भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.29

1.29.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे श्राद्धक्रियावर्णनं नामाष्टाविंशो ऽध्यायः
सनक उवाच
तिथीनां निर्णयं वक्ष्ये प्राचश्चित्तविधिं तथा ।
शृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत्

1.29.2

श्रौतं स्मार्त्तं व्रतं दानं यच्चान्यत्कर्म वैदिकम् ।
अनिर्णीतासु तिथिषु न किञ्चित्फलति द्विज

1.29.3

एकादश्यष्टमी षष्टी पौर्णमासी चतुर्द्दशी ।
अमावास्या तृतीया च ह्युपवासव्रतादिषु

1.29.4

परविद्धाः प्रशस्ताः स्युर्न ग्राह्याः पूर्वसंयुताः ।
नागविद्धा तु या षष्टी शिवविद्धा तु सत्पमी

1.29.5

दशम्येकादशीविद्धा नोपोष्याः स्युः कदाचन ।
दर्शं च पौर्णमासीं च सत्पमीं पितृवासरम्

1.29.6

पूर्वविद्धं प्रकुर्वाणो नरकायोपद्यते ।
कृष्णपक्षे पूर्वविद्धां सत्पमीं च चतुर्दशीम्

1.29.7

प्रशस्तां केचिदाहुश्च तृतीयां नवमीं तथा ।
व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते

1.29.8

अपराह्नाच्च पूर्वोह्णं ग्राह्यं श्रेष्ठत्तरं यतः ।
असंभवे व्रतादीनां यदि पौर्वाह्निकी तिथिः

1.29.9

मुहूर्तद्वितयं ग्राह्यं भगवत्युदिते रवौ ।
प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा

1.29.10

उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ।
तिथिनक्षत्रसंयोगविहितव्रतकर्मणि

1.29.11

प्रदोषव्यापिनी ग्राह्या त्वन्यथा निष्फलं भवेत् ।
अर्द्धरात्रादधो या तु नक्षत्रव्यापिनी तिथिः

1.29.12

सैव ग्राह्या मुनिश्रेष्ठ नक्षत्रविहितव्रते ।
यद्यर्द्धरात्रघगयोर्व्यात्पं नक्षत्रं तु दिनद्वये

1.29.13

तत्पुण्यं तिथिसंयुक्तं नक्षत्रं ग्राह्यमुच्यते ।
अर्द्धरात्रद्वये स्यातां नक्षत्रं च तिथिर्यदि

1.29.14

क्षये पूर्वा प्रशस्ता स्याद्रृद्धौ कार्या तथोत्तरा ।
अर्ध्दरात्रद्वयव्यात्पा तिथिर्नक्षत्रघसंयुता

1.29.15

ह्नासवृद्धिविशून्या चेत् ग्राह्यापूर्वा तथा परा ।
ज्येष्ठासंमिश्रितं मूलं रोहिणी वह्निंसंयुता

1.29.16

मैत्रेण संयुता ज्येष्टा संतानादिविनाशैनी ।
ततः स्युस्तिथयः पुण्याः कर्मानुष्टानतो दिवा

1.29.17

रात्रिव्रतेषु सर्वेषु रात्रियोगो विशिष्यते ।
तिथिर्नक्षघत्रयोगेन या पुण्या परिकीर्तिता

1.29.18

तस्यां तु तद्वतं कार्यं सैव कार्या विचक्षणैः ।
उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रते

1.29.19

सूर्येन्दुग्रहणे यावत्तावद् ग्राह्या जपादिषु ।
संक्रान्तिषु तु सर्वासु पुण्यकालोनिगद्यते

1.29.20

स्नानदानजपादीनां कुर्वतामक्षय फलम् ।
तत्र कर्कटको ज्ञेयो दक्षिणायनसंक्रमः

1.29.21

पूर्वतो घटिकास्त्रिंशत्पुण्यकालं विदुर्बुधाः ।
वृषभे वृश्चिके चैव सिंहे कुम्भे तथैव च

1.29.22

पूर्वमष्टमुहूर्तास्तु ग्राह्याः स्नानजपादिषु ।
तुलायां चैव मेषे च पूर्वतः परतस्तथा

1.29.23

ज्ञेया दशैव घटिका दत्तस्याक्षयतावहाः ।
कन्यायां मिथुने चैव मीने धनुषि च द्विज

1.29.24

घटिकाः षोडश ज्ञेया परतः पुण्यदायिकाः ।
माकरं संक्रमं प्राहुरुत्तरायणसंज्ञकम्

1.29.25

परास्त्रिंशश्च घटिकाश्चत्वारिंशच्च पूर्ववत् ।
आदित्यशीतकिरणौ ग्राह्यावस्तङ्गतौ यदि

1.29.26

स्नात्वा भुञ्जीत विप्रेन्द्र परेद्युः शुद्धमण्डलम् ।
दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूः स्मृता

1.29.27

अमावास्या द्विधा प्रोक्ता विद्वद्भिर्धर्मालिप्सुभिः ।
सिनीवालीं द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि

1.29.28

कहूः स्त्रीभिस्तथा शूद्रैपरि वानग्रिकैस्तथा ।
अपराह्नद्वयव्यापिन्यमावास्यातिथिर्यदि

1.29.29

क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्या तथोत्तरा ।
अमावास्या प्रतीता चेन्मध्याह्नात्परतो यदि

1.29.30

भूतविद्धेति विख्यातास्रद्भिः शास्त्रविशारदैः ।
अत्यन्तक्षयपक्षे तु परेद्युर्नापराह्नगा

1.29.31

तत्र ग्राह्या सिनीवाली सायाह्नव्यापिनी तिथिः ।
अर्वाचीनक्षये चचैव सायाह्नव्यापिनी तथा

1.29.32

सिनीवाली परा ग्राह्या सर्वथा श्राद्धकर्मणि ।
अत्यन्ततिथिवृद्धौ तु भूतविद्धां परित्यजेत्

1.29.33

ग्राह्या स्यादपराह्नस्था कुहूः पैतृककर्मणि ।
यथार्वाचीनवृद्धौ तु संत्याज्या भूतसंयुताः

1.29.34

परेद्युर्विबुधश्रेष्ठैः कुहूर्ग्राह्या पराह्नगा ।
मध्याह्नद्वितये व्यात्पा ह्यमावास्या तिथिर्यदि

1.29.35

तत्रेच्छया च संग्राह्या पूर्वा वाथ पराथवा ।
अन्वाधानं प्रवक्ष्यामि संतः संपूर्णवर्वणि

1.29.36

प्रतिपद्दिवसे कुर्याद्यागं च मुनिसत्तम ।
पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः

1.29.37

यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ।
मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा

1.29.38

परेद्युरेव विप्रेन्द्र सद्यः कालो विधीयते

1.29.39

पूर्वद्वये परेद्युः स्यात्संगवात्परतो मनीषिभिः ।
सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये

1.29.40

सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता ।
दशमीसंयुता हॄन्तिपुण्यं जन्मत्रयार्जितम्

1.29.41

एकादशी कलामात्रा द्वादश्यां तु प्रतीयते ।
द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता

1.29.42

संपूर्णैकादशी शुद्धा द्वादश्यां च प्रतीयते ।
त्रघयोदशी च रात्र्यन्ते तत्र वक्ष्यामि निर्णयम्

1.29.43

पूर्वा गृहस्थैः सा कार्य्या ह्युत्तरा यतिभिस्तथा ।
गृहस्थाः सिद्धिमिच्छन्ति यतो मोक्षं यतीश्वराः

1.29.44

द्वादश्यां तु कलायां वा यदि लभ्येत पारणा ।
तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः

1.29.45

शुल्के वा यदि वा कृष्णे भवेदेकादशीद्वयम् ।
गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता

1.29.46

द्वादश्यां विद्यते किञ्चिद्दशमीसंयुता यदि ।
दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां

1.29.47

विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् ।
अविद्धापि निषिद्धैव परतो द्वादशी यदि

1.29.48

एकादशी द्वादशी च रात्रघिशेषे त्रयोदशी ।
द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे

1.29.49

एकादशी कलामात्रा विद्यते द्वादशीदिने ।
द्वादशी च त्रयोदश्यां नास्ति वा विद्यते ऽथवा

1.29.50

विद्वाप्येकादशी तत्र पूर्वा स्याद्गृहणां तदा ।
यदिभिश्चोत्तरा ग्राह्या ह्यवीराभिस्तथैव च

1.29.51

संपूर्णैकादशी शुद्धा द्वादश्यां नास्ति किञ्चन ।
द्वादशी च त्रयोदशयामस्ति तत्र कथं भवेत्

1.29.52

पूर्वा गृहस्थैः कार्यात्र यतिभिश्चोत्तरा तिथिः ।
उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः

1.29.53

एकादशी यदाविद्धा द्वादश्यां न प्रतीयते ।
द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे

1.29.54

उपोष्या द्वादशी शुद्धा सर्वैरेव न संशयः ।
केचिदाहुश्च पूर्वां तु तन्मतं न समञ्जसम्

1.29.55

संक्रातौ रविवारे च पातग्रहणयोस्तथा ।
पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही

1.29.56

अर्के ऽह्नि पर्वरात्रघौ च चतुर्दश्यष्टमी दिवा ।
एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत्

1.29.57

आदित्यग्रहणे प्रात्पे पूर्वयामत्रये तथा ।
नाद्याद्वै यदि भुञ्जीत सुरापेन समो भवेत्

1.29.58

अन्वाधानेष्टिमध्ये तु ग्रहणे चन्द्रसूर्ययोः ।
प्रायश्चित्तं मुनिश्रेष्ठ कर्त्तव्यं तत्र याज्ञिकैः

1.29.59

चद्रोपरागे जुहुयाद्दशमे सोम इत्यृचा ।
आप्यायस्व ऋचा चैव सोमपास्त इति द्विज

1.29.60

सूर्योपरागे जुहुयादुदुत्यं जातवेदसम् ।
आसत्येंनोद्वयं चैव त्रयोमन्त्रा उदाहृताः

1.29.61

एवं तिथिं विनिश्चित्य स्मृतिमार्गेण पण्डितः ।
यः करोति व्रतादीनि तस्य स्यादक्षयं फलम्

1.29.62

वेदप्रणिहितो धर्मो धर्मैस्तुष्यति केशवः ।
तस्माद्धर्मपरा यान्ति तद्विष्णोः परमं पदम्

1.29.63

धर्मान्ये कर्त्तुमिच्छन्ति ते वै कृष्णस्वरुपिणः ।
तस्मात्तांस्तु भवव्याधिः कदाचिन्नैव बाधते

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc