नारद पुराण · अध्याय 1.30
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे तिथ्यादिनिर्णयो नाम एकोनत्रिंशो ऽध्यायः
सनक उवाच
प्रायश्चित्तविधिं वक्ष्ये शृणु नारद सांप्रतम् ।
प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत्
प्रायश्चित्तविहीनैस्तु यत्कर्म क्रियते मुने ।
तत्सर्वं निष्फलं प्रोक्तं राक्षसैः परिसेवितम्
कामक्रोधविहीनैश्च धर्मशास्त्रविशारदैः ।
प्रष्टव्या ब्राह्मणा धर्मं सर्वधर्मफलेच्छुभिः
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखैः ।
न निष्पुनन्ति विप्रेन्द्र सुराभाण्डमिवापगाः
ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ।
महापातकिननस्त्वेते तत्संसर्गी च पञ्चमः
यस्तु संवत्सरं ह्यतैः शयनासनभोजनैः ।
संवसेत्सह तं विद्यात्पतितं सर्वकर्मसु
अज्ञानाद्वाह्मणं हत्वा चीरवासा जटी भवेत् ।
स्वेनैव हतविप्रस्य कपालमपि धारयेत्
तदभावे मुनिश्रष्ट कपालं वान्यमेव वा ।
तद्द्रव्यं ध्वजदण्डे तु धृत्वा वनचरो भवेत्
वन्याहारो वसेतत्र वारमेकं मिताशनः ।
सम्यक्संध्यामुपासीत त्रिकालं स्नानमाचरेत्
अध्ययनाध्यापनादून्वर्जयेत्संस्मरेद्धरिम् ।
ब्रह्मचारी भवेन्नित्यं गन्धमाल्यादि वर्जयेत्
तीर्थान्यनुवसेच्चैव पुण्याश्चावाश्रमांस्तथा ।
यदि वन्यैर्न जीवेत ग्रामे भिक्षां समाचरेत्
द्वादशाब्दं व्रतं कुर्यादेवं हरिपरायणः ।
ब्रह्महा शुद्धिमान्पोति कर्मार्हश्चैव जायते
व्रतमध्ये मृगैर्वापि रोगैर्वापि निषूदितः ।
गोनिमित्तं द्विजार्थं वा प्राणान्वापि परित्यजेत्
यद्वा दद्याद्द्विजेन्द्राणां गवामयुतमुत्तसम् ।
एतेष्वन्यतमं कृत्वा ब्रह्महा शुद्धिमान्पुयात्
दीक्षितं क्षत्रियं हत्वा चरेद्धि ब्रह्महव्रतम् ।
अग्निप्रवेशनं वापि मरुत्प्रपतनं तथा
दीक्षीतं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् ।
आचार्यादिवधे चैव व्रतमुक्तं चतुर्गुणम्
हत्वा तु विप्रमात्रं च चरेत्संवत्सरं व्रतम् ।
एवं विप्रस्य गदितः प्रायश्चित्तविधिर्द्विज
।
द्विगुणं क्षत्रियस्योक्तं त्रिगुणं तु विशः स्मृतम् ।
ब्राह्मणं हॄन्ति यः शूद्रस्तं मुशल्यं विर्दुर्बुधाः
राज्ञैव शिक्षा कर्तव्या इति शास्तेषु निश्चयः ।
ब्राह्मणीनां वधे त्वर्द्धं पादः स्यात्कन्यकावधे
हत्वा त्वनुपनीतांश्च तथा पादव्रतं चरेत् ।
हत्वा तु क्षत्रियं विप्रः षडब्दं कुच्छ्रमाचरेत्
संवत्सरं त्रयं वेश्यं शूर्द्रं हत्वा तु वत्सरम् ।
दीक्षितस्य स्त्रियं हत्वा ब्राह्मणी चाष्टवत्सरान्
ब्रह्महत्याव्रतं कृत्वा शुद्धो भवति निश्चितम् ।
प्रावश्चित्तं विधानं तु सर्वत्र मुनिसत्तम
वृद्धातुरस्त्रीबालानामर्द्धमुक्तं मनीषिभिः ।
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा
चातुर्वर्ण्यारपेया स्यात्तथा स्त्रीभिश्च नारद ।
क्षीरं घृतं वा गोमूत्रमेतेष्वन्यतमं मुने
स्नात्वर्द्रवासा नियतो नारायणमनुस्मरन् ।
पक्वायसनिभं कृत्वा पिबेज्चैवोदकं ततः
तत्तु लौहेन पात्रेण ह्यायसेनाथवा पिबेत् ।
ताम्रेण वाथं पात्रेण तत्पीत्वा मरणं व्रजेत्
सुरापी शुद्धिमान्पोति नान्यथा शुद्धिरिष्यते ।
अज्ञानादात्मबुद्द्या तु सुरां पीत्वा द्विजश्चरेत्
ब्रह्महत्याव्रतं सम्यक्तच्चिह्नपरिवर्जितः ।
यदि रोगानिवृत्त्यर्थमौषधार्थं सुरां पिबेत्
तस्योपनयनं भूयस्तथा चान्द्रायणद्वयम् ।
सुरासंस्पृष्टपात्रं तु सुराभाण्डोदकं तथा
सुरापानसमं प्राहुस्तथा चन्द्रस्य भक्षणम् ।
तालं च पानसं चैव द्राक्षं खार्जूरसंभवम्
माधुक शैलमारिष्टं मैरेयं नालिकेरजम् ।
गौडी माध्वी सुरा मद्यमेवमेकादश स्मृताः
एतेष्वन्यतमं विप्रो न पिबेद्वै कदाचन ।
एतेष्वन्यतमं यस्तु पिवेदज्ञानतो द्विजः
तस्योपनयनं भूयस्तत्पकृच्छ्रं चरेत्तथा ।
समक्षं वा परोक्षं वा बलाच्चौयण वा तथा
परस्वानामुपादानं स्तेयमित्युच्यते बुधैः ।
सुवर्णस्य प्रमाणं तु मन्वाद्यैः परिभाषितम्
वक्ष्ये शृणुष्व विप्रेन्द्र प्रायश्चजितोक्तिसाधनम् ।
गवाक्षागतमार्तण्डरश्मिमध्ये प्रदृश्यते
त्रसरेणुप्रमाणं तु रज इत्युच्यते बुधैः ।
त्रसरेण्वष्टकं निष्कस्तत्रयं राजसर्षपः
मौरसर्षपस्तर्त्रयं स्यात्तत्षट्कं यव उच्यते ।
यवत्रयं कृष्णलः स्यान्माषस्तत्पञ्चकं स्मृतः
माषषोडषमानं स्यात्सुवर्णमिति नारद ।
हत्वा ब्रह्मस्वमज्ञानाद्द्वादशांब्दं तु पूर्ववत्
कपालध्वजहीनं तु ब्रह्महत्याव्रतं चरेत् ।
गुरुणां यज्ञकतॄणां धार्मिष्टानां तथैव च
श्रोत्रियाणां द्विजानां तु हृत्वा हेमैवमाचरेत् ।
कृतानुतापो देहे च संपूर्णे लेपयेद् धृतम्
करीषच्छादितो दग्धः स्तेयपापाद्विमुच्यते ।
ब्रह्मस्वं क्षत्रियो हृत्वा पश्चात्तापमवाप्य च
पुनर्ददाति तत्रैव तद्विधानं शृणुष्व मे ।
तत्र सांतपनं कृत्वा द्वादशाहोपवासतः
शुद्धिमाप्नोति देवर्षे ह्यन्यथा पतितो भवेत् ।
रन्तासनमनुष्यस्त्रीधेनुभूम्यादिकेषु च
सुवर्णसहृशेष्वेषु प्रायश्चितार्द्धमुच्यते ।
त्रसरेणुसमं हेम हृत्वा कुर्यात्समाहितः
प्राणायामद्वयं सम्यक् तेन शुद्धच्चति मानवः ।
प्राणायामत्रयं कुर्याद्धृत्वा निष्कप्रमाणकम्
प्राणायामाश्च चत्वारो राजसर्ष पमात्रके ।
गौरसर्षपमानं तु हृत्वा हेम विचक्षणः
स्नात्वा च विधिवज्जप्याद्गायत्र्यष्टसहस्रकम् ।
यवमात्रसुवर्णस्य स्तेयाच्छुद्धो भवेद्दिजः
आसायं प्रातरारभ्य जप्त्वा वै वेदमातरम् ।
हेम कृष्णलमात्रं तु हृत्वा सांतपनं चरेत्
माषप्रमाणे हेम्नस्तु प्रायश्चित्तं निगद्यते ।
गोमूत्रपक्वयवभुग्वर्षेणैकेन शुद्ध्यति
संपूर्णस्य सुवर्णस्य स्तेयं कृत्वा मुनीश्वर ।
ब्रह्महत्याव्रतं कुर्याद्द्वादशाब्दं समाहितः
सुवर्णमानान्न्यूने तु रजतस्तेयकर्मणि ।
कुर्यात्सांतपनं सम्यगन्यथा पतितो भवेत्
दशनिष्कान्तपर्यन्तमूर्द्धूं निष्कचतुष्टयात् ।
हत्वा च रजतं विद्वान्कुर्याच्चान्द्रायणं मुने
दशादिशतिष्कान्तं यः स्तेयी रजतस्य तु ।
चान्द्रायणद्वयं तस्य प्रोक्तं पापविशोधकम्
शतादूर्द्धूं सहस्रान्तं प्रोक्तं चान्द्रायणत्रयम् ।
सहस्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत्
कांस्यपित्तलमुख्येषु ह्ययस्कान्ते तथैव च ।
सहस्रनिष्कमाने तु पराकं परिकीर्तितम्
प्रायश्चित्तं तु रन्तानां स्तेये राजतवत्स्मृतम् ।
गुरुतल्पगतानां च प्रायश्चित्तमुदीर्यते
अज्ञानान्मातरं गत्वा तत्सपत्नीमथापि वा ।
स्वयमेव स्वमुष्कं तु च्छिन्द्यात्पापमुदीरयन्
हस्ते गृहीत्वा मुष्कं तु गच्छन्द्वै नैऋतीं दिशम् ।
गच्छन्मार्गै सुखं दुःखं न कदाचिद्विचारयेत्
अपश्यन्गच्छतो गच्छेत्पाणान्तं यः स शुद्ध्यति ।
मरुत्प्रपतनं वापि कुर्यात्पापमुदाहरन्
स्ववर्णोत्तमवर्णस्त्रीगमने त्वविचारतः ।
ब्राह्महत्याव्रतं कुर्याद्वादशाब्दं समाहितः
अमत्याभ्यासतो गच्छेत्सवर्णां चोत्तमां तथा ।
कारीषवह्निना दग्धः शुद्धिं याति द्विजोत्तम
रेतःसेकात्पूर्वमेव निवृत्तो यदि मातरि ।
ब्रह्महत्याव्रतं कुर्याद्रेतः सेके ऽग्निदाहनम्
सवर्णोत्तमवर्णासु निवृत्तो वीर्यसेचनात् ।
ब्रह्महत्याव्रतं कुर्यान्नवाब्दान्विष्णुतत्परः
वैश्यायां पितृपत्न्यां तु षडब्दं व्रतमाचरेत् ।
गत्वा शूद्वां गुरोर्भार्यां त्रिवर्षं व्रतमाचरेत्
मातृष्वसारं च पितृष्वसारमाचार्यभार्यां श्वशुरस्य पत्नीम् ।
पितृव्यभार्यामथ मातुलानीं पुत्रीं च गच्छेद्यदि काममुग्धः
दिनद्वये ब्रह्महत्याव्रतं कुर्याद्यथाविधि ।
एकस्मिन्नेव दिवसे बहुवारं त्रिवार्षिकम्
एकवारं गते ह्यब्दंव्रतं कृत्वा विशुद्ध्यति ।
दिनत्रये गते वह्निदग्धः शुध्येत नान्यथा
चाञ्जालीं पुष्कसीं चैव स्नुषां च भगिनीं तथा ।
मित्रस्त्रियं शिष्यपत्नीं यस्तु वै कामतो व्रजेत्
ब्रह्महत्याव्रतं कुर्यात्स षडब्दं मुनीश्वर ।
अकामतो व्रजेद्यस्तु सो ऽब्दकृच्छ्रं समाचरेत्
महापातकिसंसर्गे प्रायश्चित्तं निगद्यते ।
प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत्
यस्य येन भवेत्संगो ब्रह्महान्दिचतुर्ष्वपि ।
तत्तद्व्रतं स निव्रर्त्य शुद्धिमान्पोत्यसंशयम्
अज्ञानात्पञ्चरात्रं तु संगमेभिः करोतियः ।
कायकृच्छ्रं चरेत्सम्यगन्यथा पतितो भवेत्
द्वादशाहेतु संसर्गे महासांतपनं स्मृतम् ।
संगङ्कृत्वार्द्धमासं तु द्वादशाहमुपावसेत्
पराको माससंसर्गे चान्द्रमासत्रयेस्मृतम् ।
कृत्वा संगं तु षण्मासं चरेच्चान्द्रायणद्वयम्
किञ्चिन्न्यूनाब्दसंगे तु षण्मासव्रतमाचरेत् ।
एतच्च त्रिगुणं प्रोक्तं ज्ञानात्संगे यथाक्रमम्
मण्डूकं नकुलं काकं वराहं मूषकं तथा ।
मार्जाराजाविकं श्वानं हत्वा कुक्कुटकं तथा
कृच्छ्रार्द्धमाचरेद्विप्रो ऽतिकृच्छ्रं चाश्वह चरेत् ।
जत्पकृच्छ्रं करिवधे पराकं गोवधे स्मृतम्
कामतो गोवधे नैव शुद्धिर्द्दष्टा मनीषिभिः ।
पानशय्यासनाद्येषु पुष्पमूलफलेषु च
भक्ष्यभोज्यापहारेषु पञ्चगव्यविशोधनम् ।
शुष्ककाष्टतृणानां च द्रुमाणां च गुडस्य च
चर्मवस्त्रामिषाणां च त्रिरात्रं स्यादभोजनम् ।
टिट्टिभं चक्रवाकं च हंसं कारण्डवं तथा
उलूकं सारसं चैव पकोतं जलपादकम् ।
शुकं चाषं बलाकं च शिशुमारं च कच्छपम्
एतेष्वन्यतमं हत्वा द्वादशाहमभोजनम् ।
प्राजापत्यव्रतं कुर्याद्रेतोविण्मूत्रभोजने
चान्द्रायणत्रयं प्रोक्तं शूद्रोच्छिष्टस्य भोजने ।
रजस्वलां च चाण्डालं महापातकिनं तथा
सूतिकां पतितं चैव उच्छिष्टं रजकादिकम् ।
स्पृष्ट्वा सचैलं स्नायीत घृतं संप्राशेयत्तथा
गायत्रीं च विशुद्धात्मा जपेदष्टशतं द्विज ।
एतेष्वन्यतमं स्पृष्ट्वा अज्ञानाधद्यदि भोजने
त्रिरात्रो पोषणाच्छुद्ध्ये त्पञ्चगव्याशनाद्विज ।
स्नानदानजपादौ च भोजनादौ च नारद
एषामन्यतमस्यापि शब्दं यः शृणुयाद्वदेत् ।
उद्वमेद्धुक्तमंन्नतत्स्त्रात्वा चोपवसेत्तथा
द्वितीये ऽह्नि घृतं प्राश्य शुद्धिमान्पोति नारद ।
व्रतादिमध्ये यद्येषा शृणुयाद्धूनिमप्युत
अष्टोत्तरसहस्रं तु जपेद्रै वेदमातरम् ।
पापानामधिकं पापं द्विजदैवतनिन्दनम्
न दृष्ट्वा निष्कृतिस्तस्य सर्वशास्त्रेषु नारद ।
महापातकतुल्यानि यानि प्रोक्तानि सूरिभिः
प्रायश्चित्तं तु तेषां च कुर्यादेवं यथाविधि ।
प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः
तस्य पापानि नश्यन्तिह्यन्यथा पतितो भवेत् ।
यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः
सर्वभूतययायुक्तो विष्णुस्मरणतत्परः ।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः
विमुक्त एव पापेभ्यो ज्ञेयो विष्णुपरो यतः ।
नारायणमनान्द्यन्तं विश्वाकारमनामयम्
यस्तु संस्मरते मर्त्यः स मुक्तः पापकोटिभिः ।
स्मृतो वा पूजितो वापि ध्यातः प्रणमितो ऽपि वा
नाशयत्येव पापानि विष्णुर्हृद्गमनः सताम् ।
संपर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम्
सर्वपापविनिर्मुक्तः स प्रयाति हरेः पदम् ।
सकृत्संस्मरणाद्विष्णोर्नश्यन्ति क्लेशसंचयाः
स्वर्गादिभोगप्रात्पिस्तु तस्य विप्रानुमीयते ।
मानुषं दुर्लभं जन्म प्राप्यते यैर्मुनीश्वर
तत्रापि हरिभक्तिस्तु दुर्लभा परिकीर्त्तिता ।
तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम्
हरिं संपूजयेद्भक्त्या पशुपाशविमोचनम् ।
सर्वे ऽन्तराया नश्यन्ति मनःशुद्धिश्च जायते
परं मोक्षं लभेश्चैव पूजिते तु जनार्दने ।
धर्मार्थकामोक्षाख्याः पुरुषार्थाः सनातनाः
हरिपूजापराणां तु सिध्यन्ति नात्र संशयः ।
पुत्रदारगृहक्षेत्रधनधान्याभिधावतीम्
लब्ध्वेमां मानुषीं वृत्तिं रेरे दर्पं तु मा कृथाः ।
संत्यज्य कामं क्रोधं च लोभं मोहं मदं तथा
परापवादं निन्दां च भजध्वं भक्तितो हरिम् ।
व्यापारान्सकलांस्त्क्त्वा पूजयध्वं जनार्दनम्
निकटा एव दृश्यन्ते कृतान्तनगरद्रुमाः ।
यावन्नायाति मरणं यावन्नायाति वै जरा
यावन्नेन्द्रियवैकल्यं तावदेवाचर्येद्धरिम् ।
धीमान्नकुर्याद्विश्वासं शरीरे ऽस्मिन्विनश्वरे
नित्यं सन्निहितो मृत्युः संपदत्यन्तचञ्चला ।
आसन्नमरणो देहस्तस्माद्दर्प्पं विमुचत
संयोगा विप्रयोगान्ताः सर्वं च घक्षणभङ्गुरम् ।
एतज्ज्ञात्वा महाभाग पूजयस्व जनार्दनम्
आशया व्यथते चैव मोक्षस्त्वत्यन्तदुर्लभः ।
भक्त्या यजति यो विष्णुं महापातकवानपि
सो ऽपि याति परं स्थानं यत्रघ गत्वा न शोचति ।
सर्वतीर्थानि यज्ञाश्च सांगा वेदाश्च सत्तम
नारायणार्चनस्यैते कलां नार्हन्ति षोडशीम् ।
किं वै वेदैर्मखैः शास्त्रैः किंवा तीर्थनिषेवणैः
विष्णुभक्तिविहीनानां किं तपोभिर्व्रतैरपि
यजन्ति ये विष्णुमनन्तमृर्तिं निरीक्ष्य चाकारगतं वरेण्यम् ।
वेदान्तवेद्यं भवरोगवैद्यं ते यान्ति मर्त्याः पदमच्युतस्य
अनादिमात्मानमनन्तशक्तिमाधारभूतं जगतः सुरेड्यम् ।
ज्योतिः स्वरुपं परमच्युताख्यं स्मृत्वा समभ्येति नरः सखायम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0