भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.22

1.22.1

इति श्रीबृहन्नांरदीयपुराणं पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुल्कैकादशीमासभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतं नामैकविंशो ऽध्यायः
सनक उवाच
अन्यद् व्रतवरं वक्ष्ये तच्छृणुष्व समाहितः ।
सर्वापापहरं पुण्यं सर्वलोकोपकारकम्

1.22.2

आषाढ्रे श्रावणे वापि तथा भाद्रपदे ऽपि च ।
तथैवाश्विनके मासे कुर्यादेतद्वतं द्विज

1.22.3

एतेष्वन्यतमे मासे शुल्कपक्षे जितेन्द्रियः ।
प्राशयेत्पञ्चगव्यं च स्वपेद्विष्णुसमीपतः

1.22.4

ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ।
श्रद्धया पूजयेद्विष्णुं वशी क्रोधविवार्जितः

1.22.5

विद्वद्भिः सहितो विष्णुमर्चयित्वा यथोचितम् ।
संकल्पं तु ततः कुर्यास्त्वस्ति वाचनपूर्वकम्

1.22.6

मासमेकं निराहारो ह्यद्यप्रभृति केशव ।
मासान्तं पारणं कुर्वे देवदेव तवाज्ञया

1.22.7

तपोरुप नमस्तुभ्यं तपसां फल दायक ।
ममाभूष्टप्रदं देहि सर्वविन्घान्निवारय

1.22.8

एवं समर्प्य देवस्य विष्णोर्मासव्रतं शुभम् ।
ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे

1.22.9

प्रत्यहं स्नापयेद्देवं पञ्चामृतविधानतः ।
दीपं निरन्तरं कुर्यात्तस्मिन्मासे हरेर्गृहे

1.22.10

प्रत्यहं खादयेत्काष्ठं ह्यपामार्ग समुद्भवम् ।
ततः स्नायीत विधिन्नारायणपरायणः

1.22.11

ततः संस्नापयेद्विष्णुं पूर्ववत्प्रयतोर्ऽचयेत् ।
ब्राह्मणान्भोजयेच्छक्त्या भक्तियुक्तः सद क्षिणम्

1.22.12

स्वयं च बन्धुभिः सार्द्धं भुञ्जीत प्रयतेन्द्रियः ।
एवं मासोपवासांश्च व्रती कुर्यात् त्रयोदश

1.22.13

वर्षान्ते वेदविदुषे गां प्रदद्यात्स दक्षिणाम् ।
भोजयेद्व्राह्माणांस्तत्र द्वादशैव विधानतः ।
शक्त्या च दक्षिणां दद्याद्रूह्यण्याभरणानि च

1.22.14

मासोपवासत्रितयं यः कुर्यात्संयते न्द्रियः ।
आत्पोर्यामस्य यज्ञत्य द्विगुणं फलमश्नुते

1.22.15

चतुः कृत्वः कृतं येन पाराकं मुनिसत्तम ।
स लभेत्परमं पुण्यमष्टान्गिष्टोमसंभवम्

1.22.16

पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना ।
अत्यन्गिष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः

1.22.17

मासोपवाषट्कं यः करोति सुसमाहितः ।
ज्योतिष्टो स्यन्ग यज्ञस्य फलं सो ऽष्टगुणं लभेत्

1.22.18

निराहारः सत्पकृत्वो नरो मासोपवासकान् ।
अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत्

1.22.19

मासो पावासान्यः कुर्यादष्टकृत्वो मुनीश्वर ।
नरमेधाख्ययज्ञस्य फलं पञ्चगुणं लभेत्

1.22.20

यस्तु मासोपवासांश्च नवकृत्वः समाचरेत् ।
गोमेधमखजं पुण्यं लभते त्रिगुणं नरः

1.22.21

दशकृत्वस्तु यः कुर्यात्पराकं मुनिसत्तम ।
स ब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते

1.22.22

एकादश पराकांश्च यः कुर्यात्संयतेन्द्रियः ।
स याति हरिसारुप्यं सर्वभोगसमन्वितम्

1.22.23

त्रयोदश पराकांश्च यः कुर्यात्प्रयतो नरः ।
स याति परमानन्दं यत्र गत्वा न शोचति

1.22.24

मासोपवासनिरता गङ्गास्नानपरायणाः ।
धममागप्रवक्तारो मुक्ता एव न सशंयः

1.22.25

अवीराभिर्यतिभिर्ब्रह्यचारिभिः ।
मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः

1.22.26

नारी वा पुरुषो वापि व्रतमेतत्सुदुर्लभम् ।
कृत्वा मोक्षमवान्पोति योगिनामपि दुर्लभम्

1.22.27

गृहस्थो वानप्रस्थो वा व्रती वा भिक्षुरेव वा ।
मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत्

1.22.28

इदं पुण्यं व्रताख्यानं नारायण परायणः ।
शृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc