नारद पुराण · अध्याय 1.25
इति श्रीबृहन्नारायणपुराणे पूर्वभागे प्रथमपादे सदाचारो नाम चतुर्विशो ऽध्यायः
सनक उवाच
वर्णाश्रमाचारविधिं प्रवक्ष्यामि विशेषतः ।
शृणुष्व तन्मुनिश्रेष्ठ सावधानेन चेतसा
यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् ।
पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः
गर्भाधानादिसंस्काराः कार्या मन्त्रविधानतः ।
स्त्रीणाममन्त्रतः कार्या यथाकालं यथाविधि
सीमन्तकर्म प्रथमं चतुर्थे मासि शस्यते ।
षष्टे वा सत्पमे वापि अष्टमे वापि कारयेत्
जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म च ।
कुर्य्याच्च नान्दीश्राद्धं च स्वस्तिवाचनपूर्वकम्
हेम्ना वा रजतेनापि वृद्धिश्राद्धं प्रकल्पयेत् ।
अन्नेन कारयेद्यस्तु स चण्डाल समो भवेत्
कृत्वाभ्युदयिकं श्राद्धं पिता पुत्रघस्य वाग्यतः ।
कुर्वीत नामनिर्द्देशं सूतकान्ते यथाविधि
अस्पष्टमर्थहीनं च ह्यतिगुर्व क्षरान्वितम् ।
न दद्यान्नाम विप्रेन्द तथा च विषथमाक्षरम्
तृतीयवर्षे चौलं च पञ्चमे षष्टसंमिते ।
सत्पमे चाष्टमे वापि कुर्याद् गृह्योक्तमार्गतः
दैवयोगादतिक्रान्ते गर्भाधानादिकर्मणि ।
कर्तव्यः पादकृच्छ्रो वै चौले त्वर्द्धं प्रकल्पयेत्
गर्भाष्टमे ऽष्टमे वाब्दे बटुकस्योपनायनम् ।
आषोडशाब्दपर्यन्तं गौणं कालमुशन्ति च
गर्भैकादशमे ऽब्दे तु राजन्यस्योपनायनम् ।
आद्वाविंशाब्दपर्यन्तं कालमाहुर्विपश्चितः
वैश्वोपनयनं प्रोक्तं गर्भाद्द्वादशमे तथा ।
चतुर्विंशाब्दपर्यन्तं गौणमाहुर्मनीषिणः
एतत्कालावधेर्यस्य द्विजस्यातिक्रमो भवेत् ।
सावित्रीपतितं विद्यात्तं तु नैवालपेत्कदा
द्विजोपनयने विप्र मुख्यकालव्यतिक्रमे ।
द्वादशाब्दं चरेत्कृच्छ्रं पश्चाज्चान्द्रायणं तथा ।
सांतपनद्वयं चैव कृत्वा कर्म समाचरेत्
अन्यथआ पतितं विद्यात्कर्त्तापि ब्रह्महा भवेत् ।
र्मौञ्जी विप्रस्य विज्ञेया धनुर्ज्या क्षत्त्रियस्य तु
आवी वैश्यस्य विज्ञेया श्रूयतामजिने तथा ।
विप्रस्य चोक्तमैणेयं रौरवं क्षत्रियस्य तु
आजं वेश्यस्य विज्ञेयं दण्डान्वक्ष्ये यथाक्रमम् ।
पालाशं ब्राह्मणस्योक्तं नृपस्यौदुम्बरं तथा
बैल्वं वैश्यस्य विज्ञेय तत्प्रमाणं शृणुष्व मे ।
विप्रस्य केशमानं स्यादाललाटं नृपस्य च
नासाग्रसंमितं दण्डं वैश्यस्याहुर्विपश्चितः ।
तथा वासांसि वक्षघ्यामि विप्रादीनां यथाक्रमम्
कषायं चैव माञ्जिष्टं हारिद्रं च प्रकीर्तितम् ।
उपनीतो द्विजो विप्र परिचर्यापरो गुरोः
वेदग्रहणपर्यन्तं निवसेद्गुरुवेश्मनि ।
प्रातः स्नायी भवेद्वर्णी समित्कुशफलादिकान्
गुर्वर्थमाहरेन्नित्यं कल्ये कल्ये मुनीश्वर ।
यज्ञोपवीतमजिनं दण्डं च मुनिसत्तम
नष्टे भ्रष्टे नवं मन्त्राद्धृत्वा भ्रष्टं जले क्षिपेत् ।
वर्णिनो वर्त्तनं प्राहुर्भिक्षान्नेनैव केवलम्
भिक्षा च श्रोत्रियागारादाहरेत्प्रयतेन्द्रियः ।
भवत्पूर्वं ब्राह्मणस्य भवन्मध्यं नृपस्य च
भवदत्यं विशः प्रोक्तं भिक्षाहरणकं वचः ।
सांयप्रातर्वह्निकार्यं यथाचारं जितेन्द्रियः
कुर्यात्प्रतिदिनं वर्णीं ब्रह्मयज्ञं च तर्पणम् ।
अग्निकार्यपरित्यागी पतितः प्रोच्यते बुधैः
ब्रह्मयज्ञविहीनश्च ब्रह्महा परिकीर्तितः ।
देवताभ्यर्च्चनं कुर्याच्छुश्रूषानुपदं गुरोः
भिक्षान्नं भोजयेन्नित्यं नैकान्नाशी कदाचन ।
आनीयानिन्द्यविप्राणां गृहाद्भिक्षां जितेन्द्रियः
निवेद्य गुरवे ऽश्रीयाद्वाग्यतस्तदनुघज्ञया ।
मधुस्त्रीमांसलवणं ताम्बूलं दन्तधावनम्
उच्छिष्टभोजनं चैव दिवास्वापं च वर्जयेत् ।
छात्रघपादुक गन्धांश्च तथा माल्यानुलेपनम्
जलकेलिं नृत्यगीतवाद्यं तु परिवर्जयेत् ।
परिवादं चोपतापं विप्रलापं तथाञ्जनम्
पाषण्ड जनसंयोगं शूद्रसंगं च वर्जयेत् ।
अभिवादनशीलः स्याद् वृद्धेषु च यथाक्रमम्
ज्ञानवृद्धास्तपोवृद्धा वयोवृद्धा इति त्रयः ।
आध्यात्मिका दिदुःखानि निवारयति यो गुरुः
वेदशास्त्रोपदेशेन तं पूर्वमभिवादयेत् ।
असावहमिति ब्रूयाद्दिजो वै ह्यभिवादने
नाभिवाद्याश्च विप्रेण क्षघत्रियाद्याः कथञ्चन ।
नास्तिकं भिन्नमर्यादं कृतन्घं ग्रामयाजकम्
स्तेनं च कितवं चैव कदाचिन्नाभिवादयेत् ।
पाषण्डं पतितं व्रात्यं तथा नक्षघत्रजीविनम्
तथा पातकिनं चैव कदाचिन्नाभिवादयेत् ।
उन्मत्तं च शठं धूर्त्तं धावन्तमशुचिं तथा
अभ्यक्तशिरसं चैव जपन्तं नाभिवादयेत् ।
विवादशीलिनं चञ्जं वमन्तं जलमध्यगम्
भिक्षान्नधारिणं चैव शयानं नाभिवादयेत् ।
भर्तृन्घीं पुष्पिणीं जारां सूतिकां गर्भपातिनीम्
कृतन्घीं च तथा चण्डीं कदाचिन्नाभिवादयेत् ।
सभायां यज्ञशालायां देवतायतनेष्वपि
प्रत्येकं तु नमस्कारो हॄन्ति पुण्यं पुराकृतम् ।
श्राद्धं व्रतं तथा दानं देवताभ्यार्चनं तथा
यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् ।
कृते ऽभिवादने यस्तु न कुर्या त्प्रतिवादनम्
नाभिवाद्यः स विज्ञेयो यया शूद्रस्तथैव सः ।
प्रक्षाल्य पादावाचम्य गुरोरभिमुखः सदा
तस्य पादौ च संगृह्य अधीयीत विचक्षणः ।
अष्टकासु चतुर्दश्यां प्रतिपत्पर्वणोस्तथा
महाभरण्यां विप्रेद्रं श्रवणद्वादशीदिने ।
भाद्रपदापरपक्षे द्वितीयायां तथैव च
माघस्य शुक्लसत्पम्यां नवम्यामाश्रिनस्य च ।
परिवेषं गते सूर्ये श्रोत्रिये गृहमागते
बन्धिते ब्रह्मणे चैव प्रवृद्धकलहे तथा ।
संध्यायां गर्जिते मेघे ह्यकाले परिवर्षणे
उल्काशनिप्रपाते च तथा विप्रे ऽवमानिते ।
मन्वादिषु च देवर्षे युगादिषु चतुर्ष्वपि
नाधीयीत द्विजः कश्चित्सर्वकर्मफलोत्सुकः ।
तृतीया प्राधवे शुक्ला भाद्रे कृष्णा त्रघयोदशी
कार्त्तिके नवमी शुद्धा माघे पञ्चदशी तिथिः ।
एता युगाद्याः कथिता दत्तस्याक्षयकारिकाः
मन्वादींश्च प्रवक्ष्यामि शृणुष्व सुसमाहितः ।
अक्षयुक्छुक्लनवमी कार्तिके द्वादशी सिता
तृतीया चैघत्रमासस्य तथा भाद्रपदस्य च ।
आषाढशुक्लदशमी सिता माघस्य सत्पमी
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णमा ।
फआल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता
कार्तिकी फआल्गुनी चैघत्रीं ज्यैष्ठी पञ्चदशी सिता ।
मन्वादयः समाख्याता दत्तस्याक्षयकारिकाः
द्विजैः श्रद्धं चकर्त्तव्यं मन्वादिषु युगादिषु ।
श्राद्धे निमन्त्रिते चैवग्रहणे चन्द्रसूर्ययोः
अयनद्वितये चैव तथा भूकंपने मुने ।
गलग्रहे दुर्द्दिने च नाधीयीत कदाचना
एवमादिषु सर्वेषु अनध्यायेषु नारद ।
अधीयतां सुमूढानांप्रजांप्रज्ञांयशः श्रियम्
आयुष्यं बलमारोग्यं निकृन्तति यमः स्वयम् ।
अनध्याये तु यो ऽधीते तं विद्याद्व्रह्मघातकम्
न तं संभाषयेद्विप्रन तेन सह संवसेत् ।
कुण्डगोलकयोः केचिज्जडादीनां च नारद
वदन्ति चोपनयनं तत्पुत्रादिषु केचन ।
अनधीत्य तु यो वेदमन्यत्र कुरुते श्रमम्
शूद्रतुल्यः स विज्ञेयो नरकस्य प्रियो ऽतिथिः ।
अनधीतश्रुतिर्विप्र आचार प्रतिपद्यते
नाचारफलमान्पोति यथा शूद्रस्तथैव सः ।
नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम्
अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ।
शब्दब्रह्ममयो विष्णुर्वेदः साक्षाद्धारि स्मृकतः
वेदाध्यायी ततो विप्रः सर्वान्कामानवान्पुयात्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0