भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.50

1.50.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.एकोनपञ्चाशत्तमोध्यायः
सूत उवाच
श्रुत्वा सनन्दनस्येत्थं वचनं नारदो मुनिः ।
असंतुष्ट इव प्राह भ्रातरं तं सनन्दनम्

1.50.2

नारद उवाच
भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया ।
तथापि नात्मा प्रीयेत शृण्वन्हरिकथां मुहुः

1.50.3

श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् ।
सिद्धिं सुमहतीं प्राप्तो निर्विण्णो ऽवान्तरं बहिः

1.50.4

ब्रह्मन्पुंसस्तु विज्ञानं महतां सेवनं विना ।
न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः

1.50.5

तस्य जन्मरहस्यं मे कमचाप्यस्य शृण्वते ।
समाख्याहि महाभाग मो7शास्त्रार्थविद्भवान्

1.50.6

सनन्दन उवाच
शृणु विप्रप्रवक्ष्यामि शुकोत्पत्तिं समासतः ।
यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने

1.50.7

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं यो ऽनूचानः स नो महान्

1.50.8

नारद उवाच
अनूचानः कथंब्रह्मन्पुमान्भवति मानद ।
तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम

1.50.9

सनन्दन उवाच
शृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् ।
यज्ज्ञात्वा साङ्गवेदानामभिज्ञो जायते नरः

1.50.10

शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ।
छन्दःशास्त्रं षडेतानि वादाङ्गानि विदुर्बुधाः

1.50.11

ऋग्वेद्रो ऽथ यदुर्वेदः सामवेदो ह्यथर्वणः ।
वेदाश्चत्वार एवैते प्रोक्ता धर्मनिरूपणे

1.50.12

सांगान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः ।
सो ऽनूचानः प्रभवति नान्यथा ग्रन्थकोटिभिः

1.50.13

नारद उवाच
अङ्गानां लक्षणं ब्रूहि वेदानां चापि विस्तरात् ।
त्वंमस्मासु महाविज्ञः सांगेष्वेतेषु मानद

1.50.14

सनन्दन उवाच
प्रश्नभारो ऽयमतुलस्त्वया मम कृतो द्विज ।
संक्षेपात्कथयिष्यामि सारमेषां सुनिश्चितम्

1.50.15

स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्दिजैः ।
वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते

1.50.16

आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् ।
कृतान्ते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः

1.50.17

एकान्तरः स्वरो ह्यप्सु गाथासुद्व्यन्तरः स्वरः ।
सामसु त्र्यन्तरं विद्यादेतावत्स्वरतो ऽन्तरम्

1.50.18

ऋक्सामयजुरङ्गानि ये यज्ञेषु प्रयुञ्जते ।
अविज्ञानाद्धि शिक्षायास्तेषां भवति विस्वरः

1.50.19

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिर्नास्ति यथेन्द्रशत्रुः स्वरतो ऽपराधात्

1.50.20

उरः कण्ठः शिरश्चैव स्थानानि त्रीणि वाङ्क्ये ।
सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम्

1.50.21

उरः सप्तविवारं स्यात्तथा कण्ठस्तथा शिरः ।
न च शक्तो ऽसि व्यक्तस्तु तथा प्रावचना विधिः

1.50.22

कठकालापवृत्तेषु तैत्तिराह्वरकेषु च ।
ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः

1.50.23

ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते ।
उच्चमध्यमसंघातः स्वरो भवति पार्थिवः

1.50.24

तृतीय प्रथमक्रुष्टा कुर्वन्त्याह्वरकान् स्वरान् ।
द्वितीयाद्यास्तु मद्रान्तास्तैत्तिरीयाश्चतुःस्वरान्

1.50.25

प्रथमश्च द्वितीयश्च तृतीयो ऽथ चतुर्थकः ।
मन्द्रः क्रुष्टो मुनीश्वर एतान्कुर्वन्ति सामगाः

1.50.26

द्वितीयप्रथमावेतौ नाण्डिभाल्लविनौ स्वरौ ।
तथा शातपथावेतौ स्वरौ वाजसनेयिनाम्

1.50.27

एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः ।
इत्येतञ्चरितं सर्वं स्वराणां सार्ववैदिकम्

1.50.28

सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा ।
अल्पग्रन्थं प्रभूतार्थं सामवेदाङ्गमुत्तमम्

1.50.29

तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् ।
पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम्

1.50.30

शिक्षामाहुर्द्विजातीनामृग्यजुः सामलक्षणम् ।
सप्त स्वरास्रयो ग्रामा मृर्छनास्त्वेकविंशतिः

1.50.31

ताना एकोनपञ्चाशदित्येतःस्वरमण्डलम् ।
षङ्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा

1.50.32

पञ्चमो धैवतश्चैवं निषादः सप्तमः स्वरः ।
षङ्जमध्यमगान्धारास्ररयो ग्रामाः प्रकीर्तिताः

1.50.33

भूर्ल्लोकाज्जायते षङ्जो भुवर्लोकाञ्च मध्यमः ।
स्वर्गाभ्राञ्चैव गान्धारो ग्रामस्थानानि त्रीणि हि

1.50.34

स्वराणां च विशेषेण ग्रामरागा इति स्मृताः ।
विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश

1.50.35

तानान्पं चदशेच्छन्ति गान्धारे सामगायिनाम् ।
नदी विशाला सुमुखी चित्रा चित्रवती मुखा

1.50.36

बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः ।
आप्यायिनी विश्वभृता चन्द्रा हेमा कपर्दिनी

1.50.37

मैत्री च बार्हती चैव पितॄणां सप्त मूर्छनाः ।
षङ्जे तूत्तरमन्द्रा स्यादृषभे चाभिरूहता

1.50.38

अश्वक्रान्ता तु गान्धारे तृतीया मूर्च्छना स्मृता ।
मध्यमे खलु सौवीरा हृषिका पञ्चमे स्वरे

1.50.39

धैवते चापि विज्ञेया मूर्छना तूत्तरा मता ।
निषादे रजनीं विद्यादृषीणां सप्त मूर्छनाः

1.50.40

उपजीवन्ति गन्धर्वा देवानां सप्त मूर्छनाः ।
पितॄणां मूर्च्छानाः सप्त तथा यक्षा न संशयः

1.50.41

ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः ।
षङ्जः प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः

1.50.42

पितॄन् प्रीणाति गान्धारो गन्धर्वान्मध्यमः स्वरः ।
देवान्पितॄनृषींश्चैव स्वरः प्रीणाति पञ्चमः

1.50.43

यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः ।
गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा

1.50.44

रक्तं पूर्णमलङ्कृतं प्रसन्नं व्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम स्वरश्रुतिपूरणाच्छन्दः पादाक्षरं संयोगात्पूर्णमित्युच्यते अलङ्कृतं नामोरसि शिरसि कण्ठयुक्तमित्यलङ्कृतं प्रसन्नं नामापगतागद्गदनिर्विशङ्कं प्रसन्नमित्युच्यते व्यक्तं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गस्वरलिङ्गं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोञ्चैरुञ्चारितं व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लेक्ष्णं नाम द्रुतमविलंबितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समं नामावापनिर्वापप्रदेशे प्रत्यन्तरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरकुहगरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनीतललितपदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ॥ 1॥
बवन्ति चात्र श्लोकाः
शङ्कितं भीषणं भीतमुद्धुष्टमनुनासिकम् ।
काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम्

1.50.45

विस्तरं विरसं चैव विश्लिष्टं विषमाहतम् ।
व्याकुलं तालहीनं च गीतिदोषाश्चतुर्दश

1.50.46

आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः ।
स्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः

1.50.47

पद्मपत्रप्रभः षङ्ज ऋषभः शुकपिञ्जरः ।
कनकाभस्तु गान्धारो मध्यमः कुन्दसन्निभः

1.50.48

पञ्चमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः ।
निषादः सर्ववर्णः स्यादित्येताः स्वरवर्णताः

1.50.49

पचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः ।
ऋषभो धैवतश्चापीत्येतौ वै क्षत्रियावुभौ

1.50.50

गान्धारश्च निषादश्च वैश्यावर्द्धेन वै स्मृतो ।
शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः

1.50.51

ऋषभो मूर्छितवर्जितो धैवतसहितश्च पञ्चमो यत्र ।
निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात्

1.50.52

यदि पञ्चमो विरमते गान्धारश्चान्तरस्वरो भवति ।
ऋषभो निषादसहितस्तं पञ्चममीदृशं विद्यात्

1.50.53

गान्धारस्याधिपत्येन निषादस्य गतागतैः ।
धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते

1.50.54

ईषत्पृष्टो निषादस्तु गान्धारश्चाधिको भवेत् ।
धैवतः कंपितो यत्र स षङ्गयाम ईरितः

1.50.55

अन्तरस्वरसंयुक्तः काकलिर्यत्र दृश्यते ।
तं तु साधारितं विद्यात्पञ्चमस्थं तु कैशिकम्

1.50.56

कैशिकं भावयित्वा तु स्वरैः सर्वैः समन्ततः ।
यस्मा त्तु मध्यमे न्यासस्तस्मात्कैशिकमध्यमः

1.50.57

काकलिर्दृश्यते यत्र प्राधान्यं पञ्चमस्य तु ।
कश्यपः कैशिकं प्राह मध्यमग्रामसंभवम्

1.50.58

गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् ।
वेति वाद्यस्य संज्ञेयं गन्धर्वस्य प्ररोचनम्

1.50.59

यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ।
यो द्वितीयः स गान्धारस्तृतीयस्त्वृषभः स्मृतः

1.50.60

चतुर्थः षङ्ज इत्याहुः पञ्चमो धैवतो भवेत् ।
षष्ठो निषादो विज्ञेयः सप्तमः पञ्चमः स्मृतः

1.50.61

षङ्जं मयूरो वदति गावो रंभन्ति चर्षभम् ।
अजाविके तु गान्धारं क्रैञ्चो वदति मध्यमम्

1.50.62

पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् ।
अश्वस्तु धैवतं वक्ति निषआदं वक्ति कुञ्जरः

1.50.63

कण्ठादुत्तिष्टते षङ्जः शिरसस्त्वृषभः स्मृतः ।
गान्धारस्त्वनुनासिक्य उरसो मध्यमः स्वरः

1.50.64

उरसः शिरसः कण्ठादुत्थितः पञ्चमः स्वरः ।
ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम्

1.50.65

नासा कण्ठमुरस्तालुजिह्वादतांश्च संश्रितः ।
षङ्भिः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृतः

1.50.66

वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।
नर्दत्यृषभवद्यस्मात्तस्मादृषेर्भ उच्यते

1.50.67

वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।
वाति गन्धवहः पुण्यो गान्धारस्तेन हेतुना

1.50.68

वायुः समुत्थितो नाभेरुरौ हृदि समाहतः ।
नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समर्श्नुते

1.50.69

वायुः समुत्थितो नाभेरुरोहृत्कण्ठकाहृतः ।
पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते

1.50.70

धैवतं च निषादं च वर्जयित्वा तु तावुभौ ।
शेषान्पञ्च स्वरांस्त्वन्ये पञ्चस्थानोत्थितान्विदुः

1.50.71

पञ्चस्थानस्थितत्वेन सर्वस्थानानि धार्यते ।
अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते

1.50.72

सोमेन गीतो गान्धारो विष्णुना मध्यमः स्वरः ।
पञ्चमस्तु स्वरो गीतस्त्वयैवेति निधारय

1.50.73

धैवतश्च निषादश्च गीतौ तुंबुरुणा स्वरौ ।
आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः

1.50.74

तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः ।
गावः प्रणीते तुष्यन्ति गान्धारस्तेन हेतुना

1.50.75

श्रुत्वा चैवोपतिष्टन्ति सौरभेया न संशयः ।
सोमस्तु पञ्चमस्यापि दैवतं ब्रह्मराद्रस्मृतम्

1.50.76

निह्रासो यस्य वृद्धिश्च ग्राममासाद्य सोमवत् ।
अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान्

1.50.77

तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ।
निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना

1.50.78

सर्वांश्चाभिभवत्येष यदादित्यो ऽस्य दैवतम्

1.50.79

दारवी गात्रवीणा च द्वे वीणे गानजातिषु

1.50.80

सामनी गात्रवीणा तु तस्यास्त्वं शृणु लक्षणम् ।
गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामङ्गाः

1.50.81

स्वरव्यञ्जनसंयुक्ता अङ्गुल्यङ्गुष्टरञ्जिता ।
हस्तौ तु संयतौ धार्यौं जानुभ्यामुपरिस्थितौ

1.50.82

गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत् ।
प्रणवं प्राक्प्रयुञ्जीत व्याहृतीस्तदनन्तरम्

1.50.83

सावित्रीं चानुवचनं ततो वै गानमारभेत् ।
प्रसार्य चाङ्गुलीः सर्वा रोपयेत्स्वरमण्डलम्

1.50.84

न चाङ्गुलीभिरङ्गुष्टमङ्गुष्टेनागुलीः स्पृशेत् ।
विरला नाङ्गुलीः कुर्यान्मूले चैतां न संस्पृशेत्

1.50.85

अङ्गुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत् ।
मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित्

1.50.86

अङ्गुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत् ।
त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत्

1.50.87

स पर्व इति विज्ञेयः शेषमन्तरमन्तरम् ।
पर्वान्तरं सामसु च ऋक्षु कुर्यात्तिलान्तरम्

1.50.88

स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत् ।
न चात्र कंपयेत्किञ्चिदङ्गस्यावयवं बुधः

1.50.89

अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम् ।
अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत्

1.50.90

पृषच्छेदविवृत्तीनां यथा बालेषुकर्तरी ।
कूर्मो ऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः

1.50.91

स्वस्थः प्रशान्तो निर्भीको वर्णानुञ्चारयेद्बुधः ।
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत्

1.50.92

निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत् ।
सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च

1.50.93

यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् ।
नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत्

1.50.94

समं सामानि गायेत व्योम्नि स्वेन गातिर्यथा ।
यथा सुचरतां मार्गो मीनानां नोपलभ्यते

1.50.95

आकाशे वा विहॄङ्गानां तद्वत्स्वरगता श्रुतिः ।
यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथानलः

1.50.96

प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः ।
स्वरात्स्वरस्य संक्रामंस्वरसंधिमनुल्बणम्

1.50.97

अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम् ।
अनागतमतिक्रान्तं विच्छिन्नं विषमाहतम्

1.50.98

तन्वन्तमस्थितान्तं च वर्जयेत्कर्षणं बुधः ।
स्वरः स्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते

1.50.99

विस्तरं सामगा ब्रूयुर्विरक्तमिति वीणिनः ।
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्

1.50.100

शिष्यणामुपदेशार्थं कुर्याद्वृत्तिं विलंबिताम् ।
गृहीतग्रन्थ एवं तु ग्रन्थोञ्चारणशैक्षकान्

1.50.101

हस्ते नाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः ।
क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु

1.50.102

भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः ।
कण्ठस्थानं चतुर्थस्य मन्द्रस्य रसनोच्यते

1.50.103

अतिस्वरस्य नीचस्य हृदि स्थानं विधीयते ।
अङ्गुष्टस्योत्तमे व्रुष्टो ह्यङ्गुष्टं प्रथमः स्वरः

1.50.104

प्रदेशिन्यां तु गान्धार ऋषभस्तदनन्तरम् ।
अनामिकायां षङ्गस्तु कनिष्टायां तु धैवतः

1.50.105

तस्याधस्ताञ्च योन्यास्तु निषादं तत्र निर्दिशेत् ।
अपर्वत्वादमध्यत्वा दव्ययत्वाञ्च नित्यशः

1.50.106

मन्द्रो हि मन्दीभूतस्तु परिस्वार इति स्मृतः ।
क्रुष्टेन देवा जीवन्ति प्रथमेन तु मानुषाः

1.50.107

पशवस्तु द्वितीयेन गन्धर्वाप्सरसस्त्वनु ।
अन्धजाः पितरश्चैव चतुर्थस्वरजीविनः

1.50.108

मन्द्रत्वेनोपजीवन्ति पिशाचासुरराक्षसाः ।
अतिस्वरेण नीचेन जगत्स्थावरजङ्गमाः

1.50.109

सर्वाणि खलु भूतानि धार्यन्ते सामिकैः स्वरैः ।
दीप्तायताकरुणानां मृदुमध्यमयोस्तथा

1.50.110

श्रुतीनां यो विशेषज्ञो न स आचार्य उच्यते ।
दीप्ता मन्द्रे द्वितीय च प्रचतुर्थे तथैव च

1.50.111

अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः ।
श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः

1.50.112

तासामपि तु वक्ष्यामि लक्षणानि पृथक् पृथक् ।
आयतात्वं भवेन्नीचे मृदुता तु विपर्यये

1.50.113

स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत् ।
द्वितीये विरता या तु क्रुष्टश्च परतो भवेत्

1.50.114

दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः ।
अत्रैव विरता या तु चतुर्थेन प्रवर्तते

1.50.115

तथा मन्द्रे भवेद्दीप्ता साम्नश्चैव समापने ।
नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चान्तरे

1.50.116

तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके ।
द्विविधा गतिः पदान्तस्थितसंधिः सहोष्मभिः

1.50.117

स्थानेषु पञ्चस्वेतेषु विज्ञेय घुटिसंज्ञकम् ।
स्वरान्तराविरतानि ह्रस्वदीर्घघुटानि च

1.50.118

स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत् ।
दीप्तामुदात्ते जानीयाद्दीप्तां च स्वरिते विदुः

1.50.119

अनुदात्ते मृदुर्ज्ञेया गन्धर्वाः श्रुतिसंपदे ।
उदात्तश्चानुदात्तश्च स्वरितप्रचिते तथा

1.50.120

निघातश्चेति विज्ञेयः स्वरभेदश्च पञ्चधा ।
अत ऊर्ध्वं प्रवक्ष्यामि आचिकस्य स्वरत्रयम्

1.50.121

उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः ।
य एवोदात्त इत्युक्तः स एव स्वरितात्परः

1.50.122

प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरान्तरम् ।
वर्णस्वरो ऽतीतस्वरः स्वरितो द्विविधः स्मृतः

1.50.123

मात्रिको वर्ण एवं तु दीर्घस्तूञ्चरितादनु ।
स तु सप्तविधो ज्ञेयः स्वरः प्रत्ययदर्शनात्

1.50.124

पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः ।
सप्तस्वरान्प्रयुञ्जीत दक्षिणं श्रवणं प्रति

1.50.125

आचार्यैर्विहितं शास्त्रं पुत्रशिष्यहितैषिभिः ।
उच्चादुञ्चतरं नास्ति नीचान्नीचतरं तथा

1.50.126

वैस्वर्यस्वारसंज्ञायां किंस्थानः स्वार उच्यते ।
उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः

1.50.127

तं स्वारं स्वारसंज्ञायां प्रतिजानन्ति शैक्षिकाः ।
उदात्ते निषादगान्धारावनुदात्तें ऋषभधैवतो

1.50.128

स्वरितप्रभवा ह्येते षङ्जमध्यमपञ्चमाः ।
यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः

1.50.129

तानप्याज्ञापयेन्मात्राप्रकृत्यैव तु सा कला ।
जात्यः क्षैप्रो ऽभिनिहित स्तैरव्यञ्जन एव च

1.50.130

तिरोविरामः प्रश्लिष्टो ऽपादवृत्तश्च सप्तमः ।
स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम्

1.50.131

उद्दिष्टानां तथा न्यायमुदाहरणमेव च ।
सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत्

1.50.132

न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते ।
इउवर्णो यदोदात्तावापद्येते पवौ क्वचित्

1.50.133

अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्य लक्षणम् ।
एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः

1.50.134

अकारो यत्र लुंपति तमभिनिहितं विदुः ।
उदात्तपूर्वे यत्किञ्चिच्छन्दसि स्वरितं भवेत्

1.50.135

एष सर्वबहुस्वारस्तैरव्यञ्जन उच्यते ।
अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम्

1.50.136

तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ।
इकारं यत्र पश्येयुरिकारेणैव संयुतम्

1.50.137

उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय ।
स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता

1.50.138

एतत्पादान्तवृत्तस्य लक्षणं शास्त्रनोदितम् ।
तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते

1.50.139

ते मन्वताभिनितस्तैरव्यञ्जन ऊतये ।
तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः

1.50.140

पादवृत्तः कन्दविदेस्वराः सप्तैवमादयः ।
उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम्

1.50.141

स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते ।
चत्वारस्त्वादितः स्वाराः कंषंपुंश्फुतिशास्त्रतः

1.50.142

उदात्ते चैकनीचे वा जुह्वो ऽग्निस्तन्निदर्शनम् ।
इकारान्ते पदे पूर्व उकारे परतः स्थिते

1.50.143

ह्रस्वं कंपं विजानीयान्मेधावी नात्र संशयः ।
इकारान्ते पदे चैवोकारद्वयं परे पदे

1.50.144

दीर्घं कंपं विजानीयाच्छाग्धूष्विति निदर्शनम् ।
त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै

1.50.145

मन्या यथा न इन्द्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः ।
अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि

1.50.146

शिवकंपं विजानीयादुदात्तः प्रत्ययो यदि ।
यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु

1.50.147

नीचं वोञ्चं च परतस्तत्रोदात्तं विदुर्बुधाः ।
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित्

1.50.148

न च वर्गद्वितीयेषु न चतुर्थे कदाचन ।
चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु

1.50.149

आद्यमन्त्यं च मध्यं च स्वाराक्षरेण पीडयेत् ।
अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो यदि

1.50.150

तत्र मध्ये यमस्तिष्ठेत्स्ववर्णः पूर्ववणयोः ।
वर्गान्त्यान् शषसैः सार्द्धमन्तस्थैर्वापि संयुतान्

1.50.151

दृष्ट्वा यमा निवर्तन्ते अदेशिकमिवाध्वगाः ।
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम्

1.50.152

द्वौ तृतीयौ हकारश्च हकारादिपरं पदम् ।
अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम्

1.50.153

रहपूर्वसंयुते चाप्युत्तरं क्रमते ऽक्षरम् ।
संयोगो यत्र दृश्येत र्व्यञ्जनं विरते पदे

1.50.154

पूर्वाङ्गमादितः कृत्वा पराङ्गादौ निवेशयेत् ।
संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा

1.50.155

पूर्वाङ्गं तद्विजानीयाद्येनारंभः परं हि तत् ।
संयोगात्तु विजानीयात्परं संयोगनायकम्

1.50.156

संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम् ।
अनुस्वारः पदान्तश्च क्रमजं प्रत्यये स्वके

1.50.157

स्वरभक्तिस्तथारेफः पूर्वपूर्वाङ्गमुच्यते ।
पादादौ चापादादौ संयोगावग्रहेषु च

1.50.158

यशब्द इति विज्ञेयो यो ऽन्यःसय इति स्मृतः ।
पादादावप्यविच्छेदेसंयोगान्ते च तिष्टताम्

1.50.159

वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते ।
स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वारा ग्रिमः स्फुटः ।
अणुशेषो ह्रिगो वापि युगलादिरविस्फुटः

1.50.160

यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति ।
यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम्

1.50.161

अग्निः सुतो मित्रमिदं तथा वयमयावहाः ।
प्रियं दूतं घृतं चित्तमतिशब्दस्तु नीचतः

1.50.162

अक्वेष्वेव सुतेष्वेव यज्ञेषु कलशेषु च ।
शतेषु सपवित्रेषु नीचादुञ्चार्यते श्रुतिः

1.50.163

हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः ।
विश्वानरोनकारश्च शेषास्तुस्वरिता नराः

1.50.164

द्वौ वरुणौ वस्वरत उदुत्तमन्त्वं वरुणधार चौरुधारामुरुधारेस्वदोहते ।
मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम् ।
तस्यादितोर्ऽद्धमात्रं वै शेषं तु परतो भवेत् ।
अदीर्घं दीर्घवत्कुर्याद्द्विस्वरं यत्प्रयुज्यते

1.50.165

कंपोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च ।
निमेषकालो मात्रा स्याद्विद्युत्कालेति चापरे

1.50.166

ऋक्स्वरा तुल्ययोगा वा कैश्चिदेवमुदीर्यते

1.50.167

समासे ऽवग्रहं कुर्यात्पदं चात्रानुसंहितम् ।
येतीक्षरादिकरणं पदान्तस्येति तं विदुः

1.50.168

(सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोरवग्राह्याः ।
आदित्यविप्रजातवेदाश्च सत्पतिगोपतिवृत्रहासमुद्राश्च ।
स्वरयुपुवोदेवयवश्चारितं देवतातपे ) चिकितिश्च धचैव नावगृह्णन्ति पण्डिताः ।
विवृतयश्चतस्रो वै विज्ञेया इति मे मतम्

1.50.169

अक्षराणां नियोगेन तासां नामानि मे शृणु ।
ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे

1.50.170

पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः ।
चतसृणां विवृतीना मन्तरं मात्रिकं भवेत्

1.50.171

अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम्

1.50.172

आपद्यते मकारो रेफोष्मसु प्रत्यये ऽप्यनुस्वारम् ।
पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम्

1.50.173

नकारान्ते पदा पूर्वे स्वरे च परतः स्थिते ।
अकारं रक्तमित्याहुस्तकारेण तु रज्यते

1.50.174

नकारान्ते पदे पूर्वे व्यञ्जनैश्च यवोहिषु ।
अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया

1.50.175

नकारस्वरसंयुक्तश्चतुर्युक्तो विधीयते ।
रेफो रङ्गश्च लोपश्च सानुस्वरो ऽपि वा क्वचित्

1.50.176

हृदयादुत्तिष्टतेरङ्गः कांस्येन तु समन्वितः ।
मृदुश्चैव द्विमात्रश्च दधन्वां इति निदर्शनम्

1.50.177

यथा सौराष्ट्रिका नारी अरां इत्यभिभाषते ।
एवं रङ्गः प्रयोक्तव्यो नारदैतन्मतं मम

1.50.178

स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः ।
चतुर्णां पदजातीनां पदान्ता दश कीर्तिताः

1.50.179

स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च ।
व्यञ्जना न तु वर्तन्ते यत्र तिष्टति स स्वरः

1.50.180

स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रतिजानते ।
मणिवद्व्यञ्जनं विद्यात्सूत्र वञ्च स्वरं विदुः

1.50.181

दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः ।
दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः

1.50.182

उभावश्च विवृत्तिश्च शषसारेफ एव च ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः

1.50.183

स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत् ।
विसर्गस्तत्र मन्तव्यरतालव्यश्चात्र जायते

1.50.184

संध्यक्षरे परे संधौ प्राप्तसुप्तौ यवौ यदि ।
व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता

1.50.185

ऊष्मान्तं विरते यत्र संभावो भवति क्वचित् ।
विवृत्तिर्या भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत्

1.50.186

यद्योभावप्रसंधानमृकारादिपरं पदम् ।
स्वरान्तं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः

1.50.187

प्रथमा उत्तमाश्चैव पदान्तेषु यदि स्थिताः ।
द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि

1.50.188

प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेत् ।
न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः

1.50.189

छन्दोमानं च वृत्तं च पादस्थानं त्रिकारणम् ।
ऋचः स्वच्छन्दवृत्तास्तु पादास्त्वक्षरमानतः

1.50.190

ऋग्वर्य्यान् स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत् ।
प्रत्ययेत सहारेफमिमीते स्वरभक्तया

1.50.191

ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत ।
विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः

1.50.192

ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते ।
गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम्

1.50.193

ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च ।
निरृतिपञ्चमा ह्यत्र ऋकारा नात्र संशयः

1.50.194

शषसह रादौ रेफः स्परभक्तिर्जायते द्विपदसंधौ ।
इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता

1.50.195

स्वरभक्तिर्द्विधा प्रोक्ताऋकारे रेफ एव च ।
स्वरोदा व्यञ्जनोदा च विहिताक्षरचिन्तकैः

1.50.196

शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम् ।
शषसेषु विवृतां तु हकारे संवृतां विदुः

1.50.197

स्वरभक्तिं प्रयुञ्जान स्रीन्दोषान्परिवर्जयेत् ।
इकारं चाप्युकारं ग्रस्तदोषं तथैव च

1.50.198

संयोगपरं छपरं विसर्जनीयं द्विमात्रकं चैव ।
अथ सान्तिक च नङ्मसानुस्वारं घुटतं च

1.50.199

यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयो ऽपि ।
अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः ।
यस्या लक्षणमुक्तं या त्वन्या सा स्मृता विपुला

1.50.200

अक्षराणां लघुह्रस्वमसंयोगपरं यदि ।
तत्संयोगोत्तरं विद्याद्गुरुदार्घाक्षराणि तु

1.50.201

विवृत्तिर् यत्र दृश्यते स्वारस्यैवाग्रतः स्थितः

1.50.202

गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते ॥अ
अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम्

1.50.203

अन्तो दात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ।
मध्योदात्तं स्वरितं द्विरुदात्तमित्येता अष्टौ पदसंज्ञाः

1.50.204

अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः ।
अन्तर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विर्न्नीचमाख्यात इति स्वरितात्पराणि यानि स्युर्द्धारापक्षराणि तु ।
सर्वाणि प्रचयस्थान्युपोदात्तं निहन्यते

1.50.205

प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः ।
स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत्

1.50.206

पञ्चविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा ।
अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारणा यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम्

1.50.207

तुंबुरुभवद्विशिष्टविश्वावस्वादयश्च गन्धर्वाः ।
सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः

1.50.208

कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम् ।
जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिन्तयेत्

1.50.209

शरद्विषुवतोतीतादुषस्युत्थानमिष्यते ।
यावद्वासंतिकी रात्रिर्मध्यमा पर्युपस्थिता

1.50.210

आम्रपालाशबिल्वानामपामार्गशिरीषयोः ।
वाग्यतः प्रातरुत्थाय भक्षयेद्द्वतधावनम्

1.50.211

खादिरश्च कदम्बश्च करवीरकरञ्जयोः ।
सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः

1.50.212

तेनास्य करणे सौक्ष्म्यं माधुर्यं चोप जायते ।
वर्णांश्च कुरुते सम्यक्प्राचीनौदवतिर्यथा

1.50.213

त्रिफलां लवणाख्येन भक्षयेच्छिषअयकः सदा ।
अग्निमेधाजनन्येषा स्वरवर्णकरी तथा

1.50.214

कृत्वा चावश्यकान्धर्माञ्जाठरं पर्युपास्य च ।
पीत्वा मधुं घृतं चैव शुचिर्भूत्वा ततो वदेत्

1.50.215

मन्द्रेणोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः ।
सप्तमन्त्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत्

1.50.216

न तां समीरयेद्वाचं न प्राणमुपरोधयेत् ।
प्राणानामुपरोधेन वैस्वर्यं चोपजायते ।
स्वरव्यण्डजनमाधुर्यं लुप्यते नात्र संशयः

1.50.217

कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम्
न तस्य परिमोक्षो ऽस्ति पापाहेरिव किल्बिषात्

1.50.218

सुतीर्थादागतं जग्धुं स्वाम्नातं सुप्रतिष्टितम् ।
सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति
न तकालो न लंबोष्टो न च सर्वानुनासिकः

1.50.219

गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति

1.50.220

एकचित्तो निरुद्धान्तः स्नातो गानविवर्ज्जितः ।
स तु वर्णान्प्रयुञ्जीत देतोष्ठं यस्य शोभनम्

1.50.221

पञ्चविद्यां न गृह्णन्ति चण्डा स्तब्धाश्च ये नराः ।
अलसाश्च सरोगाश्च येषां च विसृतं मनः

1.50.222

शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः ।
शनैरध्वसु वर्तेत योजनान्न परं व्रजेत्

1.50.223

योजनानां सहस्रं तु शनैर्याति पिपीलिका ।
अगच्छन्वैनतेयो ऽपि पदमेकं न गच्छति

1.50.224

नहि पापहता वाणी प्रयोगान्वक्तुमर्हति ।
बधिरस्येव जल्पस्य विदग्धा वामलोचना

1.50.225

उपांशुचरितं चैव यो ऽधीते वित्रसन्निव ।
अपि रूपसहस्रेषु संदेहेष्वेव वर्तते

1.50.226

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।
राजते न सभामध्येजारगर्भेव कामिनी

1.50.227

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् ।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु

1.50.228

यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् ।
न तत्र बलसामर्थ्यमुद्योगस्गतत्र कारणम्

1.50.229

सहस्रगुणिता विद्या शतशः परिकीर्तिता ।
आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम्

1.50.230

हयनामिव जात्यानामर्द्धरात्रार्द्धशायिनाम् ।
नहि वाद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्टति

1.50.231

न भोजनबिलंवी स्यान्न च नारीनिवन्धनः ।
समुद्रमपि विद्यार्थी व्रजेद्गरुडहंसवत्

1.50.232

अहिरिव गणाद्भितः साहित्यान्नरकादिव ।
राक्षसीभ्य इव स्रिभ्यः स विद्यामधिगच्छति

1.50.233

न शठाः प्रान्पुवन्त्यर्थान्न क्लिबा न च मानिनः ।
न च लोकरवा दीना न च स्वस्वप्रतीक्षकाः

1.50.234

यथा खननन्खनित्रेण भूपलं वारि विन्दति ।
एवं गुरुगतां विद्यां शूश्रूषुरधिगच्छति

1.50.235

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते

1.50.236

शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति ।
वन्ध्येव यौवनवती न तस्य साफल्यवति भवति

1.50.237

इति दिङ्मात्रमुद्दिष्टं शिक्षाग्रन्थं मया तव ।
ज्ञात्वा वेदाङ्गमाद्यं तु ब्रह्मभूयाय कल्पते

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc