नारद पुराण · अध्याय 1.24
इति श्रीबृहन्नारदीये पुराणे पूर्वभागे प्रथमपादे व्रताख्याने एकादशीव्रतमहिमानुवर्णनं नाम त्रयोविंशो ऽयायः
सूत उवाच
एतन्निशम्य सनकोदितमप्रमेयं पुण्यं हरेर्दिनभवं निखिलोत्तमं च ।
पापौघशान्तिकरणं व्रतसारमेवं ब्रह्मात्मजः पुनरभाषत हर्षयुक्तः
नारद उवाच
कथितं भवता सर्वं मुने तत्त्वार्थकोविद ।
व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम्
इदानीं श्रोतुमिच्छामि वर्णाचचारविधिं मुने ।
तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा
एतत्सर्वं महाभाग सर्वतत्त्वार्थकोविद ।
कृपया परया मह्यं यथावद्वक्तुमर्हसि
सनक उवाच
शृणुष्व मुनिशार्दूल यथा भक्तप्रियङ्करः ।
वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः
मन्वाद्यैरुदितं यच्च वर्णाश्रमनिबन्धनम् ।
तत्ते वक्ष्यामि विधिवद्भक्तो ऽसि त्वमधोक्षजे
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चत्वार एव ते ।
वर्णा इति समाख्याता एतेषु ब्राह्मणो ऽधिकः
ब्राह्मणाः क्षत्रिया वैश्या द्विजाः प्रोक्तास्त्रयस्ताथा ।
मातृतश्चोपनयनाद्दि जत्वं प्राप्यते त्रिभिः
एतैर्वर्णैः सर्वधर्माः कार्या वर्णानुरुपतः ।
स्ववर्णधर्मत्यगेन पाषण्डः प्रोच्यते बुधैः
स्वगृह्यचोदितं कर्मद्विजः कुर्वन्कृती भवेत् ।
अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः
युगधर्मः परिगार्या वेर्णैरेतैर्यथोचितम् ।
देशाचारास्तथाग्राह्याः स्मृतिधर्माविरोधतः
कर्मणा मनसा वाचा यत्नाद्धर्ंमं समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु
समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।
द्विजानामसवर्णासु कन्या सूपयमस्तथा
देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः ।
मांसादनं तथा श्राद्धे वानप्रस्थआश्रमस्तथा
दत्ताक्षतायाः कन्यायाः पुनर्दानं वराय च ।
नैष्टिकं ब्रह्मचर्यं च नरमेधाश्चमेधकौ
महाप्रस्थानगमनं गोमेधश्च तथा मखः ।
एतान्धर्मान्कलियुके वर्ज्यानाहुर्मनीषिणः
देशाचाराः परिग्राह्यास्तत्तद्देशगतैर्नरैः ।
अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः
ब्राह्मणक्षत्रियविशां शूद्राणां च द्विजोत्तमा ।
क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः
दानं दद्यार्द्वह्मणेभ्यस्तथा यज्ञैर्यजेत्सुरान् ।
वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा
याजयेद्यजने योग्यान्विप्रो नित्योदकी भवेत् ।
कुर्य्याच्च वेदग्रहणं तथाग्रेश्च परिग्रहम्
ग्राह्येर् द्व्ये च पारक्ये समबुद्धिर्भवेत्तथा ।
सर्वलोकहितं कृर्यान्मृदुवाक्यमुदीरयेत्
ऋतावभिगमः पत्न्यां शस्यते ब्राह्मणस्य वै ।
न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत्
दद्याद्दानानि विप्रेभ्यः क्षत्रियो ऽपि द्विजोत्तम ।
कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा
शस्त्राजीवी भवेच्चैव पालयेद्धर्मतो महीम् ।
दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा
पाशुपाल्यं च वाणिज्यं कृंषिश्च द्विजसत्तम ।
वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम्
कुर्याच्च दारग्रहणं धर्माश्चैव समाचरेत् ।
क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः
दद्याद्दानानि शूद्रो ऽपि पाकयज्ञैर्यजेन्न च ।
ब्राह्मणक्षत्रियविशां शुश्रूषानि रतो भवेत्
ऋतुकालाभिगामीच स्वदारेषु भवेत्तथा ।
सर्वलोकहितोषित्वं मङ्गलं प्रियवादिता
अनायासो मनोहर्षस्तितिक्षा नातिमानिता ।
सामान्यं सर्ववर्णानां मुनिभिः परिकीर्तितम्
सर्वे च मुनितां यान्ति स्वाश्रमोचितकर्मणा ।
ब्राह्मणः क्षत्रियाचारमाश्रयेदापदि द्विज
क्षत्रियो ऽपि च विड्वृत्तिमत्यापदि समाश्रयेत् ।
नाश्रयेच्छूद्रवृत्तिं तु अत्यापद्यपि वै द्विजः
यद्याश्रयेद्दिजो मूढस्तदा चाण्डासतां व्रजेत् ।
ब्राह्मणक्षत्रियविशां त्रयाणां मुनिसत्तम
चत्वार आश्रमाः प्रोक्ताः पञ्चमो नोपपद्यते ।
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सत्तम
चतुर्भिराश्रमैरेभिः साध्यते धर्म उत्तमः ।
विष्णुस्तुष्यति विप्रेन्द्र कर्मयोगरतात्मनः
निःस्पृहाशान्तमनसः स्वकर्मनिरतस्य च ।
ततो याति परं स्थानं यतो नावर्त्तते पुनः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0