नारद पुराण · अध्याय 1.45
इति श्रीबृहन्नारदीयपुराणे द्वितीयपादे चतुश्चत्वारिंशत्तमो ऽध्यायः
सूत उवाच
सनन्दनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः ।
पुनः पप्रच्छ तत्त्वज्ञो नारदो ऽध्यात्मसत्कथाम्
नारद उवाच
श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् ।
न च मे जायते तृप्तिर्भूयोभूयो ऽपि शृण्वतः
यथा संमुच्यते जन्तुरविद्याबन्धनान्मुने ।
तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम्
सनन्दन उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः
जनको जनदेवस्तु मिथिलाया अधीश्वरः ।
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने
तस्य श्मशान माचार्या वसति सततं गृहे ।
दर्शयन्तः पृथग्धर्मान्नानापाषञ्जवादिनः
स तेषां प्रेत्यभावे च प्रेत्य जातौ विनिश्चये ।
आदमस्थः स भूयिष्टमात्मतत्त्वेन तुषअयति
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः ।
परिधावन्महीं कृत्स्नां जगाम मिथिलामथ
सर्वसंन्यासधर्माणः तत्त्वज्ञानविनिश्चये ।
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः
ऋषीणामाहुरेकं यं कामादवसितं नृषु ।
शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम्
यमाहुः कपिलं सांख्याः परमर्षि प्रजापतिम् ।
स मन्ये तेन रूपेण विख्यापयति हि स्वयम्
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रकम्
पञ्चस्रोतसमागम्य कापिलं मण्डलं महत् ।
पुरुषावस्थमव्यङ्क्तं परमार्थं न्यवेदयत्
इष्टिमन्त्रेण संयुक्तो भूयश्च तपसासुरिः ।
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विबुधे देहदर्शनः
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते ।
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तमव्ययम्
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः ।
ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी
तस्यः पुत्रत्वमागत्य स्रियाः स पिबगति स्तनौ ।
ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीम्
एतन्मे भगवानाह कापिलेयस्य संभवम् ।
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्
सामात्यो जनको ज्ञात्वा धर्मज्ञो ज्ञानिनं मुने ।
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः
जनकस्त्वभिसंरक्तः कापि लेयानुदर्शनम् ।
उत्सृज्य शतमाचार्याम्पृष्टतो ऽनुजगाम तम्
तस्मै परमकल्याणं प्रणताय च धर्मतः ।
अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते
जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् ।
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत्
यदर्थं धर्मसंसर्गः कर्मणां च फलो दयः ।
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम्
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ।
आगमात्परमस्तीति ब्रुवन्नपि पराजितः
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः ।
आत्मानं मन्यते मोहात्तदसम्यक् परं मतम्
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ।
अजरो ऽयममृत्युश्च राजासौ मन्यते यथा
अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे ।
किमधिष्टाय तद् ब्रूयाल्लोकयात्राविनिश्चयम्
प्रत्यक्षं ह्येतयोर्मूलं कृतान्त ह्येतयोरपि ।
प्रत्यक्षो ह्यागमो भिन्नः कृतान्तो वा न किञ्चन
यत्र तत्रानुमाने ऽस्मिन्कृतं भावयते ऽपि च ।
अन्योजीवः शरीरस्य नास्तिकानां मते स्थितः
रेतोवटकणीकायां घृतपाकाधिवासनम् ।
जातिस्मृतिरयस्कान्तः सूर्यकान्तोंऽबुभक्षणम्
प्रेतभूतप्रियश्चैव देवता ह्युपयाचनम् ।
मृतकर्मनिवत्तिं च प्रमाणमिति निश्चयः
नन्वेते हेतवः संति ये केचिन्मूर्तिसस्थिताः ।
अमूतस्य हि मूर्तेन सामान्यं नोपलभ्यते
अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् ।
तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि
अन्यो ऽस्माज्जायते मोहस्तमाहुः सत्त्वसंक्षयम् ।
यदा सरूपतश्चान्यो जातितः श्रुततोर्ऽथतः
कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः ।
एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः
यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते ।
अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत्
सुखितो दुःखितो वापि दृश्यादृश्यविनिर्णयः ।
यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत्
वृथा ज्ञानं यदन्यञ्च येनैतन्नोपलभ्यते ।
ऋमसंवत्सरौ तिष्यः शीतोष्णो ऽथ प्रियाप्रिये
यथा तातानि पश्यति तादृशः सत्त्वसंक्षयः ।
जरयाभिपरीतस्य मृत्युना च विनाशितम्
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ।
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयाति च ।
लोकयात्राविधातश्च दानधर्मफलागमे
तदर्थं वेदंशब्दाश्च व्यवहाराश्च लौकिकाः ।
इति सम्यङ् मनस्येते बहवः संति हेतवः
ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते ।
तेषां विमृशतामेव तत्सम्यगभिधावताम्
क्वचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् ।
एवन्तुर् थैरनर्थैश्च दुःखिताः सर्वजन्तवः
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा
अर्थास्तथा हॄन्ति सुखावहांश्च लिहत एते बहवोपशुष्काः ।
महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति
विनाशिनो ह्यध्रुवजीविनः किं किं बन्धुभिर्मत्रपरिग्रहैश्च ।
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च
भूव्योमतोयानलवायवो ऽपि सदा शरीरं प्रतिपालयन्ति ।
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ।
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे
जनक उवाच
भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् ।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति
सर्वमुच्छेदनिष्टस्यात्पश्य चैतद्द्विजोत्तम ।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ।
कस्मै क्रियत कल्पेत निश्चयः को ऽत्र तत्त्वतः
सनन्दन उवाच
तमसा हि मतिच्छत्रं विभ्रान्तमिव चातुरम् ।
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखो ऽब्रवीत्
पञ्चशिख उवाच
उच्छेदनिष्टा नेहास्ति भावनिष्टा न विद्यते ।
अयं ह्यपि समाहारः शरीरेद्रियचेतसाम्
वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु ।
धातवः पञ्चधा तोयं खे वायुर्ज्योतिषो धरा
तेषु भावेन तिष्टन्ति वियुज्यन्ते स्वभावतः ।
आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः
एष पञ्चसमाहारः शरीरमपि नैकधा ।
ज्ञानमूष्मा च वायुश्च त्रिविधः कायसंग्रहः
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतनामनः ।
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।
इन्द्रियाणीति पञ्चैते चित्तपूर्वङ्गमा गुणाः
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ।
सुखदुःखेति यामाहुरनदुःखासुखेति च
शब्दः स्पर्शश्च रूपं च मूर्त्यर्थमेव ते त्रयः ।
एते ह्यामरणात्पञ्च सद्गुणा ज्ञानसिद्धये
तेषु कर्मणि सिद्धिश्च सर्वतत्त्वार्थनिश्चयः ।
तमाहुः परमं शुद्धिं बुद्धिरित्यव्ययं महत्
इमं गुणसमाहारमात्मभावेन पश्यतः ।
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति
अनात्मेति च यदृष्टं तेनाहं न ममेत्यपि ।
वर्तते किमधिष्टानात्प्रसक्ता दुःखसंततिः
तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् ।
शृणुयात्तच्च मोक्षाय भाष्यमाणं भविष्यति
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो तमः
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतानि च ।
सुखत्यागा तपो योगं सर्वत्यागे समापना
तस्य मार्गो ऽयमद्वैधः सर्वत्यागस्य दर्शितः ।
विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत्
पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनः षष्टानि चेतसि ।
बसषष्टानि वक्ष्यामि पञ्च कर्मेद्रियाणि तु
हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतीन्द्रियम् ।
प्रजनान दयोमेढ्रो विसर्गो पायुरिन्द्रियम्
वाक्च शब्दविशेषार्थमिति पञ्चान्वितं विदुः ।
एवमेकादशेतानि बुद्ध्या त्ववसृजन्मनः
कर्णो शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे ।
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः
एवं पञ्च त्रिका ह्येते गुणस्तदुपलब्धये ।
येनायं त्रिविधो भावः पर्यायात्समुपस्थितः
सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः ।
त्रिविधा वेदाना येषु प्रसृता सर्वसाधिनी
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा ।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।
कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः
इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ।
न लिप्यते कर्मपलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम्
दृढैर्हि पाशैर्विविधैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ।
यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः
श्रुतिप्रमाणगममङ्गलैश्च शेति जरामृत्युभयादतीतः ।
क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे
अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महत्यशक्ता ।
यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्टति यात्यमानः
तथा विमुक्तः प्रजहाति दुःखं विधअवंसते लोष्टमिवादिमृच्छन् ।
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च
विहाय गच्छन्ननवेक्षघमाणस्तथा विमुक्तो विजहाति दुःखम् ।
मत्स्यं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी निपतत्सशक्तः
तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः परार्द्ध्या गतिमेत्यलिङ्गः
इदममृतपदं निशम्य राजा स्वयमिहपञ्चशिखेन भाष्यमाणम् ।
निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य ।
न खलु मम हि दह्यते ऽत्र किञ्चित्स्वयमिदमाह किल स्म भूमिपालः
इमं हि यः पठति विमोक्षनिश्चयं महामुने सततमवेक्षते तथा ।
उपद्रवाननुभघवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0