भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.52

1.52.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एक पञ्चाशत्तमो ऽध्यायः
सनन्दन उवाच
अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद ।
सिद्धरूपप्रबन्धेन मुखं वेदस्य सांप्रतम्

1.52.2

सुप्तिङंतं पदं विप्र सुपां सप्त विभक्तयः ।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका

1.52.3

संबोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।
अर्थावत्प्रातिपदिकं धातुप्रत्ययवार्जितम्

1.52.4

अमौसशो द्वितीया स्यात्तत्कर्म क्रियते च यत् ।
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते

1.52.5

टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ।
येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः

1.52.6

ङेभ्यांभ्यसश्चतुर्थो स्यात्सं प्रदाने च कारके ।
यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम्

1.52.7

पञ्चमी स्यान्ङसिभ्यांभ्यो ह्यपादाने च कारके ।
यतो ऽपैति समादत्ते अपदत्ते च यं यतः

1.52.8

ङसोसामश्च षष्ठी स्यात्स्वामिसंबन्धमुख्यके ।
ङ्योःसुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत्

1.52.9

आधारे चापि विप्रेन्द्र रक्षार्थानां प्रयोगतः ।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम्

1.52.10

पञ्चमी पर्यणङ्योगे इतरर्ते ऽन्यदिङ्मुखे ।
एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः

1.52.11

लक्षणेत्थंभूतो ऽभिरभागे चानुपरिप्रति ।
अन्तरेषु सहार्थे च हीने ह्युपश्च कथ्यते

1.52.12

द्वितीया च चतुर्थी स्याञ्चेष्टायां गतिकर्मणि ।
अप्राणिषु विभक्ती द्वे मन्यकर्मण्यनादरे

1.52.13

नमःस्वस्तिस्वधास्वाहालंवषड्योग ईरिता ।
चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः

1.52.14

तृतीया सहयोगे स्यात्कुत्सितेंऽगे विशेषणे ।
काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि

1.52.15

स्वामीश्वरोधिपतिभिः साक्षिदायादसूतकैः ।
निर्धारणे द्वे विभक्ती षष्टी हेतुप्रयोगके

1.52.16

स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ।
हिंसार्थानां प्रयोगे च कृतिकर्मणि कर्तरि

1.52.17

न कर्तृकर्मणोः षष्टी निष्टादिप्रतिपादिका ।
एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु ।
भूवादिषु तिङतेषु लकारा दश वै स्मृताः

1.52.18

तिप्त संतीति प्रथमो मध्यमः सिप्थस्थोत्तमः ।
मिव्वस्मसः परस्मै तु पादानां चा मपनेदम्

1.52.19

त आतेंऽते प्रथमो मध्वः से आथे ध्वे तथोत्तमः ।
ए वहे मह आदेशा ज्ञेया ह्यन्ये लिङादिषु

1.52.20

नाम्नि प्रयुज्यमाने तु प्रथमः पुरुषो भवेत् ।
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषो ऽस्मदि

1.52.21

भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ।
लडीरितो वर्तमाने भूते ऽनद्यतने तथा

1.52.22

मास्मयोगे च लङ् वाच्यो लोडाशिषि च धातुतः ।
विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने

1.52.23

लिडतीते परोक्षे स्यात् श्वस्तने लुङ् भविष्यति ।
स्यादनद्यतने ऌटू च भविष्यति तु धातुतः

1.52.24

भूते लुङ् तिपस्यपौ च क्रियायां ऌङ् प्रकीर्तितः ।
सिद्धोदाहरणं विद्धि संहितादिपुरः सरम्

1.52.25

दण्डाग्रं च दधीदं च मधूदकं पित्रर्षभः ।
होतॄकारस्तथा सेयं लाङ्गलीषा मनीषया

1.52.26

गङ्गोदकं तवल्कार ऋणार्णं च मुनीश्वर ॥ठ
शीतार्तश्च मुनिश्रेष्ठ सेंद्रः सौकार इत्यपि

1.52.27

वध्वासनं पित्रर्थो नायको लवणस्तथा ।
त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः

1.52.28

हरे ऽव विष्णो ऽवेत्येषादसोमादप्यमी अधाः ।
शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः

1.52.29

आ एवं च प्रकृत्यैते तिष्टन्ति मुनिसत्तम ।
षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा

1.52.30

हरिःशेते विभुश्चिन्त्यस्तच्छेषो यञ्चरस्तन्था ।
प्रश्नस्त्वथ हरिःषष्ठः कृष्णष्टीकत इत्यपि

1.52.31

भवान्षष्ठश्च षट् सन्तः षट्ते तल्लेप एव च ।
चक्रिंश्छिन्धि भवाञ्छौरिर्भवाञ्शौरिरित्यपि

1.52.32

सम्यङ्ङनन्तोङ्गच्छाया कृष्णं वन्दे मुनीश्वर ।
तेजांसि मंस्यते गङ्गा हरिश्छेत्ता मरःशिवः

1.52.33

राम काम्यः कृप पूज्यो हरिः पूज्योर्ऽच्य एव हि ।
रोमो दृष्टो ऽबला अत्र सुप्ता इष्टा इमा यतः

1.52.34

विष्णुर्नभ्यो रविरयं गी )( फलं प्रातरच्युतः ।
भक्तैर्वद्यो ऽप्यन्तरात्मा भो भो एष हरिस्तथा ।
एष शार्ङ्गी सैष रामः संहितैवं प्रकीर्तिता

1.52.35

रामेणाभिहितं करोमि सततं रामं भजे साढरम् ।
रामेणापहृतं समस्तदुरितं रामाय तुभ्यं नमः ।
रामान्मुक्तिमभीप्सिता मम सदा रामस्य दासो ऽस्म्यहम् ।
रामे रञ्जत् मे मनः सुविशदं हे राम तुभ्यं नमः

1.52.36

सर्व इत्यादिका गोपाः सखा चैव पतिर्हरिः

1.52.37

सुश्रीर्भानुः स्वयंभूश्च कर्ता रौ गौस्तु नौरिति ।
अनङ्घान्गोधुग्लिट् च द्वे त्रयश्चत्वार एव च

1.52.38

राजा पन्थास्तथा दण्डी ब्रह्महा पञ्च चाष्ट च ।
अष्टौ अयं मुने सम्राट् सविभ्रद्वपुङ्मनः

1.52.39

प्रत्यङ् पुमान्महान् धीमान् विद्वान्षट् पिपठीश्च दोः ।
उशनासाविंमे पुंसि स्यारक्तलविरामकाः

1.52.40

राधा सर्वा गतिर्गोपी स्री श्रीर्धेनुर्वधूः स्वसा ।
गौर्नौंरुपान् दूद्यौर्गोः क्षुत् ककुप्संवित्तु वा क्वचित्

1.52.41

रुग्विडुद्भाः स्रियास्तपः कुलं सोमपमक्षि च ।
ग्रामण्यंबुरवलप्वेवं कर्तृ चातिरि वातिनु

1.52.42

स्वनहुच्च विमलद्यु वाश्वत्वारीदमेव च ।
एतद्ब्रह्माहश्च दण्डी असृक्किञ्चित्त्यदादि च

1.52.43

एतद्वे भिद्गवाक्गवाङ् गोअक् गोङ्गोक् गोङ् ।
तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत्

1.52.44

दीव्यद्धनुश्च पिपठीः पयो ऽदःसुमुमांसि च ।
गुणद्रव्य क्रियायोगांस्रिलिङ्गांश्च कति ब्रुवे

1.52.45

शुक्तः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः ।
पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना

1.52.46

सत्यानाग्यास्तथा पुंसो मतभ्रमरदीर्घपात् ।
धनाकृसोमौ चागर्हस्तविर्ग्रथास्वर्णन्बहू

1.52.47

रिमपव्विषाद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यान्तरेतराणि च

1.52.48

उत्तरश्चोत्तमो नेमस्त्वसमो ऽथ समा इषः ।
पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ

1.52.49

अपरश्चतुरो ऽप्येतद्यावत्तत्किमसौ द्वयम् ।
युष्मदस्मञ्च प्रथमश्चरमोल्पस्तथार्धकः

1.52.50

नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा ।
स्वेकाभुविरोधपरि विपर्ययश्चाव्ययास्तथा

1.52.51

तद्धिताश्चाप्यपत्यार्थे पाण्डवाः श्रैधरस्तथा ।
गार्ग्यो नाडायनात्रेयौ गाङ्गेयः पैतृष्वस्रीयः

1.52.52

देवतार्थे चेदमर्थे ह्यैद्रं ब्राह्मो हविर्बली ।
क्रियायुजोः कर्मकर्त्रोर्धैरियः कौङ्कुमं तथा

1.52.53

भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः ।
स्वार्थे चौरस्तु तुल्यार्थे चन्द्रवन्मुखमीक्षते

1.52.54

ब्राह्मणत्वं ब्राह्मणता भावे ब्राह्मण्यमेव च ।
गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान्

1.52.55

जातार्थे तुन्दिलः श्रद्धालुरौन्नत्त्ये तु दन्तुरः ।
स्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च

1.52.56

वाचालश्चैव वाचाटो बहुकुत्सितभाषिणि ।
ईषदपरिसमाप्तौ कल्पव्देशीय एव च

1.52.57

कविकल्पः कविदेश्यः प्रकारवचने तथा ।
पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने

1.52.58

वैद्यरूपो भूतपूर्वे मतो दृष्टचरो मुने ।
प्राचुर्यादिष्वन्नमयो मृण्मयः स्रीमयस्तथा

1.52.59

जातार्थे लज्जितो ऽत्यर्थे श्रेयाञ्छ्रेष्टश्च नारद ।
कृष्णतरः शुक्लतमः किम आख्यानतो ऽव्ययान्

1.52.60

किन्तरां चैवातितरामभिह्युच्चैस्तरामपि ।
परिमाणे जानुदघ्नं जानुद्वयसमित्यपि

1.52.61

जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात् ।
कतमः कतरः संख्येयविशेषावधारणे

1.52.62

द्वितीयश्च तृतीयश्च चतुर्थः षष्टपञ्चमौ ।
एतादशः कतिपयः कतिथः कति नारद

1.52.63

विंशश्च विंशतितमस्तथा शततमादयः ।
द्वेधा द्वैधा द्विधा संख्या प्रकारे ऽथ मुनीश्वर

1.52.64

क्रियावृत्तौ पञ्चकृत्वो द्विस्रिर्बहुश इत्यपि ।
द्वितयं त्रितपं चापि संख्यायां हि द्वयं त्रयम्

1.52.65

कुटीरश्च शमीरश्च शुण्डारो ऽल्पार्थके मतः ।
त्रैणः पौष्णस्तुण्डिभश्च वृन्दारककृषीवलौ

1.52.66

मलिनो विकटो गोमी भौरिकीविधमुत्कटम् ।
अवटीटोवनाटे निबिडं चेक्षुशाकिनम्

1.52.67

निबिरीसमेषुकारी वित्तोविद्याञ्चणस्तथा ।
विद्याथुञ्चुर्बहुतिथं पर्वतः शृङ्गिणस्तथा

1.52.68

स्वामी विषमरूप्यं चोपत्यकाधित्यका तथा ।
चिल्लश्च चिपिटं चिक्वं वातूलः कुतपस्तथा

1.52.69

वल्लश्व हिमेलुश्च कहोडश्चोपडस्ततः ।
ऊर्णायुश्च मरूतश्चैकाकी चर्मण्वती तथा

1.52.70

ज्योत्स्ना तमिस्राष्टीवच्च कक्षीवर्द्षमण्वती ।
आसंदी वञ्च चक्रीवत्तूष्णीकां जल्पतक्यपि

1.52.71

कंभश्च कंयुः कंवश्च नारदकेतिः कन्तुः कन्तकंपौ शंवस्तथैव च ।
शन्तः शन्तिः शंयशन्तौ शंयोहंयुः शुभंयुवत्

1.52.72

भवति बगभूव भविता भविष्यति भवत्वभवद्भघवेच्चापि

1.52.73

भूयादभूदभविषअयल्लादावेतानि रूपाणि ।
अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद्द्विरघसदात्स्यत्

1.52.74

जुहितो जुहाव जुहवाञ्चकार होता होष्यति जुहोतु ।
अजुहोज्जुहुयाद्धूयादहौषीदहोष्यद्दीव्यति ।
दिदेव देविता देविष्यति च अदीव्यद्दीव्येद्दीव्याद्वै

1.52.75

अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै ।
सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तुदति च

1.52.76

तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि ।
अतौत्सीदतोत्स्यदिति च रुणद्धि रूरोध रोद्धा रोत्स्यति वै

1.52.77

रुणद्धु अरुणद्रुध्यादरौत्सीदारोत्स्यञ्च ।
तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि

1.52.78

अतनीञ्चातानीदतनिष्यत्क्रीणाति चिक्राय क्रेता क्रेष्यति क्रीणात्विति च ।
अक्रीणात्क्रीणात्क्रीणीयात्क्रीयादक्रैषीदक्रेष्यञ्चोरयति चोरयामास चोरयिता चोरयिष्यति चोरयतु

1.52.79

अचोरयञ्चोरयेच्चोर्यात् अचूचुरदचोरिष्यदित्येवं दश वै गणाः ।
प्रयोजके भावयति सनीच्छायां बुभूषति ।
क्रियासमभिहारे तु पण्डितो बोभूयते मुने

1.52.80

तथा यङ्लुकि बोभवीति च पठ्यते ।
पुत्रीयतीत्यात्मनीच्छायां तथाचारे ऽपि नारद ।
अनुदात्तञितो धातोः क्रियाविनिमये तथा

1.52.81

निविशादेस्तथा विप्र विजानीह्यात्मनेपदम् ।
परस्मैपदमाख्यातं शेषात्कर्तारि शाब्दिकैः

1.52.82

ञित्स्वरितेतश्च उभे यक्च स्याद्भावकर्मणोः ।
सौकर्यातिशयं चैव यदाद्योतयितुं मुने

1.52.83

विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे ।
लभन्ते कर्तृते पश्य पच्यते ह्योदनः स्वयम्

1.52.84

साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने ।
धातोः सकर्मकाद्भावे कर्मण्यपि लप्रत्ययाः

1.52.85

तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः ।
फलव्यापरयोरेकनिष्टतायामकर्मकः

1.52.86

धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः ।
गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम्

1.52.87

बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ।
प्रयोज्य कर्मण्यन्येषां ण्यन्तानां लादयो मताः

1.52.88

फलव्यापारयोर्द्धातुराश्रये तु तिङः स्मृताः ।
फले प्रधानं व्यापारस्तिर्ङ्थस्तु विशेषणम्

1.52.89

एधितव्यमेधनीयमिति कृत्ये निदर्शनम् ।
भावे कर्मणि कृत्याः स्युः कृतः कर्तरि कीर्तिताः

1.52.90

कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम् ।
गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम्

1.52.91

अधिस्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् ।
रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च

1.52.92

व्याघ्रभी राजपुरुषो ऽक्षशैण्डो द्विगुरुच्यते ।
पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः

1.52.93

नीलोत्पलं महाषष्टी तुल्यार्थे कर्मधारयः ।
अब्राह्मणो न ञि प्रोक्तः कुंभकारादिकः कृता

1.52.94

अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज ।
पञ्चगू रूपवद्भार्यो मध्याह्नः ससुतादिकः

1.52.95

समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ॥ च द्वयोः क्रमात् ।
भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत्

1.52.96

इतरेतरयोगे तु रामकृष्णौ समाहृतौ ।
रामकृष्णं द्विज द्वै द्वै ब्रह्म चैकमुपास्यते

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc