भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.23

1.23.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मासोपवासवर्णनं नाम द्वादशो ऽध्यायः
सनक उवाच
इदमन्यत्प्रवक्ष्यामि व्रतं त्रैलोक्यविश्रुतम् ।
सर्वपापप्रशमनं सर्वकामफलप्रदम्

1.23.2

ब्राह्मणक्षत्रियविशां शूद्राणां चैव योपिताम् ।
मोक्षदं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज

1.23.3

एकादशीव्रतं नाम सर्वाभीष्टप्रदं नृणाम् ।.
कर्त्तव्यं सर्वथा विप्रविष्णुप्रीतिकरं यतः

1.23.4

एकादश्यां न भुञ्जीत पक्षयोरुभयोपरि ।
यो भुङ्क्ते सो ऽत्र पापीयान्परत्र नरकं व्रजेत्

1.23.5

उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम् ।
पूर्वापरदिने गत्रावहोरात्रं तु मध्यमे

1.23.6

एकादशीदिने यस्तु भोक्तुमिच्छति मानवः ।
स भोक्तुं सर्वलपापानि स्पृहयालुर्नसंशयः

1.23.7

भवेद्दशम्यामेकाशीद्वादश्यां च मुनीश्वर ।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति

1.23.8

यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
अन्नमाश्रित्य तिष्ठन्ति तानि विप्र हरेश्वर ।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति
यानि कानि च पापानि ब्रह्महकत्यादिकानि च ।
अन्नमाश्रित्य तिष्ठन्ति तानि च मुनीश्वर ।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति

1.23.9

यानि कानि च पापानि ब्रह्महत्यादिकानि च च ॥
अन्नमाश्रित्य तिष्टन्ति तानि विप्र हरेर्दिने
ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ।
एकादश्यां तु यो भुङ्क्ते तस्य नैवास्ति निष्कृतिः

1.23.10

महापातकयुक्तो वायुक्तो वा सर्व पानकैः ।
एकादश्यां निराहारः स्थित्वा याति परां गतिम्

1.23.11

एकादशी महापुण्या विष्णोः प्रियतमा तिथिः ।
संसेव्या सर्वथा विप्रैः संसारच्छे दलिप्सुभिः

1.23.12

दशम्यां प्रातरुत्थाय दन्तधावनपूर्वकम् ।
स्नापयेद्विधिवद्विष्णुं पूजयेत्प्रयतेन्द्रियः

1.23.13

एकादश्यां निराहारो निगृहीतेन्द्रियो भवेत् ।
शयीत सन्निधौ विष्णोर्नारायणपरायणः

1.23.14

एकादश्यां तथा स्नात्वा संपूज्यच च जनार्दनम् ।
गन्धपुष्पादिभिः सम्यक् ततस्त्वे वसुदीरयेत्

1.23.15

एकादश्यां निराहारः स्थित्वाद्याहं परे ऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत

1.23.16

इमं मन्त्रं समुच्चार्थं देव देवस्य चक्रिणः ।
भक्तिभावेन तुष्टात्मा उपवासं समर्पयेत्

1.23.17

देवस्य पुरतः कुर्याज्जागरं नियतो व्रती ।
गीतैर्वाद्यैशअच नृत्यैश्च पुराणश्रवणादिभिः

1.23.18

ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती ।
स्नात्वा च विधिवद्विष्णुं पूजयत्प्रयतेन्द्रियः

1.23.19

पञ्चामृतेन संस्नाप्य एकादश्यां जनार्द्दनम् ।
द्वादश्यां पयसा विप्र हरिसारुपप्यमषश्नुते

1.23.20

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ।
प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव

1.23.21

एवं विज्ञाप्य विप्रेन्द्र माधवं सुसमाहितः ।
ब्रह्मणान्भोजयेच्छक्त्या दद्याद्वै दक्षिणां तथा

1.23.22

ततः स्वबन्धुभिः सार्द्धं नारायणपरायणः ।
कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः

1.23.23

एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् ।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम्

1.23.24

उपवासव्रतपरो धर्मकार्यचपरायणः ।
चाण्डालान्पतकितांश्चैव नेक्षेदपि कदाचन

1.23.25

नास्तिकान्भिन्नमर्योदान्निन्दकान्पिशुनांस्तथा ।
उपवास व्रतपरो नालपेच्च कदाचन

1.23.26

वृषलीसूतिपोष्टारं वृषलीपतिमेव च ।
अयाज्ययाजकं चैव नालपेत्सर्वदा व्रती

1.23.27

कुण्डशिनं गायकं च तथा देवलकाशिनम् ।
भिषजं काव्यकर्त्तारं देवद्विजविरोधिनम्

1.23.28

परान्नलोलुपं चैव परस्त्रीनिरतं तथा ।
व्रतोपवासनिरतो वाङ्मात्रेणापि नार्चयेत्

1.23.29

इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः ।
उपवासपरो भूत्वा परां सिद्धिमवान्पुयात्

1.23.30

नास्ति गङ्गासमं तीर्थं नास्ति मातृसमोगुरुः ।
नास्तु विष्णुसमं दैवं तपो नानशनात्परम्

1.23.31

नास्ति क्षमासमा माता नास्ति कीर्तिसमं धनम् ।
नास्ति ज्ञानसमो लाभो लाभो न च धर्म समः पिता

1.23.32

न विवेकसमो बन्धुर्मैकादश्याः परं व्रतम् ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्

1.23.33

संवादं भद्रशीलस्य तत्पितुर्गुलवस्य च ।
पुरा हिगालवो नाम मुनिः सत्यपरायणः

1.23.34

उवा चस नर्मदातीरेरे शान्तो दान्तस्तपोनिधिः ।
बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते

1.23.35

सिद्धचारणगन्धर्व यक्षविद्याधरान्विते ।
कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेदिते

1.23.36

गालवो नाम विप्रेन्द्रो निवासमकसेच्चिरम् ।
तस्याभवद्भद्रशील इति ख्यातः सुतो वशी

1.23.37

जान्तिस्मरो महाभागो नारायणपरायणः ।
बालक्राडनकाले ऽपि भद्रशीलो महामतिः

1.23.38

मृदा च विष्णोः प्रतिमां कृत्वा पूजयते क्षणम् ।
वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा

1.23.39

एकादशीव्रतं चैव कर्त्तव्यमपि पण्डितैः ।
एवं ते बोधितास्तेन शिशवो ऽपि मुनीश्वर

1.23.40

हरिं मृदैव निर्माय पृथक्संभूय वा मुदा ।
अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः

1.23.41

नमस्कुर्वन्भद्रमति र्विष्णवे सर्वविष्णवे ।
सर्वेषां जगतां स्वस्ति भूयादित्यब्रवीदिदम्

1.23.42

क्रीडाकाले मुहूर्तं वा मुहूर्तार्द्धमथापि वा ।
एकादशीति संकल्प्यव्रतं यच्छति केशवे

1.23.43

एवं सुचरितं दृष्ट्वा तनयं गालवो मुनिः ।
अपृच्छद्विस्मयाविष्टः समालिङ्ग्य तपोनिधिः

1.23.44

गालव उवाच
भद्रशील महाभाग भद्रशीलो ऽसि सुव्रत ।
चरितं मङ्गलं यत्ते योगिनामपि दुर्लभम्

1.23.45

हरिपूजापरो नित्यं सर्वभूतहितेरतः ।
एकादशीव्रतपरो निषिद्धाचारवर्जितः ।
निर्द्धन्द्वो निर्ममः शान्तो हरिध्यानपरायाणः

1.23.46

एवमेतादृशी बुद्धिः कथं जातार्भकस्यते ।
विनापि महतां सेवां हरिभक्तिर्हि दुर्लभा

1.23.47

स्वभावतो जनस्यास्य ह्यविद्याकामकर्मसु ।
प्रवर्त्तते मतिर्वत्स कथं ते ऽलौकिकी कृतिः

1.23.48

सत्सङ्गे ऽपि मनुष्याणां पूर्वपुण्यातिरेकतः ।
जायते भगवद्भक्तिस्तदहं विस्मयं गतः

1.23.49

पृच्छामि प्रीतिमापन्नस्तद्भवान्वक्तुमर्हति ।
भद्रशीलो मुनिश्रेष्ठः पित्रैवं सुविकल्पितैः

1.23.50

जातिस्मरः सुकृतात्मा हृषथ्टप्रहसिताननः ।
स्वानभ्रुतं यथाव्रतं सर्वं पित्रे न्यवेदयत्

1.23.51

भद्रशील उवाच
शृणु तात मुनिश्रेष्ठ ह्यनुभूतं मया पुरा ।
जातिस्मरत्वाज्जानामि यमेन परिभाषितम्

1.23.52

एतच्छत्वा महाभागो गालवो विस्मयोन्वितः ।
उवाच प्रीतिमापन्नो भद्रशीलं महामतिम्

1.23.53

गालव उवाच
कस्त्वं पूर्वं महाभाग किमुक्तं च यमेन ते ।
कस्य वा केन वा हेतोस्तत्सर्वं वक्तुमर्हसि

1.23.54

भद्रशील उवाच
अहमासं पुरा तात राजा सोमकुलोद्भवः ।
धर्मकीर्तिरिति ख्यातो दत्तात्रघेयेण शासितः

1.23.55

नव वर्षसहस्राणि महीं कृत्स्त्रमपालयम् ।
अधर्माश्च तथा धर्मा मया तु बहवः कृताः

1.23.56

ततः श्रिया प्रमत्तो ऽहं बह्वधर्मम कारिपम् ।
पापण्डजनसंसर्गात्पापण्डचरितो ऽभवम्

1.23.57

पुरार्जितानि पुण्यानि मया तु सुबहून्यपि ।
पापण्डैर्बाधितो ऽहं तु वेदमार्गं समत्यजम्

1.23.58

मखाश्च सर्वे विध्वस्ता कूटयुक्तिविदा मया ।
अधर्मनिरतं मां तु दृष्ट्वा महेशजाः

1.23.59

सदैव दुष्कृतं चक्रुः षष्टांशस्तत्रमे ऽभवत् ।
एवं पापसमाचारो व्यसनाभिरतः सदा

1.23.60

मृगयाभिररतो भूत्वा ह्यकदा प्राविशं वनम् ।
ससैन्यो ऽहं वने तत्र हत्वा बहुविधान्मृगान्

1.23.61

क्षुत्तृट्परिवृतः श्रान्तो रेवातीरमुपागमम् ।
रवितीक्ष्णातपल्कान्तो रेवायां स्नानमाचरम्

1.23.62

अहष्टसैन्य एकाकी पीड्यमानः क्षुधा भृशम्

1.23.63

समेतास्तत्रघ ये केचिद्रेवातीरनिवासिनः ।
एकादशीव्रतपरा मया दृष्ट्वा निशामुखे

1.23.64

निराहारश्च तत्राहमे काकी कतज्जनैः सह ।
जागरं कृतवांश्वापि सेनया रहितो निशि

1.23.65

अध्वश्रमपरिश्रान्तः क्षुत्पिपासाप्रपीडितः ।
तत्रैव जागरान्ते ऽहं तातपञ्चत्वमागतः

1.23.66

ततो यमभटैर्बद्धो महादंष्ट्राभयङ्करैः ।
अनेकल्केशसंपन्नमार्गेणात्पो यमान्तिकम् ।
दंष्ट्राकरालवदनमपश्यं समवर्तिनम्

1.23.67

अथ कालिश्चित्रगुत्पमाहूयेदमभाषत ।
अस्य शिक्षाविधानं च यथावद्वद पण्डितं

1.23.68

एवमुक्तश्चित्रगुत्पो धर्मराजेन सत्तम ।
चिरं विचारयामास पुनश्चेदमभापत

1.23.69

असौ पापरतः सत्यं तथापि शृणु धर्मप ।
एकादश्यां निराहारः सर्वपापैः प्रमुच्यते

1.23.70

एष रेवातटे रम्ये निराहारो हरेर्दिने ।
जागरं चोपवासं च कृत्वा निषअपापतां गतः

1.23.71

यानि कानि च पापानि कृतानि सुबहूनि च ।
तानि सर्वाणि नष्टानि ह्युपवासप्रभावतः

1.23.72

एवमुक्तो धर्मराजश्चित्रगुत्पेन धीमता ।ऽ
नानाम दण्डवद्भूमौ ममाग्रे सो ऽनुकंपितः

1.23.73

पूजयामास मां तत्र भक्तिभावेन धैर्मराट् ।
ततश्च स्वभटान्सर्वानाहूयेदमुवाच ह

1.23.74

धर्मराज उवाच
शृणुध्वं मद्वचो दूता हितं वक्ष्याम्यनुत्तममम् ।
धर्ममार्गरता न्मर्त्यान्मानयध्वं ममान्तिकम्

1.23.75

ये विष्णुपूजनरताः प्रयताः कृतज्ञाश्चैकादशीव्रतपरा विजितेन्द्रियाश्च ।
नारायणाच्युतहरे शरणं भवेति शान्ता वदन्ति सततं तरसात्यजध्वम्

1.23.76

नारायणाच्युत जनार्दन कृष्ण विष्णो पद्मेश पद्मजपितः शिव शङ्करेति ।
नित्यं वदन्त्यखिललोक हिताः प्रशान्ता दूरद्भटास्त्यजता तान्न ममैषु शिक्षा

1.23.77

नारायणार्पितकृतान्हरिभक्तिभजः स्वाचारमार्गनिरतान् गुरुसेवकांश्च ।
सत्पात्रदान निरतांश्च सुदीनपाल्लान्दूतास्त्यजध्वमनिशं हरिनामसक्तान्

1.23.78

पाषण्डसङ्गरहितान्द्विजभक्तिनिष्ठान्सत्संगलोल्लुपतरांश्च तथातिथेयान् ।
शंभौ हरौ च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्जनानाम्

1.23.79

ये वर्जिता हरिकथामृतसेवनैश्च नारायणस्मृतिपरायणमानसैश्च ॥
विर्पन्द्रपादजलसेचनतो ऽप्रहृष्टांस्तान्पापिनो मम भटा गृहमानयध्वम्

1.23.80

ये मातृतातपरिभर्त्सनशीलिनश्च लोकद्विषो हितजनाहितकर्मणश्च ।
देवस्वलोभनिरताञ्जननाशकर्तृआनत्रानयध्वमपराधपरांश्च दूताः

1.23.81

एकादशीव्रतपराङ्मुखमुग्रशीलं लोकापवादनिरतं परनिन्दकं च ।
ग्रामस्य नाशकरमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम्

1.23.82

ये विष्णुभक्तिविमुखाः प्रणमन्ति नैव नारायणं हि शरणागतपालकं च ।
विष्णवालयं च नहि यान्ति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसाह्य

1.23.83

एवं श्रुतं यदा तत्र यमेन परिभाषितम् ।
मयानुतापदग्धेन स्मृतं तत्कर्म निन्दितम्

1.23.84

असत्कर्मानुतापेन सद्धर्मश्रवणेन च ।
तत्रैव सर्वपापानि निःशेषाणि गतानि मे

1.23.85

पापशेषाद्विनिर्मुक्तं हरिसारुप्यतां गतम् ।
सहस्रसूर्यसंकाशं प्रणनाम यमश्च तम्

1.23.86

एवं दृष्ट्वा विस्मितास्ते यमदूता भयोत्कटाः ।
विश्वासं परमं चक्रुर्यमेन परिभाषिते

1.23.87

ततः संपूज्य मां कालो विमानशतसंकुलम् ।
सद्यः संप्रेषयामास तद्विष्णोः परमं पदम्

1.23.88

विमानकोटिभिः सार्द्धं सर्वभोगसमन्वितैः ।
कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम्

1.23.89

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
स्थित्वा विष्णुपदं पश्चादिन्द्रलोकमुपगमम्

1.23.90

तत्रापि सर्वभोगाढ्यः सर्वदेवनमस्कृतः ।
तावत्कालं दिविस्थित्वा ततो भूमिमुपागतः

1.23.91

अत्रापि विष्णुभक्तानां जातो ऽहं भवतां कुले ।
जातिस्मरत्वाडज्जानामि सर्वमेतन्मुनीशअवर

1.23.92

तस्माद्विष्ण्वर्चनोद्योगं करोमि सह बालकैः ।
एकादशीव्रतमिदमिति न ज्ञातवान्पुरा

1.23.93

जातिस्मृतिप्रभावेण तज्ज्ञातं सांप्रतं मया ।
अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदम्

1.23.94

एकादशीव्रतं भक्त्या कुर्वतां किमुत प्रभो ।
तस्माच्चरिष्ये विप्रेन्द्र शुभमेकादशीव्रतम्

1.23.95

विष्णुपूजां चाहरहः परमस्थानकाङ्क्षया ।
एकादशीव्रतं यत्तु कुर्वन्ति श्रद्धया नराः

1.23.96

तेषां तु विष्णुभवनं परमानन्ददायकम् ।
एवं पुत्रवचः श्रुत्वा संतुष्टो गालवो मुनिः

1.23.97

अवाप परमां तुष्टिं मनसा चातिहर्षितः ।
मज्जन्म सफलं जातं मद्धंशः पावनीकृतः

1.23.98

यतस्त्वं मदगृहे जातो विष्णुभक्तिपरायणः ।
इति संतुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा

1.23.99

हरिपूजाविधानं च यथावत्समबोधयत् ।
इत्येतत्ते मुनिश्रेष्ठ यथावत्कथितं मया ।
संकोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc