नारद पुराण · अध्याय 1.31
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे प्रायश्चित्तविधिर्नाम घत्रिंशो ऽध्यायः
नारद उवाच
कथितो भवता सम्यग्वर्णाश्रमविधिर्मुने ।
इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम्
सनक उवाच
शृणु विप्र प्रवक्ष्यामि यममार्गं सुदुर्गमम् ।
सुखदं पुण्यशीलानां पापिनां भयदायकम्
षडशीतिसहस्राणि योजनार्निनि मुनीश्वर ।
यममार्गस्य विस्तारः कथैतः पूर्वसूरिभिः
ये नरा दानशीलास्तु ते यान्ति सुखिनो द्विज ।
धर्मशून्या नरा यान्ति दुःखेन भृशमर्दिताः
अतिभीता विवश्त्राश्च शुष्ककण्ठौष्ठतालुकाः ।
क्रदन्तो विस्तरं दीनाः पापिनो यान्ति तत्पथि
हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः
इतस्ततः प्रधावन्तो यान्ति दुःखेन तत्पथि ।
क्वचित्पङ्कः क्वचिदूह्निः क्वचित्सेतत्पसैकतम् ।
क्वचिद्वै दावरुपेणः तीक्ष्णधाराः शिलाः क्वचित्
क्वचित्कण्टकवृक्षाश्च दुःखारोहशिला नगाः ।
गाढान्धकाराशअच गुहाः कण्टकावरणं महत्
वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् ।
शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः
शैवालं च क्वचिन्मार्गे क्वचित्कीचकपङ्क्तयः ।
क्वचिव्द्याव्राश्च गर्जन्ते वर्धन्ते च क्वचिज्ज्वराः
एवं बहुविधक्लेशाः पापिनो यान्ति नारद ।
क्रोशन्तश्च रुदन्तश्च म्लायन्तश्चैव पापिनः
पाशेन यन्त्रिताः केचित्कृष्यमाणास्तथाङ्कुशैः ।
शास्त्रास्त्रैस्ताड्यमानाश्च पृष्टतो यान्ति पापिनः
नासाग्रपाशकृष्टाश्च केचिदन्त्रैश्च बधिताः ।
वहॄन्तश्चायसां भारं शिश्राग्रेण प्रयान्ति वै
अयोभारद्वयं केचिन्नासाग्रेण तथापरे ।
कर्णाभ्यां च तथा केचिद्वहॄन्तो यान्ति पापिनः
केचिच्च स्खलिता यान्ति ताड्यमानास्तथापरे ।
अत्यर्थोच्ङ्वसिताः केचित्केचिदाच्छत्रलोचनाः
छायाजलविहीने तु पथि यान्त्यतिदुःखिताः ।
शोचन्तः स्वानि कर्मणि ज्ञानाज्ञानकृतानि च
ये तु नारद धर्मिष्ठा दानशीला सुबुद्धयः ।
अतीव सुखसंपन्नास्ते यान्ति धर्ममन्दिरम्
अन्नदास्तु मुनुश्रेष्ठ भुञ्जन्तः स्वादु यान्ति वै ।
नीरदा यान्ति सुखिनः पिबन्तः क्षीरमुत्तममम् ।
तक्रदा दधिदाश्चैव तत्तद्भोगं लभन्ति वै ।
घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम
सुधापानं प्रकुर्वन्तो यान्ति वै धर्ममन्दिरम् ।
शाकदाः पायसं भुञ्जंन्दीपदो ज्वलयन्दिशः
वस्त्रदो मुनुशार्दूल याति दिव्याम्बरावृतः ।
पुराकरप्रदो याति स्तूयमानो ऽमरैः पथि
गोदानेन नरो याति सर्वसौख्यसमन्वितः ।
भूमिदो गृहदश्चैव विमाने सर्वसंपदि
अप्सरोगणसंकीर्णे क्रीडन्याति वृषालयम् ।
हयदो यानदश्चापि गजदश्च द्विजोत्तम
धर्मालयं विमानेन याति भोगान्वितेन वै ।
अनडुद्दो मुनिश्रेष्ठ यानारुढः प्रयाति वै
फलदः पुष्पदश्चापि याति संतोषसंयुतः ।
तांबूलदो नरो याति प्रहृष्टोर् धममन्दिरम्
मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः ।
स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः
शुश्रूषां कुरुते यस्तु यतीनां व्रतचारिणाम् ।
द्विजग्र्यब्राह्मणानां च स यात्वतिसुखान्वितः
सर्वभूतदयायुक्तः पूज्यमानो ऽमरैर्द्विजः ।
सर्वभोगान्वितेनासौ विमानेन प्रयाति च
विद्यादानरतो याति पूज्यमानो ऽब्जसूनुभिः ।
पुराणपठको याति स्तूयमानो मुनीश्वरैः
एवं धर्मपरा यान्ति सुखं धर्मस्य मन्दिरम् ।
यमश्चतुर्मुखो भूत्वा शङ्खचक्रगदासिभृत्
पुण्यकर्मरतं सम्यक्स्नेहान्मित्रमिवार्चति ।
भो भो बुद्धिमतां श्रेष्ठानरकक्लेषभीरवः
युष्माभिः साधितं पुण्यमत्रामुत्रसुखावहम् ।
मनुषथ्य जन्म यः प्राप्य सुकृतं न करोति च
स एव पापिनां श्रेष्ठ आत्मघातं करोति च ।
अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत्
स याति नरकं घोरं को ऽन्यस्तस्मादचेतनः ।
शरीरं यातनारुपं मलाद्यैः परिदूषितम्
तस्मिन्यो याति विश्वासं तं विद्यादात्मघातकम् ।
सर्वेषु प्राणिनः श्रेष्ठास्तेषु वै बुद्धिजीविनः
बुद्धिमस्तु नराः श्रेष्ठा नरेषु ब्राह्मणास्तथा ।
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः
कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवादिनः ।
ब्रह्मवादिष्वपि तथा श्रेष्ठो निर्मम उच्यते
एतेभ्यो ऽपि परो ज्ञेयो नित्यं ध्यानपरायणः ।
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः
सर्वत्र पूज्यते जन्तुर्धर्मवान्नात्र संशयः ।
गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम्
अस्ति चेद्दुष्कृतं किञ्चित्पश्चादत्रैव भोक्ष्यसे ।
एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्गतिम्
आहूय पापिनश्चैव कालदण्डेन तर्जयेत् ।
प्रलयांबुदनिर्घोषो ह्यञ्जनाद्रिसमप्रभः
विद्युत्प्र भायुर्घोर्भीमो द्वात्रिंशद्भुजसंयुतः ।
योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः
दंष्ट्राकरालवदनो वापीतुल्योग्रलोचनः ।
मृत्युज्वरादिभिर्युक्तश्चित्रगुत्पो ऽपि भीषणः
सर्वे दूताश्च गर्जन्ति यमतुल्यविभीषणाः ।
ततो ब्रवीति तान्सर्वान्कंपमानांश्च पापिनः
शोचन्तः स्वानि कर्माणि चित्रगुत्पो यमाज्ञया ।
भो भो पापा दुराचारा अहॄङ्कारप्रदूषिताः
किमर्थमर्जितं पापं युष्माभिरविवेकिभिः ।
कामक्तोधादिदृष्टेन सगर्वेण तु चेतसा
यद्यत्पापतरं तत्तत्किमर्थं चरितं जनाः ।
कृतवन्तः पुरा पापान्यत्यन्तहर्षिताः
तथैव यातना भोज्याः किं वृथा ह्यतिदुरिवताः ।
भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा
तथा कर्मवशात्प्रात्पा यूयमत्रातिदुःखिताः ।
युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः
युष्माकमेव तत्पापं प्रात्पं किं दुःखकारणम् ।
यथा कृतानि पापानि युष्माभिः सुबहूनि वै
तथा प्रात्पानि दुःखानि किमर्थमिह दुःखिताः ।
विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा
यमः करिष्यते दण्डमिति किं न विचारितम् ।
दरिद्रे ऽपि च मूर्खे च पण्डिते वा श्रियान्विते
कान्दिशीके च वीरे च समवर्तीः यमः स्मृतः ।
चित्रगुत्पेरितं वाक्यं श्रुत्वा ते पापिनस्तदा
शौचन्तः स्वानि कर्मणि तूष्णीं तिष्टन्ति भीषिताः ।
यमाज्ञाकारिणः क्रूरश्चण्डा दूता भयानकाः
चण्डलाद्याः प्रसह्यैतान्नरकेषु क्षिपन्ति च ।
स्वदुष्कर्मफलं ते तु भुक्त्वान्ते पापशेषतः
महीतलं च संप्राप्य भवन्ति स्थआवरादयः ।
नारद उवाच
भगवन्संशयो जातो मच्चेतसि दयानिधे
त्वं समर्थो ऽसि तच्छेत्तुं यतो नो ह्यग्रजो भवान् ।
धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च
चिरभोज्यं फलं तेषामुक्तं बहुविदा त्वया ।
दिनान्ते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै
परार्द्धद्वितयान्ते तु ब्रह्माण्डस्यापि संक्षयः ।
ग्रामदानादिपुण्यानां त्वयैव विधिनन्दन
कल्पकोटिसहस्रेषु महान्भोग उदाहृतः ।
सर्वेषामेव लोकानां विनाशः प्राकृते लये
एकः शिष्यत एवेति त्वया प्रोक्तं जनार्दनः ।
एष मे संशयो जातस्तं भवाञ्छेत्तुमर्हति
पुण्यपापोपभोगानां समात्पिर्नास्य संप्लवे ।
सनक उवाच
साधु साधौ महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम्
पृष्टं तत्ते ऽभिधास्यामि शृणुष्व सुसमाहितः ।
नारायणो ऽक्षरो ऽनन्तः परं ज्योतिः सनातनः
विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः ।
निर्गुणो ऽपि परानन्दो गुणवानिव भाति यः
ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिव लक्ष्यते ।
गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन
संयोज्य मायामखिलं जगत्कार्यं करोति च ।
ब्रह्मरुपेण सृजति विष्णुरुपेण पाति च
अन्ते च रुद्ररुपेण सर्वमत्तीति निश्चितम् ।
प्रसयान्ते समुत्थाय ब्रह्मरुपी जनार्दनः
चराचरात्मकं विश्वं यथापूर्वमकल्पयत् ।
स्थावराद्याशअच विप्रेन्द्र यत्र यत्र व्यवस्थिताः
ब्रह्मा तत्तज्जगत्सर्वं यथापूर्वं करोति वै ।
तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम
अवश्यमेव भोक्तव्यं कर्मणां ह्यक्षयं फलम् ।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
यो देवः सर्वलोकानामन्तरात्मा जगन्मयः ।
सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः
यो ऽसौ विश्वंभरो देवो गुणमेदव्यवस्थितः ।
सूजत्यवति चात्त्येतत्सर्वं सर्वभुगव्ययः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0