भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.49

1.49.1

इति शृबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.ष्टचत्वारिंशो ऽध्यायः
सनन्दन उवाच
निशम्य तस्येति वचः परमार्थसमन्वितम् ।
प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम्

1.49.2

राजोवाच
भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः ।
श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः

1.49.3

एतद्विवेकविज्ञानं यदि शेषेषु जन्तुषु ।
भवता दर्शितं विप्र तत्परं प्रकृतेर्महत्

1.49.4

नाहं वहामि शिबिकां शिबिका मयि न स्थिता ।
शरीरमन्यदस्मत्तो येनेयं शिबिका धृता

1.49.5

गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता ।
प्रवर्तन्ते गुणाश्चैते किं ममेति त्वयोदितम्

1.49.6

एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ।
मनो विह्वलतामेति परमार्थार्थतां गतम्

1.49.7

पूर्वमेव महाभाग कपिलर्षिमहं द्विज ।
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किन्त्वत्र संशये

1.49.8

तदन्तरे च भवता यदिदं वाक्यमीरितम् ।
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति

1.49.9

कपिलर्षिर्भगवतः सर्वभूतस्य वै किल ।
विष्णोरंशो जगन्मोहनाशाय समुपागतः

1.49.10

स एव भगवान्नूनमस्माकं हितकाम्यया ।
प्रत्यक्षतामनुगतस्तथैतद्भवतोच्यते

1.49.11

तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज ।
तद्वदाखिल विज्ञानजलवीच्युजधिर्भवान्

1.49.12

ब्राह्मण उवाच
भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि ।
श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपते

1.49.13

देवताराधनं कृत्वा धनसंपदमिच्छति ।
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप

1.49.14

विवकिनस्तु संयोगः श्रेयो ऽसौ परमात्मना ।
कर्मयज्ञादिकं श्रेयः स्वर्लोकपलदायि यत्

1.49.15

श्रेयः प्रधानं च फले तदेवानभिसंहिते ।
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः

1.49.16

श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः ।
श्रेयांस्येवमनेकानि शतशो ऽथ सहस्रशः

1.49.17

संत्यत्र परमार्थास्तु न त्वेते श्रूयतां च मे ।
धर्मो ऽयं त्यजते किं तु परमार्थो धनं यदि

1.49.18

व्ययश्चक्रियत कस्मात्कामप्राप्त्युपलक्षणः ।
मुत्रश्चेत्परमार्थाख्यः सो ऽप्यन्यस्य नरेश्वर

1.49.19

परमार्थभूतः सो ऽन्यस्य परमार्थो हि नः पिता ।
एवं न परमार्थो ऽस्ति जगत्यत्र चराचरे

1.49.20

परमार्थो हि कार्याणि करणानामशेषतः ।
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि

1.49.21

परमार्था भवन्त्यत्र न भवन्ति च वै ततः ।
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव

1.49.22

परमार्थभूतं तत्रापि श्रूयतां गदतो मम ।
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया

1.49.23

तत्कारणानुगमनाज्जायते नृप मृन्मयम् ।
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः

1.49.24

निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ।
अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते

1.49.25

यत्तुं नाशि न संदेहो नाशिद्रव्योपपादितम् ।
तदेवापलदं कर्म परमार्थो मतो मम

1.49.26

मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ।
ध्यानमेवात्मनो भूपपरमार्थार्थशब्दितम्

1.49.27

भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ।
परमार्थात्मनोर्योगः परमार्थ इतीष्यते

1.49.28

मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः ।
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः

1.49.29

परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ।
एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः

1.49.30

जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप ।
परिज्ञानमयो सद्भिर्नामजात्यादिभिविभुः

1.49.31

न योगवान्न युक्तो ऽभून्नैव पार्थिवः योक्ष्यति ।
तस्यात्मपरदेहेषु सतो ऽप्येकमयं हि तत्

1.49.32

विज्ञानं परमार्थो ऽसौ वेत्ति नो ऽतथ्यदर्शनः ।
वेणुरङ्घ्रविभेदेन भेदः षङ्जादिसंज्ञितः

1.49.33

अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः ।
एकत्वं रूपभेदश्च वाह्यकर्मप्रवृत्तिजः

1.49.34

देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः ।
शृण्वत्र भूप प्राग्वृत्तं यद्गीतमृभुणा भवेत्

1.49.35

अवबोधं जनयतो निदाधस्य द्विजन्मनः ।
ऋभुर्नामाबवत्पुत्रो ब्रह्मणः परमेष्टिनः

1.49.36

विज्ञात तत्त्वसद्भावो निसर्गादेव भूपते ।
तस्य शिष्यो निदाघो ऽभूत्पुलस्त्यतनयः पुरा

1.49.37

प्रादादशेषविज्ञानं स तस्मै परया मुदा ।
अवाप्तज्ञान तत्त्वस्य न तस्याद्वैतवासना

1.49.38

स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ।
देविकायास्तटे वीर नागरं नाम वै पुरम्

1.49.39

समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् ।
रम्योपवनपर्यन्तं स तस्मिन्पार्थवोत्तम

1.49.40

निदाधनामायोगज्ञस्तस्य शिष्यो ऽभवत्पुरा ।
दिव्ये वर्षसहस्रे तु समतीते ऽस्य तत्पुरम्

1.49.41

जगाम स ऋभुः शिष्यं निदाघमवलोकितुम् ।
स तस्य वैश्वदेवन्ति द्वारालोकनगोचरः

1.49.42

स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः ।
प्रक्षालिताङ्घ्रिपाणिं च कृतासनपरिग्रहम्

1.49.43

उवाच स द्विजश्रेष्ठो भुज्यतामिति सादरम् ।
ऋभुरुवाच
भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे

1.49.44

तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ।
निदाघ उवाच
सक्तुयावकव्रीहीनामपूपानां च मे गृहे

1.49.45

यद्रोचते द्विजश्रेष्ठ तावद्भुङ्क्ष्व यथेच्छया ।
ऋभुरुवाच
कदन्नानि दिजैतानि मिष्टमन्नं प्रयच्छ मे

1.49.46

संयावपायसादीनि चेक्षुका रसवन्ति च ।
निदाघ उवाच
गृहे शालिनि मद्गेहे यत्किञ्चिदति शोभनम्

1.49.47

भोज्येषु साधनं मिष्टं तेनास्यान्नं प्रसाधय ।
इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तत्

1.49.48

प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ।
न भुक्तवन्तमिच्छातो मिष्टमन्नं महामुनिम्

1.49.49

निदाघः प्राहभूपाल प्रश्रयावनतः स्थितः ।
निदाघ उवाच
अपि ते परमा तृप्तिरुत्पन्ना पुष्टिरेव

1.49.50

अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ।
क्व निवासी भवान्विप्र क्व वा गन्तुं समुद्यतः

1.49.51

आगम्यते च भवता यतस्तश्च निवेद्यताम् ।
ऋमुरुवाच
क्षुधितस्य च भुक्ते ऽन्ने तृप्तिर्ब्रह्मन्विजायते

1.49.52

न मे क्षुधा भवेत्तॄप्तिः कस्मान्मां द्विज पृच्छति ।
वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः

1.49.53

भवत्यंभसि च क्षीणे नृणां तृष्णासमुद्भवः ।
क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज

1.49.54

ततः क्षुत्संभवाभावात्तृप्तिरस्त्येव मे सदा ।
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज

1.49.55

चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते ।
क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वया

1.49.56

कुतश्चागम्यते त्वेतात्र्रितये ऽपि निबोध मे ।
पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः

1.49.57

कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत्कथम् ।
सो ऽहं गन्ता न चागन्ता नैकदेशनिकेतनः

1.49.58

त्वं चान्ये च न च त्वं त्वं नान्ये नैवाहमप्यहम् ।
मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव

1.49.59

किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तमा ।
मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम्

1.49.60

अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः ।
आदिमध्यावसानेषु किमन्नं रुचिकारणम्

1.49.61

मृण्मयं हि मृदा यद्वद्गृहं लिप्तं स्थिरीभवेत् ।
पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः

1.49.62

यवगोधूममुद्गादिर् घृतं तैलं पयो दधि ।
गुडः फलानीति तथा पार्थिवाः परमाणवः

1.49.63

तदेतद्भवता ज्ञात्वा मिष्टामिष्टविचारि यत् ।
तन्मनः शमनालबि कार्यं प्राप्यं हि मुक्तये

1.49.64

इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप ।
प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत्

1.49.65

प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः ।
नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज

1.49.66

ऋभुरुवाच
ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।
इहागतो ऽहं दास्यामि परमार्थं सुबोधितम्

1.49.67

एक एवमिदं विद्धि न भेदि सकलं जगत् ।
वासुदेवाभिधेयस्य स्वरुपं परात्मनः

1.49.68

ब्रह्मण उवाच
तथेत्युक्त्वा निदाधेन प्रणिपातपुरः सरम् ।
पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः

1.49.69

पुनवषसहस्रन्ते समायातो नरेश्वर ।
निदाघज्ञानदानाय तदेव नगरं गुरुः

1.49.70

नगरस्य बहिः सो ऽथ निदाघं दृष्टवान् मुनिम् ।
महाबलपरीवारे पुरं विशति पार्थिवे

1.49.71

दूरस्थितं महाभागे जनसंमर्दवर्जकम् ।
क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम्

1.49.72

दृष्ट्वा निदाघं स ऋभुरुपागत्याभिवाद्य च ।
उवाच कस्मादेकान्तं स्थीयत भवता द्विज

1.49.73

॥ निदाघ उवाच
भो विप्र जनसंमर्द्दो महानेष जनेश्वरे ।
प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया

1.49.74

ऋभुरुवाच
नराधिपो ऽत्र कतमः कतमश्चेतरो जनः ।
कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो मतो मम

1.49.75

निदाघ उवाच
यो ऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुच्छ्रयम् ।
अधिरुढो नरेन्द्रो ऽयं परितो यस्तथेतरः

1.49.76

ऋभुरुवाच
एतौ हि गजराजानौ दृष्टौ हि युगपन्मया ।
भवता निर्विशेषेण पृथग्वेदोपलक्षितौ

1.49.77

तत्कथ्यतां महाभाग विशेषो भवतानयोः ।
ज्ञातुमिच्छाम्यहं को ऽत्र गजः को वा नराधिपः

1.49.78

निदाध उवाच
गजोयो ऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः ।
वाह्यवाहकसंबन्धं को न जानाति वै द्विज

1.49.79

ऋभुरुवाच
ब्रह्मन्यथाहं जानीयां तथा मामवबोधय ।
अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते

1.49.80

ब्राह्मण उवाच
इत्युक्त्वा सहसारुह्य निदाघः प्राह तं ऋभुम् ।
श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि

1.49.81

उपर्यहं यथा राजा त्वमधःकुञ्जरो यथा ।
अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया

1.49.82

ऋभुरुवाच
त्वं राजेव द्विजश्रेष्ठ स्थितो ऽहं गजवद्यदि ।
तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा

1.49.83

ब्राह्मण उवाच
इत्युक्तः सत्वरस्तस्य चरणावभिवन्द्य सः ।
निदाधः प्राह भगवन्नाचार्यस्त्वमृभुर्मम्

1.49.84

नान्यस्याद्वै वसंस्कारसंस्कृतं मानसं तथा ।
यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम्

1.49.85

ऋभुरुवाच
तवोपदेशदानाय पूर्वशुश्रूषणात्तव ।
गुरुस्नेहादृभुर्नामनिदाघं समुपागतः

1.49.86

तदेतदुपदिष्टं ते संक्षेपेण महामते ।
परमार्थसारभूतं यत्तदद्वैतमशेषतः

1.49.87

ब्राह्मण उवाच
एवमुक्त्वा ददौ विद्यां निदाघं स ऋभुर्गुरुः ।
निदाघो ऽप्युपदेशेन तेनाद्वैतपरो ऽभवत्

1.49.88

सर्वभूतान्यभेदेन ददृशे स तदात्मनः ।
तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः

1.49.89

तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबान्धवः ।
भव सर्वगतं ज्ञानमात्मानमवनीपते

1.49.90

सितनीलादिभेदेन यथैकं दृश्यते नभः ।
भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक् पृथक्

1.49.91

एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततो ऽन्यत् ।
सो ऽहं स च त्वं स च सर्वमेतदात्मांस्वयं भात्यपभेदमोहः

1.49.92

सनन्दन उवाच
इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ।
स चापि जातिस्मरणावबोदस्तत्रैव जन्मन्यपवर्गमाप

1.49.93

परमार्थाध्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर ।
ब्राह्मणक्षत्रियविशां श्रोर्तृआणां चापि मुक्तिदम्

1.49.94

यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया ।
ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc