भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.47

1.47.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्चत्वारिंशत्तमो ऽध्यायः
सनन्दन उवाच
एतदध्यात्ममानाढ्यं वचः केशिध्वजस्य सः ।
खाण्डिक्यो ऽमृतवच्छ्रत्वा पुनराह तमीरयन्

1.47.2

खाण्डिक्य उवाच
तद् ब्रूहि त्वं महाभाग योगं योगविदुत्तम ।
विज्ञातयो गशास्त्रार्थस्त्वमस्यां निमिसंततौ

1.47.3

केशिध्वज उवाच
योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम ।
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः

1.47.4

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धस्य विषयासंगि मुक्तेर्निर्विषयं तथा

1.47.5

विषयेभ्यः समाहृत्य विज्ञानात्मा बुधो मनः ।
चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम्

1.47.6

आत्मभावं नयेत्तेन तद्ब्रीह्यध्यापनं मनः ।
विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा

1.47.7

आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते

1.47.8

एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणम् ।
यस्य योगः स वै योगी मुमुक्षुरमिधीयते

1.47.9

योगयुक् प्रथमं योगी युञ्जमानो ऽभिधीयते ।
विनिष्यन्नसमाधिस्तु परब्रह्मोपलब्धिमान्

1.47.10

यद्यन्तरायदोषेण दूष्यते नास्य मानसम् ।
जन्मान्तरैरभ्यसनान्मुक्तिः पूर्वस्य जायते

1.47.11

विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्मचयो ऽचिरात्

1.47.12

ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो यिगितां स्वमनो नयन्

1.47.13

स्वाध्यायशौचसंतोषतपांसि नियमान्यमान् ।
कुर्व्वीत ब्रह्मणि तथा परिस्मिन्प्रवणं मनः

1.47.14

एते यमाश्च नियमाः पञ्च पञ्चप्रकीर्तिताः ।
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः

1.47.15

एवं भद्रासनादीनां समास्थाय गुणैर्युतः ।
यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः

1.47.16

प्राणाख्यमवलंबस्थमभ्यासात्कुरुते तु यत् ।
प्राणायामः स विज्ञेयः सबीजो ऽबीज एव च

1.47.17

परस्परेणाभिभवं प्राणापानौ यदा निलौ ।
कुरुतः सद्विधानेन तृतीयः संयमात्तयोः

1.47.18

तस्य चांलबनवत्स्थूलं रूपं द्विषत्पते ।
आलंबनमनन्तस्य योगिनो ऽभ्यसतः स्मृतम्

1.47.19

शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्य्याञ्चित्तानुकारीणि प्रत्याहारपरायणः

1.47.20

वश्यता परमा तेन जायते निश्चला त्मनाम् ।
इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः

1.47.21

प्राणायामेन पवनैः प्रत्याहरेण चेन्द्रियैः ।
वशीकृतैस्ततः कुर्यात्स्थिरं चेतः शुभाश्रये

1.47.22

खाण्डिक्य उवाच
कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः ।
यदाधारमशेषं तु हॄन्ति दोषसमुद्भवम्

1.47.23

केशिध्वज उवाच
आश्रयश्चेतसो ज्ञानिन् द्विधा तञ्च स्वरूपतः ।
रूपं मूर्तममूर्तं च परं चापरमेव च

1.47.24

त्रिविधा भावना रूपं विश्वमेतत्त्रिधोच्यते ।
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका

1.47.25

कर्मभावात्मिका ह्येका ब्रह्मभावात्मिकापरा ।
उभयात्मिका तथैवान्या त्रिविधा भावभावना

1.47.26

सनकाद्या सदा ज्ञानिन् ब्रह्मभावनया युताः ।
कर्मभावनया चान्ये देवाद्याः स्थावराश्चराः

1.47.27

हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा ।
अधिकारबोधयुक्तेषु विद्यते भावभावना

1.47.28

अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृप

1.47.29

प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामात्मसंतोद्यं तज्ज्ञानं ब्रह्मसंज्ञितम्

1.47.30

तच्च विष्णोः परं रूपमरूपस्याजनस्य च ।
विश्वस्वरूपं वैरूप्यलक्षणं परमात्मनः

1.47.31

न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः ।
ततः स्थूलं हरे रूपं चिन्त्यं यञ्चक्षुगोचरम्

1.47.32

हिरण्यगर्भो भगवान्वासवो ऽथ प्रजापतिः ।
मरुतो वसवो रुद्रा भास्कारास्तारका ग्रहाः

1.47.33

गन्धर्वा यक्षदैत्याश्च सकला देवयोतयः ।
मनुष्याः पशवः शैलासमुद्राः सरितो द्रुमाः

1.47.34

भूप भूतान्यशेषाणि भूतानां ये च हेतवः ।
प्रधानादिविशेषान्ताश्चेतनाञ्चेतनात्मकम्

1.47.35

एकपादं द्विपादं च बहुपादमपादकम् ।
मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम्

1.47.36

एतत्सर्वमिदं विंश्वं जगदेतञ्चराचरम् ।
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम्

1.47.37

विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते

1.47.38

येयं क्षेत्रज्ञशक्तिः सा चेष्टिता नृप कर्मजा ।
असारभूते संसारे प्रोक्ता तत्र महामते

1.47.39

संसारतापानखिलानवाप्नोत्यनुसंज्ञितान् ।
तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञ संज्ञिता

1.47.40

सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ।
अप्राणवत्सु खल्वल्पा स्थावरेषु ततो ऽधिका

1.47.41

सरीसृपेषु तेभ्यो ऽन्याप्यतिशक्त्या पतत्रिशु ।
पतत्र्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवो ऽधिकाः

1.47.42

पशुभ्यो मनुजाश्चातिशक्त्या पुंसःप्रभाविताः ।
तेभ्यो ऽपि नागगन्धर्वयक्षाद्या देवता नृप

1.47.43

शक्रः समस्तदेवेभ्यस्ततश्चातिप्रजापतिः ।
हिरण्यगर्भो ऽपि ततः पुंसः शक्त्युपलक्षितः

1.47.44

एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव ।
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा

1.47.45

द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ।
अमृर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः

1.47.46

समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्टिताः ।
नहि स्वरूपरूपं वै रूपमन्यद्धरेर्महत्

1.47.47

समस्तशक्तिरूपाणि तत्करोति जनेश्वर ।
देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया

1.47.48

जगतामुपकाराय तस्य कर्मनिमित्तजा ।
चेष्टा तस्याप्रमेयस्य व्यापिन्यविहितात्मिका

1.47.49

तद्रूपं विश्वरूपाय चिन्त्यं योग युजा नृप ।
तस्य ह्यात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम्

1.47.50

यथाग्निरूद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम्

1.47.51

तस्मात्समस्तशक्तीनामान्द्यान्ते तत्र चेतसः ।
कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा

1.47.52

शुभांश्रयः सचित्तस्य सर्वगस्य तथात्मनः ।
त्रिभावभावनातीतो मुक्तये योगिनां नृप

1.47.53

अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापा8याः ।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः

1.47.54

मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहः ।
एषा वै धारणा ज्ञेया यञ्चितं तत्र धार्यते

1.47.55

तत्र मूर्त्तं हरे रूपं यादृक् चिन्त्यं नराधिप ।
तच्छ्रूयता मनाधारे धारणा नोपपद्यते

1.47.56

प्रसन्नचारुवदनं पद्मपत्रायतेक्षणम् ।
सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वम्

1.47.57

समकर्णांसविन्य स्तचारुकर्णोपभूषणम् ।
कम्बुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम्

1.47.58

बलित्रिंभागिना भुग्ननाभिना चोदरेण वै ।
प्रलंबाष्टभुजं विष्णुमथ वापि चतुर्भुजम्

1.47.59

समस्थितोरुजघनं सुस्थिराङ्घ्रिकरांबुजंम् ।
चिन्तयेद्बूह्यभूतं तं पीतनिर्मलवाससम्

1.47.60

किरीटचारुकेयूरकटकादिविभूषितम् ।
शार्ङ्गशङ्खगदाखड्गप्रकाशवलयाञ्चितम्

1.47.61

चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ।
तावद्यावद् दृढीभूता तत्रैव नृप धारणा

1.47.62

वदतस्तिष्टतो यद्वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा

1.47.63

ततः शङ्खगदाचक्रशार्ङ्गादि रहितं बुधः ।
चिन्तये द्भगवद्रूपं प्रशान्तं साक्षसूत्रकम्

1.47.64

सा यदा धारणा तद्वदवस्थानवती ततः ।
किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत्

1.47.65

तदेकावयवं चैवं चेतसा हि पुनर्बुधः ।
कुर्यात्ततो ऽवयविनि प्राणिधानपरो भवेत्

1.47.66

तद्रूपप्रत्यये चैकसंनतिश्चान्यनिःस्पृहा ।
तद्ध्यानं प्रथमैरङ्गैः षङ्भिर्निष्पाद्यते नृप

1.47.67

तस्यैवं कल्पनाहीनं स्वरूपग्रहणं हि यत् ।
मनसा ध्याननिष्पाद्यं समाधिः सो ऽभिधीयते

1.47.68

विज्ञानं प्रापकं प्राप्ये परं ब्रह्मणि पार्थिव ।
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः

1.47.69

क्षेत्रज्ञकरणीज्ञानं करणं तेन तस्य तत् ।
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते

1.47.70

तद्भावभावनापन्नस्ततो ऽसौ परमात्मनः ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत्

1.47.71

विभेदजनके ज्ञाने नाश मात्यन्तिकं गते ।
आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति

1.47.72

इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः ।
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव

1.47.73

खाण्डिक्य उवाच
कथितो योगसद्भावः सर्वमेव कृतं मम ।
तवोपदेशात्सकलो नष्टश्चित्तमलो मम

1.47.74

ममेति यन्मया प्रोक्तमसदेतन्न चान्यथा ।
नरेद्रं गदितुं शक्यमपि विज्ञेयवेदभिः

1.47.75

अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ।
परमार्थस्त्व संलाप्यो वचसां गोचरो न यः

1.47.76

तद्गुच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् ।
यद्विमुक्तिपरो योगः प्रोक्तः केशिद्वजाव्ययः

1.47.77

सनन्दन उवाच
यथार्हपूजया तेन खाण्डिक्येन स पूजितः ।
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः

1.47.78

खाण्डिक्यो ऽपि सुतं कृत्वा राजानं योगसिद्धये ।
विशालामगमत्कृष्णे समावेशितमानसः

1.47.79

स तत्रैकान्तिको भूत्वा यमादिगुणसंयुतः ।
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम्

1.47.80

केशिध्वजो ऽपि मुक्तयर्थं स्वकर्मक्षपणोन्मुखः ।
बुभुजे विषयान्कर्म चक्रे चानभिसंधितम्

1.47.81

स कल्याणोपभोगैश्च क्षीणपापो ऽमलस्ततः ।
अवाप सिद्धिमत्यन्तत्रितापक्षपणीं मुने

1.47.82

एतत्ते कथितं सर्वं यन्मां त्वं परिपृष्टवान् ।
तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc