भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.4

1.4.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सृष्टिभरतखण्डप्राशस्त्यभूगोलानां वर्णनं नाम तृतीयो ऽध्यायः
सनक उवाच
श्रद्धापूर्वाः सर्वधर्मा मनोरथफलप्रदाः ।
श्रद्धयासाध्यते सर्वं श्रद्धया तुष्यते हरिः

1.4.2

भक्तिर्भक्त्यैव कर्त्तव्यातथा कर्माणि भक्तितः ।
कर्मश्चद्धाविहीनानि न सिध्यन्तिं द्विजो तमाः

1.4.3

यथाऽलोको हि जन्तूनां चेष्टाकारणतां गतः ।
तथैव सर्वसिद्धीनां भक्तिः परमकारणम्

1.4.4

यथा समस्त लोकानां जीवनं सलिलं स्मृतम् ।
तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते

1.4.5

यथा भूमिं समाश्रित्य सर्वे जीवन्ति जन्तवः ।
तथा भक्तिं समाश्रित्य सर्वकार्य्याणि साधयेत्

1.4.6

श्रद्धावांल्लभते धर्ंमं श्रद्धावातर्थमाप्नुयात् ।
श्रद्धया साध्यते कामः श्रद्धावान्मोक्षमान्पुयात्

1.4.7

न दानैर्न तपोभिर्वा यज्ञैर्वा बहुदक्षिणैः ।
भक्तिहीनेर्मुनिश्चेष्ठ तुष्यते भगवान्हरिः

1.4.8

मेरुमात्रसुवर्णानां कोटिकोटिसहस्रशः ।
दत्ता चाप्यर्थनाशाय यतोभक्तिविवर्जिता

1.4.9

अभक्त्या यत्तपस्तप्तैः केवलं कायशोषणम् ।
अभक्त्या यद्धुतं हव्यं भस्मनि न्यस्तहव्यवत्

1.4.10

यत्किञ्चित्कुरुते कर्ंमश्रद्धयाप्यणुमात्रुमात्रकम् ।.
तन्नाम जायते पुंसां शाश्वतं प्रतीदायकम्

1.4.11

अश्वमेघसहस्रं वा कर्ंम वेदोदितं कृतम् ।
तत्सर्वं निष्फलं ब्रह्मन्यदि भक्तिविवर्जितम्

1.4.12

हरिभक्तिः परा नॄणां कामधेनूपमा स्मृता ।
तस्यां सत्यां पिबन्त्यज्ञाः संसारगरलं ह्यहो

1.4.13

असारभूते संसारे सारमेतदजात्मज ।
भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता

1.4.14

असूयोपेतमनसां भक्तिदानादिकर्ंम यत् ।
अवेहि निष्फलं ब्रहंस्तेषां दूरतरो हरिः

1.4.15

परिश्रियाभितत्पानां दम्भाचाररतात्मनाम् ।
मृषा तु कुर्वतां कर्म तेषां दूरतरो हरिः

1.4.16

पृच्छतां च महाधर्ंमान्वदतां वै मृषा च तान् ।
धर्मेष्वभक्तिमनसां तेषां दूरतरो हरिः

1.4.17

वेदप्रणिहितो धर्ंमो धर्ंमो वेदो नारायणः परः ।
तत्राश्रद्धापरा ये तु तेषां दूरतरो हरिः

1.4.18

यस्य धर्ंमविहीनानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति

1.4.19

धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनातनाः ।
श्रद्धावतां हि सिध्यन्ति नान्यथा ब्रह्मनन्दना

1.4.20

स्वाचारमनतिक्रम्य हरिभक्तिपरो हि यः ।
स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः

1.4.21

कुर्वन्वेदोदितान्धर्ंमान्मुनीन्द्र स्वाश्रमोचितान् ।
हरिध्यानपरोयस्तु स याति परमं पदम्

1.4.22

आचारप्रभवो धर्मः धर्ंमस्य प्रभुरच्युतः ।
आश्रमाचारयुक्तेन पूजितः सर्वदा हरिः

1.4.23

यः स्वाचारपरिभ्रष्टः साङ्गवेदान्तगो ऽपि वा ।
स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः

1.4.24

हरिभक्तिपरि वापि हरिध्यानपरो ऽपि वा ।
भ्रष्टो यः स्वाश्रमाचारात्पतितः सो ऽभिधीयते

1.4.25

वेदो वा हरिभक्तिर्वा भक्तिर्वापि महेश्वरे ।
आचारात्पतितं मूढं न पुनाति द्विजोत्तम

1.4.26

पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् ।
यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारंन रक्षति

1.4.27

आचारात्प्राप्यते स्वर्ग आचारात्प्राप्यते सुखम् ।
आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते

1.4.28

आचाराणान्तु सर्वेषां योगानां चैव सत्तम् ।
हरिभक्तेपरि तथा निदानं भक्तिरिष्यते

1.4.29

भक्त्यैव पूज्यते विष्णुर्वाञ्छितार्थफलप्रदः ।
तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते

1.4.30

जीवन्ति जन्तवः सर्वे यथा मातराश्रिताः ।
तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्ंमिकाः

1.4.31

स्वाश्रमाचारयुक्तस्य हरिभक्तिर्यदा भवेत् ।
न तस्य त्रिषु लोकेषु सदृशो ऽस्त्यजनन्दन

1.4.32

भक्त्या सिध्यन्ति कर्ंमाणि कर्ंमाणि कर्ंमाभिस्तुष्यते हरिः ।
तस्मिंस्तुष्टे भवेज्ज्ञानं ज्ञानान्मोक्षमवाप्यते

1.4.33

भक्तिस्तु भगवद्भक्तसङ्गेन खलु जायते ।
तत्सङ्गं प्राप्यते पुम्भिः सुकृतैः पूर्वसञ्चितैः

1.4.34

वर्णाश्रमाचाररता भगवद्भक्तिलालसाः ।
कामादिदोषनिर् मुक्तास्ते सन्तो लोकशिक्षकाः

1.4.35

सस्तङ्गः परमो ब्रह्मन्न लभ्येताकृतात्मनाम् ।
यदि लभ्येत विज्ञेयं पुण्यं जन्मान्तरार्जितम्

1.4.36

पूर्वार्जितानि पापानि नाशमायान्ति यस्य वै ।
सत्सङ्गतिर्भवेत्तस्य नान्यथा घटते हि सा

1.4.37

रविर्हि रशिमजालेन दिवा हन्तिबहिस्तमः ।
सन्तः सूक्तिमरीच्योश्चान्तर्ध्वान्तं हि सर्वदा

1.4.38

दुर्लभाः पुरुषा लोके भगवद्भक्तिलालसाः ।
तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती

1.4.39

नारद उवाच
किंलक्षणा भागवतास्ते च किं कर्ंम कुर्वते ।
तेषां लोको भवेत्कीदृक्तत्सर्वं ब्रूहि तत्त्वतः

1.4.40

त्वं हि भक्तो रमेशस्य देवदेवस्य चित्रिणः ।
एतान्निगदितुं शक्तस्त्वतो नास्त्यधिको ऽपरः

1.4.41

सनक उवाच
शृणु ब्रह्मन्परं गुह्यं मार्कण्डेयस्य धीमनः ञ ।
यमुवाच जगन्नाथो योगनिद्राविमोचितः

1.4.42

यो ऽसौ विष्णुः परं ज्योतिर्देवदेवः सनातनः ।
जगत्कर्त्ता शिवब्रह्म स्वरुपवान्

1.4.43

युगान्ते रौद्ररुपेण ब्रह्माण्डग्राहितः ।
जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे

1.4.44

भगवानेव शेषात्मा शेते वटदले हरिः ।
असंख्याताब्जजन्माद्यैराभूषिततनूरूहः

1.4.45

पादाङ्गुष्टाग्रनिर्यातगङ्गाशीताम्बुपावनः ।
सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासंबृंहितः

1.4.46

वटच्छदे शयानो ऽभूत्सर्वशक्तिसमन्वितः ।
तस्मिन्स्थाने महाभागो नारायणपरायणः ।
मार्कण्डेयः स्थिनस्तस्य लीलाः पश्यन्महे शितुः

1.4.47

ऋषय ऊचुः
तस्मिन्काले महाघोरे नष्टे स्थावरजङ्गमे ।
हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम

1.4.48

जगत्येकार्णवीभूते नष्टे स्थावरञ्जगमे ।
सर्वग्रस्तेन हरिणा किमर्थं सो ऽवशेषितः

1.4.49

परं कौतूहलं ह्यत्रं वर्त्तते ऽतीव सूत नः ।
हरिकीर्तिसुधापाने कस्यालस्यं प्रजा यते

1.4.50

सूत उवाच
आसीन्मुनिर्महाभागो मृकण्डुरिति विश्रुतः ।
शालग्रामे महातीर्थे सो ऽतप्यत महातपाः

1.4.51

युगानाम युतं ब्रह्मन्गृणन्ब्रह्म सनातनम् ॥ट
निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः

1.4.52

आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ।
सर्वभूतहितो दान्त स्तताप सुमहत्तपः

1.4.53

तत्तापःशङ्किताः सर्वे देवा इन्द्रादयस्तदा ।
परेशं शरणं जग्मुर्नारायणमनामयम्

1.4.54

क्षीराब्धेरुत्तरं तीरं संप्राप्यत्रिविवौकसः ।
तुष्टुवुर्देवदेवेशं पह्मनाभं जगद्गुरुम्

1.4.55

देवा ऊचुः
नारायणाक्षरानन्त शरणागतपालक ।
मृकण्डुतपसा त्रस्तान्पाहि नः शरणागतान्

1.4.56

जय देवाधिदेवेश जय शङ्खगदाधर ।
जयो लोकस्वरुपाय जयो ब्रह्माण्डहेतवे

1.4.57

नमस्ते देवदेवेश नमस्ते लोकपावन ।
नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे

1.4.58

नमस्ते ध्यानगम्याय नमस्ते ध्यानहेतवे ।
नमस्ते ध्यानरुपाय नमस्ते ध्यानपाक्षिणे

1.4.59

केशिहन्त्रे नमस्तुभ्यं मधुहन्त्रे परात्मने ।
नमो भूम्यादिरूपाय नमश्चैतन्यरुपिणे

1.4.60

नमो ज्येष्टाय शुद्धाय निर्गुणाय गुणात्मने ।
अरुपाय स्वरुपाय बहुरुपाय ते नमः

1.4.61

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः

1.4.62

नमो हिक्षमगर्भाय नमो ब्रह्मादिरुपिणे ।
नमः सूर्य्यादिरुपाय हव्यकव्यभुजे नमः

1.4.63

नमो नित्याय वन्द्याय सदानन्दैकरुपिणे ।
नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः

1.4.64

एवं देवस्तुतिं श्रुत्वा भगवान्कमलापतिः ।
प्रत्यक्षतामगात्तेषां शङ्कचत्रगदाधरः

1.4.65

विकचाम्बुजपत्राक्षं सूर्य्यकोटिसमप्रभम् ।
सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम्

1.4.66

पीताम्बरधरं सौम्यं स्वर्णयज्ञोपवीतिनम् ।
स्तृयमानं मुनिवरैः पार्षदप्रवरावृत्तम्

1.4.67

तं दृष्य्वा देवसंघास्ते तत्तेजोहततेजसः ।
नमश्चक्रुर्मुदा युक्ता अष्टाङ्गौरवनिं गताः

1.4.68

ततः प्रसन्नो भगवान्मेघगंभीरनिस्वनः ।
उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान्

1.4.69

श्रीभगवानुवाच
जाने वो मानसं दुःखं मृकण्डुतपसोङ्गम् ।
युष्मान्न बाधते देवाः स ऋषिः सज्जनाग्राणीः

1.4.70

संपद्भिः संयुता वापि विपद्भिश्चापि सज्जनाः ।
सर्वथान्यं न बाधन्ते स्वप्ने ऽपि सुरसत्तमाः

1.4.71

सततं बाध्यमानो ऽपि विषयाख्यैररातिभिः ।
अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः

1.4.72

तापत्रयाभिधानेन बाध्यमानो हि मानवः ।
अन्यं क्रीडयितुं शक्तः कथं भवति सत्तमः

1.4.73

कर्मणा मनसा वाचा बाधते यः सदा परान् ।
नित्यं कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः

1.4.74

यो लोकहितकृन्मर्त्यो गतासुर्यो विमत्सरः ।
निःशङ्गः प्रोच्यते सद्भिरिहामात्र च सत्तमाः

1.4.75

सशङ्कः सर्वदा दुःखी निःशङ्कः सुखमान्पुयात् ।
गच्छध्वं स्वालयं स्वस्थाः क्रीडयिष्यति वो न सः

1.4.76

भवतां रक्षकश्चाहं विहरध्वं यथासुखम् ।
इति दत्वा वरं तेषामतसीकुसुमप्रभः

1.4.77

पश्यतामेव देवानां तत्रैवान्तरधीयत ।
तुष्टात्मानः सुरगणां ययुर्नाकं यथागतम्

1.4.78

मृकण्डोरपि तुष्टात्मा हरिः प्रत्यक्षतामगात् ।
अरुपं परमं ब्रह्मस्वप्रकाशं निरञ्जनम्

1.4.79

अतसीपुष्पसंकाशं पीतवाससमच्यचुतम् ।
दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितो ऽभवत्

1.4.80

ध्यानादुन्मील्य नयनं अपश्यद्धरिमग्रतः ।
प्रसन्नवदनं शान्तं धातारं विश्वतेजसम्

1.4.81

रोमाञ्चितशरीरो ऽसावानन्दाश्रुविलोचनः ।
ननाम दण्डवद्भूमौ देवदेव सनातनम्

1.4.82

अश्रुभिः क्षालयंस्तस्य चरणौ हर्षसंभवैः ।
शिरस्यञ्चलिमाधाय स्तोतुं समुपचक्रमे

1.4.83

मृकण्डुरुवाच
नमः परेशाय परात्मरुपिणे परात्परस्प्रात्परतः पराय ।
अपारपाराय परानुकर्त्रे नमः परेभ्यः परपारणाय

1.4.84

यो नामजात्यादिविकल्पहीनः शब्दादिदोषव्यतिरेकरुपः ।
बहुस्वरुपो ऽपि निरञ्जनो यस्तमीशमीढ्यं परमं भजामि

1.4.85

देवान्तवेद्यं पुरुषं पुराणं हिरण्यगर्भादिजगत्स्वरुपम् ।
अनूपमं भक्ति जनानुकम्पिनं भजामि सर्वेश्वरमादिमीड्यम्

1.4.86

पश्यन्ति यं वीतसमस्तदोषा ध्यानैकनिष्ठा विगतस्पृहाश्च ।
निवृत्तमोहाः परमं पवित्रं नतो ऽस्मि संसारनिर्वर्त्तकं तम्

1.4.87

स्मृतार्तिनाशनं विष्णुं शरणागतपालकम् ।
जगत्सेव्यं जगाद्धाम परेशं करुणाकरम्

1.4.88

एवं स्तुतः स भगवान्विष्णुस्तेन महर्षिणा ।
अवाप परमां तुष्टिं शङ्खचक्रगदाधरः

1.4.89

अयालिङ्ग्य मुनिं देवश्चतुर्भिर्दीर्घबाहुभिः ।
उवाच परमं प्रीत्या वरं बरय सुव्रत

1.4.90

प्रीतो ऽस्मि तपसा तेन स्तोत्रेण च तवानघ ।
मनसा यदभिप्रेतं वरं वरय सुव्रत

1.4.91

मृकण्डुरूवाच
देवदेव जगन्नाथ कृतार्थो ऽस्मि न संशयः ।
त्वद्दर्शनमपुण्यानां दुर्लभं च यतः स्मृतम्

1.4.92

ब्रह्माद्या यं न वश्यन्ति योगिनः संशितव्रताः ।
धर्मिष्टा दीक्षिताश्वापि वीतरागा विमत्सराः

1.4.93

तं पश्यामि परं धाम किमतो ऽन्यं वरं वृणे ।
एतेनैव कृतार्थो ऽस्मि जनार्दन जगद्धरो

1.4.94

यत्रामस्मृतिमात्रेण महापातकिनो ऽपि ये ।
तत्पदे परमं यान्नि ते दृष्ट्वा किषुनाच्युत

1.4.95

श्रीभगवानुवाच
सत्यत्प्रुक्तं त्वया ब्रह्मान्प्रीनो ऽस्मि तव पण्डित ।
मदृर्शनं हि विफलं न कदाचिद्भविष्यति

1.4.96

विष्णिर्भक्तकुटुम्बीति वदन्ति विवुधाः सदा ।
तदेव पालयिष्यामि मज्जनो नानृतं वदेत्

1.4.97

तस्मात्त्वत्तपसातुष्टो यास्यामि तव पुत्रताम् ।
समस्तगुणसंयुक्तो दीर्घजीवी स्वरुपवान्

1.4.98

मम जन्म कुले यस्य कतत्कुलं मोक्षगामि वै ।
मयि तुष्टे मुनिश्रेष्ठ किमसाध्यं जगत्रये

1.4.99

इत्युक्त्वा देवदेवशो मुनेरतस्य समीक्षतः ।
अन्तर्दधे मृकण्डुश्च तपसः समवर्तत

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc