नारद पुराण · अध्याय 1.43
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे जगदुत्पत्तिवर्णनं नाम द्विचत्वारिंशो ऽध्यायः
भरद्वाज उवाच
यदि प्राणपतिर्वायुर्वायुरेव विचेष्चते ।
श्वसित्याभाषते चैव ततो जीवो निरर्थकः
य ऊष्मभाव आग्नेयो वह्निनैवोपलभ्यते ।
अग्निर्जरयते चैतत्तदा जीवो निरर्थकः
जन्तोः प्रम्नियमाणस्य जीवो नैवोपलभ्यते ।
वायुरेव जहात्येनमूष्मभावश्च नश्यति
यदि वाथुमयो जीवः संश्लेषो यदि वायुना ।
वायुमञ्जलवत्पश्येद्गच्छेत्सह मरुद्गुणैः
संश्लेषो यदि वा तेन यदि तस्मात्प्रणश्यति ।
महार्णवविमुक्तत्वादन्यत्सलिलभाजनम्
कृपे वा सलिलं दद्यात्प्रदीपं वा हुताशने ।
क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा
पञ्चधारणके ह्यस्मिञ्छरीरे जीवितं कृतम् ।
येषामन्यतराभावाञ्चतुर्णां नास्ति संशयः
नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् ।
नश्यते कोष्टभेदार्थमग्रिर्नश्यत्यभोजनात्
व्याधित्रणपरिक्लेशैर्मेदिनी चैव शीर्यते ।
पीडिते ऽन्यतरे ह्येषां संघातो याति पञ्चताम्
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति ।
किं खेदयति वा जीवः किं शृणोति ब्रवीति च
एषा गौः परलोकस्थं तारयिष्यतिमामिति ।
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति
गौश्चप्रतिग्रहीता च दाता चैव समं यदा ।
इहैव विलयं यान्ति कुतस्तेषां समागमः
विहगैरुपभुक्तस्य शैलाग्रात्पतितस्य च ।
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ।
जीवन्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति
जीवमात्रं पुरा सृष्टं यदेतत्परिवर्तते ।
मृताः प्रणश्यन्ति बीजाद्बीजं प्रणश्यति
इति मे संशयो ब्रह्मन्हृदये परिधावति ।
त निवर्तय सर्वज्ञ यतस्त्वामाश्रितो ह्यहम्
सनन्दन उवाच
एवं पृष्टस्तदानेन स भृगर्ब्रह्मणः सुतः ।
पुनराहु मुनिश्रेष्ठ तत्संदेहनिवृत्तये
भृगुरुवाच
न प्राणाः सन्ति जीवस्य दत्तस्य च कृतस्य च ।
याति देहान्तरं प्राणी शरीरं तु विशीर्यते
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति ।
समिधामग्निदग्धानां यथाग्रिर्द्दश्यते तथा
भरद्वाज उवाच
अग्नेर्यथा तस्य नाशात्तद्विनाशो न विद्यते ।
इन्धनस्योपयोगान्ते स वाग्निर्नोपलभ्यते
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् ।
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते
भृगुरुवाच
समिधामुपयोगान्ते स चाग्निर्नोपलभ्यते ।
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ।
समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते
आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः ।
तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः
न नश्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः ।
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम्
वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ।
तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम्
पतितं याति भूमित्वमयनं तस्य हि क्षितिः ।
जगमानां हि सर्वेषां स्थावराणां तथैव च
आकाशं पवनो ऽन्वेति ज्योतिस्तमनुगच्छति ।
तेषां त्रयाणामेकत्वाद्वयं भूमौ प्रतिष्टितम्
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः ।
अमूर्तयस्ते विज्ञेया मूर्तिमन्तः शरीरिणः
भरद्वाज उवाच
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु ।
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मे ऽनघ
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंज्ञके ।
शरीरे प्राणिनां जीवं वेत्तुभिच्छामि यादृशम्
मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये ।
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते
यद्यजीवशरीरं तु पञ्चभूतसमन्वितम् ।
शरीरे मानसे दुःख कस्तां वेदयते रुजम्
शृणोति कथितं जीवः कर्णाभ्यांन शृणोति तत् ।
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः
सर्वे पश्यन्ति यदृश्यं मनोयुक्तेन चक्षुषा ।
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति
न पश्यति न चाघ्राति न शृणोति न भाषते ।
न च स्मर्शमसौ वेत्ति निद्रावशगतः पुनः
हृष्यति क्रुद्ध्यते को ऽत्र शोचत्युद्विजते च कः ।
इच्छति ध्यायति द्वेष्टि वाक्यं वाचयते च कः
भृगुरुवाच
तं पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेंऽतरात्मा ।
स वेत्ति गन्धांश्च रसाञ्छुतीश्च स्पर्शं च रूपं च गुणांश्च ये ऽल्ये
पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोंऽतरात्मा ।
सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम्
यदा न रूपं न स्पर्शो नोष्यभवश्च पावके ।
तदा शान्ते शरीराग्नौ देहत्यागेन नश्यति
आपोमयमिदं सर्वमापोमूर्तिः शरीरिणाम् ।
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्
आत्मानं तं विजानीहि सर्वलोकहितात्मकम् ।
तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् ।
तमोरजश्च सत्त्वं च विद्धि जीवगुणानिमाम्
अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् ।
अतः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त
न जीवनाशो ऽस्ति हि देहभेदे मिथ्यैतदाहुर्मुन इत्यबुद्धाः ।
जीवस्तु देहान्तरितः प्रयाति दशार्द्धतस्तस्य शरीरभेदः
एवं भूतेषु सर्वेषु गूढश्चरति सर्वदा ।
दृश्यते त्वग्र्या बुध्यासूक्ष्मया तत्त्वदर्शिभिः
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः ।
लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते
मानसो ऽग्निः शरीरेषु जीव इत्यभिधीयते ।
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये
असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः ।
आत्मतेजो ऽभिनिर् वृत्तान्भास्कराग्निसमप्रभान्
ततः सत्यं च धर्मं च तथा ब्रह्म च शाश्वतम् ।
आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः
देवदान वगन्धर्वा दैत्यासुरमहोरगाः ।
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राणामसितस्तथा ।
भरद्वाज उवाच
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्त सशोणितम् ।
त्वन्तः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते
जङ्गमानामसंख्येयाः स्थावराणां च जातयः ।
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः
भृगुरुवाच
न विशेषो ऽस्ति वर्णानां सर्वं ब्रह्ममयं जगत् ।
ब्रह्मणा पूर्वसृष्टं हि कर्मणा वर्णतां गतम्
कामभोगाः प्रियास्तीक्ष्णाः क्रोधताप्रियसाहसाः ।
त्यक्तस्वकर्मरक्ताङ्गास्ते द्विजाः क्षत्रतां गताः
गोभ्यो वृत्तिं समास्थाय पीताः कृष्युपजीविनः ।
स्वधर्ंमन्नानुतिष्टन्ति ते द्विजा वैश्यतां गताः
र्हिसानृतपरा लुब्धाः सर्वकर्मोपजीविनः ।
कृष्णाः शौचपारिभ्राष्टास्ते द्विजाः शूद्रतां गताः
इत्येतैः कर्मभिर्व्याप्ता द्विजा वर्णान्तरं गताः ।
ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति
ब्रह्म धारयतां नित्यं व्रतानि नियभांस्तथा ।
ब्रह्म चैव पुरा सृष्टं येन जानन्ति तद्विदः
तेषां बहुविधास्त्वन्यास्तत्र तत्र द्विजातयः ।
पिशाचजा राक्षसाः प्रेता विविधा म्लेच्छजातयः ।
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा
भरद्वाज उवाच
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर
भृगुरुवाच
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।
वेदाध्ययनसंपन्नो ब्रह्मकर्मस्ववस्थितः
शौचाचारस्थितः सम्यग्विद्याभ्यासी गुरुप्रियः ।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते
सत्यं दानमथो ऽद्रोह आनृशंस्यं कृपा घृणा ।
तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः
क्षत्रजं सेवते कर्म वेदाध्ययनसंगतः ।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते
विशत्याशु पशुभ्यश्च कृष्यादानरतिः शुचिः ।
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः
सर्वघभक्षरतिर्नित्यं सर्वकर्मकरो ऽशुचिः ।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः
शूद्रे चैतद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं ज्ञानानां तथा चैवात्मसंयमः
वर्ज्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुद्यतौ ।
नित्यक्रोधाच्छ्रियं रक्षेत्तपो रक्षेत्तु मत्सरात्
विद्यां मानापमानाभघ्यामात्मानं तु प्रमादतः
यस्य सर्वे समारंभघा निराशीर्बन्धना द्विज ।
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्
अहिंस्त्रः सर्वभूतानां मैत्रायण गतश्चरेत् ।
परिग्रहात्परित्यज्य भवेद्बद्ध्या जितेन्द्रियः
अशोकस्थानमाति वेदिह चामुत्र चाभयम् ।
तपोनित्येन दान्तेन मुनिना संयतात्ममना
अजितं जेतुकामेन व्यासंगेषु ह्यसंगिना ।
इन्द्रियैर्गृह्यते यद्यत्तत्तव्द्यक्तमिति स्थितिः
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ।
अविश्रंभेण मन्तव्यं विश्रंभे धारयेन्मनः
मनः प्राणेन गृह्णीयात्प्राणं ब्रह्मणि धारयेत् ।
निवेदादेव निर्वाणं न च किञ्चिद्विच्चितयेत्
सुखं वै ब्रह्मणो ब्रह्मन्निर्वेदेनाधिगच्छति ।
शौचे तु सततं युक्तः सदाचारसमन्वितः
स्वनुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ।
सत्यंव्रतं तपः शौचं सत्यं विसृजते प्रजा
सत्येन धार्यते लोकः स्वः सत्येनैव गच्छति ।
अनृतं तमसो रूपं तमसा नीयते ह्यधः
तमोग्रस्तान पश्यन्ति प्रकाशन्तमसावृताः ।
सुदुष्प्रकाश इत्याहुर्नरकं तम एव च
सत्यानृतं तदुभघयं प्राप्यते जगतीचरैः ।
तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत्
धर्माधर्मौं प्रकाशश्च तमो दुःखसुखं तथा ।
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः
लोकसृष्टं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ।
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः
सुखं ह्यनित्यं भूतानामिह लोके परत्र च ।
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते
तथा तमोभिभूतानां भूतानां नश्यते सुखम्
तत्खलु द्विविधं सुखमुच्यचते शरीरं मानसं च ।
इह खल्वमुष्मिंश्च लोके वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते नहीतः परत्रापर्वगफलाद्विशिष्टतरमस्ति ।
स एव काम्यो गुणविशेषो धर्मार्थगुणारंभगस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थमारंभाः ।
भरद्वाज उवाच
वदैतद्भवताभिहितं सुखानां परमा स्थितिरिति
न तदुपगृह्णीमो न ह्येषामृषीणां महति स्थितानाम्
अप्राप्य एष काम्य गुणविशेषो न चैनमभिशीलयन्ति ।
तपसि श्रूयते त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्टति ब्रह्मचारी न कामसुखोष्वात्मानमवदधाति
अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन सममनयत्
तस्माद्भूमौ न तु महात्मभिरञ्जयति गृहीतो न त्वेष तावद्विशिष्टो गुणविशेष इति
नैतद्भगवतः प्रत्येमि भवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादो हि द्विविधः फलोदयः सुकृतात्सुखमवाप्यते ऽन्यथा दुःखमिति
भृगुरुवाच
अत्रोच्यते अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मं क्रोधलोभमोहहिंसानृतादिभिखच्छन्नाः खल्वस्मिंल्लोके नामुत्र सुखमाप्नुवन्ति विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धनपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते वर्षवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शौकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति यस्त्वेतैः
शारीरं मानसं नास्ति न जरा न च पातकम् ।
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्
नरके दुःखमेवाहुः सुखं तत्परमं पदम् ।
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः
पुमान्प्रजापतिस्तत्रशुक्रं तेजोमयं विदुः ।
इत्येतल्लोकनिर्माता धर्मस्य चरितस्य च
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ।
हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा
दानेन भोगानित्याहुस्त पसा स्वर्गमाप्नुयात् ।
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च
सद्भ्यो यद्दीयते किञ्चित्तत्परत्रोपतिष्टते ।
असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते ।
यादृशं दीयते दानं तादृशं फलमश्नुते
भरद्वाज उवाच
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् ।
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति
भृगुरुवाच
स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः ।
तेषां स्वर्गपलावाप्तिर्यो ऽन्यथा स विमुह्यते
भरद्वाज उवाच
यदेतञ्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ।
तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि
भृगुरुवाच
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्टता धर्मसंरक्षणार्थमाश्रमाश्चत्वारो ऽभिनिर्द्दिष्टाः
तत्र गुरुकुलवासमेव प्रथममाश्रममाहरन्ति सम्यगत्र शौचसस्कारनियमव्रतविनियतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाब्यासश्रवणपवित्रघीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा नित्यभिक्षाभैक्ष्यादिसर्वनिवेदितान्तरात्मा गुरुवचननिदेशानुष्टानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात्
भवति चात्र श्लोकः
गुरुं यस्तु समाराध्य द्विजो वेदमावान्पुयात् ।
तस्य स्वर्गफलावाप्तिः सिद्ध्यते चास्य मानसम् ।
इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति
तस्य सदा चारलक्षणं सर्वमनुव्याख्यास्यामः ।
समावृतानां सदाचाराणां सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते
धर्मार्थकामावाप्तिर्ह्य.त्र त्रिवर्गसाधनमपेक्ष्यागर्हितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा ब्रह्मर्षिनिर्मितेन वा अद्भिः सागरगतेन वा द्रव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं वर्तयेत्
तद्धि सर्वाश्रमणां मूलमुदाहरन्ति गुरुकुलनिवासिनः परिव्राजका ये ऽन्ये संकल्पितव्रतनियमधर्मानुष्टानिनस्तेषामप्यन्तरा च भिक्षाबलिसंविभागाः प्रवर्तन्ते
वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः स्वाध्यायप्रसंगिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति
तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारसत्क्रिया चेति
भवति चात्र श्लोकः
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो विद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति
लोकौ चात्र भवतः
वात्सल्याः सर्वभूतेभ्यो वायोः श्रोत्रस्तथा गिरा ।
परितापोदपघातश्च पारुष्यं चात्र गर्हितम्
अवज्ञानमहॄङ्कारो दंभश्चैव विगर्हितः ।
अहिंसा सत्यमक्रोदं सर्वाश्रमगतं तपः
अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्य्याणां विविधानामुपभोगः
स्वविहारसंतोषः कामसुखावाप्तिरिति ।
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे ।
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात्
उञ्छवृत्तिर्वृहस्थो यः स्वधम चरणे रतः ।
त्यक्तकामसुखारंभः स्वर्गस्तस्य न दुर्लभः
वानप्रस्थाः खल्वपि धर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्त्रवणानि स्वभक्तेष्वरण्येषु मृगवराहमहिष शार्दूलवनगजाकीर्णेषु तपस्यन्ते अनुसंचरन्ति
त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनोभूपाषाणसिकताशर्करावालुकाभस्मशायिनः काशुकुशचर्मवल्कलसंवृताङ्गाः केशश्यश्रुनखरोमधारिणो नियतकालोपस्पर्शनाःशुष्कबलिहोमकालानुष्टायिनः ।
समित्कुशकुसुमापहारसंमार्जनलब्धविश्रामाः शीतोष्णपवनविष्टं भविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्टानविहितपरिशुष्कमांसशोणितत्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहॄन्ते
यस्त्वेतां नियतचर्यां ब्रह्मर्षिविहितां चरेत् ।
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जायान्
परिव्राजकानां पुनराचारः तद्यथा ।
विमुच्याग्निं धनकलत्रपरिबर्हसंगेष्वात्मानं स्नेहपाशानवधूय परिव्रजन्ति ।
समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वसक्तबुद्धयः
अरिमित्रोदासीनां तुल्यदर्शनाः स्थावरजरायुजाण्डजस्वेदजानां भूतानां वाङ्मनृःकर्मभिरनभिरनभिद्रोहिणो ऽनिकेताः पर्वतपुलिनवृक्षमूलदेवायतनान्यनुसंचरन्तो वा सार्थमुपेयुर्नगरं ग्रामं वा न क्रोधदर्पलोभमोहकार्पण्यदंभपरिवादाभिमाननिर्वृत्तहिंसा इति
भवन्ति चात्र श्लोकाः
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित्
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शरीरमग्निं स्वमुखे जुहोति ।
विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिता ग्निना संव्रजते हि सोकान्
मोक्षाश्रमं यश्चरते यथोक्तं शुचिः स्वसंकल्पितयुक्तबुद्धिः ।
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0