नारद पुराण · अध्याय 1.26
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्ताचारेषु वर्णाश्रमधर्मेष्वध्ययनादिधर्मनिरुपणं नाम पञ्चविंशो ऽध्यायः
सनक उवाच
वेदग्रहणपर्यन्तं शुश्रूषानियतो गुरोः ।
अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम्
वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः ।
अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्वृहम्
रुपलावण्यसंपन्नां सगुणां सुकुलोद्भवाम् ।
द्विजः समुद्वहेत्कन्यां सुशीलां धर्म चारिणीम्
मातृतः पञ्चमीं धीमान्पिततः सत्पमीं तथा ।
द्विजः समुद्वहेत्कन्यथा गुरुतल्पराः
रोगिणीं चैव वृत्ताक्षीं सरोगकुलसंभवाम् ।
अतिकेशामकेशामकेशां च वाचालां नोद्वहेद्वुधः
कोपानां वामनां चैव दीर्घदेहां विरुपिणीम् ।
न्यानाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद् बुधः
स्थूलगुल्फआं दीर्घजङ्घां तथैव पुरुषाकृतिम् ।
श्मश्रुव्यञ्जनसंयुक्तां कुब्जां चैवाद्वहेन्न च
वृथाहास्यमुखीं चैव सदान्यगृह वासिनीम् ।
विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्रुधः
बह्वशिनीं स्थीलदन्तां स्थूलोष्ठीं घुर्घुरस्वनाम् ।
अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्वुधः
सदा रोदनशीलां च पाण्डुराभां च कुत्सिताम् ।
तासश्वासादिसंयुक्तां निद्राशीलां च नोद्वहेत्
अनर्थभाषिणीं चैव लोकद्वेष परायणाम् ।
परापवादनिरतां तस्कारां नोद्वहेद्वुधः
दीर्घनासां च कितवां तनूरुहविभूषिगताम् ।
गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्वुधः
बालभावादविज्ञातस्वभावामुद्वहेद्यदि ।
प्रगल्भां वागुणां ज्ञात्वा सर्वथा तां परित्यजेत्
भर्त्तृपुत्रेषु या नारी सर्वदा निष्ठुरा भवेत् ।
परानुकूलिनी या च सर्वथा तां परित्यजेत्
विवाहाश्चाष्टधा ज्ञेया ब्राह्माद्या मुनिसत्तम ।
पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः
ब्राह्नो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमो मतः
ब्राह्मेण च विवाहेन वैवाह्यो वै द्विजोत्तमः ।
दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते
प्राजापत्यादयो विप्र विवाहाः पञ्चज गर्हिताः ।
अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः
यज्ञोपवीतद्वितयं सोत्तरीयं च धारयेत् ।
सुवर्णकुण्डले चैव धौतवस्त्रद्वयं तथा
अनुलेपनलित्पाङ्गः कृत्तकेशनखः शुचिः ।
धारयेद्वैणवं दण्डं सोदकं च कमण्डलुम्
उष्णीषममलं छत्रं पादुके चाप्युपानहौ ।
धारयेत्पुष्पमाल्ये च सुगन्धं प्रियदर्शनः
नित्यं स्वाध्यायशीलः स्याद्यथाचारं समाचरेत् ।
परान्नं नैव भुञ्जीत परवादं च वर्जयेत्
पादेन नाक्रमेत्पादमुच्छिष्टं नैव लङ्घयेत् ।
न संहताभ्यां हस्ताभ्यां कण्डूयेदात्मनः शिरः
पूज्यं देवालयं चैव नापसव्यं व्रजेद्दिजः ।
देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु
न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा ।
नारोहेदुष्ट्रयानं च शुष्कवादं च वर्जयेत्
अन्य स्त्रियं न गच्छेच्च पैशुन्यं परिवर्जयेत् ।
नापसव्यं व्रजेद्विप्र गोश्चत्थानलपर्वतान्
चतुष्पथं चैत्यवृक्षर्ं देवखातं नृपं तथा ।
असूयां मत्सरत्वं च दिवास्वापं च वर्जयेत्
न वदेत्परपापानि स्वपुण्यं न प्रकाशयेत् ।
स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत्
न दुर्जनैः सह वसे न्नाशास्त्रं शृणुयात्तथा ।
आसवद्यूतगीतेषु द्विजस्तु न रर्तिं चरेत्
आर्द्रास्थि च तथोच्छिष्टं शूद्रं च पतितं तथा ।
सर्पं च भषणं स्पृष्ट्वा सचैलं स्नानमाचरेत्
चितिं च चितिकाष्टं च यूपं चाण्डालमेव च ।
स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत्
दीपखट्वातनुच्छायाकेशवस् त्रकटोदकम् ।
अजामार्जंनिमार्जाररेणुर्द्दैवं शुभं हरेत्
शूर्प्पवातं प्रेतधूमं तथा शूद्रान्नभोजनम् ।
वृषलीपतिसङ्गं च दूरतः परिवर्जयेत्
असच्छार्स्त्रार्थमननं खादनं नखकेशयोः ।
तथैव नग्नशयनं सर्वदा परिवर्जयेत्
शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।
तांबूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत्
नाशुद्धो ऽग्निं परिचरेत्पूजयेद्गुरुदेवताः ।
न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम्
न चाक्रमेद्गुरोश्छायां तदाज्ञां च मुनीश्वर ।
न निन्देद्योगिनो विप्रान्व्रतिनो ऽपि यतींस्तथा
परस्परस्य मर्माणि न कदापि वदेद्द्विजः ।
दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि
उपसनं च होतव्यं सायं प्रातर्द्विजातिभिः ।
उपासनपरित्यागी सुरापीत्युच्यते बुधैः
अयने विषुवे चैव युगादिषु चतुर्ष्वपि ।
दर्शे च प्रेतपक्षे च श्राद्धं कुर्याद्गृही द्विजः
मन्वादिषु मृदाहे च अष्टकासु च नारद ।
नावधान्ये समायाते गृही श्राद्धं समाचरेत्
श्रोत्रिये गृहमायाते ग्रहणे चन्द्रसूर्योः ।
पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत्
यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।
वृथा भवति तत्सर्वमूर्द्धपुण्ड्रं विना कृतम्
उर्द्धपुण्ड्रं च तुलसीं श्राद्धे नेच्छन्ति केचन ।
वृथाचारः परित्याज्यस्तस्माच्छ्रेयो ऽर्थिभिर्द्विजैः
इत्येवमादयो धर्माः स्मृतिमार्गप्रचोदिताः ।
कार्या द्विजातिभिः सम्यक्सर्वकर्मफलप्रदाः
सदा चारपरा ये तु तेषां विष्णुः प्रसीदति ।
विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0