नारद पुराण · अध्याय 1.51
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमो ऽध्यायः
अथातः संप्रवक्ष्यामि कल्पग्रन्थं मुनीश्वरर ।
यस्य विज्ञानमात्रेण स्यात्कर्मकुशलो नरः
नक्षत्रकल्पो वेदानां संहितानां तथैव च ।
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः
नक्षत्राधीश्वराख्यानं विस्तरेण यथातथम् ।
नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि च
वेदकल्पे विधानं तु ऋगादी नां मुनीश्वर ।
धर्मार्थकाममोक्षाणां सिद्ध्यै प्रोक्तं सविस्तरम्
मन्त्राणामृषयश्चैव छदांस्यथ च देवताः ।
निर्दिष्टाः संहिताकल्पे मुनिभिस्तत्त्वदर्शिभिः
तथैवाङ्गिरसे कल्पे षट्कर्माणि सविस्तरम् ।
अभिचारविधानेन निर्दिष्टानि स्वयंभुवा
शान्तिकल्पे तु दिव्यानां भौमानां मुनिसत्तम ।
तथान्तरिक्षोत्पातानां शान्तयो ह्युदिताः पृथक्
संक्षेपेणैतदुद्दिष्टं लक्षणं कल्पलक्षणे ।
विशेषः पृथगेतेषां स्थितः शङ्खान्तरेषु च
गृह्यकल्पे तु सर्वेषामुपयोगितयाधुना ।
वक्ष्यामि ते द्विजश्रेष्ठ सावधानतया शृणु
ओङ्कारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गल्यकाविमौ
कृत्वा प्रोक्तानि कर्माणि तद्वर्द्ध्वानि करोति यः ।
सो ऽथ शब्दं प्रंयुजीत तदानन्त्यार्थमिष्यते
कुशाः परिसमूहाय व्यस्तशाखाः प्रकीर्तिताः ।
न्यूनाधिका निष्फलाय कर्मणो ऽभिमतस्य च
कृमिकीटपतङ्गाद्या भ्रमन्ति वसुधातले ।
तेषां संरक्षणार्थाय प्रोक्तं परिसमूहनम्
रेखाः प्रोक्ताश्च यास्तिस्रः कर्तव्यास्ताः समा द्विज ।
न्यूनाधिका न कर्त्तव्या इत्येव परिभाषितम्
मेदिनी मेदसा व्याप्ता मधुकैटभदैत्ययोः ।
गोमयेनोपलेप्येयं तदर्थमिति नारद
वन्ध्या दुष्टा च दीनाङ्गी मृतवत्सा च या भवेत् ।
यज्ञार्थं गोमयं तस्या नाहरेदिति भाषितम्
ये भ्रमन्ति सदाऽकाशे पतङ्गाद्या भयङ्कराः ।
तषां प्रहरणार्थाय मतं प्रोद्धरणं द्विज
स्रुवेण च कुशेनापि कुर्यादुल्लेखनं भुवः ।
अस्थिकण्टकसिद्ध्यर्थं ब्रह्मणा परिभाषितम्
आपो देवगणाः सर्वे तथा पितृगणा द्विज ।
तेनाद्भिरुक्षणं प्रोक्तं मुनिभिर्विधि कोविदैः
अग्नेंरानयनं प्रोक्तं सौभाग्यस्रीभिरेव च ।
शुभदे मृण्मये पात्रे प्रोक्ष्याद्भिस्तं निधायपयेत्
अमृतस्य क्षयं दृष्ट्वा ब्रह्माद्यैः सर्वदैवतैः ।
वेद्यां निधापितस्तस्मात्समिद्गर्भो हुताशनः
दक्षिणस्यां दानवाद्याः स्थिता यज्ञस्य नारद ।
तेभ्यः संरक्षणार्थाय ब्रह्माणं तद्दिशि न्यसेत्
उत्तरे सर्वपात्राणि प्रणीताद्यानि पश्चिमे ।
यजमानः पूर्वतः स्युर्द्विजाः सर्वे ऽपि नारद
द्यूते च व्यवहारे च यज्ञकर्मणि चेद्भवेत् ।
कर्तोदासीन चित्तस्तत्कर्म नश्येदिति स्थितिः
ब्रह्माचार्यौं स्वशाखौ हि कर्त्तव्यौ यज्ञकर्मणि ।
ऋत्विजां नियमो नास्ति यथालाभं समर्चयेत्
द्वे परित्रे त्र्यङ्गुले स्तः प्रोक्षिणी चतुरङ्गुला ।
आज्यस्थाली त्र्यङ्गुलाथ चरुस्थाली षडङ्गुला
द्व्यङ्गुलं तूपयमनमेकं संमार्जनाङ्गुलम् ।
स्रुवं षडङ्गुल प्रोक्तं स्रुचं सार्द्धत्रयाङ्गुलम्
प्रादशमात्रा समिधः पूर्णपात्रं षडङ्गुलम् ।
प्रोक्षिण्या उत्तरे भागे प्रणीतापात्रमष्टभिः
यानि कानि च तीर्थानि समुद्राः सरितस्तथा ।
प्रणीतायां समासन्नास्तस्मात्तां पूरयेज्जलैः
वेदिका वस्रहीना च नग्रा संप्रोच्यते द्विज ।
परिस्तीर्य्य ततो दर्भेः परिदध्यादिमां बुधः
इन्द्रवज्रं विष्णुचक्रं वामदेवत्रिशूलकम् ।
दर्भरूपतया त्रीणि पवित्रच्छेदनानि च
प्रोक्षणी च प्रकर्तव्या प्रणीतोदकसंयुता ।
तेनातिपुण्यदं कर्म पवित्रमिति कीर्तितम्
आज्यस्थाली प्रकर्तव्या पलमात्रप्रमाणिका ।
कुलालचक्रघटितं आसुरं मृण्मयं स्मृतम्
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् ।
स्रुवे च सर्वकर्माणि शुभान्यप्यशुभानि च
तस्य चैव पवित्रार्थं वह्नौ तापनमीरितम् ।
अग्रे धूतेन वैधव्यं मध्यं चैव प्रजाक्षयः
मूले च म्रियते होता तस्माद्धार्यं विचार्य तत् ।
अग्निः सूर्यश्च सोमश्च विरिञ्चिरनिलो यमः
स्रुवे षडेते देवास्तु प्रत्यङ्गुलमुपाश्रिताः ।
अग्निर्भघोगार्थनाशाय सूर्यो व्याधिकरो भवेत्
निष्फलस्तु स्मृतः सोमो विरिञ्चिः सर्वकामदः ।
अनिलो वृद्धिदः प्रोक्तो यमो मृत्युप्रदो मतः
संमार्जनोपयमनं कर्त्तव्यं च कुशद्वयम् ।
पूर्वं तु सर्वशाखं स्यात्पञ्चशाखं तथापरम्
श्रीपर्णी च शमी तद्वत्खदिरश्च विकङ्कतः ।
पलाशश्चैव विज्ञेयाः स्रुवे चैव तथा स्रुचि
हस्तोन्मितं स्रुवं शस्तं त्रिन्दशाङ्गुलिकं स्रुचम् ।
विप्राणां चैतदाख्यातं ह्यन्येषामङ्गुलोनकम्
शूद्राणां पतितानां च खरादीनां च नारद ।
दृष्टिदोषविनाशार्थं पात्राणां प्रोक्षणं स्मृतम्
अकृते पूर्णपात्रे तु यज्ञच्छिद्रं समुद्भवेत् ।
तस्मिन्पूर्णीकृते विप्र यज्ञसंपूर्णता भवेत्
अष्टमुष्टिर्भवेत्किञ्चित्पुष्कलं तच्चतुष्टयम् ।
पुष्कलानि तु चत्वारि पूर्णपात्रं विदुर्बुधाः
होमकाले तु संप्राप्ते न दद्यादासनं क्वचित् ।
दत्ते तृप्तोभवेद्वह्निः शापं दद्याञ्च दारुणम्
आधारौ नासिके प्रोक्तौ आज्यभागौ च चक्षुषी ।
प्राजापत्यं मुखं प्रोक्त कटिर्व्याहृतिभिः स्मृता
शीर्षहस्तौ च पादौ च पञ्चवारुणमीरितम् ।
तथा स्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा
द्विमुखं चैकहृदयं चतुः श्रोत्रं द्विनासिकम् ।
द्विशीर्षकं च षण्नेत्रं पिङ्गलं सप्तजिह्वकम्
सव्यभागे त्रिहिस्तं च चतुर्हस्तञ्च दक्षिणे ।
स्रुक्स्त्रुवौ चाक्षमाला च या शक्तिर्दक्षिणे करे
त्रिमेखलं त्रिपादं च घृतपात्रं द्विचामरम् ।
मेषारूढं चतुःशृङ्गं बालादित्यसमप्रभम्
उपवीतसमायुक्तं जटाकुण्डलमण्डिमम् ।
ज्ञात्वैवमग्निदेहं तु होमकर्मसमाचरेत्
पयो दधि घृतं चैव स्नेहपक्वं तथैव च ।
जुहुयाद्यस्तु हस्तेन स विप्रो ब्रह्महा भवेत्
यदन्नं पुरुषो ऽश्राति तदन्नं तस्य देवताः ।
सर्वकामसमृद्ध्यर्थं तिलाधिक्यं हविर्मतम्
होमे मुद्रात्रयं प्रोक्तं मृगी हंसी च सूकरी ।
अभिचारे सूकरी स्यान्मृगी हंसी शुभात्मके
सर्वाङ्गुलीभिः क्रौडी स्याद्धंसी मुक्तकनिष्टिका ।
मध्यमानामिकाङ्गुष्टैर्मृगी सुद्रा प्रकीर्तिता
पूर्वप्रमाणयाहुत्या पञ्चाङ्गुलिगृहीतया ।
दधिमध्वाज्यसंयुक्त ऋत्विग्भिर्जुहुयात्तिलैः
कुशास्त्वनामिकासक्ताः कार्याः स्युः पुण्यकर्मणि
विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः ।
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा
तेनोपसृष्टो यस्तस्य लक्षणानि निबोध मे ।
स्वमेव गाहतेत्यर्थं जलं मुण्डांश्च पश्यति
कामाय वाससश्चैव क्रव्यादांश्चाधिरोहति ।
अन्त्यजैर्गर्द्दभैरुष्टैः सहैकत्रावतिष्टते
व्रजन्नपि तथात्मानं मन्यते ऽनुगतं परैः विमना विफलारंभः संसीदत्यनिमित्ततः
तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी न च भर्तारमपत्यं गर्भमङ्गना ।
आचार्यत्वं श्रोत्रियश्च न शिष्यो ऽध्ययनं तथा
वणिग्लाभं न चान्पोति कृषिं चापि कृषिबलः ।
स्नपन तस्य कर्तव्यं पुण्ये ऽह्रि विधिपूर्वकम् ।
गौरसर्ष पकल्केन स्वस्ति वाच्या द्विजैः शुभाः
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ध्रदात् ।
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाशु निक्षिपेत्
पात्र्याहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं ततः
सहस्राक्षं शतधार मृषिभिः पावनं कृतम् ।
तेन त्वामभिषिञ्चामि पावमान्याः पुंनतु ते
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तुदन्तु सर्वदा
स्नानस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान्मूर्द्धनि कुशान्सव्यन परिगृह्य च
मितश्च संमितश्चैव तथा शालकटङ्कटौ ।
कूष्माण्डो राजपुत्र श्चेत्यन्ते स्वाहासमान्वितैः
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
दद्याञ्चतुष्पथे सूर्य्ये कुशानास्तीर्य्य सर्वतः
कृता कृतांस्तण्डुलीश्च पललौदनमेव च ।
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेवतु
पुष्पं चित्रं सुगन्धं च सुराञ्च त्रिविधामपि ।
मूलकं पूरिकापूपांस्तथैवोटस्रजो ऽपि च
दध्यन्नं पायसं चैव गुजपिष्ट समोदकम् ।
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः
विनायकस्य जननी मुपतिष्टेत्ततो ऽम्बिकाम् ।
दुर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम्
रूपं देहि यशो देहि भगं भगवति देहि मे ।
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे
उपस्थाय शिवां दुर्गामुमापतिमथाचेर्यत् ।
धूपैदर्पिश्चै नैवेद्यैर्गन्धमाल्यानुलेपनैः
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान्भोजयेत्पश्चाद्वस्त्रयुगमं गुरोरपि
एवं विनायकं पूज्य ग्रहांश्चैव प्रपूजयेत् ।
श्रीकामः शान्तिकामो वा पुष्टिवृद्ध्यायुर्वीर्य्यवान्
सीर्य्यः सोमो महीपुत्रो बुधो जीवो भृगुः शनिः ।
राहुकेतू नवाप्येते नवाप्येते स्थापनीया ग्रहाः क्रमात्
ताम्रकाद्रजताद्रक्तचन्दनात्स्वर्णकादपि ।
हेम्नो रजतादयसः सीसात्कार्या शुभाप्तये
स्ववर्णैर्वापटे लेख्या गन्धैर्मण्डलकेषु च ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च
गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम्
आकृष्णेन इमन्देवा अग्निर्मूर्द्धादिवः ककुत् ।
उद्बुधअयस्वाति यदर्यस्तथैवान्नात्परिस्रुतः
शन्नोदेवीस्तथा काण्डात्केतुं कृण्वन्नकेतवः
अर्कः पलाशः खदिरस्त्वपामार्गो ऽथपिप्पलः ।
उदुंबरः शमी दूर्वा कुशाश्च समिधः क्रमात्
एकैकस्मादष्टशतमष्टाविंशतिरेव च ।
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा पुनः
गुडौदनं पायसं च हविष्यं क्षीरष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च
दद्या द्ग्रहक्रमादेतद्द्विजेभ्यो भोजनं बुधः ।
शक्तितो ऽपि यथा लाभं सत्कृत्य विधिपूर्वकम्
धेनुः शङ्खस्तथानङ्वान्हिमवासो हयः क्रमात् ।
कृष्णागौरायसं छाग एता वै दक्षिणाः स्मृताः
यस्य यस्य तु यद्द्रव्यं पलेनार्च्यः स तेन च ।
ब्रह्मन्नेषां वरो दत्तः पूजिताः पूजयिष्यथः
ग्रहाधीना नरेद्राणां धनजात्युच्छ्रयास्तथा ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः
अदित्यस्य सदा पूजा तिलकं स्वामिनस्तथा ।
महागणपतेश्चैव कुर्वन्सिद्धिमवान्पुयात्
कर्मणां सफलत्वं च श्रियं वाप्नोत्यनुत्तमाम्
अकृत्वा मातृयागं तु यो ग्रहार्चां समारभेत् ।
कुप्यन्ति मातरस्तस्य प्रत्यूहं कुर्वते तथा
वसोः पवित्रमन्त्रेण वसोर्द्धारां प्रकल्प्य च ।
गौर्याद्या मातरः पूज्या माङ्गल्येषु शुभार्थिभिः
गौरी पद्म शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातृका वैधृतिर्धृतिः
पुष्टिर्हृष्टिस्तथा तुष्टिरात्मदेवतया सह ।
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोहश
आवाहनं तथा पाद्यमर्ध्यं स्नानं च चन्दनम् ।
अक्षतांश्चैव पुष्पाणि धूपं दीपं फलानि च
नैवेद्याचमनीयं च तांबूलं पूगमेव च ।
नीराजनं दक्षिणां च क्रमाद्दद्याञ्च तुष्टये
पितृकल्पं प्रक्ष्यामि धनसंततिवर्द्धनम् ।
अमावस्याष्टका वृद्धिः कृष्णपक्षायनद्वयम्
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सुर्यसंक्रमः ।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः ।
अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा
वेदार्थविज्ज्येष्टसामा त्रिमधुस्रिसुपर्णकः ।
स्वस्रीय ऋत्विग्जामाता याज्यश्वशुरमातुलाः
त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ।
कर्मनिष्टास्तपोनिष्टाः पञ्चाग्निब्रह्मचारिणः
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ।
रोगी न्यूनातिरिक्ताङ्गः काणः पौनर्भवस्तथा
अवकीर्णी कुण्डगोलौ कुनखी श्यावदङ्कः ।
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः
मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ।
मातृपितृगुरुत्यागी कुण्डाशी वृषलात्मजः
परपूर्वापतिः स्तेनः कर्मभ्रष्टाश्च निन्दिताः ।
निमन्त्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः
तैश्चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः ।
अपराह्ने समघभ्यर्च्य स्वागतेनागतांस्तु तान्
पवित्रपाणिराचान्तानासने चोपवेशयेत् ।
विप्रान्दैवे यथाशक्ति पित्र्ये ऽयुग्मांस्तथैव च
परश्रिते शुचौ देशे दक्षिणाप्रवणं तथा ।
द्वौ द्वैवे प्राक् त्रयः पित्रघ्ये उदगेकैकमेव च
मातामहानामप्येवं तत्र वा वैश्वदैविकम् ।
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि
आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ।
यवैरन्वावकीर्याथ भाजने सपवित्रके
शन्नो देव्या अपः क्षिप्त्वा यवो ऽसीति यवांस्तथा ।
यादिव्या इति मन्त्रेण हस्ते पाद्यं विनिःक्षिपेत्
दत्त्वोदकं गन्धमाल्यं प्रदायान्नं सदीपकम् ।
अपसव्यं ततः तृत्वा पितॄणां सप्रदक्षिणम्
द्विगुणांस्तु कुशान्दत्त्वा ह्युशन्तिस्त्वित्यृचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः
यवार्थास्तु तिलैः कार्याः कुर्यादर्ध्यादि पूर्ववत् ।
दत्त्वार्ध्यं सयवांस्तेषां पात्रे कृत्वा विधानतः
पितृभ्यः स्थानमसीति न्युब्जं पात्रं कगेत्यधः ।
अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम्
कुरुष्वेत्यभ्यनुज्ञातो दत्तावाग्नौ पितृयज्ञवत् ।
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः
यथालाभोपपन्नेषु गैप्येषु च विशेषतः ।
दत्त्वान्नं पृथिवीपात्रमिति पात्रा भिमन्त्रणम्
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्टं निवेशयेत् ।
सव्याहृतिकां गायत्रीं मधुवाता इति त्यृचम्
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्ते ऽपि वाग्यताः ।
अग्नमिष्टं हविप्यं च दद्यादक्रोधनो ऽत्वरः
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ।
अन्नमादाय तृप्ताःस्थ शेषं चैवानुमान्य च
तदन्नं विकिरेद्भूमौ दद्याञ्चापः सकृत्सकृत् ।
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः
उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ।
मातामहानामप्येवं दद्यादाचमनं ततः
स्वस्निवाचं ततः कुर्यादक्षय्योदकमेव हि ।
दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत्
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ।
ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिंचेत्ततो जलम्
विश्वेदेवाश्वप्रीयन्तां विप्रैश्चोक्त इदं जपेत् ।
दातारोनो ऽभिवर्द्धन्तां वेदाः संततिरेव च
श्रद्धा चनो मा व्यगमद्बहु देयं च नो ऽस्त्विति ।
इत्युक्तो क्ताः प्रिया वाचः प्रणिपत्य विसर्जयेत्
वाजेवाजे इति प्रीतः पितृपूर्वं विसर्जनम् ।
यस्मिंस्ते संश्रवाः पूर्वमर्ध्यपात्रे निवेशिताः
पितृपात्रं तदुत्थानं कृत्वा विप्रान्विसर्जयेत् ।
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम्
ब्रह्मचारी भवेत्तां तु रजनीं ब्रह्मणैः सह ।
एवं प्रदक्षिणावृत्त्या वृद्धौ नान्दीमुखान्पितॄन्
यजेत दधिकर्कन्धुमिश्रान्पिडान्यवैः कृतान् ।
एकोद्दिष्टं देवहीनमेवार्ध्यैकपवित्रकम्
आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ।
उपतिषअटतामक्षय्यस्थाने विप्रविसर्जने
अभिरण्यतामिति वदेद् ब्रूयुस्ते ऽभिरताः स्म ह ।
गन्धोदकं तिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्
अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रेसेचयेत् ।
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत्
एतन्सपिं डीकरणमेकोष्टिद्दं स्रिया अपि ।
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत्
तस्याप्यन्नं सोदकुंभं दद्यात्संवत्सरं द्विजे ।
भृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्
प्रतिसंवत्सरं चैव मासमेकादशे ऽहनि ।
पिण्डांश्चगो ऽजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ।
हविष्यान्नेन वै मासं पायसेन तु वत्सरम्
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ।
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम्
मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ।
खड्गामिषं महाकल्पं मधु मुन्यन्नमेव च
लोहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ।
यो ददाति गयास्थश्च सर्वमानन्त्यमश्नुते
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ।
कल्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि
द्यूतं कृषिं च वाणिज्यं द्विशफैकशफआंस्तथा ।
ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके
ज्ञातिश्रेष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ।
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम्
शस्त्रेण तु हताये वै तेभ्यस्तत्र प्रदीयते ।
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा
पुत्रान् श्रेष्ठांश्च सौभाग्यं समृद्धिं मुख्यतां शुभम् ।
प्रवृत्तं चक्रतां चैव वाणिज्यप्रभृतीनि च
अरोगित्वं यशो वीतशोकतां परमां गतिम् ।
धनं विद्यां भिषक् सिद्धिं कुप्यङ्गा अप्यजाविकम्
अश्वनायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ।
कृत्तिकादि भरण्यन्तं सकामानाप्नुयादिमान्
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ।
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ।
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च
प्रयच्छन्ति तथा राज्यं नृणां प्रीताः पितामहाः ।
इत्येवं कथितं किञ्चित्कल्पाध्याये विशेषतः
ज्ञातव्यं वैदिके तन्त्रे पुराणान्तरके ऽपि च ।
य इमं चिन्तयेद्विद्वान्कल्पाध्यायं मुनीश्वर
स भवेत्कर्मकुशल इहान्यत्र गतिं शुभाम् ।
यः शृणोति नरो भक्त्या दैवे पित्र्ये च कर्मणि
कल्पाध्यायं स लभते दैवपित्र्य क्रियाफलम् ।
धनं विद्यां यशः पुत्रान्परत्र च गतिं पराम्
अतः परं व्याकरणं तुभ्यं वेदमुखाभिधम् ।
कथयिष्ये समासेन शृणुष्व सुसमाहितः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0