नारद पुराण · अध्याय 1.55
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे ज्योतिषवर्णनं नाम चतुःपञ्चाशत्तमो ऽध्यायः
सनन्तन उवाच
मूर्द्धास्यबाहुहृत्क्रोडान्तर्बस्तिव्यञ्जसोनखः ।
जानुजङ्घाङ्घ्नियुगलं कालाङ्गानि क्रियादयः
भौमास्फुजिबुधेन्दुश्च रविसौम्यसिताः कुजः ।
गुरुमन्दार्किगुरवो मेषादीनामधीश्वराः
होरे विषमभेर्केदोः समये शशिसूर्ययोः ।
आदिपञ्चनवाधीशाद्रेष्काणेशाः प्रकीर्तिताः
पञ्चेष्टाष्टाद्रिपञ्चांशा कुजार्कीज्यज्ञशुक्रगाः ।
ओजे विपर्ययाद्युग्मे त्रिशांशेशाः समीरिताः
क्रियणतौलिकर्काद्या मेषादिषु नवांशकाः ।
स्वभाद्द्वादशभागेशाः षर्ड्गं राशिपूर्वकम्
गोजाश्च कर्कयुग्मेन रात्र्याख्या पृष्टकोदयाः ।
शेषा दिनाख्यास्तूभयं तिमिः क्रूरः सौम्यः पुमान्
पुमान् स्री च क्लीबश्चरस्थिरद्विःस्वभावकाः ।
मेषाद्याः पूर्वतोदिक्स्थाः स्वस्वस्थानचरास्तथा
अजोक्षेणाङ्गनाकीटझषजूका इनादितः ।
उच्चानि द्वित्रिमनुयुक्तिथीषुभनखांशकैः
तत्तत्सप्तमनीचानि प्राङ्मध्यान्त्यांशकाः क्रमात् ।
वर्गोत्तमाश्चराधेषु भावाद्द्वादश मूर्तिमान्
सिंहोक्षाविस्रश्चतौ लिकुभाः सूर्यात्रिकोणभम् ।
चतुरस्रं तूर्यमृत्युत्रिकोणं नवपञ्चमम्
रिःफआष्टषट्कं त्रिकभं केन्द्रं प्राक्तुर्यसप्तखम् ।
नृपादः कीटपशवो बलाढ्याः केन्द्रगाः क्रमात्
केन्द्रात्परं पणफरमापोक्लिममतः परम् ।
रक्तः श्वेतः शुकनिभः पाटलो धूम्रपाण्डुरौ
चित्रः कृष्णः पीतपिङ्गौ बभ्रुः स्वच्छः प्रभाक्रियात् ।
साम्याशाख्यप्लवत्वं स्याद्द्वितीये वशिरर्कभात्
कालात्मार्के मनश्चद्रः कुजः सत्वं वचोबुधः ।
जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः
नृपौ रवीन्दू नेतासृक् कुमारो ज्ञः कवीज्यकौ ।
सचिवो सूर्यजः प्रेष्यो मतो ज्योतिर्विदां वरैः
ताम्रशुक्लरक्तहरित्पीतचित्रासिता रवेः ।
वर्णा व अव्यहहरीद्रा शचीकौधिपारवेः
रविशुक्रारराह्वर्केन्दुविदीज्या दिगीश्वराः ।
क्षीणेन्द्वर्काररविजाः पापा पापयुतो बुधः
क्लिबौ बुधार्की शुक्रेन्दू स्रियौ शेषा नराः स्मृताः ।
शिखिभूमिपयोवारिवासिनो भूसुतादयः
कवीज्यौ कुजसूर्यौं च वेदो ज्ञो वर्णपाः क्रमात् ।
सौराएंऽत्यजाधिपः प्रोक्तो राहुर्म्लेच्छाधिपस्तथा
चन्द्रार्कजीवाज्ञसितौ कुजार्की सात्त्विकादिकाः ।
देवतेन्द्वग्निरैवलाभूकोसखायोपराधिपाः
वस्रं स्थलं नवं वह्निकहतं मद्यदं तथा ।
स्फुटितं रवितस्तांम्रं तारे ताम्रपुनिस्तथा
हेमकांस्यायसी त्र्यंशैःशिशिराद्याः प्रकीर्तिताः ।
सौरशुक्रारचन्द्रज्ञगुरुषूद्यत्सु च क्रमात्
त्र्याशत्रिकोणतुर्याष्टसप्तमान्येन वृद्धितः ।
सौरेज्यारापरे पूर्णे क्रमात्पश्यन्ति नारद
अयनक्षणघस्रर्तुमासार्द्धशरदो रवेः ।
कटुतिक्तक्षारमिश्रमधुराम्लकषायकाः
त्रिकोणात्सांत्यधाधर्मायुः सुखखोद्यपः सुहृत् ।
जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराः क्रमादमी
वीन्द्वर्का विकुजेन्द्वर्काः सुहृदो ऽन्येरवेर्धृताः ।
मिथोधनव्ययायत्रिबन्धुव्यापारगः सुहृत्
ध्येकानुभक्ता मयान् ज्ञात्वा मिश्रीदीत्सहजान्मुने ।
मत्कालोधिसुहृन्मित्रपूर्वकान्कल्पयेत्पुनः
स्वोच्चत्रिकोणगेहा प्रनवांशैस्थानजं बलम् ।
दिक्षु सौम्येज्ययोः सूर्यारयोः सौरे सिताब्जयोः
रवाहृतूदगनेन्ये तु वक्रि च समागमे ।
उत्तरस्था दीप्तकराश्चेष्टा वीर्ययुता मताः
निशीन्दुकुजसौराश्च सर्वदा क्षोह्नि चापरे ।
क्रूराः कृष्णे सिते सौम्याः मतं कालबलं बुधैः
सौरारज्ञेज्यशुक्रेन्दुसूर्याधिक्यं परस्परम् ।
पापास्तु बलिनः सौम्या विवक्षाः कण्टकोपगे
क्लीबे तदूशनाद्वापि चन्द्रार्कांशसमं जनुः ।
स्वांशे पापाः परांशस्थाः सौम्यालग्नं वियोनिजम्
निर्बलं च तदादेश्यं वियोनेर्जन्म पण्डितैः ।
शीर्षं वक्रगले पादावंसौ पृष्टमुरस्तथा
पार्श्वे कुक्षी त्वपानाङ्घ्री मेढ्रमुष्कौ तथा स्फिजौ ।
पुच्छं चतुष्पदाङ्गेषु मेषाद्या राशयः स्मृताः
लग्नांशाद्ग्रहयुग्दृष्ट्वा वर्णान्बलयुताद्वदेत् ।
दृक्समानप्रमाणांश्च इष्टे रेखां स्मरस्थितैः
खगत्र्यंशे बलाग्नेगे चरमांशे ग्रहान्विते ।
वांशे स्थलांबुजः सौरेर्द्वीक्षायोगभवा द्विजाः
विप्रलैस्तनुजचन्द्रेज्यार्कैस्तरूणां जनिं वदेत् ।
स्थलांबुभेन्दोशकृतश्चेतरेषामुदाहृतः
स्थलांबु च पतिः खेटो लग्नाद्यावन्मिते गृहे ।
तावन्त एव तखः स्थलजा जलजास्तथा
अन्तःसारा रवौ सौरे दुर्भगाः क्षीरिणो विधौ ।
भौमे कण्टकिनो वृक्षा ईज्ये ज्ञे सफलाफलौ
पुष्पिता भार्गवे स्निग्धाश्चन्द्रे ऽथ कटुकाः कुजे ।
अशुभर्क्षे शुभः खेटः शुभं वृक्षं कुभूमिजम्
कुर्याद्विलोमगो वापि स्वांशोक्तपरगैः समम् ।
कुजेन्दुहेतुकं स्रीणां प्रतिमासमिहार्तवम्
नेष्टस्थेज्ये ऽन्यथास्ते स्रीयुङ्क्तासन्नरेक्षिते ।
पापयुक्तेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः
शुक्रार्केन्दुजैः स्वांशस्थैरीज्य चाङ्गत्रिकोणगे ।
भवेदपत्यं विप्रेन्द्र पुंसां सद्वीर्यशालिनाम्
अस्रेर्ऽकेन्दो कुजार्की चेत्पुंस्रियोरामयप्रदौ ।
व्ययखगो युक्तौ चैकदृष्ट्या नृत्युप्रदौ तयोः
शुक्रार्क्रौ मातृपितरौ दिवा नक्तं शशीनजौ ।
मातृष्वसृपितृव्याख्यौ वा पद्मेजि समे शुभौ
पापदृष्टे शुभे क्षीणे तुङ्गे वा लग्नगेयमे ।
क्षीणेन्दुकुजसंदृष्टे मृत्युमेत्य गता ध्रुवम्
युगपद्वा पृथक्सस्थौ लग्नेन्दू पापमध्यगौ ।
यदा तदा गर्भयुता नारी मृत्युमवाप्नुयात्
लग्नांञ्चद्राच्च तुर्यस्थैः पापैर्निधनगे कुजे ।
नष्टेन्दौ कुजरव्योश्च बन्धुरिष्पगयोर्मृतिः
तन्वस्तसंस्थयोर्भौंमरव्योः शस्रभवः क्षयः ।
यन्मासाधिपतिर्नष्टस्तन्मासं संस्रवे त्यजेत्
लग्नेन्दुगैः शुभैः खेटैस्रिकोणार्थास्तभूखगैः ।
पापैस्रिषष्टलाभस्थैः सुखी गर्भो रवीक्षितः
ओजभे पुरुषांशेर्ऽकेज्येन्दुलग्नैर्बलान्वितैः ।
गुर्वकारै विषमस्थौ वा युञ्जन्म प्रवदेत्तदा
युग्मभांशस्थितैस्तैस्तु वक्रेन्दुभृगुभिस्तथा ।
यामस्थानगतैर्वाच्यं स्रियो जन्म मनीषिभिः
द्व्यङ्गस्था बुधसंदृष्टाः स्वपक्षेय मलङ्कराः ।
लग्नं विनौजभावस्थः सौरः पुञ्जन्मकृत्तथा
मिथो रवीन्दूर्ज्ञार्की वा पश्यतः समगं रविः ।
वक्रो वाङ्गविधू ओजे जज्ञौ युग्मौजसंस्थितौ
कुजेक्षितेपुमांशेदुहिता क्लीब जन्मदा ।
समे सितेन्दू ओजस्था ज्ञाराङ्गोज्या नृवीक्षितौ
लग्नेन्दुसमगौ युग्मस्थाने वा यमलङ्कराः ।
ग्रहोदयस्थान्द्यङ्गांशान्पश्यति ज्ञे स्वभागगे
त्रितयं ज्ञांशकाद्युग्मममिश्रैः सममादिशेत् ।
लग्ने चापान्त्यभागस्थे तदंशस्थबलिग्रहैः
वीर्याढ्यज्ञार्किसदृष्टैः कोशस्थावहवोगिनः ।
सितारेज्यार्कचन्द्रार्किज्ञाङ्गेशोर्केन्दवो ऽधिपाः
मासानां तत्समं वाच्यं गर्बगस्थस्य शुभाशुभम् ।
त्रिकोमे ज्ञे परैर्नष्टैर्द्विमुखाह्निकपान्वितः
अवागावाटावशुभैर्भसंधिस्थैः प्रजायते ।
वीरान्सगीश्चदष्टेध्वष्टार्कातभसंहिताः
आरार्की चेज्यभांशस्थौ सदन्तोगर्भकस्तदाः ।
खर्भेजे भुविमन्दारदृष्टे कुब्जस्तु गर्भगः ।
पर्गुर्मीने यमेद्वारैर्दष्टेथाङ्गेभघसंधिगे
पापैर्जडो विधौ गर्भः शुभदृष्टिविवर्जिते ।
मृगान्त्यगे वामनकः सौरेद्रर्कनिरीक्षिते ।
धीनयोदपगैस्त्र्यंशैः पापास्तैरसिरोह्रदाः
रवीन्दुयुक्ते सिंहेङ्गे माहेयार्किनिरीक्षिते ।
नेत्रहीना मिश्रखेटैर्दृष्टे बुद्धुदलोचनाः ।
व्ययेजो वामनयनं दक्षं सूर्यो विनाशयेत्
नेष्टा योगाः शुभैर्दृष्टाः पापाः स्युर्नात्र संशयः ।
मन्दे ऽस्ते मन्दभांशेङ्गे निषैकेब्दत्रये जनिः
द्वादशाब्दे शशिन्येवं सुतावपि विचिन्तयेत्
आधानेन्दुद्वादशांशा पापास्तद्राशिभिः पुरः
शशाङ्के जन्मभागादिद्वि घ्नमिष्टकलाः स्मृताः
पितुः परोक्षे जन्मस्यादिन्दौ लग्नमपश्यति
मध्याद्भ्रष्टेर्के विदेशस्थे जनने नारिजन्म वै ।
मन्देङ्गस्थे कुजेस्ते च ज्ञोस्फुजि मध्यगे विधौ
पापाङ्गेब्जे त्रिभागे लौ स्वायगैः सद्भिरुद्गतः ।
सूर्यस्तद्दृष्टिगो वापि ज्ञेयो ज्योतिर्विदां वरैः
चतुष्पदर्क्षगे भानौ शेर्षैबलयुतैः खगैः ।
कोशादतौ तु यमलौ जायेते मुनिसत्तम
सार्क्यारसिंहोज्ञाजांसे भांशतुत्याङ्गनालयुक् ।
लग्नमिन्दुं च सार्केन्दुं न पश्यति यदा गुरुः
सपापगोर्ऽके जायो वा परवीर्यप्रसूतिकृत् ।
पापभस्थौ पापखेटैः सूर्यार्घानत्रिकोणगौ
विदेशगः पितावृद्धः खेवा राशिवशात्यये ।
पूर्ण इण्ढौ स्वभेशेज्ञे शुभे मुव्यंवुजे तनौ
द्यूनस्थे वा विधौ यातेङ्गना नारी प्रसूयते ।
अब्धाङ्गमन्भगः पूर्णे ज्यो वा पश्यति नारद
स्वबंलग्नगः सूतिः सलिले नात्र संसयः ।
पापदृष्टे यमे गुद्यां जन्माङ्गाजव्ययस्थिते
कर्कातिलग्नगेशौरेवटे जन्माब्जवीक्षिते ।
मन्दे जन्मगते लग्ने बुधसूर्येन्दुवीक्षिते
क्रीडास्थाने देवगेहे प्यूषरे च क्रमाज्जनिः ।
श्मशाने लग्नदृगसृग्राम्यस्थानेब्जभार्गवौ
अग्निहोत्रगृहे जीवोर्ऽके भूषाभरणे गृहे ।
शिल्पालये बुधो जन्म कुर्याद्बलसमन्वितः
भासमाने सरे मार्गे स्थिरे स्वर्क्षांशगे गृहे ।
त्रिकोणगज आरार्क्योरस्ते वा सृज्यते ऽम्बया
गुरुदृष्टे तु दीर्घायुः परं च प्राप्यते पुनः ।
पापदृष्टे विधौलग्ने ऽस्तेकुजे तु विनश्यति
भवे कुजार्क्योः संदृष्टे परहस्तगतः सुखी ।
पापेद्यतायुर्भवति मासः सार्थैः परैरपि
पितृमातृगेहे जन्म तदधीशबलान्मुने ।
तरुगेहे शुभे नीचे नैकस्थदृष्टौ लग्नेन्दुः
एतल्लक्षणसंपन्ना प्रसीतिर्विजने तदा ।
मन्दर्क्षांशे विधौ तुर्ये मन्ददृष्टे ऽब्जगे ऽपि वा
मन्दार्चने वा तमसि शयनं नीचगेभुवि ।
शीर्षे पृष्टोदये जन्म तद्वदेव विनिर्दिशेत्
चन्द्रास्तसुखगः पापैर्मातुः पीडां समादिशेत् ।
जीर्णोद्धृतं गृहं मन्दे सृजि दग्धं न वा विधौ
काष्टाढ्यमदृढं सूय बहुशिल्पयुतं बुधे ।
चित्रयुक्तं नवं शुक्रे दृढे रम्ये गुरौ गृहम्
धटाजकर्क्यलिघटे पूर्वे ज्ञेज्यगृहे ह्युदक् ।
वृषे पश्चान्मृगे सिंहे दक्षिणे वसतिर्भवेत्
गृहप्राच्यादिगौ द्वौ द्वौ व्द्यङ्गाः कोणेष्वजादयः ।
पर्थङ्के वास्तुवत्पादास्रिषदङ्कान्त्यराशयः
चन्द्रागान्तरगैः खेटैः सूतिकाः समुदाहृताः ।
चक्राद्धि बहिरन्तश्च दृश्यादृश्योपरे ऽन्यथा
लग्राशयसमानाङ्गोबालिखेटंसमोपि वा ।
चन्द्रनन्दांशवद्वर्णः शीर्षाद्यङ्गविभाग युक्
शीर्षकं दक्श्रवे नासा कपोलहनवो मुखम् ।
कण्ठांसपार्श्वहृद्द्वोषः क्रोडंनाभिश्च बास्तिकाः
शिंश्नापाते च वृषणौ जघने जानुनी तथा ।
जङ्घेपादौ चोभघयत्र त्र्यंशैः समुदितैर्वदेत्
पापयुक्ते व्रणस्तस्मिन्नङ्गे लक्ष्म च तद्युते ।
स्वर्क्षांशे स्थिरयुक्ते तु नैज आगन्तुको ऽन्यथा
मन्दे ऽनिलाश्मजो भौमे विषशस्राग्निजो बुधे ।
भुजेर्ऽके काष्टपशुजो जेतुः शृङ्ग्यजयोनिजः
यस्मिन्संज्ञास्रयः खेटा अङ्गेस्युस्तत्र निश्चितम् ।
व्रणोशुभकृतः पृष्टेतनौ राशिसमाश्रिते
तिलकृन्मसकृदष्टसौम्यैर्युक्तश्च लक्ष्मवान् ।
चतुरस्रः पिङ्गदृक् च पैत्तिको ऽल्पकचो रविः
वृतो वातकफी प्राज्ञो मन्दवाक् शुभदृक् शशी ।
क्रृरदृक्तरुणो भौमः पैत्तिकश्चपलस्तथा
त्रिधानुपवृतिर्हास्यरुचिज्ञः श्लिष्टवाक्तथा ।
पिङ्गके श्लक्षणो दीर्घः कफीधीमान्गुरुर्मतः
सुवपुर्लोचनः कृष्णवक्रकेशो भृगुः सुखी ।
दीर्घः कपिलदृड्भन्दो निलीखरकचोलसः
स्नाय्वस्थिरक्तत्वक्शुक्रवसामज्जास्तु धातवः ।
मन्दार्कचन्द्रसोम्यास्पुजिज्जीवकुभुवः क्रमात्
चन्द्राङ्गपापैर्भान्त्यस्थैः सेंवुपापचतुष्टयैः ।
चक्रपूर्वापरे पापसौम्यैः कीटतनौ मृतिः
उदयास्तगतौ पापौ चन्द्रः क्रूरयुतैः शुभैः ।
न चेद्दृष्टस्तदा मृत्युर्जातस्य भवति ध्रुवम्
क्षीणे ऽब्जे व्ययगे पापैर्लग्नाष्टस्थैः शुभा न चेत् ।
केन्द्रेषु वाब्जोसंयुक्तः स्मरान्त्यमृतिलग्नगः
केन्द्राद्या हस्त सन्खेटैरदृष्टो मृत्युदस्तथा ।
षष्टेमेब्जे ऽसदृष्टेसद्यो मृत्युः शुभेक्षिते
समाष्टके मिश्रखेटैर्दृष्टे मृतिः शिशोः ।
क्षीणेब्जेङ्गे रन्ध्रकेन्दे पापे पापान्तरस्थिते
भूद्यूननिधने वाब्जे लग्ने ऽप्येवं शिशोर्मृतिः ।
पापैश्चन्द्रास्तगैर्मात्रा सार्द्धं सदृष्टिमन्तरा
शुभादृष्टे भान्त्यगेब्जे त्रिकोणोपरतैः खलैः ।
सग्नस्थे वा विधौपापैरस्तस्थैर्मृतिमाप्नुयात्
ग्रस्ते ऽब्जे ऽसद्भिरष्टस्थै सृज्यवात्मजयोर्मृतिः ।
लग्ने रवौ तु शस्रेण सवीर्यासद्भिरष्टगैः
कर्केन्द्वीज्ययुते लग्ने केन्द्रे सौम्ये च भार्गवे ।
शषैस्त्र्यरीशगैरायुरमितं भवति ध्रुवम्
वर्ङ्गोत्तमे मीनलग्ने वृषे ऽब्जे तत्त्वलिप्सिके ।
स्वतुङ्गस्थेष्वशेषेषु परमायुः प्रकीर्तितम्
शुभैर्दृष्टः सवीर्योगे केन्द्रस्थे चायुरर्थदः ।
स्वच्चोब्जे स्वर्क्षगैः सौम्यैः सवीर्येङ्गाधिपे तनौ
षष्ट्यब्दकेन्द्रसौम्येभेष्टशुद्धे सप्ततिर्गुरौ ।
मूलत्रिकोणगैः सौम्यैर्गुरो स्वोच्चसमन्विते
लग्नाधिपे बलयुतशीत्यब्दं त्वायुरीरितम् ।
सवीर्ये सत्सु केन्द्रेषु त्रिंशच्छुद्धियुते ऽष्टमे
लयेशे धर्मगेजीवेष्टस्थे क्रूरक्षिते जिताः ।
लग्नाष्टमेशावष्टस्थौ भाब्दमायुः करौ मतौ
लग्ने ऽशुभेज्यौ ग्लौदृष्टौ मृत्यौ कश्चन चाकृतिः ।
धर्माङ्गस्थेशनौ शुक्रे केन्द्रे ऽब्जे व्ययधर्मगे
शताब्दं गीष्पतौ कर्के कटकस्थसितेज्ययोः ।
लयेशेङ्गे शुभैर्हीने ऽष्टमे रवाब्धिमितं वयः
लग्ने शेष्टमगेष्टेशे तनुस्थे पञ्चवत्सरम् ।
कवीज्ययोगे सौम्याब्जौ लग्ने मृत्यौ च स्वेषवः
एतद्योगजमायुः स्यादथ स्पष्टमुदीयते ।
सूर्याधिक बले पैण्डं निसर्गाञ्च विधोर्बले
अंशायुः सबले लग्ने तत्साधनमथो शृणु ।
गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नखाः क्रमात्
नखा विधुर्द्वावङ्काश्च धृतिः स्वाक्षिखमार्गणाः
पिण्डे निसर्गे रवोच्चे नो ग्रहः षट्भाल्पको यदा ।
चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषिसंमताः
अंशोनाः शन्त्रुभे कार्या ग्रहं वक्रगतिं विना ।
मन्दशुक्तौ विनार्द्धोना ग्रहस्यास्तङ्गतस्य च
हानिद्वये ऽधिकाः कार्या यदा क्रूरस्तनौ तदा ।
विहायारीनंशाद्यैर्हन्यादायुर्लवान् भजेत्
भगणांशैर्लब्धहीनास्तेषां कार्या विचक्षणैः ।
पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः
स्पष्टास्तेंशाः खषट्त्र्यासा गुणयित्वा स्वकैर्गणैः ।
वर्षाणि शेषमर्कध्नं हारात्संमासकाः स्मृताः
तच्छेषश्च त्रिगुणितः तेनैवाप्तं दिनानि च ।
शेषे षष्ट्या हते भक्ते हारेण घटिकादिकम्
हित्वा भाज्यङ्गभागादीन्कलीकृत्य खखाक्षिभिः ।
भजेद्वर्षाणि शेषे तु गुणिते द्वादशादिभिः
द्विसप्तांशे च मासादिलग्रायुर्जायते स्फुटम् ।
अशायुषी सलग्नानां खेटानामंशका हृताः
खयुगैरायुरंशाः स्युस्तत्संस्कारं वदामि ते ।
ग्रहनलग्नं षड्रात्यं चेत्संस्कारो ऽन्यथा नहि
तदंशः स्वाग्नयो भक्ता लब्धोनोभूर्गुणो भवेत् ।
यदैकाल्यं तदास्तांशाः स्वाग्र्याप्तोना च भूर्गुणः
सौमयस्यार्द्धेन पापस्य समग्रेणेति निश्चयः ।
गुमकध्नाश्चायुरंशाः संस्कारो ऽयमुदाहृतः
आयुरंशकलाभक्ताद्विंशत्याब्दा इनाहतम् ।
शेषं द्विशतभक्तं स्युर्मासाः शेषा दिनादिकम्
लग्नायुरंशास्त्रिगुणा दिग्भिक्ता स्युः समास्ततः ।
शेषेर्ऽकादिगुणे भक्ते दिग्भर्मासादिकं भवेत्
सबलेङ्गेभतुल्याब्दैर्युतमायुर्भवेत्स्फुटम् ।
अंशद्विध्नमक्षांशं मासाः खत्र्यादिसंगुणात्
शेषा दिनादिकं योज्यं नैतत्पिण्डनिसर्गयोः ।
लग्नार्कचन्द्रमध्ये तु यो बली तद्दशा पुरा
ततः केन्द्रादिगानां तु द्वित्र्यादौ सबलस्य च ।
बह्वायुर्यो वीर्यसाम्येर्काद्युतस्य प्राक् याचकः
षड्वर्गार्द्धस्य त्रिंशस्य त्रिकोणगश्च स्मरगः ।
सप्तमासस्य तूर्यस्य चतुरस्रगतस्य च
क्रमः केन्द्रादिको ऽत्रापि द्वित्र्यादौ सबलस्य च ।
पाकपस्याब्धिनागाश्च ह्यर्णवा सहगस्य च
त्रिकोणस्थस्य चाष्टाक्षिसूर्या द्यूनगतस्य च ।
तुर्याष्टगस्य तु स्वर्गा गुणकाः परिकीर्तिताः
दशागुणैर्हता भक्त्या गुणैक्येन समागताः ।
शेषेर्ऽकादिहते भक्ते मासाद्यैक्येन नारद
अन्तर्दशासु विदशास्तासु चोपदशास्तथा ।
दशेशमित्रस्वोच्चक्षङ्गोब्जोब्ध्येकाद्रिवृद्धिगः
शुभगो यद्भगस्तद्भिस्न्वादिस्थेन तद्धिकृत् ।
प्रोक्तेतरस्थानगतस्तत्तद्भावक्षयं करः
खगस्य यद्भवेद्द्रव्यं भावभे क्षणयोगजम् ।
जीविकादिफलं सर्वं दशायां तस्य योजयेत्
विशन्यापदशायां यो वैरिदृष्टो विपत्तिकृत् ।
शुभमत्रेक्षितश्चेष्टसद्वर्गस्थश्च यो ग्रहः
तत्काले बलवानापन्नाशकृत्समुदाहृतः ।
यस्याष्टवर्गजं चापि फलं पूर्णशुभं भवेत्
यश्च मूर्तितनुग्लावो वृद्धिगः स्वोच्चभस्थितः ।
स्वत्रिकोणसुहृद्भस्थस्तस्य मध्यमसत्फलम्
श्रेष्ठं शुभतरं वाच्यं विपरीतगतस्य तु ।
नेष्टमुत्कटमिष्टं तु स्वल्पं ज्ञात्वा बलं वदेत्
चरे सन्मध्यदुष्टाभ्यामङ्गभङ्गे विपर्ययात् ।
स्थिरे नेष्टष्टमध्या च होरायास्त्र्यं शकैः फलम्
स्वामीज्यज्ञयुता होरा दृष्टा वा सत्पलावहा ।
विनाश दृष्टयुक्ता च पापान्तरगतान्यथा
प्राग्ध्वाङ्क्षा बन्धु मृत्याय तयोर्द्यूने रविः स्वभात् ।
वक्रात्स्वादिवसाञ्चार्के शुक्राद्यूनां तु षड्रतः
धर्मध्यायारिगो जीवादिकत्र्यारिगो विधोः ।
पृध्यन्त्यधीतपाः सुज्ञा ततोवृद्ध्यन्त्यबन्धुराः
वृद्धिगोङ्गात्सधनघीतपः स्वाराच्छशी शुभः ।
स्वदूवृध्यस्तादिषु पृधात्ससाष्टौ पञ्चयोपगः
षट्त्र्यायधीस्थो मन्दाञ्च ज्ञाद्द्वित्र्यायाष्टकेन्द्रगः ।
केन्द्राष्टायान्त्य इज्याद्वा ज्ञज्यायास्तत्र स्वे कवेः
वृद्धाविनात्सादिधिया मङ्गा मायारिगो विधोः ।
केन्द्राष्टापार्थगः स्वर्क्षान्मन्दाद्गोष्टायकेन्द्रगः
षट् त्रिधी भवतः सौम्यात्षड्वांशाष्टगो भृगोः ।
कर्मायव्ययषष्टस्थो जीवाद्भौमः शुभः स्मृतः
कवेर्द्ध्याषष्टमोध्याये सन्ज्ञोमन्दान्सधीत्रये ।
साक्षास्ते भूमिजाज्जीवाद्ययारिभवमृत्युगः
धर्मायारिसतान्त्येर्कात्साद्यत्रिस्वगता स्वभात् ।
षट्खायाष्टाब्धिखोष्विज्यात्सहाद्येषु विलग्नतः
दिक्वाष्टाद्यस्तबन्ध्याये कुजात्खात्सत्रिके गुरुः ।
सात्र्यङ्के सन् रवेः शुक्राद्धीखगो दिग्भवारिगः
चन्द्राद्वीशार्थगोस्तेषु मन्दाद्धीत्रिषडन्त्यगः ।
गोब्धिधीषट्खखाद्या ये ज्ञात्सद्यूने विलग्नतः
आशु तेशाष्टगोष्वङ्गःत्सांतेष्वब्जात्सितः शुभः ।
स्वात्सज्ञेषु त्रिधीगोब्धी दिक्छिद्रासिगतोर्कजात्
रन्ध्रायव्यचगः सूर्यादोष्टधीखे सगोर्गुरो ।
ज्ञाब्धित्र्यायारिगोरात्रिषट्ध्यध्यान्त्यगोषु च
त्रिधीशारिषु मन्दः खात्साक्षान्त्येषु शुभो सृजः ।
केन्द्रायाष्टधनेष्वर्का लग्नाद्वृद्ध्याद्यबन्धुषु
गोध्वष्टापारिखान्त्येज्ञाच्चन्द्राल्लाभत्रिषद्भतः ।
षडष्टान्त्यगतः शुक्राद्गुरीर्द्वीशान्त्यशत्रुषु
उक्तस्थानेषु रेखादो ह्यनुक्तेषु तु बिन्दुदाः ।
जन्मभाद्वद्विमित्रोच्चस्वभेधिष्टं परेष्वसत्
कष्टमर्थक्षयः क्लेशः समतार्थसुखागमः ।
धनाप्तिः सुखमिष्टाप्तिरिति रेखाफलं क्रमात्
पितृमातृद्विषन्मित्रभ्रातृस्त्रीभृतकाद्रवेः ।
स्वामिलग्राजयोः स्वस्थाद्भेदर्कस्वयशोशयात्
तृणस्वर्णाश्वधोरणाद्यैरर्कांशे वृत्तिमादिशेत् ।
कृष्यंबुजस्रीभ्योब्जांशे कौजे धात्वस्रसाहसैः
काव्यशिल्पादिभिर्बोधे जवे देवद्विजाकरैः ।
शौक्रे रजतगोरत्नैर्मान्दे हिंसश्रमाधमैः
स्वोञ्चेष्वार्की तथा ज्यारैरुक्तैकाङ्गे नृ पाधिपाः ।
लग्रे वर्गोत्तमे ऽब्जे वा चतुरादिग्रहेक्षिते
द्वाविंशभूपास्तुङ्गेसृक्चापेर्केन्दूयमस्तनौ ।
भूपकृत्तुङ्गगोर्केगेस्तेसाजार्केखभे गुरौ
यमेन्दुतुङ्गगौ लग्ने षष्टेर्ऽकज्ञौ तुलाजगौ ।
सितासृजो गुरौ कर्के साराजे लग्नगे नृपाः
वृषेगेब्जेर्केज्यसौरैः सुहृज्जायाखगैर्नृपः ।
मन्दे मृगाङ्गेत्र्यर्यकांशस्थैरजादिभिर्नृप
सेज्याजेश्वे मृगमुखे कुजे तुङ्गेर्क्षभागेवौ ।
लग्ने ऽथ सेज्यकर्केङ्गे ज्ञाजशुक्रैर्भवोपगैः
मेषे ऽर्के भूमिपासेंदौ एषे षाङ्ग्रेर्कपपासृजः ।
सिंहकुंभमृगस्थाश्चेद्भूपः सारेतनावजे
आर्केजीवे तनौ वापि नृपो ऽथोः कुजभास्करौ ।
धीस्थौ गुर्विदुकवयो भूमौ रत्र्यगे बुधैर्नृपः
मृगास्यलग्नगैः सौरेजाब्जर्क्षहरयः सयाः ।
कविक्षौ तुलयुरमस्थौ वै भूपः कीर्तिमान्भवेन्त्
यस्य कस्यापि तनयः प्रोक्तैर्योगैर्नृपो भवेत् ।
वक्ष्यमाणैर्नृपसुतो ज्ञेयो भूयो मुनीश्वर
स्वोच्चे त्रिकोणभगतेस्त्र्याद्यैर्बलयुतैर्नृपः ।
सिंहेर्ऽके मेषलग्ने ऽजे मृगे भौमे घटे ऽष्टमे
चापे धरानाथःस्यादथ स्वर्क्षगे भृगौ ।
पातालगे धर्मगे ऽब्जे शुभदृष्टे युते मुने
त्रिलग्नभवगैःशेषैर्धराधीशः प्रजायते ।
सौम्ये वीर्ययुतेंऽगस्थे बलाढ्येशुभगे शुभे
धर्मार्थोपचयस्थैश्चशेषैर्धर्मयुतोनृपः ।
मेषूरणायतनुगाः शशिसूर्यजसूरयः
ज्ञारौ धनेशितरवा हिबुके भूपतिस्तदा ।
वृषेंऽगे ऽब्जोधनारिस्थो जीवार्की लांभगाः परे
सुखे गुरुः खेरवीन्दूयमो लग्ने भवे करै ।
लग्ने वक्रासितौ चन्द्रेज्यसितार्कबुधाः क्रमात्
सुखास्तु शुभखाप्तिस्थानरेशं जनयन्त्यपि ।
कर्मलग्नगरवेटस्य दशायां राज्यसंगतिः
प्रबलस्य दशायां वा शत्रुनीचा दिगार्तिदाः ।
आसन्नकेन्द्रद्वयगैर्वर्गदाख्यः सकलग्रहैः
तन्वस्तगैश्च सकटं विहगो राज्यबन्धुगैः ।
शृङ्गाटकं धिगौगस्थैर्लग्नायस्थैर्हलं मतम्
वर्ज्जोङ्गेस्थे सत्स्वसत्सु तुर्यखस्थैर्यवोन्यथा ।
विमिश्रैः कमलं प्राहुर्वायाकण्टकबाह्यगैः
लग्नाच्चतुर्भुगैर्यूपःशरस्तूर्याच्चतुर्भुगैः ।
द्यूनाद्वेदक्षगैः शक्तिर्ं दऽखादिचतुर्भगैः
लग्नात्क्रमात्सप्तभगैर्नोकाकूटस्तु नुर्यतः ।
छत्रमस्तात्स्वभाद्यायोन्यस्मादर्द्धेन्दुनामकः
लग्नादेकान्तरगतैश्चक्रमर्थात्सरित्पतिः ।
षह्युस्थानेषु वीणाद्याः समसप्तर्क्षगैः
वीणादामपाशकेदारभूशूलयुगगोलकाः ।
ग्रहैःश्चरभगै राजयोगः प्रकीर्तितः
स्थिरस्थैर्यमुसलं नाम द्विशरीणतैर्नलः ।
भाला केन्द्रस्थितैः सौम्यैः पापैःसर्प उदाहृतः
ईर्य्युरध्वरुची रज्ज्वां मुसले धनमानयुक् ।
व्यङ्गा स्थिरा लोनलजो मोनीस्रग्जोहिजोर्द्दितः
वीणोद्भवोतिनिपुणागीतनृत्यरुचिर्भृशम् ।
दाता समृद्धो दामास्थः पाशजो धनशीलयुक्
केदारोत्थः कृषिकरः शूले शूरोक्षतो धनः ।
युगं पाषण्डयुर्गोले विधनो मलिनस्तथा
भूपवन्द्यपदश्चक्रे समुद्रे नृपभोगयुक् ।
सुभगाङ्गोर्द्धचंपात्सुखीशूरश्च चामरः
मित्रो पकारकृच्छत्रे कूटे चानृतबन्धराट् ।
तौजः सकीर्तिः सुखभाक् मानवो भवति ध्रुवम्
त्यागी यज्वात्मवान् यूथे हिंस्रो गुह्याधिपः शरैः ।
शक्तौ नीचो ऽलसो निःस्वो दण्डे प्रियवियोगभाक्
व्यर्कैः स्वान्त्योभयगतैः खेटैः स्यात्सुनफआनफआ ।
दुरुधरा चैव विधौ ज्ञेयः केमुद्रुमो ऽन्यथा
स्वोपार्जितार्थभुग्दाता सुनफआयां धनी सुखी ।
नीरोगः शीलवान् ख्यातः सुवेषश्चानफआभवः
भोगी सुखी धनीदानीत्यागी दुरुधुरोद्भवः ।
केमुद्रुमे ऽतिमलिनो दुःखी नीचो ऽथ निर्धनः
यन्त्र्याश्मकारंशाजोको भौमपुष्करुर्ते ध्वगः सुज्ञः ।
सुकीर्तिर्निपुणं विद्वांसं धनिनं तथा
सेन्योन्यकार्यनिरतं सास्फुजिच्छस्रजीविनम् ।
समन्दो धातुकुशलं तथा भाडंविदं मुने
कूटस्न्याशवपण्याठं नसासृगिन्द्गः प्रसूद्विषम् ।
कुर्यात्सज्ञोर्थनिपुणं नम्रं सत्कीर्तिसंयुतम्
सज्यो ऽस्थिरवयं वंश्यं विक्रान्तं च समर्थिनम् ।
ससितोसुकवेत्तारं सार्किपोनभवं मुने
आरे सज्ञे वाहुयोधी पुराध्यक्षः सगीष्पतौ ।
सशुक्रे द्यूतक्रर्हेयो नृती द्यूति समन्दके
सेज्येज्ञे नृत्यगीताढ्यो मायादक्षः ।
सभार्गवेसमन्दे लुब्धकः क्रूरो नरो भवति नारद
सशुक्रे वाक्पतौ विद्वान्सासिते ऽन्नघटङ्करः ।
कवौ स मन्दमन्दाक्षा व वनिश्रयवित्तवान्
एकस्थैश्चतुराद्यैस्तु खवार्थैः खचरैः पृथक् ।
कुजज्ञेज्याजशुक्रार्किसूर्यः परिव्रजेन्नरः
शाक्याजीवकवृद्धार्थिच रकाखफलाशनः ।
तत्स्वामिभिः परिदजितैः प्रव्रज्याप्रच्युतिर्भवेत्
अदीक्षिताल्पस्तगतैः सबलैस्तत्स्थभक्तयः ।
जन्मपोन्यैर्यद्यदृष्टो मन्दं पश्यति नारद
मन्दो वा जन्मपं नष्टं तथा च मन्दकागणे ।
भौमार्कांशे सौरदृष्टे चन्द्रे वा दीक्षितो भवेत्
सुरूपो भूषितगो ऽशिन्यां दक्षः सत्यवचा यमे ।
बहूभुग्पदारग्नौ स्थिरधीः प्रियवाक्तथा
ब्राह्मो धनीमृगे भोगी रौद्रे हिंस्त्रः शठो ऽघकृत् ।
दान्तो रोगी शुभो ऽदित्यां पुष्यर्यजन्मा कविः सुखी
धूर्तः शठः कृतघ्नो ऽहौ पापः सर्वाशनो भवेत् ।
पत्रे भोगी धनी भक्तो दाता प्रियवचा भगे
धनी भोगीनरोर्यमर्क्षे स्तेनो धृष्टो घृणी करे ।
चित्रांबरः सुदृक्त्वाष्ट्रे न च धर्मदयापरः
द्वीशे लुब्धः पटुः क्रोधी मढैयो आठनोविदेशगः ।
शाक्रे धर्मपरस्तुष्टो मूले मानी धनी सुखी
आप्ये मानी दृष्टो वैश्वे नम्रश्च धार्मिकः ।
कर्णे धनी सुखी ख्यातो दाता शूरो धनी वसौ
शेतऽरिहॄन्ता व्यसनी स्रीजितो जाहिभेदिनी ।
बुध्ने वक्ता सुखी कान्तः पौष्णे शूरो धनी शुचिः
कामी शूरः कृतज्ञो ऽजे कान्तस्त्यागी क्षमी वृषे ।
युग्मे स्रीद्यूतशास्रज्ञः स्रैणो ह्रस्वः स्वभे विधौ
स्रीद्विट् क्रोधी हरौ मानी विक्रान्तः स्थिरधीः सुखी ।
धर्मी श्लक्ष्णः सुधीः षष्टे प्राज्ञः प्रांशुर्धनी घटे
रोगी पूज्यः क्षती कारैर्प्ये कविः शिल्पीज्यभे धनी ।
मृगे ऽलसो ऽटनः स्वक्षः परदारार्थहृद्धटे
सबलेभैभयेवापिस वलेजेशिलफलम् ।
अन्यथा विपरीतं तत्पलंमेवं परे ऽपि न ।
ख्यातः स्रीद्विट् धनी तीक्ष्णोज्ञः कविः शैण्डिको धनी ।
पूज्यो लुब्धो ऽधनसखो मेषादौ भास्करे जनौ
निःस्वोर्ऽकभे भूमिपुत्रे भूमिपुत्रे धनी चान्द्रे स्वभेदनः ।
बौधे कृतज्ञो जैवे तु ख्यातः शौक्रे ऽन्यदारिकः
मृगे बह्वात्मजधनः कुंभे दुःख्यनृती खलः ।
स्रीद्वेष्यः स्वजनद्वेषीनियरत्यः सधीयनः
समानार्थः सपुत्रस्रीसर्णः सूर्यादिभे बुधे ।
सेनानीः स्त्र्यर्थपुत्राढ्यः दक्षमैश्यः परिच्छदी
मण्डलेशः सार्थसुखः सर्णस्वाम्यर्कभाद्गुरौ ।
स्त्र्याप्तार्थो मन्दशोकाढ्यो बन्धुद्वेषी धनाघवान्
सार्थः प्राज्ञः समः ख्यातिः स्रीजिऽतोर्कादिभे मृगौ ।
व्यङ्गजार्थो खप्रसूको विधिमित्रो सुखत्रयः
सत्पुत्रस्त्रीधनो राजा ग्रामे शोकादिभेर्कजे ।
भूपज्ञगुणिपौरास्वादृष्टेब्जेजेसृगादिभिः
निः स्वस्तेन नृपाः प्रज्ञप्रेष्यामविनृयुग्मगे ।
धात्वाजीवी नृपज्ञाभीतन्तुवायाधनाः स्वभे
युयुत्सुकविसूरीज्यधातुजीविदृगामयाः ।
ज्योतिर्ज्ञाढ्येज्यनु खलु नृपेज्ञादिकर्हरौ
षष्टे शुभैर्नृपचमूपनैपुण्यवतिताशयाः ।
जूके भूपस्वर्णकारवणिजः शेषदृग्युते
द्विपैतृकाब्धिध्वजिनो व्यङ्गा स्वक्षितिपा अलौ ।
ज्ञातिक्ष्माजनयाश्चाये सद्भिर्दर्मी शठस्तथा
भूपमण्डितसखेज्यामृगे भूयान्यदारिकौ ।
कुंभे शेषैश्च हास्यज्ञनृपज्ञाः सद्भिरन्त्यभे
हारेशर्क्षदलस्थैस्तु दृष्टो युक्तः शशी शुभः ।
त्र्यंशे तत्पतिमित्रर्क्षगतेर्युक्तेक्षितस्तथा
द्वादशांशे फलं प्रोक्तं नवांशे ऽप्यथ कीर्त्यते ।
आरक्षेको वधरुचिर्नियुद्धकुशलोर्ऽथवान्
कलहः क्षितिजांस्थे शौक्रे मूर्खो ऽन्यदारदः ।
कविः सुखी बुधांशे तु नटचौरज्ञशिल्पिनः
स्वांशे त्वल्पतनुः सखस्तपस्वी लोभतत्परः ।
क्रोधी निधीशो मात्यो वा नृपो हिंस्रो सुतो हरेः
जीवांशे हास्यविद्योधा बली मन्त्री च धार्मिकः ।
अल्पापत्यो दुःखितो खो दुष्टस्त्रीसौरिभागगे
भानार्विद्वादिदृष्टे नु तद्वदेव फलं वदेत् ।
वर्गोत्तमे खे परभे पल मुक्तं शुभं क्रमात्
पुष्टं मध्यं लघु ज्ञेयं यदि चांशपतिर्बली ।
राशीक्षणफलं रुद्ध्वा ददात्यंशपलं स्पुटम्
शूरस्तब्धो विकलदृग्निघृणोर्ऽके तनुस्थिते ।
मेषे धनी तैमिरकः सिंहे रात्र्यन्ध एव च
नीचोधोस्वः कर्कगेर्ऽके उद्बुदाक्षस्तनुस्थिते ।
द्वितीयेर्ऽके बहुधनो नृपदण्ड्यो मुखामयी
त्रिगे बुधो विक्रमी च विमुखः पीडितो भुवि ।
धनापत्योक्तितो धीस्थे बली शत्रुजितोरिगे
स्त्री जितो द्यूनसंस्थे च निधनेल्पात्मजोल्पदृक् ।
सुतार्थसुखभा भारये दशमे श्रुतशौर्यवात्
लाभे बहुधनो मानी पतितो खो ऽव्यये रवौ ।.
मूकोधो बधिरः प्रेष्यो जेगे खाञ्चाजगे धनी
बुटुर्वा धनवानधे हिंस्रो विक्रमगे भवेत् ।
साधुभावः सुखगते धीस्थे कन्याप्रजोलसः
अल्पाग्निकामस्तीक्ष्णोरौईष्युस्तत्रिमदोज्ञरवे ।
व्याधिपूडान्वितो मृत्यौ भानुर्द्धनगे मित्रधनान्वितः
धर्मधीधनयुग्राज्ये ख्यातधीधनयुग्भवेत् ।
क्षुद्राएंऽगहीनो व्ययगे चन्द्रे प्रोक्तं फलं बुधैः
लग्ने कुजे क्षततनुर्द्धनगे तु कदन्नभुक् ।
धर्मपापसमाचारो ऽन्यत्र सूर्यसमो मतः
विद्वान् धनी च प्रवरः पण्डितः सचिवोरियुक् ।
धर्मज्ञो विस्तृतगुणो गाधोज्ञेयरतोर्ऽकवत्
विद्वान्स वाच्यः कृपणी सुखाक्षो रिपुगृद्धिमान् ।
नीचस्तपस्वी चष्णवनी लोभीदुष्टस्तनोर्गुरो
स्मरी मुखी विलग्नस्थे कलही सुरतोत्सुकः ।
सुखितस्तनपस्ये च भृगौ जीववदन्यतः
निःश्वो रोगी कामवशो मलिनः शैशवार्तियुक् ।
अलसो लग्नगे मन्दे धर्मात्स्वोञ्चगते नृपः
ग्रामाधिपः स विद्वांश्च चार्वङ्गो ऽन्यत्र सूर्यवत् ।
पूर्णमुच्चेथ पादोनफलं मूलत्रिकोणगे
शुभग्रहेदलं स्वर्क्षे मित्रभेंऽघ्रिमितं फलम् ।
शत्रुभे ऽल्पं तथा नीचास्तङ्गते फलशून्यता
खभराकादिके खेटे कुलतुल्यः कुलाधिकः ।
बन्धुपूज्यो ऽथधनवान्सुखी भोगी नृपः क्रमात्
परिवित्तसुहृद्वन्धुपोष्यागणबलाधिपौ ।
नृपश्च मित्रभास्थेषु खेटे व्रेकादिषु क्रमात्
विषमर्क्षेर्ऽकहोरायां सस्थिते शुभभेषु च ।
ख्यातो महोद्यमी चातितेजा धीमान्धनी बली
शुभेषु चन्द्रहोरायां स्थितेषु समराशिषु ।
कान्तिमार्द्दवसौभाग्यभोगधीमान्भवेन्नरः
सूर्यहोरागतः पापः समभेषु तु मध्यमाः ।
विषमर्क्षेषु भास्कर्या सौम्या नोक्तफलप्रदाः
स्वमित्रत्र्यंशगश्चन्द्रः सुरूपं गुणिनं नरम् ।
करोत्यन्नगतस्तद्वत्तत्तुल्यगुणरूपिणम्
व्यालायुधे चतुष्पादांऽजेषु च त्र्यंशके च ।
तीक्ष्णे ऽतिहिंस्रश्च भवेद्गुरुतल्पगतोटनः
स्तेनो भोक्ता सधनधीर्नृपः क्लीबश्च शत्रुहा ।
विष्टिकृद्दासवृत्तिश्च पापो हिंस्नो ऽमतिर्भवेत्
मेषादिकोत्तमांशेषु द्वादशांशेषु राशिवत् ।
जायाबलविभूषाढ्यः सत्त्वयुक्तो ऽतिसाहसी
तेजस्वी च नरः खाये त्रिंशांसे सृजिसंस्थिते ।
आमयी वा स्वभार्यायां विषमः पारदारिकः
दुःखी परिच्छदयुतो मलिनश्चार्कजे स्वके ।
सुखधीधनकीर्त्यालस्तेजस्वी लोकपूजितः
नीरगुह्यभवान्भोगी जीवे खत्रिंशभागगे ।
मेधाकलाकाव्यशिल्पविवादकपटाञ्चितः
शास्त्रार्थसाहसयुतो बुधे स्वत्रिंशभागगे ।
बह्वपत्सुखारौग्यरोगरूपार्थसंयुतः
ललिताङ्गो विप्रकीणन्द्रियः स्याद्भार्गवे स्वके ।
शूरस्तब्धौ च विषमवधकौ सद्गुणान्वितौ
सुखेज्ञो चारु चेष्टाङ्गौ चन्द्रार्क्कौचेत्कुजादिगौ मूलत्रिकोणस्वर्क्षोच्चे कण्ठस्थास्तु च ये ग्रहाः
अन्योन्यकारकास्ते स्युः कर्मगस्तु विशेषतः ।
शुभं वर्गोत्तमे जन्म वेसिस्थाने वसद्गृहैः
अशून्येषु च केन्द्रेषु कारकाख्यगृहेषु च ।
गुरुजन्मेशलग्नेशाः केन्द्रस्था मध्यसौख्यादाः
पृष्टोभवकोदपर्क्षस्थितास्त्वन्त्यान्तरादुषु ।
प्रवेशे भास्करकुजौ भृग्वीज्यो मध्यगौ तथा
चन्द्रार्की फल दावन्त्ये सदा ज्ञः फलदायकः ।
लग्नात्पुत्रे कलत्रे वाब्जाच्छुभेशयुतेक्षिते
स्यात्तयोः संपदः स्वत्वमन्यथाथाङ्गतोदयः ।
रवौ भीनेर्ऽकजः स्रीघ्नः पुत्रस्थस्तु तथा कुजः
सिमातुर्याष्टगैः क्रूरैर्यद्वा क्रूरान्तरे सितः ।
सद्ग्रहायुतदृष्टश्चेदग्निपातान्मृतिः स्त्रियाः
लग्नद्य पाणिगतयोः शशिरव्योः सह स्त्रिया ।
एकेन यस्य जन्माहुरथ सप्तमसंस्थयोः
नवधीगतयोर्वापि विकलस्रीसितार्कयोः ।
कोणोदये ऽस्तां त्यसन्धौ भृगौ बन्ध्यापतेर्जनिः
सुतभं चेन्न सौम्याढ्यमथान्त्यास्तोदयर्क्षगैः ।
पापे धीस्थे विधौ क्षीणजन्मा सुतकलत्रिणः
शनौ खगे ऽस्ते सशुक्रे तदृष्टे पारदारिकः ।
तौ चेत्सेंदुस्रिया सार्द्धं पुंश्चलो जायते नरः
भूग्वब्जयोरस्तगयोर्नरो भार्या सुतो ऽपि वा ।
नृस्रियो स्तु शुभैर्दृष्टौ तौ द्वौ परिणताङ्गकौ
रवास्तांबुगैरिन्दुशुक्रपापैर्वंशविनाशकः ।
शिल्पी त्र्येशे बुधयुते केन्द्रसंस्थार्किवीक्षिते
दास्यां जातः सौरिभागे रिःफगे भृगुनन्दने ।
नीचेर्ऽकेन्दोरस्तगयोर्दृष्टयोः सूर्यजेन वा
पापदृष्टौ शनिकुजावस्तगौ वातरुक्प्रदौ ।
कर्काल्यं शगते केन्द्रे पापयुक्ते तु गुह्यरुक्
पापातरगतेंऽगेब्जे रवौ द्यूने तु कुष्टयुक् ।
चन्द्रे खे ऽस्ताङ्गते भौमे विकलो वेशिगेर्ऽकजे
मिथो भांशगयोः शूली रवीन्द्वोर्युतयोः कृशः ।
निधनारिधनान्त्यस्था रवीन्द्वारयमा यदा
चलद्ग्रहेण दोषेण कुर्वन्त्यनयनं नरम् ।
सौम्या दृष्टा न वायत्रिधीगताः पापखेचराः
कर्णोपघातका द्यूने रदवैकृत्यकारकाः ।
लग्ने गुरौ द्युने मन्दे वातरोगादितो भवेत्
सुखे ऽस्ते वा कुजे जीवे लग्ने वार्कियुतोदये ।
कुजेन वात्मजे द्यूने संज्ञेंऽत्ये ऽब्जे च सोन्मदः
धीधर्मार्थान्त्यगैः पापैर्भसमस्यान्निबन्धनम् ।
सर्पशृङ्खलया शाठ्यैर्दृक्कैर्बल्यशुभेक्षितैः
समन्दे ऽब्जे वक्रदृष्टे पस्मारी दुर्वचाः क्षयी ।
रविमन्दकुजैः रवस्थैः सौम्यदृष्टैः समण्डलैः
भृतकाः पूर्वमुदितैर्वरमध्याधमा नराः ।
पुञ्जनौ तु फलं पुण्यस्रीणां योग्यं वदेच्च तत्
तत्स्वामिष्वखिलं कार्यं तद्भर्तृमरणं मृतौ ।
लग्नेन्दुगं वपुश्चैव यादयूपपीतद्युने
युग्मेषु लग्नशशिनोर्वनिता प्रकृतिस्थिता ।
सच्छीलभूषणयुता शुभसंदृष्टयोस्तयोः
पुरुषाकृति शीलाढ्या तयोरोजस्थयोर्मता ।
अथ पापा गुणोनाश्च पापवीक्षितथोस्तयोः
कुजार्कीज्यज्ञशुक्राणां कुजर्क्षे क्रमशो ऽङ्गना ।
बाल्यदुष्टा तथा दासी साध्वी मायावती त्वरा
दृष्टा वाकृतिशीला स्यात्तयोरोजस्थयोर्मता ।
अथ पापा गुणोनाश्च पापवीक्षितयोस्तयोः
दुष्णवाक् पुनर्भूः सगुणा विज्ञा ख्याता स्फुजिद्ग्रृहे ।
बौधे समा या क्लीवा च सती गुणवती चला
द्वन्द्वभे स्वैरिणीशध्नी गुणाढ्या शिल्पिकाधमा ।
वाचाटा कुलटा सिंहे रागी पुन्धीरगम्यता
जैवे गुणाढ्याल्परतिर्गुणज्ञा ज्ञानिनी सती ।
दासी नीचरता साध्वी मान्दे दुष्टा नपत्यका
लग्नेन्दुयुक्तैस्रिंशांशैः फलमेतद्वलानुगम् ।
दृग्गैः मिथोंशे शुक्रार्की शौक्रे चेद्वा घटांशके
स्त्रीभिः स्त्री मैथुनं याति मदनानलदीपिता ।
शून्ये कापुरुषो द्यूने बले क्लीवो न सदृशि
बुधार्क्योश्चरभे नित्यं परदेशपरायणः ।
तत्सृष्टा मदगे सूर्ये स्त्रीबालविधवा कुजे
पापदृष्टे शनौ द्यूने कन्यैवापद्यते जराम् ।
आग्नेयैर्विधवास्तस्थैः पुनर्भूमिश्रकैर्भघवेत्
क्रूरे हीनबले ऽस्तस्थे पतित्यक्ता न सदृशि ।
मिथोंशगैः सितारौ तु कुरुतो ऽन्यरतां स्त्रियम्
शीतरश्मिर्यदा द्यूने तदा भर्तुरनुसया ।
सौरारर्क्षे लग्नगते सेंदुशुक्रे तु वन्धकी
मात्रा सार्द्धमसद्दृष्टे तथा कौजेंशके ऽस्तगे ।
मन्ददृष्टे व्याधियोनिः सद्ग्रहांशे पतिप्रिया
मन्दर्क्षे वांशके द्यूने वृद्धौ मूर्खः पतिः स्त्रियाः ।
स्त्रीलोलः क्रोधनः कौजे बौधे विद्वांश्च नैपुणः
जितेन्द्रियो गृणीजैवे चान्द्रे कामी मृदुस्तथा ।
शौक्रे सौभाग्ययुक्कान्तः सौरेति मृदुकर्मकृत्
शुक्राब्जयोर्लग्नगयोः सुखिनीर्ष्यासमन्विता ।
ज्ञेद्वोः कलासु निपुणा सुखिता च गुणान्विता
शुक्रज्ञयोस्तु शुभगा कलाज्ञा रुचिराङ्गना ।
अनेकसौख्यार्थगुणालग्ने सौम्यत्रये स्थिते
क्रूरे ऽष्टमे ऽष्टमेशांशे यस्य स्यात्तद्वयः समे ।
वैधव्यं च मृतिस्तस्या स्वयंसत्स्वर्थगेषु तु
अल्पापत्यत्वमब्जे ऽस्याः कन्यालिहरिगोषु तु ।
सौरे मध्यबले चन्द्रशुक्रज्ञैर्बलवर्जितैः
शेषैः सवीर्यैरोजर्क्षे लग्ने कुरूपिणी भवेत् ।
जीवारकविशौम्येषु बलिषु समभे तनौ
विख्यातानैकशास्त्रज्ञा वनिता ब्रह्मवादिनी ।
पापे ऽस्ते नवमस्थस्य प्रव्रज्यामेति भामिनी
उद्वाहे वरणे प्रश्ने सर्वमेतद्विचिन्तयेत् ।
मृत्युस्थानं पश्यतां स्याद्वलिना धातुकोपतः
नृणां मृत्युहितं युक्तं भगात्रोस्थोपथभूरिभिः ।
सवीर्यैर्बहुजो ऽग्न्यक्षतज्वररुगुद्भवः
तृट्क्षुद्भवश्चाष्टमस्थैः सूर्याद्यैश्च वरादिषु ।
परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः
स्वबन्धुस्थितयोः पुंसः शैलाग्नाभिरुतस्य च ।
बन्ध्वस्तकर्मगैर्मन्दभूजैः प्रहौ मृतिः
स्त्रियां हिमोषअणकरयोः स्वजनात्पापदृक्तयोः ।
तोयमृतो रवीदृतुस्यातांया द्युभयोदये
शस्त्राग्निजोशुभान्तस्थे चन्द्रे भौमगृहगस्थिते ।
मृत्युश्चाथ मृगे चन्द्रे कर्के मन्दे जलोदरात्
स्त्रियामिन्दौ रक्तशौथात्सौरे वाज्वग्निपातजः ।
पुत्रधर्मस्थस्योर्वन्धात्पापयोः सददृष्टयोः
सथासशंयनिगडैर्दृकैर्मृत्यौ तु बन्धनैः ।
स्त्रियां सपापे ऽब्जे द्यूने सिते मेषे रवौ तनौ
मरणं स्त्रीकृते गेहे ह्यथ तुर्ये कुजे रवौ ।
यमे खेंऽगत्रिकोणर्स्थेः क्षीणचन्द्रांशुभैः सकृत्
तुर्येर्ऽके खे कुजेक्षीण चन्द्रदृष्टे समिद्धतः ।
रन्ध्रखाङ्गजलैः क्षीणेन्द्वारार्किरविसंयुतैः
लकुटेनाथ तैरेव खाङ्काङ्गतनयस्थितैः ।
धूमानिबन्धनैः कार्यः कुदनैर्मरणं भवेत्
बन्ध्वस्तखस्थैर्भौंमार्कर्मदैः शस्त्राग्निंराजभिः ।
सौरेद्वारैः स्वांबुरवस्थैः क्षतक्रेम्यङ्गया ततः
स्वेर्ऽके तुर्ये कुजे यानपातादथ कुजे ऽस्तगे ।
यन्त्रोसीदुनतः क्षीणचन्द्रयुक्ते मृतिर्भवेत्
भौमार्किशीतकिरणैर्जूकाजशनिभस्थितेः ।
क्षीणेन्द्वर्ककुजैः खास्तांबुस्थैर्वारकरे मृतिः
बल्यारदृष्टे क्षीणेन्दौ मन्दे निधंनसंस्थिते ।
गुह्यरुक्कृमिशस्त्राग्निदारुजो मृत्युरङ्गिराः
सौरेर्ऽके ऽस्ते मृतो मन्दे क्षीणेन्दौ भुव्यसंयुते ।
लग्नध्यायास्त पःखार्कभौमचन्द्रनिशाकरैः
शैलशृङ्गस्वरुग्रपातौनुर्निधनं भवेत् ।
दृक्कोन्त्तरे तुर्द्धाविंशस्तत्पतिर्मृत्युपोपि वा
स्वगुणैर्निध न कुर्याद्बलवान्यो द्वयोर्भवेत् ।
लग्नांशेशसदृक्स्थाने मृत्युर्योगेक्षणादिभिः
मोदाएन्तेनुदितांशस्य तुल्यो द्विघ्नः स्वपेक्षिते ।
शुभेक्षिते तु त्रिगुणः कल्प्यमन्यत्स्वबुद्धितः
वह्न्यंपबुभस्मसक्लेदशोषव्यालैर्मृतिस्थितैः ।
बिन्दुतश्चिन्तनीयश्च यथोक्तो मत्युरङ्गिनः
गुरुः शशाङ्कशुक्रौ च सूर्यभौमौ यमेन्दुजौ ।
देवपित्रतिरक्तोथ नारकान्कुर्युरष्टमे
रवीन्दुबलवश्रंशनाथाच्छ्रेष्टसमाधमाः ।
तुङ्गगः सांदनूकेनुगतिः षड्रन्ध्रदृक्कपः
द्यूनस्थितो गुरुर्वापि रिपुकेन्द्रविनाशगः ।
स्वोच्चस्थोंऽगे व्यये सौम्यभागे मोक्षो बलान्यतः
आधाने जन्मा ज्ञाने तु वृक्षतां लग्नतो वदेत् ।
पूर्वापरार्द्धैर्लग्नस्य सौम्ये वाच्यपनेजनिः
लग्नत्रिकोणे धीज्यत्र्यंशैर्विकल्पावयवाः समाः ।
ग्रीष्मोगेर्ऽके परै रम्यापनतांपृतुरर्कभात्
चन्द्रज्ञजीवावृत्यस्याः शुक्रारार्किभिरन्यथा ।
दृक्कैराद्यैः पूर्वमासस्तिथिस्तत्रानुपाततः
विलोमजन्म भागैश्च वेला रात्रिद्युसंज्ञके ।
त्रिकोणोत्तमवार्थन्तिलग्नं वा लभनाभने
यावदूनो विधुर्लग्नात्तावच्चन्द्राच्च जन्मभे ।
गोहरी युग्मवसुभे क्रियजुके मृगाङ्गने
दशाष्टसप्तविषये गुण्याः शेषाः खसंख्यया ।
जीवभौमकविज्ञाः स्यु राघवाद्यायरेज्ञवत्
भानां नित्यो विधिः खेटवशावद्धर्गणास्तथा ।
सप्तर्घ्नं भहृतं शेषमृक्षं नवधनर्णतः
द्विघ्ने समर्तुमासाः स्युः पक्षतिथ्यौ गजाहते ।
सप्तघ्नं होनिशार्क्षाणीषुघ्नेङ्गांशेष्टहोरिका
पुमान्परशुधृक्कृष्णो रक्तदृग्रक्षितुं क्षमः ।
दृष्टर्तिकपदाश्वास्या रक्तवस्त्रा घटाकृतिः
कपिलो ह्यन्धदृक्रूरो रक्तवस्त्रः क्षतव्रतः ।
क्षुत्तृषार्तोदुग्धपटो लूनकुञ्चितमूर्धजः
मलिनः क्षुत्परोजास्यो दक्षः कृष्यादिकर्मणि ।
द्विपकायः सरभयात्पिंपगलो व्याकुलान्तरः
शौचिकीरूपिणी साध्वी ह्यप्रजोच्छ्रितपाणिका ।
उद्याने कवची धन्वी क्रीडेच्छर्गरुडाननः
नृत्यादिविद्वरुणवद्बहुरत्नोधनुर्धरः ।
द्विपास्यकण्ठः क्रोडास्यः काननेशरमाहिकः
आतव्यशाखां पालाशी रौति मूर्द्धाहिकर्कशा ।
चिपिटास्यो हि संवीतो नौस्थः रत्र्यर्थंव्रजञ्जले
श्वा नरो जंबुकं गृध्रं गृहीत्वा रौति शाल्मलौ ।
धन्वी कृष्णाजिनी सिंहवाश्वोन्नतमातुरः
फलामिषघ्नः कूर्जीना भल्लास्यः कपिचेष्टितः ।
पुष्पपूर्णच्छटाकन्याविद्येल्ला मलिनांवरा
धन्वी व्ययापकृच्छ्यामो लिपिकृद्रामशोनरः ।
गौरीधौतांशुकात्सुच्चाकुंभदृस्तासुरालये
मानोन्मान्पापसोतौलीभाण्डमुत्पविचिन्तकः ।
क्षुत्तृङ्युतो नरः कुंभीगृध्नस्य स्त्रीसुतोपगः
धन्वीकिन्तरचेष्टस्तुहैमवर्मामृगानुगः ।
सिंधेकूजंव्रजन्तीस्त्रीनानासर्पसित हिका
सौख्यस्पृहाह्यावृत्ताङ्गीभत्रर्थकच्छपाकृतिः ।
कूर्मास्यो मलये सिंहः श्वक्रोण्डमृगभीषकः
वास्यः श्वकायो धानुष्को रङ्क्षस्तापसयज्ञिये ।
चंपकाभासने मध्या सिंधुरत्रविवर्द्धिनी
कूर्मासने चंपकाभो दण्डी कौशेयकानिनी ।
परमो ऽथो गृध्रमुखः स्नेहमद्याशनस्पृहः
दग्धानस्था लोहधरा सभूषाभाञ्जकच्चरा ।
भाण्डी रोमश्चवाः श्यामः किरीटी फलयन्त्रधृक्
नौस्थोध्वोसंविभूषार्न्थ नानारत्नकराएञ्चितः ।
नौस्थब्धेः कूलमायान्ती सयूथां चम्पकानना
गर्ते सर्पावृतो नग्नो रुदंश्चौरानलार्दितः ।
एतादृशाङ्क्रियांशाः स्तु षत्रिंशदुदीताः क्रमात्
एतत्संक्षेपतः प्रोक्तं जातकं मुनिसत्तम ।
निबोध संहितास्कन्धं लोककृत्युपयोगिनम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0