नारद पुराण · अध्याय 1.53
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरूपणं नाम द्विपञ्चाशत्तमो ऽध्यायः
सनन्दन उवाच
निरुक्तं ते प्रवक्ष्यामि वेदं श्रोत्राङ्गमुत्तमम् ।
तत्पञ्चविधमाख्यातं वैदिकं धातुरूपकम्
क्वचिदूर्णागमस्तत्र क्वचिद्वर्णविपर्ययः ।
विकारः क्वापि वर्णानां वर्णनाशः क्वचिन्मतः
तथा विकारनाशाभ्यां वर्णानां यत्र नारद ।
धातोर्योगातिशयी च संयोगः परिकीर्तितः
सिद्धेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ।
गूढोत्मा वर्णविकृतेर्वर्णनांशात्पृषोदरः
भ्रमरादुषु शब्देषु ज्ञेयो योगो हि पञ्चमः ।
बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसू
नभस्वद्वृषणश्चैवापरस्मैपदि चापि हि ।
परं व्यवहिताश्चापि गतिसंज्ञास्तथा हि आ
विभक्तीनां विपर्यासो यथा दधना जुहोति हि ।
अभ्युत्सादयामकेतुर्ध्वनयीत्प्रमुखास्तथा ।
निष्टर्क्यान्द्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा
सुप्तिङुपग्रहलिङ्गनराणां कालहलूचूस्वरकर्तृयडां च ।
व्यत्ययमिच्छति शास्रकृदेषां सो ऽपि च सिद्ध्यति बाहुलकेन
रात्री विम्बी च कद्रूश्चाविष्ट्वौ वाजसनेयिनः
कर्णेभिश्च यशोभाग्य इत्याद्याश्चतुरक्षरम् ।
देवासो ऽथो सर्वदेवतातित्वावत इत्यपि
उभयाविन माद्याश्च प्रलयाद्याश्च स्तृचं तथा ।
अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा
सगर्भ्योस्थापदी ऋत्व्योरजिष्टं त्रिपञ्चकम् ।
हिरण्ययेन नरं च परमे व्योमनित्यपि
उर्विया स्वप्रया वारवध्वाददुहवैवधी ।
यजध्वैनमेमसि च स्नात्वी गत्वा पचास्थभौः
गोनाञ्चापरिह्रवृत्ताश्चातुरिर्ग्रसितादिका ।
पश्येदधद्ब्रभूथापि प्रमिणान्तित्यवीवृधत्
मित्रयुश्च दुरस्वा वा हात्वा सुधितमित्यपि ।
दधर्त्याद्या स्ववद्भिश्च ससूवेति च धिष्व च
प्रप्रायं च हरिवतेक्षण्वतः सुपर्थितरः ।
रथीतरी नसताद्या अम्नर्भुवरथो इति
ब्रूह्याद्यादेः परस्याप्यौ श्रावयेत्यादिके प्लुतः ।
दाश्वांश्व स्वतवान्यापौत्रिभिष्ट्वं च नृभिष्टुतः
अभीषुण ऋतावाहं न्यषीदन्नृमणा अपि ।
चतुर्विधाद्बाहुलकात्प्रवृत्तेरप्रवृत्तितः
विभाषयान्यथाभावात्सर्वं सिद्ध्येञ्च वैदिकम् ।
भूवाद्या धातवो ज्ञेयाः परस्मैपदिनःस्मृताः
एधाद्या आत्मनेभाषा उदात्ताः षट्त्रिंशसंख्यकाः ।
अतादयो ऽष्टत्रिंशञ्च परस्मैपदिनो मुने
लोकृपूर्वा द्विचत्वारिंशदुक्ता च ह्यात्मने पदे ।
उदात्तेतरतु पञ्चाशत्फक्काद्याः परिकीर्तिताः
वर्चाद्या अनुदात्तेत एकविंशतिरीरीताः ।
गुपादयो द्विचत्वारिंशदुदात्तेताः समीरिताः
धिण्यादयो ऽनुदात्तेतो दश प्रोक्ता हि शाब्दिकैः ।
अणादयोप्युदात्तेतः सप्तविंशतिधातवः
अमादयः समुद्दिष्टाश्चतुर्स्रिंशद्धिशाब्दिकैः ।
द्विसप्ततिमिता मव्यमुखाश्चोदात्तबन्धना
स्वारितेद्धावुधातुस्तु एक एव प्रकीर्तितः ।
क्षुधादयो ऽनुदात्तेतो द्विषपञ्चाशदुदाहृताः
घुषिराद्या उदात्ततो ऽष्टाशीतिर्धातवो मताः ।
द्युताद्या अनुदात्तेतो द्वाविंशतिरतो मताः
षितस्रयोदश घटादिष्वेनुदत्तेत ईरितः ।
ततो ज्वलदुदात्तेतो द्विपञ्चाशन्मितास्तथा
स्वरितेद्राजृसंप्रोक्त स्तनहेभ्राजृतस्रयः ।
अनुदात्तेत अख्याता भाद्युतात्ता इतः स्यमात्
सहो ऽनुदात्तेदेकस्तु रमैको ऽप्यात्मनैपदी ।
सदस्रय उदात्तेतः कुचाद्वेदा उदात्त इत्
स्वरितेतः पञ्चत्रिंशद्धिक्काद्याश्च ततः परम् ।
स्वरितेच्छिञ्भृञाद्याश्चत्वार स्वरितेत्ततः
धेटः परस्मैपदिनः षट्चत्वारिंशदुदीरिताः ।
अष्टादशस्मिङाद्यास्तु आमनेपदिनो मताः
ततस्रयो ऽनुदात्तेतः पूङाद्याः परिकीर्तिताः ।
हृपरस्मैपदी चात्मनेभाषास्तु गुपात्रयः
रभद्यब्दयनुदात्तेतो ञिक्ष्विदोतात्त इन्मतः ।
परस्मैपदिनः पञ्च दश स्कंम्भ्वादयस्तथा
कितधातुरुदात्तेञ्च दानशानोभयात्मकौ ।
स्वरितेतः पचाद्यङ्काः परस्मैपदिनो मताः
स्वरितेतस्त्रयश्चैतौ वदवची परिभाषिणौ ।
भ्वाद्या एते षडधिकं सहस्रं धातवो मताः
परस्मैपदिनः प्रोक्ता वदाश्चापि हनेति च ।
स्वरितेतो द्विषाद्यास्तु चत्वारो धातवो मताः
चक्षिङेकः समाख्यातो धातुरत्रात्मनेपदी ।
इरादयो ऽनुदात्तेतो धातवस्तु त्रयोदश
आत्मनेपदिनौ प्रोक्तौ षूङ्शीङ्द्वौ शाब्दिकैर्मुने ।
परस्मैपदिनः प्रोक्ता षुमुखाः सप्त धातवः
स्वरितेदुर्णुञाख्यातो धातुरेको मुनीश्वर ।
घुमुखास्त्रय उद्दिष्टाः परस्मैपदिनस्तथा
ष्टुञेकस्तु समा ख्यातः स्मृते नारद शाब्दिकैः
अष्टादश राप्रभृतयः परस्मैपदिनः स्मृताः ।
इङ्ङात्मनेपदी प्रोक्तो धातुर्नारद केवलः
विदाद यस्तु चत्वारः परस्मैपदिनो मताः ।
ञिष्वप्शये समुद्दिष्टः परस्मैपदिकस्तथा
परस्मैपदिनश्चैव ते मयोक्ताः स्यमादयः ।
दीधीङ्वेङ्स्मृतौ धातू आत्मनेपदिनौ मुने
प्रथादयस्रयश्चापि उदात्तेतः प्रकीर्तिताः ।
चर्करीतं च ह्नुङ् प्रोक्तो ऽनुदात्तेन्मुनिसत्तम
त्रिसप्तति समाख्याता धातवो ऽदादिके गणे ।
दादयो धातवो वेदाः परस्मैपदिनो मताः
स्वरितेद्वै भृञाख्यात उदात्तेद्धाक् प्रकीर्तितः ।
माङ्हाङ्द्वावनुदात्तेतौ स्वरितेद्दानधातुषु
वाणितिराद्यास्रयश्वापि स्वरितेत उदाहृताः ।
घृमुखा द्वादश तथा परस्मैपतिनो मताः
द्वाविंशतिरिहोद्दिष्टा धातवो ह्वादिके गणे ।
परस्मैपदिनः प्रोक्ता दिवाद्याः पञ्चविंशतिः
आत्मनेपदिनौ धातू षूङ्दूङ्द्वावपि नारद ।
ओदितः पूङ्मुखाः सप्त आत्मनेदपिनो मताः
आत्मनेपदिनो विप्र दीङ्मुखास्त्विह कीर्तिताः ।
स्यतिप्रभृतयो वेदाः परस्मैपदिनो मताः
जन्यादयः पञ्चदश आत्मनेपदिनो मुने ।
मृषाद्याः स्वरितेतस्तु धातवः पञ्च कीर्तिताः
एकादश पदाद्यास्तु ह्यात्मनेपदिनो मताः ।
राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके
उदात्तेतस्तुदाद्यास्तु त्रयोदश समीरिताः ।
परस्मैपदिनो ऽष्टात्र रधाद्याः परिकीर्तिताः
समाद्याश्चाप्युदात्तेतः षट्चत्वारिंशदुदीरिताः ।
चत्वारिशच्छतं चापि दिवादौ धातवो मताः
स्वादयः स्वरितेत्तोङ्का धातवः परिकीर्तिताः ।
सप्ताख्यातो दुनोतिस्तु परस्मैपदिनो मुने
अष्टिघावनुदात्तेतौ धातू द्वौ परिकीर्तितौ ।
परस्मैपदिनस्त्वत्र तिकाद्यास्तु चतुर्दश
द्वात्रिंशद्धातवः प्रोक्ता विप्रेन्द्र स्वादिके गणे ।
स्वरितेतः षङाख्यातास्तुदाद्या मुनिसत्तम
ऋष्युदात्तेज्जुषीपूर्वा अत्मनेपदिनोर्णवाः ।
व्रश्चादय उदात्तेतः प्रोक्ताः पञ्चाधिकं शतम्
गूर्युदात्तेदिहोद्दिष्टो धातुरेको मुनीश्वर ।
णूमुखाश्चैव चत्वारः परस्मैपदिनो मताः
कुङाख्यातोनुदात्तेञ्च कुटाद्याः पूर्तिमागताः ।
पृङ् मृङ् चात्मनेभाषौ षट् परस्मैपदे रिपेः
आत्मनेपदिनो धातू दृङ्धृङ्द्वौ चाप्युदाहृतौ ।
प्रच्छादिषोडशाख्याताः परस्मैपदिनो मुने
स्वरितेतः षट् ततश्च प्रोक्ता मिलमुखा मुने ।
कृतीप्रभृतय श्चापि परस्मैपदिनस्रयः
सप्त पञ्चाशदधिकास्तुदादौ धातवः शतम् ।
स्वरितेतो रुधोनन्दा परस्मैभाषितः कृती
ञिइन्धीतो ऽनुदातेतस्रयो धातव ईरिताः ।
उदात्तेतः शिषपिषरुधाद्याः पञ्चविंशतिः
स्वरितेतस्तनोः सप्त धातवः परिकीर्तिताः ।
मनुवन्वात्मनेभाषौ स्वरितेत्त्कृञुदाहृतः
ततो द्वौ कीर्तितौ विप्र धातवो दश शाब्दिकैः ।
क्याद्याः सप्तोभयेभाषाः सौत्राः स्तंभ्वादिकास्तथा
परस्मैपदिनः प्रोक्ताश्चत्वारो ऽपि मुनीश्वर ।
द्वाविंशतिरुदात्तेतः कुधाद्या धातवो मताः
वृङ्ङात्मनेपदी धातुः श्रंथाद्याश्चैकविंशतिः ।
परस्मैपदिनश्चाथ स्वरितेद्ग्रह एव च
र्क्यादिकेषु द्विपञ्चाशद्धातवः कीर्तिता बुधैः ।
चुराद्या धातवो ञ्यन्ता षट्र्त्रिंशदधिकः शतम्
चित्याद्यष्टादशाख्याता आत्मनेपदिनो मुने ।
चर्चाद्या आधृषीयास्तु प्यन्ता वा परिकीर्तिताः
अदन्ता धातवश्चैव चत्वारिंशत्तथाष्टं च ।
पदाद्यास्तु दश प्रोक्ता धातवो ह्यात्मनेपदे
सूत्राद्या अष्ट चाप्यत्र ञ्यन्ता प्रोक्ता मनीषिभिः ।
धात्वर्थे प्रातिपदिकाद्वहुलं चेष्टवन्मतम्
तत्करोति तदाचष्टे हेतुमत्यपि णिर्मतः ।
धात्वर्थे कर्तृकरणाञ्चित्राद्याश्चापि धातवः
अष्ट संग्राम आख्यातो ऽनुदात्तेच्छब्दिकैर्बुधैः ।
स्तोमाद्याः षोडश तथा अन्दतस्यं निदर्शनम्
तथा बाहुलकादन्ये सौत्रलौकिकवैदिकाः ।
सर्वे सर्वगणीयाश्च तथानेकार्थवाचिनः
सनाद्यन्ता धातवश्च तथा वै नामधातवः ।
एवमानन्त्यमुद्भाव्यं धातूनामिह नारद ।
संक्षेपो ऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च
ऊदृदन्तैर्यौन्ति रुक्ष्णुशूङ्स्नुनुक्षुश्चिडीङ्श्रिभिः ।
वृङ्वृञ्भ्यां च विनैकाचो ऽजन्तेषु निहताः स्मृताः
शक्लपच्मुचार्च्वच्विच्सिच्प्रच्छित्यज्निजिर् भजः ।
भञ्ज्भुज्भ्रस्ज्मत्जियज्युज्रुज्रञ्जविजिर्स्वञ्जिसञ्ज्सृजः
अद्क्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् ।
शद्सदी स्विद्यतिःस्कन्दिर्हदी क्रुध्क्षुधिबुध्यती
बन्धिर्युधिरुधीराधिव्यध्शुधः साधिसिध्यती ।
मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती
लिब्लुव्वपूशप्स्वपूसृपियभरभगम्नम्यमो रभिः ।
क्रुशिर्दंशिदिशी दृश्मृश्रिरुश्लिश्विश्स्पृशः कृषिः
त्विष्टुष्दुष्पुष्यपिष्विष्शिष्शुष्श्लिष्यतयो घसिः ।
वसतिर्दहदिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा
अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम् ।
चाद्या निपाता गवयः प्राद्या दिग्देशकालजाः
शब्दाः प्रोक्ता ह्यनेकार्थाः सर्वलिङ्गा अपि द्विज ।
गणपाठः सूत्रपाठो धातुपाठस्तथैव च
पाठोनुनासिकानां च परायणमिहोच्यते ।
शब्दाः सिद्धा वैदिकास्तु लौकिकाश्चापि नारद
शब्दपारायणं तस्मात्कारणं शब्दसंग्रहे ।
लघुमार्गेण शब्दानां साधूनां संनिरूपणम्
प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम्
इत्थमेतत्समाख्यातं निरुक्तं किञ्चिदेवते ।
कात्स्न्येर्न वक्तुमानन्त्यात्को ऽपिशक्तो न नारद
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0