भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.27

1.27.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त्तधेर्मषु वेदाध्ययनादिकस्य गृहस्थधर्मस्य च निरुपणं नाम षड्विंशो ऽध्यायः
सनक उवाच
गृहस्थस्य सदाचारं वक्ष्यामि मुनिसत्तम ।
यद्रूतां सर्वपापानि नश्यन्त्येव न संशयः

1.27.2

ब्राह्ने मुहूर्ते चोत्थाय पुरुषार्थाविरोधिनीम् ।
वृत्तिं संचिन्तयेद्विप्र कृतकेशप्रसाधनः

1.27.3

दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः ।
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः

1.27.4

शिरः प्रावृत्य वस्त्रेण ह्यन्तर्द्धाय तृणैर्महीम् ।
वहन्काष्टं करेणैकं तावन्मौनी भवेद्द्विजः

1.27.5

पथि गोष्टे नदीतीरे तडागगृहसन्निधौ ।
तथा वृक्षस्य च्छायायां कान्तारे वह्निसन्निधौ

1.27.6

देवालये तथोद्याने कृष्टभूमौ चतुष्पथे ।
ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम्

1.27.7

तुषाङ्गारकपालेषु जलमध्ये तथैव च ।
एवमादिषु देशेषु मलमूत्रं न कारयेत्

1.27.8

शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ।
शौचाचारविहीनस्य समस्तं कर्म निष्फलम्

1.27.9

शौचं तु द्विविधं प्रोक्तं ब्राह्ममाभ्यान्तरं तथा ।
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम्

1.27.10

गृहीतशिश्रश्चोत्थाय शौचार्थं मृदमाहरेत् ।.
न मूषकादिखनितां फआलोत्कृष्टां तथैव च

1.27.11

वापीकूपतडागेभ्यो नाहरेदपि मृत्तिकाम् ।
शौचं कुर्यात्प्रयत्नेन समादाय शुभां मृदम्

1.27.12

लिङ्गे मृदेका दातव्या तिस्रो वा मेढ्रयोर्द्वयोः ।
एतन्मूत्रमुत्सर्गे शौचमाहूर्मनीषिणः

1.27.13

एका लिङ्गे गुदे पञ्च दश वामे तथोभयोः ।
सत्प तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक्

1.27.14

एतच्छौचं विडुत्सर्गे गन्धलेपापनुत्तये ।
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम्

1.27.15

त्रिगुणां तु वनस्थानां यतीनां तच्चर्गुणम् ।
स्वस्थाने पूर्णशौचं स्यात्पथ्यर्द्धं मुनिसत्तम

1.27.16

आतुरे नियमो नास्ति महापदि तथैव च ।
गन्धलेपक्षयकरं शौर्चं कुर्याद्विचक्षणः

1.27.17

स्त्रीणामनुपनीतानां गन्धलेपक्षयावधि ।
व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते

1.27.18

विधवानां च विर्पेन्द्र एतदेव निगद्यते ।
एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः

1.27.19

प्रागास्य उदगास्यो वाप्याचामेत्प्रयर्तेन्द्रियः ।
त्रिश्चतुर्धा पिबेदापो गन्धफेनादिवर्जिताः

1.27.20

द्विर्मार्जयेत्कपोलं च तलेनोष्ठौ च सत्तम ।
तर्जन्यङ्गुष्ठयोगेन नासारन्ध्रद्वयं स्पृशेत्

1.27.21

अगुंष्टानामिकाभ्यां च चक्षुः श्रोत्रे यथाक्रमम् ।
कनिष्टाङ्गुष्टयोगेन नाभिदेशे स्पृशेद्द्विजः

1.27.22

तलेनोरःस्थलं चैव अङ्गुल्यग्रैः शिरः स्पृशेत् ।
तलेन चाङ्गुलाग्रैर्वा स्पृशेदंसौ विचक्षणः

1.27.23

एवमाचम्य विप्रेद्र शुद्धिमान्पोत्यनुत्तमाम् ।
दन्तकाष्टं ततः खादेत्सत्वचं शस्तवृक्षजम्

1.27.24

बिल्वासनापामार्गणां निम्बान्मार्कादिशाखिनाम् ।
प्रक्षाल्य वारिणा चैव मन्त्रेणाप्यभिमन्त्रितम्

1.27.25

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते

1.27.26

कनिष्टाग्रसमं स्थौल्ये विप्रः खादेद्दशाङ्गुलम् ।
नवाङ्गुलं क्षत्रियश्च वैश्यश्चाष्टाङ्गुलोन्मितम्

1.27.27

शूद्रो वेदाङ्गुलमितं वनिता च मुनीश्वर ।
अलाभे दैतकाष्टानां गण्डूषैर्भानुसंमितैः

1.27.28

मुथशुद्धिर्विधीयेत तृणपत्रसमन्वितैः ।
करेणादाय वामेन संचर्वेद्वामदंष्ट्रया

1.27.29

द्विजान्संघर्ष्य गोदोहं ततः प्रक्षाल्य पाटयेत् ।
जिह्वामुल्लिख्य ताभ्यां तु दलुभ्यां नियतेन्द्रियः

1.27.30

प्रक्षाल्य प्रक्षिपेदू दूरे भूयश्चाचम्य पूर्ववत् ।
ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले

1.27.31

तटं प्रक्षाल्य दर्भाश्च विन्यस्य प्रविशेज्जलम् ।
प्रणम्य तत्र तीर्थानि आवाह्य रविमण्डलात्

1.27.32

गन्धाद्यैर्मण्डलं कृत्वा ध्यात्वा देवं जनार्दनम् ।
स्नायान्मन्त्रान्स्मरन्पुण्यांस्तीर्थानि च विरिञ्चिज

1.27.33

गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिंधुकावेरि जले ऽस्मिन्सन्निधिं कुरु

1.27.34

पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
आगच्छन्तु महाभागाः स्नानकाले सदा मम

1.27.35

अयोध्या मथुरा माया काशीं काञ्ची ह्यवन्तिका ।
पुरी द्वारावती ज्ञेया सत्पैता मोक्षदायिकाः

1.27.36

ततो ऽधमर्षण जप्त्वा यतासुर्वारिसंप्लुतः ।
स्नानाङ्गं तर्पणं कृत्वाचम्यार्ध्यं भानवेर्ऽपयेत्

1.27.37

ततो ध्यात्वा विवस्वन्तं जलान्निर्गत्य नारद ।
परिधायाहतं धौतं द्वितीयं परिवीय च

1.27.38

कुशासने समाविश्य संध्याकर्म समारभेत् ।
ईशानाभिमुखो विप्र गायत्र्याचम्य वै द्विज

1.27.39

ऋतमित्यभिमन्त्र्यार्थ पुनरेवामेद् बुधः ।
ततस्तु वारिणात्मानं वेष्टयित्वा समुक्ष्य च

1.27.40

संकल्प्य प्रणवान्ते तु ऋषिच्छन्दः सुरान्स्मरन् ।
भूरादिभिर्व्याहृतिभिः सत्पभिः प्रोक्ष्य मस्तकम्

1.27.41

न्यासं समाचरेन्मन्त्री पृथगेव कराङ्गयोः ।
विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत्

1.27.42

भुवः शिखायां स्वश्चैव कवये भूर्भुवो ऽक्षिषु ।
भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत्

1.27.43

तत आवाहयेत्संध्यां प्रातः कोकनस्थिताम् ।
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि

1.27.44

गायत्रि च्छन्दसां मातर्ब्रह्मयोने नमो ऽस्तु ते ।
मध्याह्ने वृषभारुढां शुक्लांबरसमावृताम्

1.27.45

सावित्रीं रुद्रयोनिं चावाहयेद्रुद्रवादिनीम् ।
सायं तु गरुडारुढां पीतांबरसमावृत्ताम्

1.27.46

सरस्वतीं विष्णुयोनिमाह्वयेद्विष्णुवादिनीम् ।
तारं च व्याहृतीः सत्प त्रिपदां च समुच्चरन्

1.27.47

शिरः शिखां च संपूर्य कुभयित्वा विरेचयेत् ।
वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे

1.27.48

द्विराचामेत्ततः पश्चात्प्रातः सूर्यश्चमेति च ।
आपः पुनन्तु मध्याह्ने सायमग्निश्चमेति च

1.27.49

आपो हिष्ठेति तिसृभिर्मार्जनं च ततश्चरेत् ।
सुमुत्रिया न इत्युक्त्वा नासास्पृष्टजलेन च

1.27.50

द्विषद्वर्गं समुत्सार्य द्रुपदां शिरसि क्षिपेत् ।
ऋतं च सत्यमेतेन कृत्वा चैवाधमर्षणम्

1.27.51

अन्तश्चरसि मन्त्रेण सकृदेव पिबेदपः ।
ततः सूर्याय विधिवद्गन्धं पुष्पं जलाञ्जलिम्

1.27.52

क्षिप्त्वोपतिष्ठेद्देवर्षे भास्करं स्वस्तिकाञ्जलिम् ।
ऊर्द्धूबाहुरधोबाहुः क्रमात्कल्यादिके त्रिके

1.27.53

उहुत्यं चित्रं तच्चक्षुरित्येतत्त्रितयं जपेत् ।
सौराञ्छैवान्वैष्णवांश्च मन्त्रानन्यांश्च नारद

1.27.54

तेजो ऽसि गायत्र्यसीति प्रार्थयेत्सवितुर्महः ।
ततो ऽङ्गानि त्रिरावर्त्य ध्यायेच्छक्तीस्तदात्मिकाः

1.27.55

ब्रह्मणी चतुराननाक्षवलया कुम्भं करैः स्रुक्स्त्रवौ बिभ्राणा त्वरुणेन्दुकान्तिवदना ऋग्रूपिणी बालिका ।
हंसारोहणकेलिखण्खण्मणेर्बिबार्चिता भूषिता गायत्री परिभाविता भवतु नः संपत्समृद्ध्यै सदा

1.27.56

रुद्राणी नवयौवना त्रिनयना वैयाघ्नचर्मांबरा खट्वाङ्गत्रघिशिखाक्षसूत्रवलयाभीतिश्रियै चास्तु नः ।
विद्युद्दामजटाकलापविलसद्वार्लेदुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी

1.27.57

ध्येया सा च सरस्वती भगवती पीतांबरालङ्कृता श्यामा श्यामतनुर्जरोपरिलसद्गात्राञ्चिता वैष्णवी ।
तार्क्ष्यस्था मणिनूपुराङ्गदलसद्ग्रैवेयभूषोज्ज्वला हस्तालङ्कृतशङ्खचक्रसुगदापह्माश्रियै चास्तु नः

1.27.58

एवं ध्यात्वा जपेत्तिष्ठन्प्रातर्मध्याह्नके तथा ।
सायङ्काले समासीनो भक्त्या तद्गतमानसः

1.27.59

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
त्रिपदां प्रणवोपेतां भूर्भुवः स्वरुपक्रमाम्

1.27.60

षट्तारः संपुटो वापि व्रतिनश्च यतेर्जपः ।
गृहस्थस्य सत्तारः स्याज्जप्य एवंविधो मुने

1.27.61

ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च ।
गायत्र्यै च सवित्रे च प्रक्षिपेदञ्जलिद्रूयम्

1.27.62

ततो विसृज्य तां विप्र उत्तरे इति मन्त्रतः ।
ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम्

1.27.63

दिरभ्यो दिग्देवताभ्यश्च नमस्कृत्य कृताञ्जलिः ।
प्रातरादेः परं कर्म कुर्यादपि विधानतः

1.27.64

प्रातर्मध्यन्दिने चैव गृहस्थः स्नानमाचरेत् ।
वानप्रस्थश्च देवर्षे स्नायात्र्निषवणं यतिः

1.27.65

आतुराणां तु रोगद्यैः पान्थानां च सकृन्मतम् ।
ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर

1.27.66

दिवोदितानि कर्माणि प्रमादादकृतानि चेत् ।
शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम्

1.27.67

नोपास्ते यो द्विजः संध्यां धूर्तबुद्धिरनापदि ।
पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः

1.27.68

यस्तु संध्यादिकर्माणि कूटयुक्तिविशारदः ।
परित्यजति तं विद्यान्महापातकिनां वरम्

1.27.69

ये द्विजा अभिभाषन्ते त्यक्तसंध्यादिकर्मणः ।
ते यान्ति नरकान्घोरान्यावच्चन्द्रार्कतारकम्

1.27.70

देवार्चनं ततः कुर्याद्वैश्वदेवं यथाविधि ।
तत्रात्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत्

1.27.71

वक्तव्या मधुरा वाणी तेष्वप्यभ्यागतेषु तु ।
जलान्नकन्दमूलैर्वा गृहदानेन चार्चयेत्

1.27.72

अतिथिर्यस्य भग्नाशो गृहत्प्रतिनिवर्तिते ।
सतस्मैदुष्कृतं दत्त्वा पुण्यमादाय गच्छति

1.27.73

अज्ञातगोत्रनामानमन्यग्रामादुपागतम् ।
विपश्चितो ऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत्

1.27.74

स्वग्रामवासिनं त्वेकं श्रोत्रियं विष्णुतत्परम् ।
अन्नाद्यैः प्रत्यहं विप्रपितॄनुद्दिश्य तर्पयेत्

1.27.75

पञ्चयज्ञपरित्यागी ब्रह्माहेत्युच्यते बुधैः ।
कुर्यादहरहस्तस्मात्पञ्चयज्ञान्प्रयन्ततः

1.27.76

देवयज्ञो भूतयज्ञः तितृयज्ञस्तथैव च ।
नृपज्ञो ब्रह्मयज्ञश्च पञ्चयज्ञान्प्रचक्षते

1.27.77

भृत्यमित्रादिसंयुक्तः स्वयं भुञ्जीत वाग्यतः ।
द्विजानां भोज्यमश्री यात्पात्रं नैव परित्यजेत्

1.27.78

संस्थाप्य स्वासमे पादौ वस्त्रार्द्धं परिधाय च ।
मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः

1.27.79

खादितार्द्धं पुनः खादेन्मोदकांश्च फलानि च ।
प्रत्यक्षं लवणं चैव गोमांसशीति गद्यते

1.27.80

अपोशाने वाचमने अद्यद्रव्येषु च द्विजः ।
शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत्

1.27.81

पथ्यमन्नं प्रभुञ्जीत वाग्यतो ऽन्नमसुत्सयनम् ।
अमृतोपस्तरणमसि अपोशानं भुजेः पुरः

1.27.82

अमृतापिधानमसि भोज्यान्ते ऽपः सकृत्पिबेत् ।
प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत्

1.27.83

ततश्चाचम्य विप्रेन्द्र शास्त्रचिन्तापरो भवेत् ।
रात्रावपि यथाशक्ति शयनासनभोजनैः

1.27.84

एवं गृही सदाचारं कुर्यात्प्रतिदिनं मुने ।
यदाऽचारपरित्यागी प्रायश्चित्ती तदा भवेत्

1.27.85

दूषितां स्वतनुं दृष्ट्वा पालिताद्यैश्च सत्तम ।
पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा

1.27.86

भवेत्रिषवणस्नायी नखश्मश्रुजटाधरः ।
अधः शायी ब्रह्मचारी पञ्चयज्ञपरायणः

1.27.87

फलमूलाशनो नित्यं स्वाध्यायनिरतास्तथा ।
दयावान्सर्वभूतेषु नारायणपरायणः

1.27.88

वर्जये द्ग्रामजातानि पुष्पाणि च फलानि च ।
अष्टौ ग्रासांश्च भुञ्जीत न कुर्याद्रात्रिभोजनम्

1.27.89

अत्यन्तं वर्जयेत्तैलं वानप्रस्थसमाश्रमी ।
व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च

1.27.90

शङ्खचक्रगदापाणिं नित्यं नारायणं स्मरेत् ।
वानप्रस्थः प्रकुर्वीत तपश्चान्द्रायणादिकम्

1.27.91

सहेत शीततापादिवह्निं परिचरेत्सदा ।
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु

1.27.92

तदैव संन्यसेद्विप्र पतितस्त्वन्यथा भवेत् ।
वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः

1.27.93

निर्द्वेद्वो निरहॄङ्कारो निर्ममः सर्वदा भवेत् ।
शमादिगुणसंयुक्तः कामक्रोधविवर्जितः

1.27.94

नग्नो वा जीर्णकौपीनौ भवेन्मुण्डो यतिर्द्विजः ।
समः शत्रौ च मित्रे च तथा मानापमानयोः

1.27.95

एकरात्रं वसेद्ग्रामे त्रिरात्रं नगरे तथा ।
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादीभवेद्यतिः

1.27.96

अनिन्दितद्विजगृहे व्यङ्गारे भुक्तिवर्जिते ।
विवादरहिते चैव भिक्षार्थं पर्यटेद्यतिः

1.27.97

भवेत्रिषवणस्नायी नारायणपरायणः ।
जपेच्च प्रणवं नित्यं जितात्मा विजितेन्द्रियः

1.27.98

एकान्नादी भवेद्यस्तु कदाचिल्लंपटो यतिः ।
न तस्य निष्कृतिर्द्दष्टा प्रायश्चित्तायुतैरपि

1.27.99

लोभाद्यदि यतिर्विप्र तनुपोषपरो भवेत् ।
स चण्डालसमो ज्ञेयो वर्णाश्रमविगर्हितः

1.27.100

आत्मानां चिन्तयेद्द्रेवं नारायणमनामयम् ।
निर्द्वन्द्रं निर्ममंशान्तं मायातीतममत्सरम्

1.27.101

अव्ययं परिपूर्णं च सदानन्दैकविग्रहम् ।
ज्ञानस्वरुपममलं परं ज्योतिः सनातनम्

1.27.102

अविकारमनाद्यन्तं जगच्चैतन्यकारणम् ।
निर्गुणं परमं ध्यायेदात्मानं परतः परम्

1.27.103

पठेदुपनिषद्वाक्यं वेदान्तार्थांश्च चिन्तयेत् ।
सहस्रशीर्षं देवं च सदा ध्यायेज्जितेन्द्रियः

1.27.104

एवं ध्यानपरो यस्तु यतिर्विगतमत्सरः ।
स याति परमानन्दं परं ज्योतिः सनातनम्

1.27.105

इत्येवमाश्रमाचारान्यः करोति द्विजः क्रमात् ।
स याति परमं स्थानं यत्र गत्वा न शोचयति

1.27.106

वर्णाश्रमाचाररताः सर्वपापविवर्जिताः ।
नारायणपरा यान्ति तद्विष्णः परमं पदम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc