नारद पुराण · अध्याय 1.46
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चचत्वारिंशत्तमो ऽध्यायः
सूत उवाच
तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् ।
पुनः पप्रच्छ तं प्रीत्या सनन्दनमुदारधीः
नारद उवाच
आध्यात्मिकादत्रिविधं तापं नानुभवेद्यथा ।
प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे
सनन्दन उवाच
तदस्य त्रिविधं दुःखमिह जातस्य पण्डित ।
गर्बे जन्मजराद्येषुस्थानेषु प्रभविष्यतः
निरस्तातिशयाह्लादसुखभावैकलक्षणा ।
भेषजं भगवत्प्राप्तिरैका चात्यन्तिकी मता
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ।
तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने
आगमोत्थं विवेकाञ्च द्विधा ज्ञानं तथोच्यते ।
शब्दब्रह्मागममयं परं ब्रह्मविवेकजम्
मनुरप्याह वेदार्थं स्मृत्वायं मुनिसत्तममः ।
तदेतच्छ्रूयतामत्र सुबोधं गदतो मम
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः ।
परमा त्वक्षरप्राप्तिरृग्वेदादिमया परा
यत्तदव्यक्तमजरमनीहमजमव्ययम् ।
अनिर्देश्यमरूपं च पाणिपादादिसंयुतम्
विभुं सर्वगतं नित्यं भूतयो निमकारणम् ।
व्याप्यं व्याप्तं यतः सर्वं तं वै पश्यन्ति सूरयः
तद्बूह्य तत्परं धाम तद्ध्येयं मो7काङ्क्षिभिः ।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम्
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।
वाचको भगवच्छब्दस्तस्योद्दिष्टो ऽक्षयात्मनः
एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः ।
ज्ञायते येन तज्ज्ञानं परमन्यत्रयीमयम्
अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विजा ।
पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते ।
भगवन्भगवच्छब्दः सर्वकारणकारणे
ज्ञेयं ज्ञातेति तथा भकारोर्ऽथद्वयात्मकः ।
तेनागमपिता स्रष्टा गकारो ऽयं तथा मुने
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा
वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ।
सर्वभूतेष्वशेषेषु वकारार्थस्ततो ऽव्ययः
एवमेव महाशब्दो भगवानिति सत्तम ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः
तत्र पूज्यपदार्थोक्तिः परिभाषासमन्वितः ।
शब्दो ऽयं नोपचारेण चान्यत्र ह्युपचारतः
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः
सर्वाणि तत्र भूतानि वसंति परमात्मनि ।
भूतेषु वसनादेव वासुदेवस्ततः स्मृतः
खाण्डिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा ।
नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः
भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः
स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश्च मुने व्यतीतः ।
अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद्भुवनान्तरालम्
समस्तकल्याणगुणं गुणात्मको हित्वातिदुःखावृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ
तेजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादुगुणैकराशिः ।
परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे
स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
सर्वेश्वरः सर्वनिसर्गवेत्ता समस्कशक्तिः परमेश्वराख्यः
स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रूपम् ।
संदृश्यते चाप्यवगम्यते च तज्ज्ञानमतो ऽन्यदुक्तम्
.
स्वाध्यायसंयमाबग्यां स दृश्यते पुरुषोत्तमः ।
तत्प्राप्तिकारणं ब्रह्म तवेतत्प्रतिपद्यते
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् ।
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते
तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथापरम् ।
न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते
॥ नारद उवाच
भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ।
ज्ञाते यन्नाखिलाधारं पश्येयं परमेश्वरम्
सनन्दन उवाच
केशिध्वजो यथा प्राह खाण्डिक्याय महात्मने ।
जनकाय पुरा योगं तथाहं कथयामि ते
नारद उवाच
खाण्डिक्यः को ऽभवद्ब्रह्मन् को वा केशिध्वजो ऽभवत् ।
कथं तयोश्च संवादो योगसंबन्धवानभूत्
सनन्दन उवाच
धर्मध्वजो वै जनक तस्य पुशे ऽमितध्वजः ।
कृतध्वजो ऽस्य भ्राताभूत्सदाध्यात्मरतिर्नृपः
कृतध्वजस्य पुत्रो ऽभूद्धन्यः केशिध्वजो द्विजः ।
पुत्रो ऽमितव्वजस्यापि खाण्डिक्यजनकाभिधः
कर्ममार्गे हि खाण्डिक्यः स्वराज्यादवरोपितः ।
पुरोधसा मन्त्रिभिश्च समवेतो ऽल्पसाधनः
राज्यान्निराकृतः सो ऽथ दुर्गारण्यचरो ऽभवत् ।
इयाडज सो ऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः
ब्रह्मविद्यामधिष्टाय तर्तुं मृत्युमपि स्वयम् ।
एकदा वर्तमानस्य यागे योगविदां वर
तस्य धेनुं जघानोग्रः शार्दूलो विजने वने ।
ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः
प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् ।
ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति
कशेरुरपि तेनोक्तस्तथेति प्राह नारद ।
शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति
स गत्वा तमपृच्छञ्च सो ऽप्याह नृपतिं मुने ।
न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि
वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ।
स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने
प्राप्त एव मया यज्ञे यदि मां स हनिष्यति ।
प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम
ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति ।
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः
वनं जगाम यत्रास्ते खाण्डिक्यः स महीपतिः ।
तमायान्तं समालोक्य खाञ्जडिक्यो रिपुमात्मनः
प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः ।
खाण्डिक्य उवाच
कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ।
मृगानां वद पृष्टेषु मूढ कृष्णाजिनं न किम्
येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः ।
स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे
आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ।
केशिध्वज उवाच
खाण्डिक्य संशयं प्रष्टुं भवन्तमहमागतः
न त्वां हॄन्तुं विचार्यतैत्कोपं बाणं च मुञ्च वा ।
ततः स मन्त्रिभिः सार्द्धमेकान्ते सपुरोहितः
मन्त्रयामास खाण्डिक्यः सर्वैरेव महामतिः ।
तमूर्मन्त्रिणो वध्यो रिपुरेष वशङ्गतः
हते ऽत्र पृथिवी सर्वा तव वश्या भविष्यति ।
खाण्डिक्यश्चाह तान्सर्वानेव मेव न संशयः
हते तु पृथिवी सर्वा मम वश्या भविष्यति ।
परलोकजयस्तस्य पृथिवी सकला मम
न हन्मि चेल्लोकजयो मम वयत्वःसुंधरा ।
परलोकजयो ऽनन्तः स्वल्पकालो महीजयः
तस्मान्नैनं हनिष्ये ऽहं यत्पृच्छति वदामि तत् ।
ततस्तमभ्युपेत्याह खाण्डिक्यो जनको रिपुम्
प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छ त्वं वदाम्यहम् ।
ततः प्राह यथावृत्तं होमधेनुवधं मुने
ततश्च तं स पप्रच्छ प्रायश्चित्तं हि तद्रूतम् ।
स चाचष्ट यथान्यायं मुने केशिध्वजाय तत्
प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते ।
विदितार्थः स तेनैवमनुज्ञातो महात्मना
यागभूमिमुपागत्य चक्रे सर्वां क्रियां क्रमत् ।
क्रमेण विधिवद्यागं नीत्वा सो ऽवभृथाप्लुतः
कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ।
पूजिता ऋत्विजः सर्वे सदस्या मानिता मया
तथैवार्थिजनो ऽप्यर्थोजितो ऽभिमतैर्मया ।
यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम्
अनिष्पन्नक्रियं चेतस्तथा न मम किं यथा ।
इत्थं तु चिन्तयन्नेव संमार स महीपतिः
खाण्डिक्याय न दत्तेति मया वैगुरुदक्षिणा ।
स जगाम ततो भूयो रथमारुह्य पार्थिवः
स्वायंभुवः स्थितो यत्र खाण्डिक्यो ऽरण्यदुर्गमम् ।
खाण्डिक्यो ऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः
तस्थौ हॄन्तुं कृतमतिस्ममाह स पुनर्नृपः ।
अहं तु नापकाराय प्राप्तः खाण्डिक्य मा क्रुधः
गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् ।
निष्पादितो मया यागः सम्यक् त्वदुपदेशतः
सो ऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ।
इत्युक्तो मन्त्रयामास स भूयो मन्त्रिभिः सह
गुरोर्निष्कृतिकामो ऽय किमयं प्रार्थ्यतां मया ।
तमूचुर्मन्त्रिणो गज्यमशेषं याच्यतामयम्
कृताभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ।
प्राहस्य तानाह नृपः स खाण्डिक्यो महापतिः
स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् ।
एतमेतद्भंवतो ऽत्र स्वार्थ साधनमन्त्रिणः
परमार्थः कथं को ऽत्र यूयं नात्र विचक्षणाः ।
इत्युक्त्वा समुपेत्यैंनं स तु केशिध्वजं नृपम्
उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम् ।
बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत्
भवानध्यात्मविज्ञानपरमार्थविचक्षणः ।
यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः
तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ।
केशिध्वज उवाच
न प्रार्थितं त्वया कस्मान्मम राज्यमकण्टकम्
राज्यलाभाः द्धि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् ।
खाण्डिक्य उवाच
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः
राज्यमेतदशेषेण यन्न गृघ्रन्ति पण्डिताः ।
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम्
वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ।
यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया
बन्धायैव भवत्येषा ह्यविद्या चाक्रमोज्झिता ।
जन्मोपर्भागलिप्सार्थमियं गज्यस्पृहा मम
अन्येषां दोपजानेव धर्ममेवानुरुध्यते ।
न याच्ञा क्षत्रबन्धूनां धर्मायैतत्सतां मतम्
अतो न याचित राज्यमविद्यान्तर्गतं तव ।
राज्यं गृध्नन्ति विद्वांसो ममत्वाकृष्टचेतसः
अहंमानमह्य पानमदमत्ता न मादृशाः ।
केशिध्वज उवाच
अहं च विद्यया मृत्युं तर्तुकामः करोमि वै
राज्यं यज्ञांश्च विविधान्भोगे पुण्यक्षयं तथा ।
तदिदं ते मनो दिष्ट्या विवेकैश्चर्यतां गतम्
श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन ।
अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः
अविद्यातरुसंन्भूतं बीजमेतद्द्विधा स्थितम् ।
पञ्चभूतात्मके देहे देही मोहतमोवृत्तः
अहमेतदितीत्युञ्चैः कुरुते कुमतिर्मतिम् ।
आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते
आत्मन्यात्ममयं भावं कः करोति कलेवरे ।
कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत्
अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ।
इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च
करोति पण्डितः स्वाम्यमनात्मनि कलेवरे ।
सर्वदेहोपभोगाय कुरुते कर्म मानवः
देहं चान्यद्यदा पुंसःसदा बन्धाय तत्परम् ।
मृण्मयं हि यथा गेहं लिप्यते वै मृदं भसा
पार्थिवो ऽयं तथा देहो मृदंभोलेपनस्थितिः ।
पञ्चभोगात्मकैर्भोगैः पञ्चभोगात्मकं वपुः
आप्यायते यदि ततः पुंसो गर्वो ऽत्र किङ्कृतः ।
अनेकजन्मसाहस्त्रं ससारपदवीं व्रजन्
मोहश्रमं प्रयातो ऽसौ वासनारेणुगुण्ठितः ।
प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा
तदा संसारपान्थस्य याति मोहश्रमः शमम् ।
मोहश्रमे शमं याते स्वच्छान्तःकरणः पुमान्
अनन्यातिशयाधारः परं निर्वाणमृच्छति ।
निर्वाणमय एवायमात्मा ज्ञानमयो ऽमलः
दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः ।
जलस्य नाग्निना संगः स्थालीसंगात्तथापि हि
शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः ।
तथात्मा प्रकृतेः संगादहंमानादिदूषितः
भजते प्राकृतान्धर्मान्न्यस्तस्तंभो हि सो ऽव्ययः ।
तदेतत्कथितं बीजमविद्याया मया तव
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0