भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.42

1.42.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे नाममहात्म्यन्नामैकचत्वारिंशो ऽध्यायः
श्रीनारद उवाच
कुतः सृष्टमिदं ब्रह्मञ्जगत्स्थावरजङ्गमम् ।
प्रलये च कमभ्येति तन्मे ब्रूहि सनन्दन

1.42.2

ससागरः सगगनः सशैलः सबलाहकः ।
सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः

1.42.3

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।
शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम्

1.42.4

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।
अस्माल्लोकादमुं लोकं सर्वं शंसतु मे भवान्

1.42.5

सनन्दन उवाच
शृणु नारद वक्ष्यामि चेतिहासं पुरातनम् ।
भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते

1.42.6

कैलासशिखरे दृष्ट्वा दीप्यमानं महौजसम् ।
भृगुमहर्षिमासीनं भरद्वाजो ऽन्वपृच्छत

1.42.7

भरद्वाज उवाच
कथं जीवो विचरति नानायोनिषु संततम् ।
कथं मुक्तिश्च संसाराज्जायते तस्य मानद

1.42.8

यश्च नारायणः स्रष्टा स्वयंभूर्भगवन्स्वयम् ।
सेव्यसेवकभावेन वर्तेते इति तौ सदा

1.42.9

प्रविशन्ति लये सर्वे यमीशं सचराचराः ।
लोकानां रमणः सो ऽयं निर्गुणश्च निरञ्जनः

1.42.10

अनीर्दश्यो ऽप्रतर्क्यश्च कथं ज्ञायेत कैर्मुने ।
कथमेनं परात्मानं कालशक्तिदुरन्वयम्

1.42.11

अतर्क्यचरितं वेदाः स्तुवन्ति कथमादरात् ।
जीवो जीवत्वमुल्लङ्घ्य कथं ब्रह्म समन्वयात्

1.42.12

एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि कृपानिर्घ ।
एवं स भगवान्पृष्टो भरद्वाजेन संशयम्

1.42.13

महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततो ऽब्रवीत् ।
भृगुरुवाच
मानसो नाम यः पूर्वो विश्रुतो वे महर्षिभिः

1.42.14

अनादिनिधनो देवस्तथा तेभ्यो ऽजरामरः ।
अव्यक्त इति विख्यातः शाश्वतो ऽथाक्षयो ऽव्ययः

1.42.15

यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ।
सो ऽमृजत्प्रथमं देवो महान्तं नाम नामतः

1.42.16

आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ।
आकाशादभवद्वारि सलिलादग्निमारुतौ

1.42.17

अग्निमारुतसंयोगात्ततः समभवन्मही ।
ततस्तेजो मयं दिव्यं पद्मं सृष्टं स्वयंभुवा

1.42.18

तस्मात्पद्मात्समभवद्व्रह्मा वेदमयो विधिः ।
अहॄङ्कार इति ख्यातः सर्वभूतात्मभूतकृत्

1.42.19

ब्रह्मा वै स महातेजा य एते पञ्च धातवः ।
शैलास्तस्यास्थिसंधास्तु मेदो मसिं च मेदिनी

1.42.20

समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ।
पवनश्चैव निश्वासस्तेजो ऽग्निर्निम्नगाः शिराः

1.42.21

अग्नीषोमौ च चन्द्राकारै नयने तस्य विश्रुते ।
नभश्चोर्ध्वशिरस्तस्य क्षितिः पदौ भुजौ दिशः

1.42.22

दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः ।
स एष भगवान्विष्णुरनन्त इति विश्रुतः

1.42.23

सर्वभूतात्मभूतस्थो दुर्विज्ञेयो ऽकृतात्मभिः ।
अहॄङ्कारस्य यः स्रष्टा सर्वभूतभघवायवै ।
ततः समभवद्विश्वं पृष्टो ऽहं यदिह त्वया

1.42.24

भग्द्वाज उवाच
गगनस्य दिशां चैव भूतलस्वानिलस्य च ।
कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः

1.42.25

भृगुरुवाच
अनन्तमेतदाकाशं सिद्धदैवतसोवितम् ।
रम्यं नानाश्रयाकीर्णं यस्यां तो नाधिगम्यते

1.42.26

ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न पश्यतः ।
तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः

1.42.27

ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः ।
दुर्गमत्वादनन्तत्वादिति मे वद मानद

1.42.28

उपरिष्टोपरिष्टात्तु प्ज्वलद्भिः स्वयंप्रभघैः ।
निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि

1.42.29

प्रथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् ।
तमसोंऽते जलं प्राहुर्जलस्यान्ते ऽग्निरेव च

1.42.30

रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः ।
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्

1.42.31

एवमन्तं भगवतः प्रमाणं सलिलस्य च ।
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि

1.42.32

अग्निमारुततोयानां वर्णा क्षितितलस्य च ।
आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदशनात्

1.42.33

पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च ।
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा

1.42.34

अदृश्यो यस्त्वगम्यो यः कः प्रमाण मुदीरयेत् ।
सिद्धानां देवतानां च परिमीता यदा गतिः

1.42.35

तदागण्यमनन्तस्य नामानन्तेति विश्रुतम् ।
नामधेयानुरुपस्य मानसस्य महात्मनः

1.42.36

यदा तु दिव्यं यद्रूपं ह्रसते वर्द्धते पुनः ।
को ऽन्यस्तद्वेदितुं शक्यो यो ऽपि स्यात्तद्विधो ऽपरः

1.42.37

ततः पुष्करतः सष्टः सर्वज्ञो मूर्तिमान्प्रभुः ।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः

1.42.38

भरद्वाज उवाच
पुष्करो यदि संभूतो ज्येष्टं भवति पुष्करम् ।
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे

1.42.39

भृगुरुवाच
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते

1.42.40

कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः ।
तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः

1.42.41

भरद्वाज उवाच
प्रजाविसर्गं विविधं कथं स सृजति प्रभुः ।
मेरुमध्ये स्थितो ब्रह्मा तद्वहिर्द्विजसत्तम

1.42.42

भृगुरुवाच
प्रजाविसर्गं विविधं मानसो मनसासृजत् ।
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्

1.42.43

यत्प्राणाः सर्वभूतानां सृष्टं प्रथमतो जलम् ।
यत्प्राणाः सर्वभूतानां वर्द्धन्ते येन च प्रजाः

1.42.44

परित्यक्ताश्च न श्यन्ति तेनदं सर्वमावृत्तम् ।
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे ।
सर्वं तद्वारुणं ज्ञेयमापस्तस्तंभिरे पुनः

1.42.45

भरद्वाज उवाच
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ।
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान्

1.42.46

भृगुरुवाच
ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे ।
लोकसंभवसंदेहः समुत्पन्नो महात्मनाम्

1.42.47

ते ऽतिष्टन्ध्यानमालंब्य मौनमास्थाय निश्चलाः ।
त्यक्ताहाराः स्पर्द्धमाना दिव्यं विर्षशतं द्विजाः

1.42.48

तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् ।
दिव्या सरस्वती तत्र संबभूव नभस्तलात्

1.42.49

पुरास्तिमितमाकाशमनन्तमचलोपमम् ।
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ

1.42.50

ततः सलिलमुत्पन्नं तमसीव तमः परम् ।
तस्माञ्च सलिलोत्पीडादुदतिष्टत मारुतः

1.42.51

यथाभवनमच्छिद्रं निःशब्दमिव लक्ष्यते ।
तञ्चाभसा पूर्यमाणं सशब्दं कुरुते ऽनिलः

1.42.52

तथा सलिलसंरुद्धे नभसोंऽतं निरन्तरे ।
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान्

1.42.53

एषु वा चरते वायुरर्णवोत्पीडसंभवः ।
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति

1.42.54

तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः ।
प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः

1.42.55

अग्निः पवनसंयुक्तः खं समाक्षिपते जलम् ।
तदग्निवायुसंपर्काद्धनत्वमुपपद्यते

1.42.56

तस्याकाशं निपतितः स्नेहात्तिष्टति यो ऽपरः ।
स संघातत्वमापन्नो भूमित्वमनुगच्छति

1.42.57

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा ।
भूमिर्यो निरियं ज्ञेया यस्याः सर्वं प्रसूयते

1.42.58

भरद्वाज उवाच
य एते धातवः पञ्च रक्ष्या यानसृजत्प्रभुः ।
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः

1.42.59

यदासृजत्सहस्राणि भूतानां स महामतिः ।
पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते

1.42.60

भृगुरुवाच
अमितानि महाष्टानि यान्ति भूतानि संभवम् ।
अतस्तेषां महाभूतशब्दो ऽयमुपपद्यते

1.42.61

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः ।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्

1.42.62

इत्यतः पञ्चभिर्युक्तैर्युक्तं स्थावरजङ्गमम् ।
श्रोत्रे घ्राणो रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः

1.42.63

भरद्वाज उवाच
पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः ।
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः

1.42.64

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ।
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः

1.42.65

व शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः ।
न च स्पर्शं हि जानन्ति ते कथं पञ्च धातवः

1.42.66

अद्रवत्वादनिग्नित्वादभूमित्वादवायुतः ।
आकाशस्याप्रमेयत्वादृक्षाणां नास्ति भौतिकम्

1.42.67

भृगुरुवाच
घनानामपि वृक्षणामाकाशो ऽस्ति न संशयः ।
तेषां पुष्पपलव्यक्तिर्नित्यं समुपपद्यते

1.42.68

ऊष्मतो म्लायते पर्णं त्वक्फलं पुष्पमेव च ।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते

1.42.69

वाय्यग्न्यशनिनिर्धोषैः फलं पुष्पं विशीर्यते ।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः

1.42.70

वल्ली वेष्टयते वृक्षान्सर्वतश्चैव गच्छति ।
नह्यदृष्टश्च मार्गो ऽस्ति तस्मात्पश्यन्ति पादपाः

1.42.71

पुण्यापुण्यैस्तथा गधैर्धूपैश्च विविधैरपि ।
अरोगाः पुष्पिताः संति तस्माज्जिघ्रन्ति पादपाः

1.42.72

सुखदुःखयोर्ग्रहणाच्छिन्नस्य च विरोहणात् ।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते

1.42.73

तेन तज्जलमादत्ते जरयत्यग्निमारुतौ ।
आहारपरिणामाञ्च स्नहो वृद्धिश्च जायते

1.42.74

जङ्गमानां च सर्वेषां शरीरे पंञ्च धातवः ।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते

1.42.75

त्वक् च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमः ।
इत्येतदिह संघातं शरीरे पृथिवीमये

1.42.76

तेजो ह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च ।
अग्निर्जनयते यञ्च पञ्चाग्नेयाः शरीरिणः

1.42.77

श्रोत्रं घ्राणं तथास्यं च हृदयं कोष्टमेव च ।
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः

1.42.78

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा

1.42.79

प्राणात्प्रीणयते प्राणी व्यानाव्द्यायच्छते तथा

1.42.80

गच्छत्यपानो ऽधश्चैव समानो ह्यद्यवस्थितः ।
उदानादुच्छ्वसितीति पञ्च (प्रति)भदाञ्च भाषते ।
इत्येते वायवः पञ्च वेष्टयन्तीहदेहिनम्

1.42.81

भूमेर्गन्धगुणान्वेत्ति रसं चादूभ्यः शरीरवान् ।
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्

1.42.82

इष्टश्चानुष्टगन्धश्च मधुरः कटुरेव च ।
निर्हारी संहतः स्निग्धो रुक्षो विशद एव च

1.42.83

एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ।
ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना

1.42.84

शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः ।
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु

1.42.85

रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः ।
मधुरो लवणस्तिक्तः कषायो ऽम्लः कटुस्तथा

1.42.86

एष षडिधविस्तारो रसो वारिमयः स्मृतः ।
शब्दः स्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते

1.42.87

ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ।
ह्रस्वो दीर्धस्तथा स्थूलश्चतुरस्रो ऽणुवृत्तवान्

1.42.88

शुक्लः कृष्णस्तथा रक्तो नीलः पीतो ऽरुणस्तथा ।
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः

1.42.89

एवं षोडशविस्तारो ज्योतीरुपगुणः स्मृतः ।
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्

1.42.90

तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ।
षड्जो ऋषभगान्धारौ मध्यमोधैवतस्तथा

1.42.91

पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् ।
एष सप्तविधः प्रोक्तो गुण आकाशसंभवः

1.42.92

ऐश्वर्य्येण तु सर्वत्र स्थितो ऽपि पयहादिषु ।
मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च

1.42.93

एवं बहुविधाकारः शब्द आकाशसंभवः ।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः

1.42.94

उष्णः शीतः सुखं दुःखं स्निग्धो विशद एव च ।
तथा खरो मृदुः श्लक्ष्णो लवुर्गुरुतरो ऽपि च

1.42.95

शब्दस्पर्शौ तु विज्ञेयौ द्विगुणौ वायुरित्युत ।
एवमेकादशविधो वायव्यो गुण उच्यते

1.42.96

आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ।
अव्याहतैश्चेतयते नवेति विषमा गतिः

1.42.97

आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ।
आपो ऽग्निर्मारुश्चैव नित्यं जाग्रति देहिषु

1.42.98

मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः ।
पार्थिवं धातुमासाद्य यथा चेष्टयते बली

1.42.99

श्रितो मूर्द्धानमग्निस्तु शरीरं परिपालयेत् ।
प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टते

1.42.100

स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ।
मनो बुद्धिरहॄङ्कारो भूतानि विषयश्च सः

1.42.101

एवं त्विह स सर्वत्र प्राणैस्तु परिपाल्यते ।
पृष्टतस्तु समानेन स्वां स्वां गतिमुपाश्रितः

1.42.102

वस्तिमूलं गुदं चैव पावकं समुपाश्रितः ।
वहन्मूत्रं पुरीषं वाप्यपानः परिवर्तते

1.42.103

प्रयत्ने कर्मनियमे यच एकस्त्रिषु वर्तते ।
उदान इति तं प्राहुरध्यात्मज्ञानकोविदाः

1.42.104

संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः ।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते

1.42.105

बाहुष्वग्निस्तु विततः समानेन समीरितः ।
रसान्वारु दोषांश्च वर्तयन्नति चेष्टते

1.42.106

अपानप्राणयोर्मध्ये प्राणापानसमीहितः ।
समन्वितस्त्वधिष्टानं सम्यक् पचति पावकः

1.42.107

आस्पंहि पायुपर्यन्तमन्ते स्याद्गुदसंज्ञिते ।
रेतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम्

1.42.108

प्राणानां सन्निपाताश्च सन्निपातः प्रजायते ।
ऊष्मा चागिरीति ज्ञेयो यो ऽन्नं पचति देहिनाम्

1.42.109

अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्

1.42.110

पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः ।
नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः

1.42.111

प्रस्थिता हृदयात्सर्वे तिर्यगूर्ध्दमधस्तथा ।
वहॄन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः

1.42.112

एष मार्गो ऽपि योगानां येन गच्छन्ति तत्पदम् ।
जितक्लमाः समा धीरा मूर्द्धन्यात्मानमादधन्

1.42.113

एवं सर्वेषु विहितप्राणापानेषु देहिनाम् ।
तस्मिन्समिध्यते नित्यमग्निः स्थाल्यामिवाहितः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc