नारद पुराण · अध्याय 1.3
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदकृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः
नारद उवाच
कथं ससर्ज ब्रह्मादीनादिदेवः पुरा विभुः ।
तन्ममाख्याहि सनक सर्वज्ञो ऽस्ति यतो भवान्
श्रीसनक उवाचा
नारायणो ऽक्षरो ऽनन्तः सर्वव्यापी निरञ्जनः ।
तेनेदमखिलं व्यात्पं जगत्स्थावरजङ्गमम्
आदिसर्गे महाविष्णुः स्वप्रकाशो जगन्मयः ।
गुणभेदमधिष्ठाय मूर्त्तित्रिकमवासृजत्
सृष्ट्यर्थं तु पुरा देवो दक्षिणाङ्गात्प्रजापतिम् ।
मध्येरुद्राख्यमीथानं जगदन्तकरं मुने
पालनायास्य जगतो वामाङ्गाद्विष्णुमव्ययम् ।
तमादिदेवमजरं केचिदाहुः शिवाभिधम् ।
केचिद्विष्णुं सदा सत्यं ब्रह्माणं केचिदूचिरे
तस्य शक्तिः परा विष्णोर्जगत्कार्यप्रवर्तिनी ।
भावाभावस्वरुपा सा विद्याविद्येति गीयते
यदा विश्वं महाविष्णोर्भिन्नत्वेन प्रतीयते ।
तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम्
ज्ञातृज्ञेयाद्युपाधिस्ते यदा नश्यति नारद ।
सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते
एषं माया महाविष्णोर्भिन्ना संसारदायिनी ।
अभेदबुद्ध्या दृष्टा चेत्संसारक्षयकारिणी
विष्णुशक्तिसमुद्भूतमेतत्सर्वं वराचंम् ।
यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गति
उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते ।
अविद्योपाधियोगेनतथेदमखिलं जगत्
यथा हरिर्जगद्यापी तस्य शक्तिस्तथा मुने ।
दाहशक्तिर्यथाङ्गारे स्वाश्रयं व्याप्य तिष्टति
उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे ।
भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च
दुर्गेति भद्रकालीति चण्डी माहेश्वरीत्यपि ।
कौमारी वैष्णवी चेति वाराह्येन्द्री च शाम्भवी
ब्राह्मीति विद्याविद्येति मायेति च तथा परे ।
प्रकृतिश्च परा चेति वदन्ति परमर्षस्यः
शेषशक्तिः परा विष्णोर्जगत्सर्गादिकारिणी ।
व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता
प्रकृतिश्चपुमांश्चैव कालश्चेति विधिस्थितिः ।
सृष्टिस्थितिविनाशानामेकः कारणतां गतः
येनेदमखिलं जातं ब्रह्मरुपधरेण वै ।
तस्मात्परतरो देवो नित्यैत्यभिधीयते
रक्षां करोति यो देवो नित्य इत्यभिधीयते ।
रक्षां करोति यो देवो जगतां परतः पुमान्
तस्मात्परतरं यत्तदव्ययं परमं पदम्
अक्षरो निर्गुणः शुद्धः परिपूर्णः सनातनः ।
यः परः कालपुपाख्यो योगिध्येयः परात्परः
परमात्मा परानन्दः सर्वोपाधिविवर्जितः ।
ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः
यो ऽसौ शुद्धो ऽपि परमो ह्यहॄङ्कारेण संयुतः ।
देहीति प्रोच्यते मूढैरहो ऽज्ञानविडम्बनम्
स देवः परमः शुद्धः सत्त्वदिगुणभेदतः ।
मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम्
यो ऽसौ ब्रह्मा जगत्कर्ता यन्नाभिकमलोद्भवः ।
स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने
अन्तर्यामी जगद्यापी सर्वसाक्षी निरञ्जनः ।
भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः
यस्य शक्तिर्महामाया जगद्विस्त्रम्भधारिणी ।
विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः
आदिसर्गे महाविष्णोर्लोकान्कर्त्तुं समुद्यतः ।
प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत्
पश्यन्ति भावितात्मानो यं ब्रह्मत्यभिसंज्ञितम् ।
शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम्
एवं शुद्धो ऽक्षरो ऽनन्तः कालरुपी महेश्वरः ।
गुणरुपीगुणाधारोजगतामादिकृद्विभुः
प्रतृतिः क्षोभमापन्ना पुरुषाख्ये जगद्गुरौ ।
महान्प्रादुरभूद्धुद्धिस्ततो ऽहं समवर्त्तत
अहॄङ्काराश्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च ।
तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते
आकाशवाय्यग्रिजलभूमयो ऽब्जभावात्मज ।
यथाक्रमं कारणतामेकैकस्योपयान्ति च
ततो ब्रह्मा जगद्धाता तामसानसृजत्प्रभुः ।
तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकान्
तमप्यसाधकं मत्वा देवसर्गं सनातनात् ।
ततो वैमानुषं सर्गं कल्पयामास पह्मजः
ततो दक्षादिकान्पुत्रान्सृष्टिसाधनतत्परान् ।
एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम्
भुर्भुवश्च तथा स्वश्च महश्वैव जनस्तथा ।
तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः
अतलं वितलं चैव सुतलं च तलातलम् ।
महातलं च विप्रेन्द्र ततो ऽधच्च रसातलम्
पातालं चेति सप्तैव पातालानि क्रमादधः ।
एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान्
कुलाचलान्नदीश्चासौ तत्तल्लोकनिवासिनाम् ।
वर्त्तनादीनि सर्वाणि यथायोग्यंमकल्पयत्
भूतले मध्यगो मेरुः सर्वदेवसमाश्रयः ।
लोकालोकश्च भूम्यन्ते तन्मध्ये सत्प सागराः
द्वीपाश्च सत्प विप्रेन्द्र द्वीपे कुलाचलाः ।
बाह्या नद्यश्च विख्याता जनाश्चामरसन्निभाः
जम्बूप्लक्षाभिधानौ च शाल्मलश्च कुशस्तथा ।
क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः
एते द्वीपाः समुद्रैस्तु सत्पसत्पभिरावृताः ।
लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम्
एते द्वीपाः समुद्राश्च पूर्वस्मादुत्तरेराः ।
ज्ञेया द्विगुणविस्तरा लोकालोकाञ्च पर्वतात्
क्षारोदधेरुपत्तरं यद्धि माद्रेश्चैव दक्षिणाम् ।
ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम्
अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद ।
तत्फलं भुज्यते चैव भोगभूमिधनक्रमात्
भारते तु कृतं कर्म शुभं वाशुभमेव च ।
तत्फलं क्षयि विप्रेन्द्र भुज्यते ऽन्यत्रजन्तुभिः
अद्यापि देवा इच्छन्ति जन्म भारतभूतले ।
संचितं सुमहत्पुण्यमक्षय्यममलं शुभम्
कदा लभामहे जन्म वर्षभारतभूमिषु ।
कदा पुण्येन महता यास्याम परमं पदम्
दानैर्वाविविधैर्यज्ञैस्तपोभिर्वाथवा हरिम् ।
जगदीशंसमेष्यामो नित्यानन्दमनामयम्
यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् ।
न तस्य सदृशो ऽन्यो ऽस्ति त्रिषु लोकेषु नारदा
हरिकीर्तनशीलो वा तद्भक्तानां पियो ऽपि वा ।
शुक्षषुर्वापि महतः सवेद्यो दिविजैरपि
हरिपूजारतो नित्यं भक्तः पूजास्तो ऽषि वा ।
भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम्
नारायणेति कृष्णेति वासुदेवेति यो वदेत् ।
अहिंसादिपरः शन्तिः सो ऽपि वन्द्यः सुरोत्तमैः
शिवेति नीलकण्ठेति शङ्करेतिच यः स्मरेत् ।
सर्वभूतहितो नित्यं सो ऽभ्यर्च्यो दिविजैः स्मृतः
गुरुभक्तः शिवध्यानी स्वाश्रमाचारतत्परः ।
अनसूयुःशुचिर्दक्षो यः सो ऽप्यर्च्यःसुरेश्वरैः
ब्राह्मणानां हितकरः श्रध्दावान्वर्णधर्मयोः ।
वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः
अभेददर्शी देवेशे नारायणशिवात्मके ।
सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा
गोषु क्षान्तो ब्रह्मचारी परनिन्दाविवर्जितः ।
अपरिग्रहशी लश्च देवपूज्यः स नारद
स्तेयादिदोषविमुखः कृतज्ञः सत्यवाक् शुचिः ।
परोपकारनिरतः पूजनीयः सुरासुरैः
वेदार्थश्रवणे बुद्धिः पुराणश्रवणे तथा ।
सत्संगे ऽपि च यस्यास्ति सो ऽपि वन्द्यः सुरोत्तमैः
एवमादीन्यनेकानि कर्माणि श्रद्धयान्वितः ।
करोति भारते वर्षे संबन्धो ऽस्माभिरेव च
एतेष्वन्यतमो विप्रमात्मानं नारभेत्तु यः ।
स एव दुष्कृतिर्मूढो नास्त्यन्यो ऽस्मादचेतनः
संप्राप्य भारते जन्म सत्कर्म सुपराङ्मुखः ।
पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः
श्रुतिस्मृत्युदितैर्द्धर्मैर्नात्मानं पावयेत्तु यः ।
स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने
कर्मभूमिं समासाद्य यो न धर्मं समाचरेत् ।
स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर
शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः ।
कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति
एवं भारतभूभागं प्रशंसन्ति दिवौकसः ।
ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः
तस्मात्पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमम् ।
देवानां दुर्लभं वापि सर्वकर्मफलप्रदम्
अस्मिन्पुण्ये च भूभागे यस्तु सत्कर्मसूद्यतः ।
न तस्य सदृशं कश्चित्रिषु विद्यते
अस्मिञ्जातो नरो यस्तु स्वङ्कर्मक्षपणोद्यतः ।
नररुपपरिच्छन्नः स हरिर्नात्र संशयः
परं लोकफलं प्रेप्सुः किर्यात्कर्माण्यतन्द्रितः ।
निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम्
विरागी चेत्कर्मफलेष्वपि किञ्चित्र कारयेत् ।
अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः
आब्रह्मभुवनाल्लोकाः पुनरुत्पत्तिदायकाः ।
फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम्
वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये ।
यथाश्रमं त्यक्तुकामः प्रान्पोति पदमव्ययम्
निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि ।
स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः
सदाचारपरो विप्रो वर्द्धते ब्रह्मतेजसा ।
तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद
भारते जन्म संप्राप्य नात्मानं तारयेतु यः ।
पच्यते निरये धोरे स त्वाचन्द्राक्रतारकम्
वासदेवपरो धर्मो वासुदेवपरं तपः ।
वासुदेवपरं ज्ञानं वासुदेवपरा गतिः
वासुदेवात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
आब्रह्मस्तम्बपर्यन्तं तस्मादन्यत्र विद्यते
स एव धाता त्रिपुरान्तकश्च स एव देवासुरयज्ञरुपः ।
स एवब्रह्माण्डमिदं ततो ऽन्यन्न किञ्चिदस्ति व्यतिरिक्तरुपम्
अस्मात्परं नापरमस्ति किञ्चिद्यस्मादणीयान्नतथा महीयान् ।
व्यात्पं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीङ्यम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0