भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.44

1.44.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राह्मणाचारनिरूपणं नाम त्रिचत्वारिंशो ऽध्यायः
भरद्वाज उवाच
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ।
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति

1.44.2

मृगुरुवाच
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ।
पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते

1.44.3

तत्र ह्यपापकर्माणः शुचयो ऽत्यन्तनिर्मलाः ।
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः

1.44.4

स स्वर्गसदृशो देशः तत्र ह्युक्ताः शुभा गुणाः ।
काले मृत्युः प्रबवति स्पृशन्ति व्याधयो न च

1.44.5

न लोबः परदारेषु स्वदारनिरतो जनः ।
नान्यो हि वध्यते तत्र द्रव्येषु च न विस्मयः

1.44.6

परो ह्यधर्मो नैवास्ति संदेहो नापि जायते ।
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते

1.44.7

यानासनाशनोपेता प्रसादभवनाश्रयाः ।
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः

1.44.8

प्राणधारणमात्रं तु केषाञ्चिदुपपद्यते ।
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम्

1.44.9

इह धर्मपराः केचित्केचिन्नैष्कृतिका नराः ।
सुखिता दुःखिताः केचिन्निर्धना धनिनो परे

1.44.10

इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते ।
लोभश्चार्थकृतो तॄणां येन मुह्यन्त्यपण्डिताः

1.44.11

यस्तद्वेदो भयं प्राज्ञः पाप्मना न स लिप्यते ।
सोपधे निकृतिः स्तेयं परिवादो ऽभ्यसूयता

1.44.12

परोपघातो हिंसा च पैशुन्मनृतं तथा ।
एतान्संसेवते यस्तु तपस्तस्य प्रहीयते

1.44.13

यस्त्वेतानाचरेद्विद्वान्न तपस्तस्य वर्द्धते ।
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः

1.44.14

कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम् ।
शुभैः शुभमवाप्नोति तथाशुभमथान्यथा

1.44.15

इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा ।
इष्टेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः

1.44.16

उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः ।
इहस्थास्तत्र जायन्ते ये वै पुण्यकृतो जनाः

1.44.17

यदि सत्कारमिच्छन्ति तिर्यग्योनिषु चापरे ।
क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले

1.44.18

अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः ।
इहैव परिवर्त्तन्ते न च यान्त्युत्तरां दिशम्

1.44.19

गुरूनुपासते ये तु नियता ब्रह्मचारिणः ।
पन्थानं सर्वालोकानां विजानन्ति मनीषिणः

1.44.20

इत्युक्तो ऽयं मया धर्मः संक्षिप्तो ब्रह्मनिर्मितः ।
धर्माधर्मौं हि लोकस्य यो वै वेत्ति स बुद्धिमान्

1.44.21

भरद्वाज उवाच ।.
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते ।
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि तपोधन

1.44.22

भृगुरुवाच
अध्यात्ममिति विप्रर्षे यदेतदनुपृच्छसि ।
तद्व्याख्यांस्यामि ते तात श्रेयस्करतमं सुखम्

1.44.23

सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् ।
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति

1.44.24

फललाभश्च तस्य स्यात्सर्वभूतहितं च तत् ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

1.44.25

महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ।
यतः सृष्टानि तत्रैव तानि यान्ति लयं पुनः

1.44.26

महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा ।
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः

1.44.27

तद्वद् भूतानि भूतात्मा सृष्टानि हरते पुनः ।
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्

1.44.28

अकरोत्तेषु वै सम्यक् तं तु जीवो न पश्यति ।
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्

1.44.29

वायोः स्पर्सस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् ।
रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते

1.44.30

रसाः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः

1.44.31

महाभूतानि पचैव षष्टं च मन उच्यते ।
इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत

1.44.32

सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ।
श्रोत्रं वै श्रवणार्थाय स्पर्शनाय च त्वक् स्मृता

1.44.33

रसादानाय रसना गन्धादानाय नासिका ।
चक्षुरालोकनायैव संशयं कुरुते मनः

1.44.34

बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत्स्थितः ।
उर्द्धं पादतलाभ्यां यदवाक्चोदक्च पश्यति

1.44.35

एतेन सर्वमेवेदं विभुना च्याप्तमन्तरम् ।
पुरुषैरिन्द्रियाणीह वेदितव्यानि कृत्स्त्रशः

1.44.36

तमो रजश्च सत्त्वं च ते ऽपि भावास्तदाश्रिताः ।
एतां बुद्धिं नरो बुद्धा भूतानागतिं गतिम्

1.44.37

समवेक्ष्य शनैश्चैवं लभते शममुत्तमम् ।
गुणैर्विनश्यते बुद्दिर्बुद्धेरेवेन्द्रियाण्यपि

1.44.38

मनःषष्टानि भूतानि बुद्ध्यबावे कुतो गुणाः ।
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्

1.44.39

प्रलीयते चोद्भवति तस्मान्निर्द्दिश्यते तथा ।
येन पश्यति तञ्चक्षुः शृणोति श्रोत्रमुच्यते

1.44.40

जिघ्रति घ्राणमित्याहुः रसं जानाति जिह्वया ।
त्वचा स्पर्शयति स्पर्शं बुद्धिर्विक्रियते सकृत्

1.44.41

येन प्रार्थयते किञ्चित्तदा भवति तन्मनः ।
अधिष्टानात्तु बुद्धेर्हि पृथगर्थानि पञ्चधा

1.44.42

इन्द्रियाणीति तान्याहुस्तान्यदृश्यो ऽधितिष्टति ।
पुरुषे तिष्टती बुद्धिस्त्रिषु भावेषु वर्तते

1.44.43

कदाचिल्लभते प्रीतिं कदाचिदुपशोचति ।
न सुखेन न दुःखेन कदाचिदपि वर्तते

1.44.44

एवं नराणां मनसि त्रिषु भावेषु वर्तते ।
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते

1.44.45

सरितां सागरो भर्ता वेलानामिव वारिधिः ।
अतिभावगता बुद्धिर्भावैर्मनसि वर्तते

1.44.46

वर्तमानो मुनिस्त्वेवं स्वबावमनुवर्तते ।
इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा सदा

1.44.47

प्रीतिः सत्त्वं रजः शोकस्तमः क्रोधस्तु ते त्रयः ।
ये ये च भावा लोके ऽस्मिन्सर्वे प्येतेषु वै त्रिषु

1.44.48

इति बुद्धिगताः सर्वा व्याख्यातास्तव भावनाः ।
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता

1.44.49

सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा ।
त्रिविश्वावेदनाश्चैव सर्वसत्त्वेषु दृश्यते

1.44.50

सात्त्विकी राजसी चैव तामसी चेति मानद ।
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः

1.44.51

तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ ।
तव यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्

1.44.52

वर्तते सात्त्विको भाव इत्याचक्षीत तत्तथा ।
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः

1.44.53

प्रवृत्तं रज इत्येव जानीहि मुनिसत्तम ।
अथयन्मोहसंयुक्तमव्यक्त विषमं भवेत्

1.44.54

अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ।
प्रहर्षः प्रीतिरानन्दः सुखं वा शान्तचित्तता

1.44.55

कथञ्चिदभिवर्तन्त इत्येते सात्त्विका गुणाः ।
अतुष्टिः परितापश्च शोको लोभस्तथा क्षमा

1.44.56

लिङ्गानि रजसस्तानि दृश्यन्ते देहहेतुभिः ।
अपमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिते

1.44.57

कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः ।
दूषणं बहुधागामि प्रार्थनासंशयात्मकम्

1.44.58

मनः स्वनियतं यस्य स सुखी प्रेत्यचेह च ।
सत्त्वक्षेत्रज्ञयोरेतदन्तरं यस्य सूक्ष्मयोः

1.44.59

सृजतेहि गुणानेक एको न सृजते गुणान् ।
मशकोदुंबरौ वापि संप्रयुक्तौ यथा सदा

1.44.60

अन्योन्यमेतौ स्यातां च सप्रंयोगस्तथोभयोः ।
पृथग्भूतौ प्रकृत्या तौ सप्रंयुक्तौ च सर्वदा

1.44.61

यथा मत्स्यो जलं चैव संप्रयुक्तो तथैव तौ ।
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः

1.44.62

परिद्रष्टा गुणानां तु संस्त्रष्टा मन्यते तथा ।
इन्द्रियस्तु प्रदीपार्थं कुरुते बुद्धिसत्तमैः

1.44.63

निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवान् ।
सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति

1.44.64

संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवम् ।
आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन

1.44.65

सत्त्वं मनः संसृजते न गुणान्वै कदाचन ।
रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति

1.44.66

तदा प्रकाशते ऽस्यात्मा घटे दीपो ज्वलन्निव ।
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः

1.44.67

सर्वभूतात्मभूस्तस्मात्स गच्छेदुत्तमां गतिम् ।
यथा वारिचरः पक्षी सलिलेन न लिप्यते

1.44.68

एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ।
एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः

1.44.69

अशोचन्नप्रहृष्यंश्च समो विगतमत्सरः ।
भावयुक्त्या प्रयुक्तस्तु स नित्यं सृजते गुणान्

1.44.70

ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ।
प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते

1.44.71

प्रत्यक्षेण परोक्षं तदनुमानेन सिद्ध्यति ।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे

1.44.72

उभयं संप्रधार्यैतद्व्यवस्येत यथामति ।
इतीमं हृदयग्रथिं बुद्धिचिन्तामयं दृढम्

1.44.73

विमुच्य सुखमासीत न शोचेच्छिन्नसंशवः ।
मलिनाः प्राण्नुयुः शुद्धिं यथा पूर्णां नदीं नराः

1.44.74

अवगाह्य सुविद्वांसो विद्धि ज्ञानभिदे तथा ।
महानद्या हि पारज्ञस्तप्यते न तरन्यथा

1.44.75

न तु तप्यति तत्त्वज्ञः कुलज्ञस्तु तरत्युत ।
एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम्

1.44.76

एवं बुद्धा नरः सर्वो भूतानामगतिं गतिम् ।
अवेक्ष्य च शनैर्बुद्ध्या लभते च शमं ततः

1.44.77

त्रिवर्गो यस्य विदितः प्रेक्ष्य यश्च विमुञ्चति ।
अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः

1.44.78

न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः ।
तत्र तत्र विसृष्टेषु दुर्वापेष्वकृतात्माभिः

1.44.79

एतद् बुद्धा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम् ।
विज्ञाय तद्धि मन्यन्ते कतकृत्या मनीषिणः

1.44.80

न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत् ।
नहि गतिरधिकास्ति कस्यचित्सति हि गुणेप्रवदत्यतुल्यताम्

1.44.81

यः करोत्यनभिसंधिपूर्वकं तच्च निर्दहति यत्पुराकृतम् ।
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्वतः

1.44.82

लोकमायुरभिसूयते जनस्तस्य तज्जनयतीह कुर्वन्तः ।
तत्र पश्य कुशलान्न शोचते जायते यदि भयं पदं सदा

1.44.83

भरद्वाज उवाच
ध्यानयोगं समाचक्ष्वमह्यं तत्पदसिद्धये ।
यज्ज्ञात्वा मुच्यते ब्रह्मन्नरस्त्रिविधतापतः

1.44.84

भृगुरुवाच
हॄन्त ते संप्रवक्ष्यामि ज्ञानयोगं चतुर्विधम् ।
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः

1.44.85

यथा स्वनुष्टितं ध्यानं तथा कुर्वन्ति योगिनः ।
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः

1.44.86

नावर्तन्ते पुनश्चापि मुक्ताः संसारदोषतः ।
जन्मदोषपारीक्षीणाः स्वभावे पर्यवस्थिताः

1.44.87

निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता निष्परिग्रहाः ।
असंगान्य विधादीनि मनः शान्तिकराणि च

1.44.88

तत्र ध्यानेन संक्लिष्टमेकाग्रं धारयेन्मनः ।
पिण्डीकृत्येन्द्रियग्राममासीनः काष्टवन्मुनिः

1.44.89

शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत् ।
रूपं न चक्षुषा विन्द्याज्जिह्वया न रसांस्तथा

1.44.90

घ्रोयाण्यपि च सर्वाणि जह्याद्ध्यानेन तत्त्ववित् ।
पञ्चवर्गप्रमाथीनि नेच्छेञ्चैतानि वीर्यवान्

1.44.91

ततो मनसि संगृह्य पञ्चवर्गं विचक्षणः ।
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः

1.44.92

विसञ्चारि निरालम्बं पञ्चद्वारं बलाबलम् ।
पूर्वध्यानपथे धीरः समादध्यान्मनस्त्वरा

1.44.93

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् ।
एष ध्यानपथः पूर्वो भया समनुवर्णितः

1.44.94

तस्य तत्पूर्वसंरुद्ध आत्मषष्ठमनन्तरम् ।
स्फुरिष्यति समुद्रान्ता विद्युदम्बुधरे यथा

1.44.95

जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः ।
एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि

1.44.96

समाहितं क्षणं किञ्जिद्ध्यानवर्त्मनि तिष्टति ।
पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्

1.44.97

अनिर्वेदो गतक्लेशो गततन्द्रो ह्यमत्सरी ।
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित्

1.44.98

विचारश्च वितर्कश्च विवेकश्चोपजायते ।
मुनेः समाधियुक्तस्य प्रथमं ध्यानमादितः

1.44.99

मनसा क्लिश्यमानस्तु समाधानं च कारयेत् ।
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम्

1.44.100

पांशुभस्मकरीषाणां यथा वै राशयश्चिताः ।
सहसा वारिणा सिक्ता न यान्ति परिभावनाः

1.44.101

किञ्चित् स्निग्धं यथा च स्याच्छुष्कं चूर्णमभावितम् ।
क्रमेण तु शनैर्गच्छत्सर्वं तत्परिभावनम्

1.44.102

एवमेवेन्द्रियग्रामं शनैः शं परिभावयेत् ।
संहरेत्क्रमशश्चैव सम्यक् तत्प्रशमिष्यति

1.44.103

स्वयमेव मनश्चैवं पञ्चवर्गं मुनीश्वर ।
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति

1.44.104

न तत्पुरुषकारेण न च दैवेन केनचित् ।
सुखमेष्यति तत्तस्य यदेवं संयतात्मनः

1.44.105

सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि ।
गच्छन्ति योगिनो ह्योवं निर्वाणं तु निरामयम्

1.44.106

सनन्दन उवाच
इत्युक्तो भृगुणा ब्रह्मन्भरद्वाजः प्रतापवान् ।
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत्

1.44.107

एष ते प्रसवो विद्वन् जगतः संप्रकीर्तितः ।
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc