कविश्लेषांशो ःंशोनघ्नाः ।
पुरन्दराः
हराप्तालंबनं स्वर्णवित्रिभेर्काधिकोनके

1.54.161

विश्वघ्नलंबनकलाढ्योनस्तु तिथिवद्यगुः ।
शरोनोलंबनषडघ्ने तल्लवाढ्योनवित्रिभात्

1.54.162

नतांशास्तजांसाने प्राधृतस्तद्विवर्जित ।
शब्देन्दुलिप्तैः षड्भिस्तु भक्तानतिर्नतिर्नतांशदिक्

1.54.163

तयोर्नाट्योहभिन्नैकदिक् शरः स्फुटतां व्रजेत् ।
ततश्छन्नस्थितिदले साध्ये स्थित्यर्द्धषट्त्रिभिः

1.54.164

अंशस्तैर्विन्त्रिभन्द्विस्थंलंबनेतयोः पूर्ववत् ।
संस्कृतेस्ताभ्यां स्थित्यर्द्धे भवतः स्फुटे

1.54.165

ताभ्यां हीनयुतो मध्यदर्शः कालौ मुखान्तगौ ।
अर्काद्यूना विश्व ईशा नवपञ्चदशांशकाः

1.54.166

कालांशास्तैरूनयुक्ते रवौ ह्यस्तोदयौ विधोः ।
दृष्ट्वा ह्यादौ खेटबिंबं दृगौञ्च्ये लंबमीक्ष्य च

1.54.167

तल्लुंबपापबिंबान्तर्दृणौ व्याप्तरविघ्नभाः ।
अस्ते सावयवा ज्ञेया गतैष्यास्तिथयो बुधैः

1.54.168

व्यस्ते युक्तान्तिभागैश्च द्विघ्नतिथ्याहृता स्फुटम् ।
संस्कारदिकलंबनमङ्गुलाद्यं प्रजायते

1.54.169

सेष्वशोनाः सितं तिथ्यो बलन्नाशोन्नतं विधोः ।
शृङ्गमन्यत्र उद्वाच्यं बलनाङ्गुललेखनात्

1.54.170

पञ्चत्वे गोङ्कविशिखाः शेषकर्णहताः पृथक् ।
विकृज्यकाङ्गसिद्धाग्निभक्तालब्धोनसंयुताः

1.54.171

त्रिज्याधिकोने श्रवणे वपूंषि स्युर्हृताः कुजात् ।
ऋज्वोरनृज्वोर्विवरं गत्यन्तरविभाजितम्

1.54.172

वक्रर्त्वोर्गतियोगामं गम्येतीते दिनादिकम् ।
खनत्यासंस्कृतौव्वेषूदक्साम्येन्येन्तरं युतिः

1.54.173

याम्योदक्खेटविवरं मानौक्याद्धोल्पकं यदा ।
यदा भेदोलंबनाद्यं स्फुटार्थं सूर्यपर्ववत्

1.54.174

एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा ।
तयुते मण्डले क्रान्त्यौ तुल्यत्वे वै धृताभिधः

1.54.175

विपटीतायनगतौ चन्द्राकारै क्रान्तिलिप्तिकाः ।
समास्तदा व्यतीपातो भगणार्द्धे तपोयुतौ

1.54.176

भास्करेद्वोर् भचक्रान्त चक्रार्द्धावधिसंस्थयोः ।
दृक्कल्पसाधितांशादियुक्तयोः स्वावपक्रमौ

1.54.177

अथोजपदगम्येन्दोः क्रान्तिर्विक्षेपसंस्कृताः ।
यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा

1.54.178

न्यूना चेत्स्यात्तदा भावी वामं युग्मपदस्य च ।
यदान्यत्वं विधोः क्रान्तिः क्षेपाच्चेद्यदि शुद्ध्यति

1.54.179

क्रान्त्योर्जेत्रिज्ययाभिस्ते परमायक्रमोद्धते ।
तच्चापान्तर्मर्द्धवायोर्ज्यभाविनशीतगौ

1.54.180

शोध्यं चन्द्राद्गते पाते तत्सूयगतिताडितम् ।
चन्द्रभुक्त्या हृतं भानौ लिप्तादिशशिवत्फलम्

1.54.181

तदूच्छशाङ्कपातस्य फलं देयं विपर्ययात् ।
कर्मैतदसकृत्तावत्क्रान्ती यावत्समेतयोः

1.54.182

क्रान्त्योः समत्वे पातो ऽथ प्रक्षिप्तांशोनिते विधौ ।
हीनेर्ऽद्वरात्रघिकाघतो भावी तात्कालिके ऽधिका

1.54.183

स्थिरीकृतार्द्धरा त्रार्द्धौ द्वयोर्विवरलिप्तकाः ।
षष्टिश्चाचन्द्रभुक्ताप्ता पातकालस्य नाडिकाः

1.54.184

रवीन्द्वोर्मानयोगार्द्धं षष्ट्या संगुण्य भाजयेत् ।
तयोर्भुक्तयन्तरेणाप्तं स्थित्यमर्द्धां नाडिकादिवत्

1.54.185

पातकालः स्फुटो मध्यः सो ऽपि स्थित्यर्द्धवर्जितः ।
तस्य संभवकालः स्यात्तत्संयोगेक्तसंज्ञकः

1.54.186

आद्यन्तकालयोर्मध्ये कालो ज्ञेयो ऽतिदारुणः ।
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः

1.54.187

इत्येतद्गणितो किञ्चित्प्रोक्तं संक्षेपतो द्विज ।
जातकं वाच्मि समयाद्राशिसंज्ञापुरःसरम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc