नारद पुराण · अध्याय 1.14
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नाम त्रयोदशो ऽध्यायः
धर्मराज उवाच
श्रुतिस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः ।
प्रब्रवीमि नृपश्रेष्ठ तं शृणुष्व समाहितः
यो भुञ्जानो ऽशुचिं वापि चाण्डालं पतितं स्पृशेत् ।
क्रोधादज्ञानतो वापिं तस्य वक्ष्यामि निष्कृतिम्
त्रिरात्रं वाथ षड्रात्रं यथासंख्यं समाचरेत् ।
स्नानं त्रिषवणं विप्रपञ्चगव्येन शुध्यति
भुञ्जानस्य तु विप्रस्य कदाचजित्स्त्रवते गुदम् ।
उच्छिष्टत्वे ऽशुचित्वे च तस्य शुद्धिं वदामि ते
पूर्वं कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति
निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते ।
अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषानलम्
यदा भोजनकाले स्यादशुचिर्ब्राह्मणः क्वचित् ।
भूमौ निधाय तं ग्रासं स्त्रात्वा शुद्धिमवान्पुयात्
भक्षयित्वा तु तद् आसमुपवालेन शुद्ध्यति ।
अशित्वा चैव तत्सर्वं त्रिरात्रमशुचिर्भवेत्
अश्रतश्चेद्वमिः स्याद्वै ह्यस्वस्थस्त्रिश्रतं जपेत् ।
स्वस्थस्त्रीणि सहस्राणि गायत्र्याः शोधनं परम्
चाण्डालैः श्वपर्चैः स्पृष्टो विण्मूत्रे च कृते द्विजः
त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षहाचरेत् ।
उदक्यां सूतिकांवापि संस्पृशेदन्त्यजो यदि
त्रिरात्रेण विशुद्धिः स्यादिति शातातपो ऽब्रवीत् ।
रजस्वला तु संस्पृष्टा श्वभिर्मातङ्गवायसैः
निराहारा शुचिस्तिष्टेत्काले स्नानेन शुद्ध्यति ।
रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित्
शुद्धेते ब्रह्मकूर्चेन ब्रह्मकूर्चेन चोपरि ।
उच्छिष्टेन च संस्पृष्टो यो न स्नानं समाचरेत्
ऋतौ तु गर्भं शङ्कित्वा स्नानं मैथुनिनः स्मृतम् ।
अनॄतौ तु स्त्रियं गत्वा शौचं मूत्रपुरूषवत्
उभावप्यशुची स्यातां दम्पती याभसंगतौ ।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान्
भर्त्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती ।
दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना
त्यजन्तो पतितान्बगन्धून्दण्ड्यानुत्तमसाहसम् ।
पिता हि पतितः कामं न तु माता कदाचन
आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः ।
मृते मेध्येन लेत्पव्यो जीवतो द्विशतं दमः
दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पाणिकं दमम् ।
प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम्
जलाग्न्युद्वन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपतनध्वस्ताः शस्त्रघातहताश्च ये
न चैते प्रव्रत्यवसिताः सर्वलोकबहिष्कृताः ।
चान्द्रायणेन शुद्ध्यंन्ति तत्पकृच्छ्रद्वयेन वा
उभयावसितः पापश्यामच्छबलकाच्च्युतः ।
चान्द्रायणाभ्यां शुद्ध्येत दत्त्वा धेनुं तथा वृषम्
स्वशृगालप्लवङ्गाद्यैर्मानुषैश्च रतिं विना ।
स्पृष्टः स्त्रात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु
अज्ञानाद्वा तु यो भुक्त्वा चाण्डालान्नं कथञ्चन ।
गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति
गोब्राह्मणगृहं दग्ध्वा मृतं चोद्वन्धनादिना ।
पाशं छित्वा तथा तस्य कृच्छ्रमेकं चरेद्दिजः
चाण्डालपुल्पसानां च भुक्त्वा हत्वा च योषितम् ।
कृच्छ्रार्ध्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम्
कोपालिकान्नभोक्तृआणां तन्नारीगामिनां तथा ।
अगम्यागमने विप्रो मद्यगो मांसभक्षणे
तत्पकृच्छ्रपरिक्षित्पो मौर्वीहोमेन शुद्ध्यति ।
महापातककर्त्तारश्चत्वारो ऽथ विशेषतः
अग्निं प्रविश्य शुद्ध्यन्तिस्थित्वावा महति क्रतौ ।
रहस्यकरणो ऽप्येवं मासमभ्यस्य पुरुषः
अघमर्षणसूक्तं वा शुद्ध्येदन्तर्जले जपन् ।
रजकश्चर्मकारश्च नटो बुरुड एव च
कैवर्त्तमेदभिल्लाश्व सत्पैते ह्यन्त्यजाः स्मृताः ।
भुक्त्वा चैषां स्त्रियो गत्वा पीत्वा यःप्रतिगृह्यते
कृच्छ्रार्द्धमाचरेज्ज्ञानादैन्दवद्वयम् ।
मातरं गुरुपत्नीं च दुहितृभगिनीस्नुषाः
संगम्य प्रविशेदग्निं नान्याशुद्धिर्विधीयते ।
राज्ञीं प्रव्रजितां धात्रीं तथावर्णोत्तमामपि
गत्वाकृच्छ्रद्वयं कुर्यात्सगोत्रामभिगम्य च ।
अमूषु पितृगोत्रासु मातृगोत्रगतासु च
पददारेषु सर्वेषु कृच्छ्रार्द्धं तपनं चरेत् ।
वेश्याभिगमने पापं व्यपोहन्ति द्विजा स्तथा
पीत्वा सकृत्सुतत्पं च पञ्चरात्रं कुशोदकम् ।
गुरुतल्पगतो कुर्यार्द्बाह्मणो विधिवद्रूतम्
गोन्घस्य केचिदिच्छन्ति केचिच्चैवावकीर्णिनः ।
दण्डादूर्ध्वं प्रहारेण यस्तु गां विनिपातयेत्
द्विगुणं गोव्रतं तस्य प्रायश्चितं विशोधयेत् ।
अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रघप्रमाणकः
सार्द्रकःसपालाश्च गोदण्डः परिकीर्त्तितः ।
गवां निपातने चैव गर्भो ऽपि संभवेद्यदि
एकैकशश्वरेत्कृच्छ्रं एषा गोन्घस्य निष्कृतिः ।
बन्धने रोधने चैव पोषणे वा गवां रुजाम्
संपद्यते चेन्मरणं निमित्तेनैव लिप्यते ।
मूर्च्छितः पतितो वापि दण्डेनाभिहतस्ततः
उत्थाय षट्पदं गच्छेत्सत्प पञ्चदशापि वा ।
ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि
सर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते ।
कष्टलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि
प्रायश्चित्तं स्मृतं तत्र शस्त्रे निगद्यते ।
काष्टे सान्तपनं प्रोक्तं प्राजापत्यं तु लोष्टके
तत्पकृच्छ्रं तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ।
औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु च
दीयमाने विपत्तिः स्यात्प्रायश्चित्तं तदा नहि ।
तैलभेषजपाने च भेषजानां च भक्षणे
निशल्यकरणे चैव प्रायश्चित्तं न विद्यते ।
वत्सानां कण्ठबन्धेन क्रिययाभेषजेन तु
सायं संगोपनार्थं च त्वदोषो रोषबन्धयोः ।
पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम्
त्रिपादे तु शिखावर्तं मूले सर्वं समाचरेत् ।
सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम्
एवमेव तु नारीणां मुण्डनं शिरसः स्मृतम् ।
न स्तिया वपनं कार्यं न च वीरासनं स्मृतम्
न च गोष्टे निवासो ऽस्ति न गच्छन्तीमनुव्रजेत् ।
राजा वा राजपुत्रघो वा ब्राह्मणो वा बहुश्रुतः
अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्द्दिशेत् ।
केशानां रक्षघणार्थं च द्विगुणं व्रतमादिशेत्
द्विगुणे गतु व्रते चीर्णे द्विगुणा व्रतदक्षिणा
पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् ।
अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये
तान्धर्मविन्घकर्तॄंश्च राजा दण्डेन पीडयेत् ।
न चैतान्पीडयेद्राजा कथञ्चित्काममोहितः
तत्पापं शतधाभूत्वा तमेव परिसर्पति ।
प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम्
विंशतिर्गा वृषं चैकं दद्यात्तेषां च दक्षिणाम् ।
क्रिमिभिस्तृण संभूतैर्मक्षिकादिनिपातितैः
कृच्छ्रार्द्धं स प्रकुर्वीत शक्त्या दद्याञ्च दक्षिणाम् ।
प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान्
सुवर्णमानिकं दद्यात्ततः शुद्धिर्विधीयते ।
चाण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयते
न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुद्ध्यति ।
वसेदथ यदा रात्रावज्ञानादविचक्षणः
तदा तस्य तु तत्पापं शतधा परिवर्तते ।
उद्गच्छन्ति च नक्षत्राण्युपरिष्टाच्च ये ग्रहाः
संस्पृष्टे रश्मिभिस्तेषामुदकस्नानमाचरेत् ।
याश्चान्तर्जलवल्मीकमूषिकोषरवर्त्मसु
श्मशाने शौचशेषे च न ग्राह्याः सत्प मृत्तिकाः ।
इष्टापूर्तं तु कर्त्तव्यं ब्राह्मणेन प्रयत्नतः
इष्टेन लभते स्वर्गं मोक्षं पूर्त्तेन चान्पुयात् ।
वित्तक्षेपो भवेदिष्टं तडागं पूर्त्तमुच्यते
आरामश्च विशेषेण देवद्रोण्यस्तथैव च ।
वापीकूपतडागानि देवतायतनानि च
पतितान्युद्धरेद्यस्तु स पूर्वफलमश्नुते ।
शुक्लाया आहरेन्मूत्रं कृष्णाया गोः शकृत्तथा
ताम्रायाश्च पयो ग्राह्यं श्वेतायाश्च दधि स्मृतम् ।
कपिलाया घृतं ग्राह्यं महापातकनाशनम्
कुशैस्तीर्थनदीतौयैः सर्वद्रव्यं पृथक् पृथक् ।
आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च
प्रणवेन समालोड्य प्रणवेनैव संपिबेत् ।
पालाशे मध्यमे पर्णे भाण्डे ताम्रमये शुभे
पिबेत्पुष्करपर्णे वा मृन्मये वा कुशोदकम् ।
सूतके तु समुत्पन्ने द्वितीये समुपस्थिते
द्वितीये नास्ति दोषस्तु प्रथमेनैव शुध्यति ।
जातेन शुध्यते जातं मृतेन मृतकं तथा
गर्भसंस्त्रवणे मासे त्रीण्यहानि विनिर्दिशेत्
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशुद्ध्यति ।
रजस्युपरते साध्वी स्ननेन स्त्री रजस्वला
स्वगोत्राद्भृश्यते नारी विवाहात्सत्पमे पदे ।
स्वामिगोत्रेण कर्त्तव्यास्तस्याः पिण्डोदकक्रियाः
उद्देश्यं पिण्डदाने स्यात्पिण्डे पिण्डे द्विनामतः ।
षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति
स्वेन भर्त्रा सहस्राब्दं माताभुक्ता सुदैवतम् ।
पितामह्यपि स्वेनैव स्वेनैव प्रपितामही
वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् ।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत्
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् ।
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः
ग्रहोपरागे संक्रान्तौ पर्वोत्स वमलालये ।
निर्वपेर्त्रीन्नरः पिण्डानेकमेव मृते ऽहनि
अनूढ न पृथक्कन्या पिण्डे गोत्रे च सूतके ।
पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः
येन येन तु वर्णेन या कान्या परिणीयते ।
तत्समं सूतकं याति तथापिण्डोदके ऽपि च
विवाहे चैव संवृत्ते चतुर्थे ऽहनिरात्रिषु ।
एकत्वं सा व्रजेद्भर्तुः पिण्डे गोत्रे च सूतके
प्रथमे ऽङ्नि द्वितीये वा तृतीये वा चतुर्थके ।
अस्थिसंचयनं कार्यं बन्धुभिर्हितबुद्धिभिः
चतुर्थे पञ्चमे चैव सत्पमे नवमे तथा ।
अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ।
मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते
नाभिमात्रे जले स्थित्वा हृदयेन तु चिन्तयेत् ।
आगच्छन्तु मे पितरो गृह्णन्त्वेताआजाञ्जलीन्
हस्तौ कृत्वा तु संयुक्तौ पूरचित्वा जलेन च ।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये विनिः क्षिपेत्
आकाशे च क्षिपेद्वारि वारिस्थो दक्षघिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च
आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा ।
तस्मादस्य जलं देयं पितॄणां हितमिच्छता
दिवासूर्यांशुसंतत्पं रात्रौ नक्षत्रमारुतैः ।
मध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम्
स्वभावयुक्तमव्यक्तममेध्येन सदा शुचिः ।
भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम्
देवतानां पितॄणां च जलं दद्याज्जलाञ्जलीन् ।
असंस्कृतप्रमीतानां स्थले दद्याद्विचक्षणः
श्रद्धे हवनकाले च दद्यादेकेन पाणिना ।
उभाभ्यां तर्पणे दद्यादेष धर्मो व्यवस्थितः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0