नारद पुराण · अध्याय 1.48
इति श्रूबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमो ऽध्यायः
नारद उवाच
श्रुतं मया महामाग तापत्रयचिकित्सितम् ।
तथापि मे मनो भ्रान्तं न स्थितिं लभतेंऽजसा
आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् ।
सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद
सूत उवाच
तच्छ्रृत्वा नारदेनोक्तं ब्रह्मपुत्रः सनन्दनः ।
उवाच हर्षसंयुक्तः स्मरन्भघरतचेष्टितम्
सनन्दन उवाच
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।
यं श्रुत्वा त्वन्मनो भ्रान्तमास्थानं लभते भूशम्
आसीत्पुरा मुनिश्रेष्ठ भरतो नाम भूपतिः ।
आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते
स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् ।
पालयामास धर्मेण पितृबद्रञ्जयन् प्रजाः
र्द्दजे च विविधैर्यज्ञैर्भगवन्तमधोक्षजम् ।
सर्वदेवात्मकं ध्यायन्नानाकर्मसु तन्मतिः
ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः ।
मुक्त्वा राज्यं ययौ विद्वान्पुलस्त्यपुहाश्रमम्
शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् ।
तत्रासौ तापसो तापसो भूत्वा विष्णोराराधनं मुने
चकार भक्तिभावेन यथालब्धसपर्यया ।
नित्यं प्रातः समाप्लुत्य निर्मले ऽभलि नारद
उपतिष्टेद्रविं भक्त्या गृणन्ब्रह्माक्षरं परम् ।
अथाश्रमे समागत्य वासुदेवं जगत्पतिम्
समाहृतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः ।
फलैः पुष्पैंस्तथा पत्रैस्तुलस्याः स्वच्छवारिभिः
पूजयन्प्रयतो भूत्वा भक्तिप्रसरसंप्लुतः ।
सचैकदा महाभागः स्नात्वा प्रातः समाहितः
चक्रनद्यां जपंस्तस्थौ मुहुर्तत्रयमंबुनि ।
अथाजगाम तत्तीरं जलं पातुं पिपासिता
आसन्नप्सवा ब्रह्मन्नैकैव हिणी वनात् ।
ततः समभवत्तत्र पीतप्राये जले तया
सिंहस्य नादः सुमहान् सर्वप्राणिभयङ्करः ।
ततः सा सिंहसन्नादादुत्प्लुता निम्नगातटम्
अत्युञ्चारोहणेनास्या नद्यां गर्भः पपात ह ।
तमुह्यमानं वेगेन वीचिमालापरिप्लुतम्
जग्राह भरतो गर्भात्पतितं मृगपोतकम् ।
गर्भप्रच्युतिदुःखेन प्रोत्तुङ्गाक्रणेन च
मुनीन्द्र सा तु हरिणी निपपात ममार च ।
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः
मृगपोतं समागृह्य स्वमाश्रममुपागतः ।
चकारानुदिनं चासौ मृगपोतस्य वै नृपः
पोषणं पुष्यमाणश्च स तेन ववृधे मुने ।
चचाराश्रमपर्यन्तं तृणानि गहनेषु सः
दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः ।
प्रातर्गत्वादिदूरं च सायमायात्यथाश्रमम्
पुनश्च भरतस्याभूदाश्रमस्योटजान्तरे ।
तस्यतस्मिन्मृगे दूरसमीपपरिवर्तिनि
आसीञ्चेतः समासक्तं न तथा ह्यच्युते मुने ।
विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः
ममत्व स चकारोञ्चैस्तस्मिन्हरिणपोतके ।
किं वृकैभक्षितो व्याघ्नैः किं सिंहेन निपातितः
चिरायमाणे निष्कान्ते तस्यासीदिति मानसम् ।
प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे
समाधिभङ्गस्तस्यासीन्ममत्वाकृष्टमानसः ।
कालेन गच्छता सो ऽथ कालं चक्रे महीपतिः
पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ।
मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि
मृगो बभूव स मुने तादृशीं भावनां गतः ।
जाति स्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम
विहाय मातरं भूयः शालग्राममुपाययौ ।
शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम्
मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ।
तत्र चोत्सृष्टदेहो ऽसौ जज्ञे जातिस्मरो द्विजः
सदाचारवतां शुद्धे यागिनां प्रवरे कुले ।
सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित्
अपश्यत्स मुनिश्रेष्ठः स्वात्मानं प्रकृतेः परम् ।
आत्मनोधिगतज्ञानाद्द्वेवादीनि महामुने
सर्वभूतान्यभे देन ददर्श स महामतिः ।
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम्
न ददर्श च कर्माणि शास्त्राणि जगृहे न च ।
उक्तो ऽपि बहुशः किञ्चिज्जण्ड वाक्यमभाषत
तदप्यसंस्कारगुणं ग्रामभाषोक्तिसंयुतम् ।
अपद्धस्तवपुः सो ऽपि मलिनांबरधृङ् मुने
क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ।
संमानेन परां हानिं योगर्द्धेः कुरुते यतः
जनेनावमतो योगी योगसिद्धिं च विन्दति ।
तस्माञ्चरेत वै योगी सतां धर्ममदूषयन्
जना यथावमन्येयुर्गच्छेयुर्नैव संगतिम् ।
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः
आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ।
भुङ्क्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान्
यद्यदाप्नोति स बहूनत्ति वै कालसंभवम् ।
पितर्युपरते सो ऽथ भ्रातृभ्रातृव्यबान्धवैः
कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ।
सरूक्षपीनावयवो जडकारी च कर्मणि
सर्वलोकोपकरणं बभूवाहारवेतनः ।
तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम्
क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत ।
स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज
बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ।
श्रेयः किमत्र संसारे दुःखप्राये नृणामिति
प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ।
उवाह शिबिकामस्य क्षत्तुर्वचनचोदितः
नृणां विष्टिगृहीतानामन्येषां सो ऽपि मध्यगः ।
गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम्
जातिस्मरो ऽसौ पापस्य क्षयकाम उवाह ताम् ।
ययौ जडगतिस्तत्र युगमात्रावलोकनम्
कुर्वन्मतिमतां श्रेष्ठस्ते त्वन्ये त्वरितं ययुः ।
विलोक्य नृपतिः सो ऽथ विषमं शिबिकागतम्
किमेतदित्याह समं गम्यतां शिबिकावहाः ।
पुनस्तथैव शिबिकां विलोक्य विषमां हसन्
नृपः किमे ऽतदित्याह भवद्भिर्गम्यते ऽन्यथा ।
भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः ।
शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम्
राजोवाच
किं श्रान्तो ऽस्यल्पमध्वानं त्वयोढा शिबिका मम ।
किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे
ब्राह्मण उवाच
नाहं पीवा न चैवोढा शिबिका भवतो मया ।
न श्रान्तो ऽस्मि न चायासो वोढान्यो ऽस्ति महीपते
राजोवाच
प्रत्यक्षं दृश्यते पीवात्वद्यापि शिबिका त्वयि ।
श्रमश्च भारो द्वहने भवत्येव हि देहिनाम्
ब्राह्मण उवाच
प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद ।
बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम्
त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता ।
मिथ्या तदप्यत्र भवान् शृणोतु वचनं मम
भूमौ पादयुगं चाथ जङ्घे पादद्वये स्थिते ।
ऊरु जङ्घाद्वयावस्थौ तदाधारं तथोदरम्
वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ ।
स्कन्धाश्रितयें शिबिका ममाधारो ऽत्र किङ्कृतः
शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् ।
तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा
अहं त्वं च तथान्ये च भूतैरुह्याश्च पार्थिव ।
गुणप्रवाहपतितो भूतवर्गो ऽपि यात्ययम्
कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते ।
अविद्यासंचितं कर्मतश्चाशेषेषु जन्तुषु
आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृते परः ।
प्रवृद्ध्यपचयौ न स्त एकस्याखिलजन्तुषु
यदा नोपचयस्तस्य नचैवापचयो नृप ।
तदापि बालिशो ऽसि त्वं कया युक्त्या त्वयेरितम्
भूपादजङ्घाकट्यूरुजठरादिषु संस्थिता ।
शिबिकेयं यदा स्कन्धे तदा भारः समस्त्वया
तथान्यजन्तुभिर्भूप शिबिकोढान केवलम् ।
शैलद्रुमगृहोत्थो ऽपि पृथिवीसंभवो ऽपि च
यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ।
सोढव्यः सुमहान्भारः कतमो नृप ते मया
यद्द्रव्यो शिबिका चेयं तद्द्रव्यो भूतसंग्रहः ।
भवतो मे ऽखिलस्यास्य समत्वेनोपबृंहितः
सनन्दन उवाच
एवमुक्त्वाभवंन्मौनी स वहञ्शिबिकां द्विजः ।
सो ऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन्
राजोवाच
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज ।
कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः
यो भवान्यदपत्यं वा यदागमनकारणम् ।
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया
ब्राह्मण उवाच
श्रूयतां को ऽहमित्येतद्वक्तुं भूप न शक्यते ।
उपयोगनिमित्तं च सर्वत्रागमनक्रिया
सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ।
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति
सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् ।
धर्माधर्मौं यतस्तस्मात्कारणं पृच्छ्यते कुतः
राजोवाच
धर्माधर्मौं न संदेहः सर्वकार्येषु कारणम् ।
उपभोगनिमित्तं च देहाद्देहान्तरागमः
यत्त्वेतद्भवता प्रोक्तं को ऽहमित्येतदात्मनः ।
वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते
यो ऽस्ति यो ऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते ।
आत्मन्येव न दोषाय शब्दो ऽहमिति यो द्विजा
ब्राह्मण उवाच
शब्दो ऽहमिति दोषाय नात्मन्येवं तथैव तत् ।
अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः
जिह्वा ब्रवीत्यहमिति दन्तौष्टतालुक नृप ।
एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः
किं हेतुभिर्वदूत्येषा वागेवाहमिति स्वयम् ।
तथापि वागहमेद्वक्तुमित्थं न युज्यते
पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः ।
ततो ऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम्
यद्यन्यो ऽस्ति परः को ऽपि मत्तः पार्थिवसत्तम् ।
न देहो ऽहमयं चान्ये वक्तुमेवमपीष्यते
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तददा हि को भवान्को ऽहमित्येतद्विफलं वचः
त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः ।
अयं च भवतो लोको न सदेतन्नृपोच्यते
वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्टिता ।
क्व वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप
वृक्षारूढो महाराजो नायं वदति ते जनः ।
न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम्
शिबिकादारुसंघातो स्वनामस्थितिसंस्थितः ।
अन्विष्यतां नृपश्रेष्ठानन्ददाशिबिका त्वया
एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् ।
क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि
पुमान्स्त्री गौरजा बाजी कुञ्जरो विहगस्तरुः ।
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु
पुमान्न देवो न नरो न पशुर्न च पादपः ।
शरीराकृतिभेदास्तु भूपैते कर्मयोनयः
वस्तु राजेति यल्लेके यञ्च राजभटात्मकम् ।
तथान्यश्च नृपेत्थं तन्न सत्यं कल्पनामयम्
यस्तु कालान्तरेणापि नाशसंज्ञामुपैति वै ।
परिणामादिसंभूतं तद्वस्तु नृप तञ्च किम्
त्वं राजा सर्वसोकस्य पितुः पुत्रो रिपो रिपुः ।
पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम्
त्वं किमेतच्चिरः किं तु शिरस्तव तथो दरम् ।
किमु पादादिकं त्वेतन्नैव किं ते महीपते
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।
को ऽहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव
एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् ।
पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कथम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0