भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.28

1.28.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचारेषु गृहस्थआवानप्रस्थयतिधर्म्निरुपणं नाम सत्पविंशो ऽध्यायः
सनक उवाच
शृणुष्व मुनिशार्दूल श्राद्धस्य विधिमुत्तमम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः

1.28.2

क्षयाहपूर्वदिवसे स्नात्वा चैकाशनो भवेत् ।
अधः शायी ब्रह्मचारी निशि विप्रान्निमन्त्रयेत्

1.28.3

दन्तधावनतांबूले तैलाभ्यङ्गं तथैव च ।
रत्योषधिपरान्नानि श्राद्धकर्त्ताविवर्जयेत्

1.28.4

अध्वानं कलहं क्रोधं व्यवायं च धुरं तथा ।
श्राद्धकर्त्ता च भोक्ता च दिवास्वापं च वर्जयेत्

1.28.5

श्राद्धे निमन्त्रितो यस्तु व्यवायं कुरुते यदि ।
ब्रह्महत्यामवान्पोति नरकं चापि गच्छति

1.28.6

श्राद्धे नियोजयेद्विप्रं श्रोत्रिय विष्णुतत्परम् ।
यथास्वाचारनिरतं प्रशान्तं सत्कुलोद्बगवम्

1.28.7

रागद्वेषविहीनं च पुराणार्थविशारदम् ।
त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम्

1.28.8

देवपूजारतं चैव स्मृतितत्त्वविशारदम् ।
वेदान्ततत्त्वसंपन्नं सर्वलोकहिते रतम्

1.28.9

कृतज्ञं गुणसंपन्नं गुरुशुश्रूषणे रतम् ।
परोपदेशनिरतं सच्छास्त्रकथनैस्तथा

1.28.10

एते नियोजितव्या वै श्राद्धे विप्रा मुनीश्वर ।
श्राद्धे वर्ज्यान्मवक्ष्यामि शृणु तान्मुसमाहितः

1.28.11

न्पूनाङ्गश्चाधिकाङ्गश्च कदर्यो रोगितस्तथा ।
कुष्टी च कुनखी चैव लंबकर्णः क्षतव्रतः

1.28.12

नक्षत्रपाठजीवी च तथा च शवदाहकः ।
कुवादी परिर्वत्ता च तथा देवलकः खलः

1.28.13

निन्दको ऽमर्षणो धूर्तस्तथैव ग्रामयाजकः ।
असच्छास्त्राभिनिरतः परान्ननिगतस्तथा

1.28.14

वृषलीसूति पोष्टा च वृषलीपतिरेव च ।
कुण्डश्च गोलकश्चैव ह्ययाज्यानां च याजकः

1.28.15

दंभाचारो वृथामुण्डी ह्यन्यस्त्रीधनतत्परः ।
विष्णुभक्तिविहीनश्च शिवभक्तिपराड्मुखः

1.28.16

वेदविक्रयिणश्चैव व्रतविक्रयिणस्तथा ।
स्मृतिविक्रयिणश्चैव मन्त्रविक्रयिणस्तथा

1.28.17

गायकाः काव्यकर्त्तारो भिषक्छास्त्रोपजीविनः ।
वेदनिन्दापरश्चैव ग्रामापण्यप्रदाहकः

1.28.18

तथातिकामुकश्चैव रसविक्रयकारकः ।
कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः

1.28.19

निंमत्रयीत पूर्वेद्युस्तस्मिन्नेव दिने ऽथवा ।
निमन्त्रितो भवेद्विप्रो ब्रह्मचारी जितेन्द्रियः

1.28.20

श्राद्धे क्षणस्तु कर्त्तव्यः प्रसादश्चेति सत्तम ।
निमन्त्रयेद्द्विजं प्राज्ञं दर्भपाणिर्जितेन्द्रियः

1.28.21

ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ।
श्राद्धं समाचरेद्विद्वान्काले कुतपसंज्ञिते

1.28.22

दिवसस्याष्टमे काले यदा मन्दायते रविः ।
स कालः कुतपस्तत्र पितॄणां दत्तमक्षयम्

1.28.23

अपराह्नः पितॄणां तु दत्तः कालः स्वयंभुवा ।
तत्काल एव दातव्यं कव्यं तस्माद्द्विजोत्तमैः

1.28.24

यत्काव्यं दीयते द्वव्यैरकाले मुनिसत्तम ।
राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्टति

1.28.25

काव्यं प्रत्तं तु सायाह्ने राक्षसं तद्भवेदपि ।
दाता नरकमान्पोति भोक्ता च नरकं व्रजेत्

1.28.26

क्षयाहस्य तिथैर्विप्र यदि दण्डमितिर्भवेत् ।
विद्धापराह्नि कायां तु श्राद्धं कार्यं विजानता

1.28.27

क्षयाहस्य तिथिर्या तु ह्यपराह्नद्वये यदि ।
पूर्वा क्षये तु कर्त्तव्या वृद्वौ कार्या तथोत्तरा

1.28.28

मुहूर्त्त द्वितये पूर्वदिने स्यादपरे ऽहनि ।
तिथिः सायाह्नगा यत्र परा काव्यस्य विश्रुता

1.28.29

किञ्चित्पूर्वदिने प्राहुर्मुहूर्त्तद्वितये सति ।
नैतन्मतं हि सर्वेषां काव्यदाने मुनीश्वर

1.28.30

निमन्त्रितेषौ विप्रेषु मिलितेषु द्विजोत्तम ।
प्रायश्चित्तविशुद्धात्मा तेभ्यो ऽनुज्ञां समाहरेत्

1.28.31

श्राद्धार्थं समनुज्ञातो विप्रान्भूयो निमन्त्रयेत् ॥उ
उभौ च विश्वेदेवार्थं पिघत्रर्थं त्रीन्यथाविधि

1.28.32

देवतार्थं च पित्रर्थमेकैकं वा निमन्त्रयेत् ।
श्राद्धार्थं समनुज्ञातः कारयेन्मण्डलद्वयम्

1.28.33

चतुरस्त्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य वै ।
वैश्यस्य वर्तुलं ज्ञेयं शूद्रस्याभ्याभ्युक्षणं भवेत्

1.28.34

ब्राह्मणानामभावे तु भ्रातरं पुत्रमेव च ।
आत्मानं वा नियुञ्जीत न विप्रं वेदवर्जितम्

1.28.35

प्रक्षाल्य विप्रपादांशअच ह्याचांनानुपवेश्य च ।
यथावदर्चनं कुर्यात्स्मरन्नारायणं प्रभुम्

1.28.36

ब्राह्मणानां तु मध्ये च द्वारदेशे तथैव च ।
अपहता इत्यृचा वै कर्त्ता तु विकिरेत्तिलान्

1.28.37

यवैर्दर्भघैश्च विश्वेषां देवानामिदमासनम् ।
दत्त्वेति भूयो दद्यच्च दैवे क्षणप्रतीक्षणम्

1.28.38

अक्षय्यासनयोः षष्टी द्वितीयावाहने स्मृता ।
अन्नदाने चतुर्थी स्याच्छेषाः संपुद्धयः स्मृताः

1.28.39

आसाद्य पात्रद्वितयं दर्भशाखासमन्वितम् ।
तत्पात्रे सेचयेत्तोयं शन्नोदेवीत्यृचा ततः

1.28.40

यवोसीति ति यवान् क्षित्प्वा गन्धपुष्पे च वाग्यतः ।
आवाहयेत्ततो देवान्विश्वे देवाःस इत्यृचा

1.28.41

या दिव्या इति मन्त्रेण दद्यादर्घ्यं समाहितः ।
गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैर्यजेत्ततः

1.28.42

देवैश्च समनुज्ञातो यजेत्पितृगणांस्तथा ।
तिलसंयुक्तदर्भैश्च दद्यात्तेषां सदासनम्

1.28.43

पात्राण्यासादयेत्त्रीणि ह्यर्घाथ पूर्ववद्द्विजः ।
शन्नोदेव्या जलं क्षिप्त्वा तिलोसीति तिलान्क्षघिपेत्

1.28.44

उशन्त इत्यृचावाह्य पितॄन्विप्रः समाहितः ।
या दिव्या इति मन्त्रेण दद्यादर्घ्यं च पूर्ववत्

1.28.45

गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैशअच सत्तम ।
वासोर्भिभूषणैश्वैव यथाविभवमर्चयेत्

1.28.46

ततो ऽन्नाग्रं समादाय घृतयुक्तं विचक्षणः ।
अग्नौ करिष्य इत्युक्त्वा तेभ्यो ऽनुज्ञां समाहरेत्

1.28.47

करवै करवाणीति चापृष्टा ब्राह्मणा मुने ।
कुरुष्व क्रियतां वेति कुर्विति ब्रूयुरेव च

1.28.48

उपासनाग्निमाधाय स्वगृह्योक्तविधानतः ।
सामाय च पितृमते स्वधा नम इतीरयेत्

1.28.49

अग्नये कव्यवाहनाय स्वधा नम इतीह वा ।
स्वाहान्तेनापि वा प्राज्ञो जुहुयात्पितृयज्ञवत्

1.28.50

आभ्यामेवाहुतिभ्यां तु पितॄणां तृत्पिरक्षया ।
अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते

1.28.51

यथाचारं प्रकुर्वीत पाणावग्नौ च वा द्विज ।
नह्यग्निर्दूरगः कार्यः पार्वणे समुपस्थैते

1.28.52

संधायाग्निं ततः कार्यं कृत्वा तं विसृजेत्कृती ।
यद्याग्निर्दूरगो विप्र पार्वणे समुपस्थिते

1.28.53

भ्रातृभिः कारयेच्छ्राद्धं साग्निकैर्विधिवद्द्विजैः ।
क्षयाहे चैव संप्रात्पे स्वस्याग्निर्दूरगो यदि

1.28.54

तथैव भ्रातरस्तत्र लौकिकाग्नावपि स्थिताः ।
उपासनान्गौ दूरस्थे समीपेभ्रातरि स्थैते

1.28.55

यद्यग्नौ जुहुयाद्वापि पाणौ वा स हि पातकी ।
उपासनाग्ना दूरस्थे केचिदिच्छन्ति वै द्विजाः

1.28.56

तच्छष विप्रपात्रेषु विकिरेत्संस्मरन्हरिम् ।
भक्ष्यैर्भोज्यैशअच लेह्यैश्च स्वाद्यैर्विप्रान्प्रपूजयत्

1.28.57

अन्नत्यागं ततः कुर्य्यादुभयत्र समाहितः ।
आगच्छन्तु महाभागाविश्वेदेवा महाबलाः

1.28.58

ये यत्र विहिताः श्राद्धे सावधानां भवन्तु ते ।
इति संप्रार्थयेद्देवान्ये देवास ऋचा नु वै

1.28.59

तथासंप्रार्थयद्विप्रान्ये च हेति ऋचा पितॄन् ।
अमूर्तानां मूर्तानां च पितॄणां दीत्पतेजसाम्

1.28.60

नमस्यामि सदा तेषां ध्वानिनां योगचजक्षुषाम् ।
एवं पितॄन्नमस्कृत्य नारायण परायणः

1.28.61

दत्तं हविश्च तत्कर्ण विष्णवे विनिवेदयेत् ।
ततस्ते ब्राह्मणाः सर्वे भुञ्जीरन्वाग्यता द्विजाः

1.28.62

हसतो वदते को ऽपि राक्षघसं तद्भवेद्धविः ।
यथआचार प्रदेयं च मधुनांसादिकं तथा

1.28.63

पाकादिं च प्रशंसेरन् वाग्यता धृतभघाजनाः ।
यदि पात्रं त्यजेत्को ऽपि ब्राह्मणः श्राद्धयोजितः

1.28.64

श्राद्धहॄन्ता स विज्ञेयो नरकायोपपद्यते ।
भञ्जानेषु च विप्रेषु ह्यन्योन्यं संस्पुशेद्यदि

1.28.65

तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् ।
भुज्यमानेषु विप्रेषु कर्त्ता श्रद्धापरायणः

1.28.66

स्मरेन्नारायणं देवमनन्तमपराजितम् ।
रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्चविशेषतः

1.28.67

जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा ।
त्रिमधु त्रिसुपर्णं च पावमानं यजूंषि च

1.28.68

सामान्यपितथोक्तानि वदेत्पुण्यप्रदां स्तथा ।
इतिहासपुराणानि धर्मशास्त्राणि चैव हि

1.28.69

भुञ्जीरन्ब्रह्मणा यावत्तावदेताञ्जपेद्द्विज ।
ब्राह्मणेषु च भुक्तेषु विकिरं विक्षिपेत्तथा

1.28.70

शेषमन्नं वदेच्चैव मधुसूक्तं च वै जपेत् ।
स्वयं च पादौ प्रक्षघाल्य सम्यगाचम्य नारद

1.28.71

आचान्तेषु च विप्रेषु पिण्डं निर्वापयेत्ततः ।
स्वस्तिवा चनकं कुर्यादक्षय्योदकमेव च

1.28.72

दत्त्वा समाहितः कुर्यात्तथा विप्राभिवादनम् ।
अचालयित्वा पात्रं तु स्वस्ति कुर्वन्ति ये द्विजाः

1.28.73

वत्सरं पितरस्तेषां भवन्त्युच्छिष्टभोजिनः ।
दातारो नो ऽभिवर्द्धन्तामित्याद्यैः स्मृतिभाषितैः

1.28.74

आशीर्वचो लभेत्तेभ्यो नमस्कारं चरेत्ततः ।
दद्याच्च दक्षिणां शक्त्या तांबूलं गन्धसंयुतम्

1.28.75

न्युब्जपात्रमथानीय स्वधाकारमुदीरयेत् ।
वाजेवाजे इति ऋचा पितॄन्देवान्विसर्जयेत्

1.28.76

भोक्ता च श्राद्धकृत्तस्यां रजन्यां मैथुनं त्यजेत् ।
तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेत्

1.28.77

अध्वगश्चातुरश्चैव विहीनश्च धनैस्तथा ।
आमश्राद्धं प्रकुर्वीत हेम्ना वास्तृश्यभार्यकः

1.28.78

द्रव्याभावे द्विजाभावे ह्यन्नमात्रं च पाचयेत् ।
पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः

1.28.79

अत्यन्त हव्यशून्यश्चैत्स्वशक्त्या तु तृणं गवाम् ।
स्नात्वा च विधिवद्विप्र कुर्याद्वा तिलतपर्णम्

1.28.80

अथवा रोदनं कुर्यादत्युच्चैर्विजने वने ।
दरिद्रो ऽहं महापापी वदन्निति विचक्षणः

1.28.81

परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् ।
तत्कुलं नाशमायाति ब्रह्महत्यां च विन्दति

1.28.82

श्राद्धं कुर्वन्ति ये मर्त्याः श्रद्धावन्तो मुनीश्वर ।
न तेषां संततिच्छेदः संपन्नास्ते भवन्ति च

1.28.83

पितॄन्यञ्जति यें श्राद्धे तैस्तु विष्णुः प्रपूजितः ।
तस्मिंस्तुष्टे जगन्नाथे सर्वास्तुष्यन्ति देवताः

1.28.84

पितरो देवताश्चैव गन्धर्वाप्सरसस्तथा ।
यक्षाश्च सिद्धा मनुजा हरिरेव सनातनः

1.28.85

येनेदमखिलं जातं जगत्स्थावरजङ्गमम् ।
तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः

1.28.86

यदस्ति विप्र यन्नास्ति दृश्यं चादृश्यमेव च ।
सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते

1.28.87

आधारभूतो विश्वस्य सर्वभूतात्मको ऽव्ययः ।
अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक्

1.28.88

परब्रह्माभिधेयो य एक एव जनार्दनः ।
कर्त्ता कारयिता चैव सर्वं विष्णुः सनातनः

1.28.89

इत्येवं ते मुनिश्रेष्ठ श्राद्धास्य विधिरुत्तमः ।
कथितः कुर्वतामेवं पापं सद्यो विलीयते

1.28.90

य इदं पठते भक्त्या श्राद्धकाले द्विजोत्तमः ।
पितरस्तस्य तुष्यन्ति संततिश्चैव वर्द्धते

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc